०६१

शत्रुघ्न उवाच

विश्वास-प्रस्तुतिः

जानासि किं महामन्त्रिन्को बालो हयमाहरत्
येन मे क्षपितं सर्वं बलं वारिधिसन्निभम् ॥ १ ॥

मूलम्

जानासि किं महामन्त्रिन्को बालो हयमाहरत्
येन मे क्षपितं सर्वं बलं वारिधिसन्निभम् ॥ १ ॥

विश्वास-प्रस्तुतिः

सुमतिरुवाच
स्वामिन्नयं मुनिश्रेष्ठ वाल्मीकेराश्रमो महान्
क्षत्त्रियाणामत्र वासो नास्त्येव परतापन ॥ २ ॥

मूलम्

सुमतिरुवाच
स्वामिन्नयं मुनिश्रेष्ठ वाल्मीकेराश्रमो महान्
क्षत्त्रियाणामत्र वासो नास्त्येव परतापन ॥ २ ॥

विश्वास-प्रस्तुतिः

इन्द्रो भविष्यति परममर्षी हयमाहरत्
पुरारिर्वान्यथा वाहं तव कः समुपाहरेत् ॥ ३ ॥

मूलम्

इन्द्रो भविष्यति परममर्षी हयमाहरत्
पुरारिर्वान्यथा वाहं तव कः समुपाहरेत् ॥ ३ ॥

विश्वास-प्रस्तुतिः

कालजिद्येन नाशं वै प्राप्तः परमदारुणः
तं प्रति श्रीमहाराज गन्ता कः पुष्कलान्यतः ॥ ४ ॥

मूलम्

कालजिद्येन नाशं वै प्राप्तः परमदारुणः
तं प्रति श्रीमहाराज गन्ता कः पुष्कलान्यतः ॥ ४ ॥

विश्वास-प्रस्तुतिः

त्वं च वीरैर्भटैः सर्वैराजभिः परिवारितः
तत्र गच्छस्व सैन्येन महता शत्रुकृन्तन ॥ ५ ॥

मूलम्

त्वं च वीरैर्भटैः सर्वैराजभिः परिवारितः
तत्र गच्छस्व सैन्येन महता शत्रुकृन्तन ॥ ५ ॥

विश्वास-प्रस्तुतिः

गत्वा स जीवितं वीरं बद्ध्वा तु कुतुकार्थिने
दर्शयिष्यामि रामाय मतं मे त्विदमादृतम् ॥ ६ ॥

मूलम्

गत्वा स जीवितं वीरं बद्ध्वा तु कुतुकार्थिने
दर्शयिष्यामि रामाय मतं मे त्विदमादृतम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

इति वाक्यं समाकर्ण्य वीरान्सर्वान्समादिशत्
सैन्येन महता यात यूयमायामि पृष्ठतः ॥ ७ ॥

मूलम्

इति वाक्यं समाकर्ण्य वीरान्सर्वान्समादिशत्
सैन्येन महता यात यूयमायामि पृष्ठतः ॥ ७ ॥

विश्वास-प्रस्तुतिः

निर्दिष्टास्ते क्षणाद्वीरा जग्मुर्यत्र लवो बली
धनुर्विस्फारयंस्तत्र सुदृढं गुणपूरितम् ॥ ८ ॥

मूलम्

निर्दिष्टास्ते क्षणाद्वीरा जग्मुर्यत्र लवो बली
धनुर्विस्फारयंस्तत्र सुदृढं गुणपूरितम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

आयातं तन्महद्दृष्ट्वा बलं वीरप्रपूरितम्
न किञ्चिन्मनसा बिभ्येलवेन बलशालिना ॥ ९ ॥

मूलम्

आयातं तन्महद्दृष्ट्वा बलं वीरप्रपूरितम्
न किञ्चिन्मनसा बिभ्येलवेन बलशालिना ॥ ९ ॥

विश्वास-प्रस्तुतिः

लवः सिंह इवोत्तस्थौ मृगान्मत्वाऽखिलान्भटान्
धनुर्विस्फारयन्रोषाच्छरान्मुञ्चन्सहस्रशः ॥ १० ॥

मूलम्

लवः सिंह इवोत्तस्थौ मृगान्मत्वाऽखिलान्भटान्
धनुर्विस्फारयन्रोषाच्छरान्मुञ्चन्सहस्रशः ॥ १० ॥

विश्वास-प्रस्तुतिः

ते शरैः पीड्यमानास्तु महारोषेण पूरिताः
वीरं बालं मन्यमानाः सम्मुखं प्राद्रवंस्तदा ॥ ११ ॥

मूलम्

ते शरैः पीड्यमानास्तु महारोषेण पूरिताः
वीरं बालं मन्यमानाः सम्मुखं प्राद्रवंस्तदा ॥ ११ ॥

विश्वास-प्रस्तुतिः

वीरान्सहस्रशो दृष्ट्वा भ्रमिभिः पर्यवस्थितान्
लवो जवेन सन्धाय शरान्रोषप्रपूरितः ॥ १२ ॥

मूलम्

वीरान्सहस्रशो दृष्ट्वा भ्रमिभिः पर्यवस्थितान्
लवो जवेन सन्धाय शरान्रोषप्रपूरितः ॥ १२ ॥

विश्वास-प्रस्तुतिः

भ्रमिराद्या सहस्रेण द्वितीयायुतसङ्ख्यया
तृतीयायुतयुग्मेन तुरीयायुतपञ्चभिः ॥ १३ ॥

मूलम्

भ्रमिराद्या सहस्रेण द्वितीयायुतसङ्ख्यया
तृतीयायुतयुग्मेन तुरीयायुतपञ्चभिः ॥ १३ ॥

विश्वास-प्रस्तुतिः

पञ्चमी लक्षयोधानां षष्ठी योधायुताधिकैः
सप्तमी लक्षयुग्मेन सप्तभिर्भ्रमिभिर्वृतः ॥ १४ ॥

मूलम्

पञ्चमी लक्षयोधानां षष्ठी योधायुताधिकैः
सप्तमी लक्षयुग्मेन सप्तभिर्भ्रमिभिर्वृतः ॥ १४ ॥

विश्वास-प्रस्तुतिः

मध्ये लवो भ्रमिव्याप्तः स चरन्वह्निवत्तदा
दाहयामास सर्वान्वै सैनिकान्भ्रमिकारकान् ॥ १५ ॥

मूलम्

मध्ये लवो भ्रमिव्याप्तः स चरन्वह्निवत्तदा
दाहयामास सर्वान्वै सैनिकान्भ्रमिकारकान् ॥ १५ ॥

विश्वास-प्रस्तुतिः

काचित्खङ्गैः शरैः काचित्काचित्प्रासैश्च कुन्तलैः
पट्टिशैः परिघैः सर्वा भ्रमिर्भग्ना महात्मना ॥ १६ ॥

मूलम्

काचित्खङ्गैः शरैः काचित्काचित्प्रासैश्च कुन्तलैः
पट्टिशैः परिघैः सर्वा भ्रमिर्भग्ना महात्मना ॥ १६ ॥

विश्वास-प्रस्तुतिः

सप्तभिर्भ्रमिभिर्मुक्तो रराज स कुशानुजः
मेघवृन्दविनिर्मुक्तः शशीव शरदागमे ॥ १७ ॥

मूलम्

सप्तभिर्भ्रमिभिर्मुक्तो रराज स कुशानुजः
मेघवृन्दविनिर्मुक्तः शशीव शरदागमे ॥ १७ ॥

विश्वास-प्रस्तुतिः

प्राहरत्सर्वथा योधान्भिन्दन्गजकरान्बहून्
छिन्दञ्छिरांसि वीराणां चक्रभ्रूणि महान्ति च ॥ १८ ॥

मूलम्

प्राहरत्सर्वथा योधान्भिन्दन्गजकरान्बहून्
छिन्दञ्छिरांसि वीराणां चक्रभ्रूणि महान्ति च ॥ १८ ॥

विश्वास-प्रस्तुतिः

अनेके पतिता वीरा लवबाणप्रपीडिताः
मुमुहुः समरेऽथान्ये नष्टा अन्ये सुकातराः ॥ १९ ॥

मूलम्

अनेके पतिता वीरा लवबाणप्रपीडिताः
मुमुहुः समरेऽथान्ये नष्टा अन्ये सुकातराः ॥ १९ ॥

विश्वास-प्रस्तुतिः

पलायनपरं सैन्यं लवबाणप्रपीडितम्
वीक्ष्य वीरो रणे योद्धुं प्रायात्पुष्कलसञ्ज्ञकः ॥ २० ॥

मूलम्

पलायनपरं सैन्यं लवबाणप्रपीडितम्
वीक्ष्य वीरो रणे योद्धुं प्रायात्पुष्कलसञ्ज्ञकः ॥ २० ॥

विश्वास-प्रस्तुतिः

तिष्ठतिष्ठेति च वदन्रोषपूरितलोचनः
रथे सुहयशोभाढ्ये तिष्ठन्प्रायाल्लवं बली ॥ २१ ॥

मूलम्

तिष्ठतिष्ठेति च वदन्रोषपूरितलोचनः
रथे सुहयशोभाढ्ये तिष्ठन्प्रायाल्लवं बली ॥ २१ ॥

विश्वास-प्रस्तुतिः

स लवं प्रत्युवाचाथ पुष्कलः परमास्त्रवित्
तिष्ठ दत्ते मया सङ्ख्ये रथे सुहयशोभिते ॥ २२ ॥

मूलम्

स लवं प्रत्युवाचाथ पुष्कलः परमास्त्रवित्
तिष्ठ दत्ते मया सङ्ख्ये रथे सुहयशोभिते ॥ २२ ॥

विश्वास-प्रस्तुतिः

पदातिना त्वया युद्धं करोमि किमथाहवे
तस्मात्तिष्ठ रथे पश्चाद्युद्ध्येऽहं भवता सह
एतद्वाक्यं निशम्यासौ लवः पुष्कलमब्रवीत् ॥ २३ ॥

मूलम्

पदातिना त्वया युद्धं करोमि किमथाहवे
तस्मात्तिष्ठ रथे पश्चाद्युद्ध्येऽहं भवता सह
एतद्वाक्यं निशम्यासौ लवः पुष्कलमब्रवीत् ॥ २३ ॥

विश्वास-प्रस्तुतिः

त्वया दत्ते रथे स्थित्वा युद्धं कुर्यामहं रणे
तदा मे पापमेव स्याज्जयः सन्दिग्ध एव हि ॥ २४ ॥

मूलम्

त्वया दत्ते रथे स्थित्वा युद्धं कुर्यामहं रणे
तदा मे पापमेव स्याज्जयः सन्दिग्ध एव हि ॥ २४ ॥

विश्वास-प्रस्तुतिः

न वयं ब्राह्मणा वीर प्रतिग्रहपरायणाः
वयं तु क्षत्रिया नित्यं दानकर्मक्रियारताः ॥ २५ ॥

मूलम्

न वयं ब्राह्मणा वीर प्रतिग्रहपरायणाः
वयं तु क्षत्रिया नित्यं दानकर्मक्रियारताः ॥ २५ ॥

विश्वास-प्रस्तुतिः

इदानीं त्वद्रथं कोपाद्भनज्मि प्रत्यहं भवान्
पादचारी भवत्येव पश्चाद्युद्धं करिष्यति ॥ २६ ॥

मूलम्

इदानीं त्वद्रथं कोपाद्भनज्मि प्रत्यहं भवान्
पादचारी भवत्येव पश्चाद्युद्धं करिष्यति ॥ २६ ॥

विश्वास-प्रस्तुतिः

पुष्कलो वाक्यमाकर्ण्य धर्मधैर्यसमन्वितम्
विसिस्माय चिरं चित्ते धनुः सज्यमथाकरोत् ॥ २७ ॥

मूलम्

पुष्कलो वाक्यमाकर्ण्य धर्मधैर्यसमन्वितम्
विसिस्माय चिरं चित्ते धनुः सज्यमथाकरोत् ॥ २७ ॥

विश्वास-प्रस्तुतिः

तमात्तधनुषं दृष्ट्वा लवः कोपसमन्वितः
चापं चिच्छेद पाणिस्थं शरसन्धानमाचरन् ॥ २८ ॥

मूलम्

तमात्तधनुषं दृष्ट्वा लवः कोपसमन्वितः
चापं चिच्छेद पाणिस्थं शरसन्धानमाचरन् ॥ २८ ॥

विश्वास-प्रस्तुतिः

स यावत्स गुणं चापं कुरुते तावदुद्धतः
रथभङ्गं चकारास्य समरे प्रहसन्बली ॥ २९ ॥

मूलम्

स यावत्स गुणं चापं कुरुते तावदुद्धतः
रथभङ्गं चकारास्य समरे प्रहसन्बली ॥ २९ ॥

विश्वास-प्रस्तुतिः

भग्नं रथं स्वकं वीक्ष्य धनुश्छिन्नं महात्मना
महावीरं मन्यमानः पदातिः प्राद्रवद्रणे ॥ ३० ॥

मूलम्

भग्नं रथं स्वकं वीक्ष्य धनुश्छिन्नं महात्मना
महावीरं मन्यमानः पदातिः प्राद्रवद्रणे ॥ ३० ॥

विश्वास-प्रस्तुतिः

उभौ धनुर्धरौ वीरावुभावपि शरोद्धतौ
उभौ क्षतजविप्लुष्टौ छिन्नसन्नाहितावुभौ ॥ ३१ ॥

मूलम्

उभौ धनुर्धरौ वीरावुभावपि शरोद्धतौ
उभौ क्षतजविप्लुष्टौ छिन्नसन्नाहितावुभौ ॥ ३१ ॥

विश्वास-प्रस्तुतिः

परस्परं बाणघातविशीर्णावपुलक्षितौ
जयाकाङ्क्षां प्रकुर्वन्तौ परस्परवधैषिणौ ॥ ३२ ॥

मूलम्

परस्परं बाणघातविशीर्णावपुलक्षितौ
जयाकाङ्क्षां प्रकुर्वन्तौ परस्परवधैषिणौ ॥ ३२ ॥

विश्वास-प्रस्तुतिः

जयन्तकार्तिकेयौ वा पुरारिः पुरभिद्यथा
एवं परस्परं युद्धं प्रकुर्वाणौ रणाङ्गणे ॥ ३३ ॥

मूलम्

जयन्तकार्तिकेयौ वा पुरारिः पुरभिद्यथा
एवं परस्परं युद्धं प्रकुर्वाणौ रणाङ्गणे ॥ ३३ ॥

विश्वास-प्रस्तुतिः

पुष्कलः प्रत्युवाचाथ बालं शूरशिरोमणे
त्वादृशो न मया दृष्टः कश्चिद्वीरशिरोमणिः ॥ ३४ ॥

मूलम्

पुष्कलः प्रत्युवाचाथ बालं शूरशिरोमणे
त्वादृशो न मया दृष्टः कश्चिद्वीरशिरोमणिः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

शिरस्ते पातयाम्यद्य बाणैः शितसुपर्वभिः
मा पलायस्व समरे प्राणान्रक्षस्व संयतः ॥ ३५ ॥

मूलम्

शिरस्ते पातयाम्यद्य बाणैः शितसुपर्वभिः
मा पलायस्व समरे प्राणान्रक्षस्व संयतः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा लवं वीरं चकार शरपञ्जरे
पुष्कलस्य शरा भूमौ नभसि व्याप्य संस्थिताः ॥ ३६ ॥

मूलम्

एवमुक्त्वा लवं वीरं चकार शरपञ्जरे
पुष्कलस्य शरा भूमौ नभसि व्याप्य संस्थिताः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

शरपञ्जरमध्यस्थो लवः पुष्कलमब्रवीत्
महत्कर्म कृतं वीर यन्मां बाणैरपीडयत् ॥ ३७ ॥

मूलम्

शरपञ्जरमध्यस्थो लवः पुष्कलमब्रवीत्
महत्कर्म कृतं वीर यन्मां बाणैरपीडयत् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा बाणसङ्घातं प्रच्छिद्य वचनं पुनः
जगाद पुष्कलं वीरः शरसन्धानकोविदः ॥ ३८ ॥

मूलम्

इत्युक्त्वा बाणसङ्घातं प्रच्छिद्य वचनं पुनः
जगाद पुष्कलं वीरः शरसन्धानकोविदः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

पालयात्मानमाजिस्थं मच्छराघातपीडितः
पतिष्यसि महीपृष्ठे रुधिरेण परिप्लुतः ॥ ३९ ॥

मूलम्

पालयात्मानमाजिस्थं मच्छराघातपीडितः
पतिष्यसि महीपृष्ठे रुधिरेण परिप्लुतः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

एवमुक्तं समाकर्ण्य पुष्कलः कोपसंयुतः
रणे संयोधयामास लवं वीरं महाबलम् ॥ ४० ॥

मूलम्

एवमुक्तं समाकर्ण्य पुष्कलः कोपसंयुतः
रणे संयोधयामास लवं वीरं महाबलम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

लवः प्रकुपितो बाणं तीक्ष्णं वैरिविदारणम्
जग्राह लवतः कोशादाशीविषमिव क्रुधा ॥ ४१ ॥

मूलम्

लवः प्रकुपितो बाणं तीक्ष्णं वैरिविदारणम्
जग्राह लवतः कोशादाशीविषमिव क्रुधा ॥ ४१ ॥

विश्वास-प्रस्तुतिः

जाज्वल्यमानः सशरश्चापमुक्तो लवस्य च
हृदयं भेत्तुमुद्युक्तश्छिन्नो भारतिनाशु सः ॥ ४२ ॥

मूलम्

जाज्वल्यमानः सशरश्चापमुक्तो लवस्य च
हृदयं भेत्तुमुद्युक्तश्छिन्नो भारतिनाशु सः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

छिन्ने भारतिना सङ्ख्ये शरेण प्राणहारिणा
अत्यन्तं कुपितो घोरं शरमन्यं समाददे ॥ ४३ ॥

मूलम्

छिन्ने भारतिना सङ्ख्ये शरेण प्राणहारिणा
अत्यन्तं कुपितो घोरं शरमन्यं समाददे ॥ ४३ ॥

विश्वास-प्रस्तुतिः

आकर्णाकृष्टचापेन स मुक्तो निशितः शरः
बिभेद हृदयं तस्य पुष्कलस्य महारणे ॥ ४४ ॥

मूलम्

आकर्णाकृष्टचापेन स मुक्तो निशितः शरः
बिभेद हृदयं तस्य पुष्कलस्य महारणे ॥ ४४ ॥

विश्वास-प्रस्तुतिः

भिन्नो वक्षसि वीरेण सायकेनाशुगामिना
पपात धरणीपृष्ठे महाशूरशिरोमणिः ॥ ४५ ॥

मूलम्

भिन्नो वक्षसि वीरेण सायकेनाशुगामिना
पपात धरणीपृष्ठे महाशूरशिरोमणिः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

पतितं तं समालोक्य पुष्कलं पवनात्मजः
गृहीत्वा राघवभ्रात्रे ददौ मूर्च्छासमन्वितम् ॥ ४६ ॥

मूलम्

पतितं तं समालोक्य पुष्कलं पवनात्मजः
गृहीत्वा राघवभ्रात्रे ददौ मूर्च्छासमन्वितम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

मूर्च्छितं तं समालोक्य शोकविह्वलमानसः
हनूमन्तं लवं हन्तुं निदिदेश क्रुधान्वितः ॥ ४७ ॥

मूलम्

मूर्च्छितं तं समालोक्य शोकविह्वलमानसः
हनूमन्तं लवं हन्तुं निदिदेश क्रुधान्वितः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

हनूमान्क्रोधसम्प्लुष्टो लवं सङ्ख्ये महाबलम्
विजेतुं तरसा प्रागाद्वृक्षमुद्यम्य शाल्मलिम् ॥ ४८ ॥

मूलम्

हनूमान्क्रोधसम्प्लुष्टो लवं सङ्ख्ये महाबलम्
विजेतुं तरसा प्रागाद्वृक्षमुद्यम्य शाल्मलिम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

वृक्षेण हतवान्मूर्ध्नि लवस्य हनुमान्बली
तमापतन्तं तरसा चिच्छेद शतधा लवः ॥ ४९ ॥

मूलम्

वृक्षेण हतवान्मूर्ध्नि लवस्य हनुमान्बली
तमापतन्तं तरसा चिच्छेद शतधा लवः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

छिन्ने नगे पुनः कोपाद्वृक्षानुत्पाट्य मूलतः
ताडयामास हृदये मस्तके च महाबलः ॥ ५० ॥

मूलम्

छिन्ने नगे पुनः कोपाद्वृक्षानुत्पाट्य मूलतः
ताडयामास हृदये मस्तके च महाबलः ॥ ५० ॥

विश्वास-प्रस्तुतिः

यान्यान्वृक्षान्समाहृत्याताडयत्पवनात्मजः
तांस्तांश्चिच्छेद तरसा बलवान्नतपर्वभिः ॥ ५१ ॥

मूलम्

यान्यान्वृक्षान्समाहृत्याताडयत्पवनात्मजः
तांस्तांश्चिच्छेद तरसा बलवान्नतपर्वभिः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

तदा शिलाः समुत्पाट्य गण्डशैलोपमाः कपिः
पातयामास शिरसि क्षिप्रवेगेन मारुतिः ॥ ५२ ॥

मूलम्

तदा शिलाः समुत्पाट्य गण्डशैलोपमाः कपिः
पातयामास शिरसि क्षिप्रवेगेन मारुतिः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

स आहतः शिलासङ्घैः सङ्ख्ये कोदण्डमुन्नयन्
बाणैस्ताश्चूर्णयामास यन्त्रिकाभिर्यथा कणाः ॥ ५३ ॥

मूलम्

स आहतः शिलासङ्घैः सङ्ख्ये कोदण्डमुन्नयन्
बाणैस्ताश्चूर्णयामास यन्त्रिकाभिर्यथा कणाः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

तदात्यन्तं प्रकुपितो मारुतिः पुच्छवेष्टनम्
चकार समरोपान्ते लवस्य बलिनः कृती ॥ ५४ ॥

मूलम्

तदात्यन्तं प्रकुपितो मारुतिः पुच्छवेष्टनम्
चकार समरोपान्ते लवस्य बलिनः कृती ॥ ५४ ॥

विश्वास-प्रस्तुतिः

स्वं पुच्छेन समाविद्धं वीक्ष्य स्वाम्बां हृदि स्मरन्
मुष्टिना ताडयामास लाङ्गूलं मारुतेर्बली ॥ ५५ ॥

मूलम्

स्वं पुच्छेन समाविद्धं वीक्ष्य स्वाम्बां हृदि स्मरन्
मुष्टिना ताडयामास लाङ्गूलं मारुतेर्बली ॥ ५५ ॥

विश्वास-प्रस्तुतिः

तन्मुष्टिघातव्यथितो मारुतिस्तममूमुचत्
स मुक्तः पुच्छतो युद्धे शरान्मुञ्चन्नभूद्बली ॥ ५६ ॥

मूलम्

तन्मुष्टिघातव्यथितो मारुतिस्तममूमुचत्
स मुक्तः पुच्छतो युद्धे शरान्मुञ्चन्नभूद्बली ॥ ५६ ॥

विश्वास-प्रस्तुतिः

दुर्वारशरघातेन सम्पीडिततनुः कपिः
बाणवर्षं मन्यमानो दुःसहं समरे बहु ॥ ५७ ॥

मूलम्

दुर्वारशरघातेन सम्पीडिततनुः कपिः
बाणवर्षं मन्यमानो दुःसहं समरे बहु ॥ ५७ ॥

विश्वास-प्रस्तुतिः

किङ्कर्तव्यमितोऽस्माभिः पलाय्य यदि गम्यते
तदा मे स्वामिनो लज्जा ताडयेद्बालकोऽत्र माम् ॥ ५८ ॥

मूलम्

किङ्कर्तव्यमितोऽस्माभिः पलाय्य यदि गम्यते
तदा मे स्वामिनो लज्जा ताडयेद्बालकोऽत्र माम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

ब्रह्मदत्तवरत्वात्तु मूर्च्छा न मरणं नहि
दुःसहा बाणपीडात्र किं कर्तव्यं मयाधुना ॥ ५९ ॥

मूलम्

ब्रह्मदत्तवरत्वात्तु मूर्च्छा न मरणं नहि
दुःसहा बाणपीडात्र किं कर्तव्यं मयाधुना ॥ ५९ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नः समरे गत्वा जयं प्राप्नोतु बालकात्
अहं तावज्जयाकाङ्क्षी शये कपटमूर्च्छया ॥ ६० ॥

मूलम्

शत्रुघ्नः समरे गत्वा जयं प्राप्नोतु बालकात्
अहं तावज्जयाकाङ्क्षी शये कपटमूर्च्छया ॥ ६० ॥

विश्वास-प्रस्तुतिः

इत्येवं मानसे कृत्वा पपात रणमण्डले
पश्यतां सर्ववीराणां कपटेन विमूर्च्छितः ॥ ६१ ॥

मूलम्

इत्येवं मानसे कृत्वा पपात रणमण्डले
पश्यतां सर्ववीराणां कपटेन विमूर्च्छितः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

तं मूर्च्छितं समाज्ञाय हनूमन्तं महाबलम्
जघान सर्वान्नृपतीञ्छरमोक्षविचक्षणः ॥ ६२ ॥

मूलम्

तं मूर्च्छितं समाज्ञाय हनूमन्तं महाबलम्
जघान सर्वान्नृपतीञ्छरमोक्षविचक्षणः ॥ ६२ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
हनुमत्पतनन्नामैकषष्टितमोऽध्यायः ६१