शेष उवाच
विश्वास-प्रस्तुतिः
मूर्च्छितं मारुतिं श्रुत्वा शत्रुघ्नः शोकमाययौ
किङ्कर्तव्यं मया सङ्ख्ये बालकोऽयं महाबलः ॥ १ ॥
मूलम्

स्वयं रथे हेममये तिष्ठन्वीरवरैः सह
योद्धुं प्रागाल्लवो यत्र विचित्ररणकोविदः ॥ २ ॥

लवं ददर्श शिशुतां प्राप्तं राममिव क्षितौ
धनुर्बाणकरं वीरान्क्षिपन्तं रणमूर्धनि ॥ ३ ॥

विचारयामास तदा कोऽयं रामस्वरूपधृक्
नीलोत्पलदलश्यामं वपुर्बिभ्रन्मनोहरम् ॥ ४ ॥

एष वै देहतनुजा सुतो भवति नान्यथा
अस्मान्विजित्य समरे यास्यते मृगराडिव ॥ ५ ॥

अस्माकं नो जयो भाव्यः शक्त्या विरहितात्मनाम्
अशक्ताः किं करिष्यामः समरे रणकोविदाः ॥ ६ ॥

इत्येवं स विचार्याथ बालकं तु वचोऽब्रवीत्
रणे कुतुककर्तारं वीरकोटिनिपातकम् ॥ ७ ॥

कस्त्वं बाल रणेऽस्माकं वीरान्पातयसि क्षितौ
न जानीषे बलं राज्ञो रामस्य दनुजार्दिनः ॥ ८ ॥

का ते माता पिता कस्ते सुभाग्यो जयमाप्तवान्
नाम किं विश्रुतं लोके जानीयां ते महाबल ॥ ९ ॥

मुञ्च वाहः कथं बद्धः शिशुत्वात्तत्क्षमामि ते
आयाहि रामं वीक्षस्व दास्यते बहुलं तव ॥ १० ॥

इत्युक्तो बालको वीरो वचः शत्रुघ्नमावदत्
किं ते नाम्नाथ पित्रा वा कुलेन वयसा तथा ॥ ११ ॥

युध्यस्व समरे वीर चेत्त्वं बलयुतो भवेः
कुशं वीरं नमस्कृत्य पादयोर्याहि नान्यथा ॥ १२ ॥

भ्राता रामस्य वीरो भूर्नावयोर्बलिनां वरः
वाहं विमोचय बलाच्छक्तिस्ते विद्यते यदि ॥ १३ ॥

इत्युक्त्वा शरसन्धानं कृत्वा प्राहरदुद्भटः
हृदये मस्तके चैव भुजयो रणमण्डले ॥ १४ ॥

तदा प्रकुपितो राजा धनुः सज्यमथाकरोत्
नादयन्मेघगम्भीरं त्रासयन्निव बालकम् ॥ १५ ॥

बाणानपरिसङ्ख्यातान्मुमोच बलिनां वरः
बालो बलेन चिच्छेद सर्वांस्तान्सायकव्रजान् ॥ १६ ॥

लवस्यानेकधा मुक्तैर्बाणैर्व्याप्तं महीतलम्
व्यतीपाते प्रदत्तस्य दानस्येवाक्षयं गताः ॥ १७ ॥

ते बाणा व्योमसकलं व्याप्नुवल्ँलवसन्धिताः
सूर्यमण्डलमासाद्य प्रवर्तन्ते समन्ततः ॥ १८ ॥

मारुतो नाविशद्यत्र बाणपञ्जरगोचरे
मनुष्याणां तु का वार्ता क्षणजीवितशंसिनाम् ॥ १९ ॥

तद्बाणान्विस्तृतान्दृष्ट्वा शत्रुघ्नो विस्मयं गतः
अच्छिनच्छतसाहस्रं बाणमोचनकोविदः ॥ २० ॥

ताञ्छिन्नान्सायकान्सर्वान्स्वीयान्दृष्ट्वा कुशानुजः
धनुश्चिच्छेद तरसा शत्रुघ्नस्य महीपतेः ॥ २१ ॥

सोऽन्यद्धनुरुपादाय यावन्मुञ्चति सायकान्
तावद्बभञ्ज सरथं सायकैः शितपर्वभिः ॥ २२ ॥

करस्थमच्छिनच्चापं सुदृढं गुणपूरितम्
तत्कर्मापूजयन्वीरा रणमण्डलवर्तिनः ॥ २३ ॥

सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः
अन्यं रथं समास्थाय ययौ योद्धुं लवं बलात् ॥ २४ ॥

अनेकबाणनिर्भिन्नः स्रवद्रक्तकलेवरः
पुष्पितः किंशुक इव शुशुभे रणमध्यगः ॥ २५ ॥

शत्रुघ्नबाणप्रहतः परं कोपमुपागमत्
बाणसन्धानचतुरः कुण्डलीकृत चापवान् ॥ २६ ॥

विशीर्णकवचं देहं शिरोमुकुटवर्जितम्
स्रवद्रक्तपरिप्लुष्टं शत्रुघ्नस्य चकार सः ॥ २७ ॥

तदा रामानुजः क्रुद्धो दशबाणाञ्छिताग्रकान्
मुमोच प्राणसंहारकारकान्कुपितो भृशम् ॥ २८ ॥

स तांस्तांस्तिलशः कृत्वा बाणैर्निशितपर्वभिः
ताडयामास हृदये शत्रुघ्नस्याष्टभिः शरैः ॥ २९ ॥

अत्यन्तं बाणपीडार्तो लवं बलिनमुत्स्मरन्
दुःसहं मन्यमानस्तं शरान्मुञ्चन्नभूत्तदा ॥ ३० ॥

तदा लवेन तीक्ष्णेन हृदि भिन्नो विशालके
अर्धचन्द्रसमानेन तीक्ष्णपर्वसुशोभिना ॥ ३१ ॥

स विद्धो हृदि बाणेन पीडां प्राप्तः सुदारुणाम्
पपात स्यन्दनोपस्थे धनुःपाणिः सुशोभितः ॥ ३२ ॥

शत्रुघ्नं मूर्छितं दृष्ट्वा नृपाश्च सुरथादयः
दुद्रुवुर्लवमुद्युक्ता जयप्राप्त्यै रणे तदा ॥ ३३ ॥

सुरथो विमलो वीरो राजा वीरमणिस्तथा
सुमदो रिपुतापाद्याः परिवव्रुश्च संयुगे ॥ ३४ ॥

केचित्क्षुरप्रैर्मुसलैः केचिद्बाणैः सुदारुणैः
प्रासैः परशुभिः केचित्सर्वतः प्राहरन्नृपाः ॥ ३५ ॥

तानधर्मेण युद्धोत्कान्दृष्ट्वा वीरशिरोमणिः
दशभिर्दशभिर्बाणैस्ताडयामास संयुगे ॥ ३६ ॥

ते बाणवर्षविहता रणमध्ये सुकोपनाः
केचित्पलायिताः केचिन्मुमुहुर्युद्धमण्डले ॥ ३७ ॥

तावत्स राजा शत्रुघ्नो मूर्च्छां सन्त्यज्य सङ्गरे
लवं प्रायान्महावीरं योद्धुं बलसमन्वितः ॥ ३८ ॥

आगत्य तं लवं प्राह धन्योसि शिशुसन्निभः
न बालस्त्वं सुरः कश्चिच्छलितुं मां समागतः ॥ ३९ ॥

केनापि नहि वीरेण पातितो रणमण्डले
त्वयाहं प्रापितो मूर्च्छां समक्षं मम पश्यतः ॥ ४० ॥

इदानीं पश्य मे वीर्यं त्वां सङ्ख्ये पातयाम्यहम्
सहस्व बाणमेकं त्वं मापलायस्व बालक ॥ ४१ ॥

इत्युक्त्वा समरे बालं शरमेकं समाददे
यमवक्त्रसमं घोरं लवणो येन घातितः ॥ ४२ ॥
मूलम्
इत्युक्त्वा समरे बालं शरमेकं समाददे
यमवक्त्रसमं घोरं लवणो येन घातितः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
सन्धाय बाणं जाज्वल्यं हृदि भेत्तुं मनो दधत्
लवं वीरसहस्राणां वह्निवत्सर्वदाहकम् ॥ ४३ ॥

तं बाणं प्रज्वलन्तं स द्योतयन्तं दिशो दश
दृष्ट्वा सस्मार बलिनं कुशं वैरिनिपातिनम् ॥ ४४ ॥

यद्यस्मिन्समये वीरो भ्राता स्याद्बलवान्मम
तदा शत्रुघ्नवशता न मे स्याद्भयमुल्बणम् ॥ ४५ ॥

एवं तर्कयतस्तस्य लवस्य च महात्मनः
हृदि लग्नो महाबाणो घोरः कालानलोपमः ॥ ४६ ॥

मूर्च्छां प्राप तदा वीरो भूपसायकसंहतः
सङ्गरे सर्ववीराणां शिरोभिः समलङ्कृते ॥ ४७ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
लवमूर्च्छानाम द्विषष्टितमोऽध्यायः ६२