शेष उवाच
विश्वास-प्रस्तुतिः
शत्रुघ्नो निजवीराणां छिन्नान्बाहून्निरीक्षयन्
उवाच तान्सुकुपितो रोषसन्दंशिताधरः ॥ १ ॥
मूलम्
शत्रुघ्नो निजवीराणां छिन्नान्बाहून्निरीक्षयन्
उवाच तान्सुकुपितो रोषसन्दंशिताधरः ॥ १ ॥
विश्वास-प्रस्तुतिः
केन वीरेण वो बाहुकृन्तनं समकारि भोः
तस्याहं बाहू कृन्तामि देवगुप्तस्य वै भटाः ॥ २ ॥
मूलम्
केन वीरेण वो बाहुकृन्तनं समकारि भोः
तस्याहं बाहू कृन्तामि देवगुप्तस्य वै भटाः ॥ २ ॥
विश्वास-प्रस्तुतिः
न जानाति महामूढो रामचन्द्र बलं महत्
इदानीं दर्शयिष्यामि पराक्रान्त्या बलं स्वकम् ॥ ३ ॥
मूलम्
न जानाति महामूढो रामचन्द्र बलं महत्
इदानीं दर्शयिष्यामि पराक्रान्त्या बलं स्वकम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
स कुत्र वर्तते वीरो हयः कुत्र मनोरमः
को वाऽगृह्णात्सुप्तसर्पान्मूढो ज्ञात्वा पराक्रमम् ॥ ४ ॥
मूलम्
स कुत्र वर्तते वीरो हयः कुत्र मनोरमः
को वाऽगृह्णात्सुप्तसर्पान्मूढो ज्ञात्वा पराक्रमम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
इति ते कथिता वीरा विस्मिता दुःखिता भृशम्
रामचन्द्र प्रतिनिधिं बालकं समशंसत ॥ ५ ॥
मूलम्
इति ते कथिता वीरा विस्मिता दुःखिता भृशम्
रामचन्द्र प्रतिनिधिं बालकं समशंसत ॥ ५ ॥
विश्वास-प्रस्तुतिः
स श्रुत्वा रोषताम्राक्षो बालकेन हयग्रहम्
सेनान्यं वै कालजितमाज्ञापयद्युयुत्सुकः ॥ ६ ॥
मूलम्
स श्रुत्वा रोषताम्राक्षो बालकेन हयग्रहम्
सेनान्यं वै कालजितमाज्ञापयद्युयुत्सुकः ॥ ६ ॥
विश्वास-प्रस्तुतिः
सेनानीः सकलां सेनां व्यूहयस्व ममाज्ञया
रिपुः सम्प्रति गन्तव्यो महाबलपराक्रमः ॥ ७ ॥
मूलम्
सेनानीः सकलां सेनां व्यूहयस्व ममाज्ञया
रिपुः सम्प्रति गन्तव्यो महाबलपराक्रमः ॥ ७ ॥
विश्वास-प्रस्तुतिः
नायं बालो हरिर्नूनं भविष्यति हयन्धरः
अथवा त्रिपुरारिः स्यान्नान्यथा मद्धयापहृत् ॥ ८ ॥
मूलम्
नायं बालो हरिर्नूनं भविष्यति हयन्धरः
अथवा त्रिपुरारिः स्यान्नान्यथा मद्धयापहृत् ॥ ८ ॥
विश्वास-प्रस्तुतिः
अवश्यं कदनं भाविसैन्यस्य बलिनो महत्
स्वच्छन्दचरितैः खेलन्नास्ते निर्भयधीः शिशुः ॥ ९ ॥
मूलम्
अवश्यं कदनं भाविसैन्यस्य बलिनो महत्
स्वच्छन्दचरितैः खेलन्नास्ते निर्भयधीः शिशुः ॥ ९ ॥
विश्वास-प्रस्तुतिः
तत्र गन्तव्यमस्माभिः सन्नद्धै रिपुदुर्जयैः
एतन्निशम्य वचनं शत्रुघ्नस्य ससैन्यपः ॥ १० ॥
मूलम्
तत्र गन्तव्यमस्माभिः सन्नद्धै रिपुदुर्जयैः
एतन्निशम्य वचनं शत्रुघ्नस्य ससैन्यपः ॥ १० ॥
विश्वास-प्रस्तुतिः
सज्जीचकार सेनां तां दुर्व्यूढां चतुरङ्गिणीम्
सज्जां तां शत्रुजिद्दृष्ट्वा चतुरङ्गयुतां वराम् ॥ ११ ॥
मूलम्
सज्जीचकार सेनां तां दुर्व्यूढां चतुरङ्गिणीम्
सज्जां तां शत्रुजिद्दृष्ट्वा चतुरङ्गयुतां वराम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
आज्ञापयत्ततो गन्तुं यत्र बालो हयन्धरः
सा चचाल तदा सेना चतुरङ्गसमन्विता ॥ १२ ॥
मूलम्
आज्ञापयत्ततो गन्तुं यत्र बालो हयन्धरः
सा चचाल तदा सेना चतुरङ्गसमन्विता ॥ १२ ॥
विश्वास-प्रस्तुतिः
कम्पयन्ती महीभागं त्रासयन्ती रिपून्बलात्
सेनानीस्तं ददर्शाथ बालकं रामरूपिणम् ॥ १३ ॥
मूलम्
कम्पयन्ती महीभागं त्रासयन्ती रिपून्बलात्
सेनानीस्तं ददर्शाथ बालकं रामरूपिणम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
विचार्य रामप्रतिममब्रवीद्वचनं हितम्
बाल मुञ्च हयश्रेष्ठं रामस्य बलशालिनः ॥ १४ ॥
मूलम्
विचार्य रामप्रतिममब्रवीद्वचनं हितम्
बाल मुञ्च हयश्रेष्ठं रामस्य बलशालिनः ॥ १४ ॥
विश्वास-प्रस्तुतिः
सेनानीः कालजिन्नाम तस्य भूपस्य दुर्मदः
त्वां रामप्रतिमं दृष्ट्वा कृपा मे हृदि जायते ॥ १५ ॥
मूलम्
सेनानीः कालजिन्नाम तस्य भूपस्य दुर्मदः
त्वां रामप्रतिमं दृष्ट्वा कृपा मे हृदि जायते ॥ १५ ॥
विश्वास-प्रस्तुतिः
अन्यथा तव मे दौस्थ्याज्जीवितं न भविष्यति
एतद्वाक्यं समाकर्ण्य शत्रुघ्नस्य भटस्य हि ॥ १६ ॥
मूलम्
अन्यथा तव मे दौस्थ्याज्जीवितं न भविष्यति
एतद्वाक्यं समाकर्ण्य शत्रुघ्नस्य भटस्य हि ॥ १६ ॥
विश्वास-प्रस्तुतिः
जहास किञ्चिदाकोपादुवाच च वचोद्भुतम्
गच्छ मुक्तोसि तं रामं कथयस्व हयग्रहम् ॥ १७ ॥
मूलम्
जहास किञ्चिदाकोपादुवाच च वचोद्भुतम्
गच्छ मुक्तोसि तं रामं कथयस्व हयग्रहम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
त्वत्तो बिभेमि नो शूर वाक्येन नयशालिना
ममात्र गणना नास्ति त्वादृशाः कोटयो यदि ॥ १८ ॥
मूलम्
त्वत्तो बिभेमि नो शूर वाक्येन नयशालिना
ममात्र गणना नास्ति त्वादृशाः कोटयो यदि ॥ १८ ॥
विश्वास-प्रस्तुतिः
मातृपादप्रसादेन तूलीभूता न संशयः
कालजित्तव यन्नाम मात्राकारि मनोज्ञया ॥ १९ ॥
मूलम्
मातृपादप्रसादेन तूलीभूता न संशयः
कालजित्तव यन्नाम मात्राकारि मनोज्ञया ॥ १९ ॥
विश्वास-प्रस्तुतिः
पक्वबिम्बफलस्येव वर्णतो न च वीर्यतः
दर्शयस्वाधुना वीर्यं स्वनामबलचिह्नितः ॥ २० ॥
मूलम्
पक्वबिम्बफलस्येव वर्णतो न च वीर्यतः
दर्शयस्वाधुना वीर्यं स्वनामबलचिह्नितः ॥ २० ॥
विश्वास-प्रस्तुतिः
मां कालं तव सञ्जित्य सत्यनामा भविष्यसि
शेष उवाच
स वाक्यैः पविनातुल्यैर्भिन्नः सुभटशेखरः ॥ २१ ॥
मूलम्
मां कालं तव सञ्जित्य सत्यनामा भविष्यसि
शेष उवाच
स वाक्यैः पविनातुल्यैर्भिन्नः सुभटशेखरः ॥ २१ ॥
विश्वास-प्रस्तुतिः
चुकोप हृदयेऽत्यतं जगाद वचनं पुनः
कस्मिन्कुले समुत्पत्तिः किं नामासि च बालक
त्वन्नाम नाभिजानामि कुलं शीलं वयस्तथा ॥ २२ ॥
मूलम्
चुकोप हृदयेऽत्यतं जगाद वचनं पुनः
कस्मिन्कुले समुत्पत्तिः किं नामासि च बालक
त्वन्नाम नाभिजानामि कुलं शीलं वयस्तथा ॥ २२ ॥
विश्वास-प्रस्तुतिः
पादचारं रथस्थोऽहमधर्मेण कथं जये
तदात्यन्तं प्रकुपितो जगाद वचनं पुनः ॥ २३ ॥
मूलम्
पादचारं रथस्थोऽहमधर्मेण कथं जये
तदात्यन्तं प्रकुपितो जगाद वचनं पुनः ॥ २३ ॥
विश्वास-प्रस्तुतिः
कुलेन किं च शीलेन नाम्ना वा सुमनोहृदा
लवोऽहं लवतः सर्वाञ्जेष्यामि रिपुसैनिकान् ॥ २४ ॥
मूलम्
कुलेन किं च शीलेन नाम्ना वा सुमनोहृदा
लवोऽहं लवतः सर्वाञ्जेष्यामि रिपुसैनिकान् ॥ २४ ॥
विश्वास-प्रस्तुतिः
इदानीं त्वामपि भटं करिष्ये पादचारिणम्
इत्थमुक्त्वा धनुः सज्यं चकार स लवो बली ॥ २५ ॥
मूलम्
इदानीं त्वामपि भटं करिष्ये पादचारिणम्
इत्थमुक्त्वा धनुः सज्यं चकार स लवो बली ॥ २५ ॥
विश्वास-प्रस्तुतिः
टङ्कारयामास तदा वीरानाकम्पयन्हृदि
वाल्मीकिं प्रथमं स्मृत्वा जानकीं मातरं लवः ॥ २६ ॥
मूलम्
टङ्कारयामास तदा वीरानाकम्पयन्हृदि
वाल्मीकिं प्रथमं स्मृत्वा जानकीं मातरं लवः ॥ २६ ॥
विश्वास-प्रस्तुतिः
मुमोच बाणान्निशितान्सद्यः प्राणापहारिणः
कालजित्स्वधनुः कृत्वा सज्यं कोपसमन्वितः ॥ २७ ॥
मूलम्
मुमोच बाणान्निशितान्सद्यः प्राणापहारिणः
कालजित्स्वधनुः कृत्वा सज्यं कोपसमन्वितः ॥ २७ ॥
विश्वास-प्रस्तुतिः
ताडयामास जवनो लवं रणविशारदः
तद्बाणाञ्छतधा छित्त्वा क्षणाद्वेगात्कुशानुजः ॥ २८ ॥
मूलम्
ताडयामास जवनो लवं रणविशारदः
तद्बाणाञ्छतधा छित्त्वा क्षणाद्वेगात्कुशानुजः ॥ २८ ॥
विश्वास-प्रस्तुतिः
सेनान्यं विरथं चक्रे वसुभिः स्वशरोत्तमैः
विरथो गजमानीतमारुरोह भटैर्निजैः ॥ २९ ॥
मूलम्
सेनान्यं विरथं चक्रे वसुभिः स्वशरोत्तमैः
विरथो गजमानीतमारुरोह भटैर्निजैः ॥ २९ ॥
विश्वास-प्रस्तुतिः
मदोन्मत्तं महावेगं सप्तधा प्रस्रवान्वितम्
गजारूढं तु तं दृष्ट्वा दशभिर्धनुषोगतैः ॥ ३० ॥
मूलम्
मदोन्मत्तं महावेगं सप्तधा प्रस्रवान्वितम्
गजारूढं तु तं दृष्ट्वा दशभिर्धनुषोगतैः ॥ ३० ॥
विश्वास-प्रस्तुतिः
बाणैर्विव्याध विहसन्सर्वान्रिपुगणाञ्जयी
कालजित्तस्य वीर्यं तु दृष्ट्वा विस्मितमानसः ॥ ३१ ॥
मूलम्
बाणैर्विव्याध विहसन्सर्वान्रिपुगणाञ्जयी
कालजित्तस्य वीर्यं तु दृष्ट्वा विस्मितमानसः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
गदां मुमोच महतीं महायस विनिर्मिताम्
आपतन्तीं गदां वेगाद्भारायुतविनिर्मिताम् ॥ ३२ ॥
मूलम्
गदां मुमोच महतीं महायस विनिर्मिताम्
आपतन्तीं गदां वेगाद्भारायुतविनिर्मिताम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
त्रिधा चिच्छेद तरसा क्षुरप्रैः सकुशानुजः
परिघं निशितं घोरं वैरिप्राणहरोदितम् ॥ ३३ ॥
मूलम्
त्रिधा चिच्छेद तरसा क्षुरप्रैः सकुशानुजः
परिघं निशितं घोरं वैरिप्राणहरोदितम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
मुक्तं पुनस्तेन लवश्चिच्छेद तरसान्वितः
छित्त्वा तत्परिघं घोरं कोपादारक्तलोचनः ॥ ३४ ॥
मूलम्
मुक्तं पुनस्तेन लवश्चिच्छेद तरसान्वितः
छित्त्वा तत्परिघं घोरं कोपादारक्तलोचनः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
गजोपस्थे समारूढं मन्यमानश्चुकोप ह
तत्क्षणादच्छिनत्तस्य शुण्डां खड्गेन दन्तिनः ॥ ३५ ॥
मूलम्
गजोपस्थे समारूढं मन्यमानश्चुकोप ह
तत्क्षणादच्छिनत्तस्य शुण्डां खड्गेन दन्तिनः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
दन्तयोश्चरणौ धृत्वा रुरोह गजमस्तके
मुकुटं शतधा कृत्वा कवचं तु सहस्रधा ॥ ३६ ॥
मूलम्
दन्तयोश्चरणौ धृत्वा रुरोह गजमस्तके
मुकुटं शतधा कृत्वा कवचं तु सहस्रधा ॥ ३६ ॥
विश्वास-प्रस्तुतिः
केशेष्वाकृष्य सेनान्यं पातयामास भूतले
पातितः स गजोपस्थात्सेनानीः कुपितः पुनः ॥ ३७ ॥
मूलम्
केशेष्वाकृष्य सेनान्यं पातयामास भूतले
पातितः स गजोपस्थात्सेनानीः कुपितः पुनः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
हृदये ताडयामास मुष्टिना वज्रमुष्टिना
स आहतो मुष्टिभिस्तु क्षुरप्रान्निशिताञ्छरान् ॥ ३८ ॥
मूलम्
हृदये ताडयामास मुष्टिना वज्रमुष्टिना
स आहतो मुष्टिभिस्तु क्षुरप्रान्निशिताञ्छरान् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
मुमोच हृदये क्षिप्रं कुण्डलीकृतधन्ववान्
स रराज रणोपान्ते कुण्डलीकृत चापवान् ॥ ३९ ॥
मूलम्
मुमोच हृदये क्षिप्रं कुण्डलीकृतधन्ववान्
स रराज रणोपान्ते कुण्डलीकृत चापवान् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
शिरस्त्रं कवचं बिभ्रदभेद्यं शरकोटिभिः
स विद्धः सायकैस्तीक्ष्णैस्तं हन्तुं खड्गमाददे ॥ ४० ॥
मूलम्
शिरस्त्रं कवचं बिभ्रदभेद्यं शरकोटिभिः
स विद्धः सायकैस्तीक्ष्णैस्तं हन्तुं खड्गमाददे ॥ ४० ॥
विश्वास-प्रस्तुतिः
दशन्रोषात्स्वदशनान्निःश्वसन्नुच्छ्वसन्मुहुः
खड्गहस्तं समायान्तं शूरं सेनापतिं लवः ॥ ४१ ॥
मूलम्
दशन्रोषात्स्वदशनान्निःश्वसन्नुच्छ्वसन्मुहुः
खड्गहस्तं समायान्तं शूरं सेनापतिं लवः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
चिच्छेद भुजमध्यं तु स खड्गः पाणिरापतत्
छिन्नं खड्गधरं हस्तं वीक्ष्य कोपाच्चमूपतिः ॥ ४२ ॥
मूलम्
चिच्छेद भुजमध्यं तु स खड्गः पाणिरापतत्
छिन्नं खड्गधरं हस्तं वीक्ष्य कोपाच्चमूपतिः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
वामेन गदया हन्तुं प्रचक्राम भुजेन तम्
सोऽपि च्छिन्नो भुजस्तस्य साङ्गदस्तीक्ष्णसायकैः ॥ ४३ ॥
मूलम्
वामेन गदया हन्तुं प्रचक्राम भुजेन तम्
सोऽपि च्छिन्नो भुजस्तस्य साङ्गदस्तीक्ष्णसायकैः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
तदा प्रकुपितो वीरः पादाभ्यामहनल्लवम्
लवः पादाहतस्तस्य न चचाल रणाङ्गणे ॥ ४४ ॥
मूलम्
तदा प्रकुपितो वीरः पादाभ्यामहनल्लवम्
लवः पादाहतस्तस्य न चचाल रणाङ्गणे ॥ ४४ ॥
विश्वास-प्रस्तुतिः
स्रजाहतो द्विप इव चरणच्छेदनं व्यधात्
तदापि तं मौलिनासौ प्रहर्तुमुपचक्रमे ॥ ४५ ॥
मूलम्
स्रजाहतो द्विप इव चरणच्छेदनं व्यधात्
तदापि तं मौलिनासौ प्रहर्तुमुपचक्रमे ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तदा लवश्चमूनाथं मन्यमानोऽधिपौरुषम्
करवालं समादाय करे कालानलोपमम् ॥ ४६ ॥
मूलम्
तदा लवश्चमूनाथं मन्यमानोऽधिपौरुषम्
करवालं समादाय करे कालानलोपमम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
अच्छिनच्छिर एतस्य महामुकुटशोभितम्
हाहाकारो महानासीच्चमूनाथे निपातिते ॥ ४७ ॥
मूलम्
अच्छिनच्छिर एतस्य महामुकुटशोभितम्
हाहाकारो महानासीच्चमूनाथे निपातिते ॥ ४७ ॥
विश्वास-प्रस्तुतिः
सैनिकाः परिसङ्क्रुद्धा लवं हन्तुं समागताः
लवस्तान्स्वशराघातैः पलायनपरान्व्यधात् ॥ ४८ ॥
मूलम्
सैनिकाः परिसङ्क्रुद्धा लवं हन्तुं समागताः
लवस्तान्स्वशराघातैः पलायनपरान्व्यधात् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
छिन्नाभिन्नाङ्गकाः केचिद्गता केचिद्रणाङ्गणात्
स निवार्याखिलान्योधान्विजगाह चमूं मुदा ॥ ४९ ॥
मूलम्
छिन्नाभिन्नाङ्गकाः केचिद्गता केचिद्रणाङ्गणात्
स निवार्याखिलान्योधान्विजगाह चमूं मुदा ॥ ४९ ॥
विश्वास-प्रस्तुतिः
वाराह इव निःश्वस्य प्रलये सुमहार्णवम्
गजा भिन्ना द्विधा जाता मौक्तिकैः पूरिता मही ॥ ५० ॥
मूलम्
वाराह इव निःश्वस्य प्रलये सुमहार्णवम्
गजा भिन्ना द्विधा जाता मौक्तिकैः पूरिता मही ॥ ५० ॥
विश्वास-प्रस्तुतिः
दुर्गमाभूद्भटाग्र्याणां पर्वतैर्व्यापृता यथा
अश्वाः कनकपल्याणा रुचिरारत्नराजिताः ॥ ५१ ॥
मूलम्
दुर्गमाभूद्भटाग्र्याणां पर्वतैर्व्यापृता यथा
अश्वाः कनकपल्याणा रुचिरारत्नराजिताः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
अपतन्रुधिराप्लुष्टे ह्रदे बल सुशोभिताः
रथिनः करमध्यस्थ धनुर्दण्डसुशोभिनः ॥ ५२ ॥
मूलम्
अपतन्रुधिराप्लुष्टे ह्रदे बल सुशोभिताः
रथिनः करमध्यस्थ धनुर्दण्डसुशोभिनः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
रथोपस्थे निपतिताः स्वर्गगा इव वै सुराः
सन्दष्टौष्ठपुटा वक्त्र भ्रमल्लक्ष्मीविलक्षिताः ॥ ५३ ॥
मूलम्
रथोपस्थे निपतिताः स्वर्गगा इव वै सुराः
सन्दष्टौष्ठपुटा वक्त्र भ्रमल्लक्ष्मीविलक्षिताः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
पतितास्तत्र दृश्यन्ते वीरा रणविशारदाः
सुस्राव शोणितसरिद्धयमस्तककच्छपा ॥ ५४ ॥
मूलम्
पतितास्तत्र दृश्यन्ते वीरा रणविशारदाः
सुस्राव शोणितसरिद्धयमस्तककच्छपा ॥ ५४ ॥
विश्वास-प्रस्तुतिः
महाप्रवाहललिता वैरिणां भयकारिका
केषाञ्चिद्बाहविश्छिन्नाः केषां पादा विकर्तिता ॥ ५५ ॥
मूलम्
महाप्रवाहललिता वैरिणां भयकारिका
केषाञ्चिद्बाहविश्छिन्नाः केषां पादा विकर्तिता ॥ ५५ ॥
विश्वास-प्रस्तुतिः
केषां कर्णाश्च नासाश्च केषां कवचकुण्डले
एवं तु कदनं जातं सेनान्यां पतिते रणे ॥ ५६ ॥
मूलम्
केषां कर्णाश्च नासाश्च केषां कवचकुण्डले
एवं तु कदनं जातं सेनान्यां पतिते रणे ॥ ५६ ॥
विश्वास-प्रस्तुतिः
सर्वे निपतिता वीरा न केचिज्जीवितास्ततः
लवो जयं रणे प्राप्य वैरिवृन्दं विजित्य च ॥ ५७ ॥
मूलम्
सर्वे निपतिता वीरा न केचिज्जीवितास्ततः
लवो जयं रणे प्राप्य वैरिवृन्दं विजित्य च ॥ ५७ ॥
विश्वास-प्रस्तुतिः
अन्यागमनशङ्कायां मनः कुर्वन्नवैक्षत
केचिदुर्वरिता युद्धाद्भाग्येन न रणे मृताः ॥ ५८ ॥
मूलम्
अन्यागमनशङ्कायां मनः कुर्वन्नवैक्षत
केचिदुर्वरिता युद्धाद्भाग्येन न रणे मृताः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नं सविधे जग्मुः शंसितुं वृत्तमद्भुतम्
गत्वा ते कथयामासुर्यथावृत्तं रणाङ्गणे ॥ ५९ ॥
मूलम्
शत्रुघ्नं सविधे जग्मुः शंसितुं वृत्तमद्भुतम्
गत्वा ते कथयामासुर्यथावृत्तं रणाङ्गणे ॥ ५९ ॥
विश्वास-प्रस्तुतिः
कालजिन्निधनं बालाच्चित्रकारि रणोद्यमम्
तच्छ्रुत्वा विस्मयं प्राप्तः शत्रुघ्नस्तानुवाच ह ॥ ६० ॥
मूलम्
कालजिन्निधनं बालाच्चित्रकारि रणोद्यमम्
तच्छ्रुत्वा विस्मयं प्राप्तः शत्रुघ्नस्तानुवाच ह ॥ ६० ॥
विश्वास-प्रस्तुतिः
हसन्रोषाद्दशन्दन्तान्बालग्राह हयं स्मरन्
रे वीराः किं मदोन्मत्ता यूयं किं वा छलग्रहाः ॥ ६१ ॥
मूलम्
हसन्रोषाद्दशन्दन्तान्बालग्राह हयं स्मरन्
रे वीराः किं मदोन्मत्ता यूयं किं वा छलग्रहाः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
किं वा वैकल्यमायातं कालजिन्मरणं कथम्
यः सङ्ख्ये वैरिवृन्दानां दारुणः समितिञ्जयः ॥ ६२ ॥
मूलम्
किं वा वैकल्यमायातं कालजिन्मरणं कथम्
यः सङ्ख्ये वैरिवृन्दानां दारुणः समितिञ्जयः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
तं कथं बालको जीयाद्यमस्यापि दुरासदम्
शत्रुघ्नवाक्यं संश्रुत्य वीराः प्रोचुरसृक्प्लुताः ॥ ६३ ॥
मूलम्
तं कथं बालको जीयाद्यमस्यापि दुरासदम्
शत्रुघ्नवाक्यं संश्रुत्य वीराः प्रोचुरसृक्प्लुताः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
नास्माकं मदमत्तादि न च्छलो न च देवनम्
कालजिन्मरणं सत्यं लवाज्जानीहि भूपते ॥ ६४ ॥
मूलम्
नास्माकं मदमत्तादि न च्छलो न च देवनम्
कालजिन्मरणं सत्यं लवाज्जानीहि भूपते ॥ ६४ ॥
विश्वास-प्रस्तुतिः
बलं च कृत्स्नं मथितं बालेनातुलशौण्डिना
अतः परं तु यत्कार्यं ये प्रेष्या नृवरोत्तमाः ॥ ६५ ॥
मूलम्
बलं च कृत्स्नं मथितं बालेनातुलशौण्डिना
अतः परं तु यत्कार्यं ये प्रेष्या नृवरोत्तमाः ॥ ६५ ॥
विश्वास-प्रस्तुतिः
बालं ज्ञात्वा भवान्नात्र करोतु बलसाहसम्
इति श्रुत्वा वचस्तेषां वीराणां शत्रुहा तदा ॥ ६६ ॥
मूलम्
बालं ज्ञात्वा भवान्नात्र करोतु बलसाहसम्
इति श्रुत्वा वचस्तेषां वीराणां शत्रुहा तदा ॥ ६६ ॥
विश्वास-प्रस्तुतिः
सुमतिं च मतिश्रेष्ठमुवाच रणकारणे ॥ ६७ ॥
मूलम्
सुमतिं च मतिश्रेष्ठमुवाच रणकारणे ॥ ६७ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे कुशलवयुद्धे
सैन्यपराजय कालजित्सेनानीमरणन्नाम षष्टितमोऽध्यायः ६०