शेष उवाच
विश्वास-प्रस्तुतिः
अथ नावा समुत्तीर्य जाह्नवीं लक्ष्मणस्तदा
जानकीं परतस्तीरे हस्ते धृत्वा वनं ययौ ॥ १ ॥
मूलम्

सा चलन्ती पथि तदा शुष्यद्वदनलक्षिता
कण्टकक्षतसत्पादा स्खलन्ती च पदे पदे ॥ २ ॥

लक्ष्मणस्तां महाघोरे विपिने दुःखदायिनि
प्रवेशयामास तदा राघवाज्ञाविधायकः ॥ ३ ॥
मूलम्
लक्ष्मणस्तां महाघोरे विपिने दुःखदायिनि
प्रवेशयामास तदा राघवाज्ञाविधायकः ॥ ३ ॥
विश्वास-प्रस्तुतिः
यत्र वृक्षा महाघोरा बर्बूलाः खदिरा घनाः
श्लेष्मातकाश्चिञ्चिणीकाः शुष्का दावेन वह्निना ॥ ४ ॥

कोटरस्था महासर्पाः फूत्कुर्वन्ति सुकोपिताः
घूका घूत्कुर्वते यत्र लोकचित्तभयङ्कराः ॥ ५ ॥

व्याघ्राः सिंहाः सृगालाश्च द्वीपिनोऽतिभयङ्कराः
दृश्यन्ते यत्र सरला मनुष्यादाः सुकोपनाः ॥ ६ ॥

महिषाः सूकरा दुष्टा दंष्ट्रा द्वयविलक्षिताः
कुर्वन्ति प्राणिनां तापं मानसस्य मदोद्धुराः ॥ ७ ॥

ईदृग्वनं प्रपश्यन्ती भयेनोपगतज्वरा
कण्टकैर्दष्टचरणा लक्ष्मणं वाक्यमब्रवीत् ॥ ८ ॥

जानक्युवाच
वीरर्षिमुनिसंसेव्या नाश्रमान्नेत्रसौख्यदान्
नाहं पश्यामि नो तेषां पत्नीश्च सुतपोधनाः ॥ ९ ॥

पश्यामि केवलं घोरान्पक्षिणः शुष्कवृक्षकान्
दावानलेन तत्सर्वं दह्यमानमिदं वनम् ॥ १० ॥

त्वां च पश्यामि दुःखार्तमश्रुपूर्णाकुलेक्षणम्
शकुनेतरसाहस्रं भवेन्मम पदे पदे ॥ ११ ॥

तन्मे कथय वीराग्र्य कथं मुक्ता महात्मना
रामेण दुष्टहृदया क्षिप्रं कथय मे हि तत् ॥ १२ ॥

इति वाक्यं समाकर्ण्य लक्ष्मणः शोककर्शितः
संरुद्धबाष्पवदनो न किञ्चित्प्रोक्तवांस्तदा ॥ १३ ॥

तदेव विपिनं घोरं गच्छन्ती लक्ष्मणान्विता
पुनरप्याह तं वीरं दुःखार्ता पश्यती मुखम् ॥ १४ ॥

तदापि स न तां वक्ति किमपि प्रेक्षुलोलुपः
तदा सात्यन्तनिर्बन्धं चकार परिपृच्छती ॥ १५ ॥

आग्रहेण यदा पृष्टो लक्ष्मणः सीतया तदा
रुद्धकण्ठो मुहुः शोचन्नवदत्त्यागसम्भवम् ॥ १६ ॥

तद्वाक्यं पविना तुल्यं निशम्य मुनिसत्तम
सुलताकृत्तमूलेव बभूवाकल्पवर्जिता ॥ १७ ॥
मूलम्
तद्वाक्यं पविना तुल्यं निशम्य मुनिसत्तम
सुलताकृत्तमूलेव बभूवाकल्पवर्जिता ॥ १७ ॥
विश्वास-प्रस्तुतिः
तदैव पृथिवी तां न जग्राह तनयामिमाम्
रामो विपापिनीं सीतां न जह्यादिति शङ्किनी ॥ १८ ॥

पतितां तां तु वैदेहीं दृष्ट्वा सौमित्रिरुत्सुकः
पल्लवाग्र्यसमीरेण सञ्ज्ञितां तु चकार सः ॥ १९ ॥

सञ्ज्ञां प्राप्ता ह्युवाचेदं मा हास्यं कुरु देवर
कथं मां पापरहितां त्यजते स रघूद्वहः ॥ २० ॥

एवं बहुविलप्याथ लक्ष्मणं दुःखसंयुतम्
संवीक्ष्यमू र्च्छिता भूमौ पपात परिदुःखिता ॥ २१ ॥

मुहूर्तेनापि सञ्ज्ञां सा प्राप्य दुःखपरिप्लुता
जगाद रामचरणौ स्मंरती शोकविक्षता ॥ २२ ॥

रघुनाथो महाबुद्धिस्त्यजते मां कथं महान्
यो मदर्थे पयोराशिं बद्धवान्वानरैर्युतः ॥ २३ ॥

स कथं मां महावीरो निष्पापां रजकोक्तितः
त्यजिष्यति ममैवात्र दैवं तु प्रतिकूलितम् ॥ २४ ॥

एवं वदन्ती पुनरपि मूर्च्छां प्राप्ता विदेहजा
मूर्च्छितां तां समीक्ष्याथ रुरोद विकृतस्वरः ॥ २५ ॥

पुनः सञ्ज्ञामवाप्यैवं सौमित्रिं निजगाद सा
दुःखातुरं वीक्षमाणा रुद्धकण्ठं सुदुःखिता ॥ २६ ॥

सौमित्रे गच्छ रामं त्वं धर्ममूर्तिं यशोनिधिम्
मद्वाक्यमेवैतद्ब्रूयाः समक्षं तपसां निधेः ॥ २७ ॥

मां तत्याज भवान्यद्वै जानन्नपि विपापिनीम्
कुलस्य सदृशं किं वा शास्त्रज्ञानस्य तत्फलम् ॥ २८ ॥

नित्यं तव पदे रक्तां त्वदुच्छिष्टभुजं हि माम्
भवांस्तत्याज तत्सर्वं मम दैवं तु कारणम् ॥ २९ ॥

कल्याणं तव सर्वत्र भूयाद्वीरवरोत्तम
अहं तावद्वने त्वां हि स्मरन्ती प्राणधारिका ॥ ३० ॥

मनसा कर्मणा वाचा भवानेव ममोत्तमः
अन्ये तुच्छीकृताः सर्वे मनसा रघुवंशज ॥ ३१ ॥

भवेभवे भवानेव पतिर्भूयान्महीश्वर
त्वत्पदस्मरणानेक हतपापा सतीश्वरी ॥ ३२ ॥
मूलम्
भवेभवे भवानेव पतिर्भूयान्महीश्वर
त्वत्पदस्मरणानेक हतपापा सतीश्वरी ॥ ३२ ॥
विश्वास-प्रस्तुतिः
श्वश्रूजनं ब्रूहि सर्वं मत्सन्देशं रघूत्तम
त्यक्ता वने महाघोरे रामेण निरघा सती ॥ ३३ ॥

स्मरामि चरणौ युष्मद्वने मृगगणैर्युते
अन्तर्वत्नी वने त्यक्ता रामेण सुमहात्मना ॥ ३४ ॥

सौमित्रे शृणु मद्वाक्यं भद्रं भूयाद्रघूत्तमे
इदानीं सन्त्यजे प्राणान्रामवीर्यं सुरक्षती ॥ ३५ ॥

त्वं रामवचनं तथ्यं यत्करोषि शुभं तव
परतन्त्त्रेण तत्कार्यं रामपादाब्जसेविना ॥ ३६ ॥

गच्छ त्वं राम सविधे शिवाः पन्थान एव ते
ममोपरि कृपा कार्या स्मर्तव्याहं कदा कदा ॥ ३७ ॥

इत्युक्त्वा मूर्च्छिता भूमौ पपात पुरतस्तदा
लक्ष्मणो दुःखमापेदे वीक्ष्य मूर्च्छितजानकीम् ॥ ३८ ॥

वीजयामास वासोग्रैः सञ्ज्ञां प्राप्तां प्रकृत्य च
सौमित्रिः सान्त्वयामास वचनैर्मधुरैर्मुहुः ॥ ३९ ॥

लक्ष्मण उवाच
एष गच्छामि रामं वै गत्वा शंसामि सर्वशः
समीपे ते मुनेरस्ति वाल्मीकेराश्रमो महान् ॥ ४० ॥

इत्युक्त्वा तां परिक्रम्य दुःखितो बाष्पपूरितः
मुञ्चन्नश्रुकलां दुःखाद्ययौ रामं महीपतिम् ॥ ४१ ॥

जानकी देवरं यान्तं वीक्ष्य विस्मितलोचना
हसत्ययं महाभागो लक्ष्मणो देवरो मम ॥ ४२ ॥

कथं मां प्राणतः प्रेष्ठां विपापां राघवोऽत्यजत्
इति सञ्चिन्तयन्ती सा तमैक्षदनिमेषणा ॥ ४३ ॥

जाह्नवीं सर्वथोत्तीर्णां ज्ञात्वा सत्यं स्वहापनम्
पतिता प्राणसन्देहं प्राप्ता मूर्च्छां गता तदा ॥ ४४ ॥

तदा हंसाः स्वपक्षाभ्यां जलमानीय सर्वतः
सिषिचुर्मधुरो वायुर्ववौ पुष्पसुगन्धिमान् ॥ ४५ ॥

करिणः पुष्करैः स्वीयैर्जलपूर्णैः समन्ततः
व्याप्तं शरीरं रजसा क्षालयन्त इवागताः ॥ ४६ ॥

मृगास्तदन्तिकं प्राप्य सन्तस्थुर्विस्मितेक्षणाः
नगाः पुष्पयुता आसंस्तत्कालं मधुना विना ॥ ४७ ॥

एतस्मिन्समये वृत्ते सञ्ज्ञां प्राप्य तदा सती
विललाप सुदुःखार्ता रामरामेति जल्पती ॥ ४८ ॥

हा नाथ दीनबन्धो हे करुणामयसन्निधे
अपराधादृते मां त्वं कथं त्यजसि वै वने ॥ ४९ ॥

इत्येवमादिभाषन्ती विलपन्ती मुहुर्मुहुः
इतस्ततः प्रपश्यन्ती सम्मूर्च्छन्ती पुनःपुनः ॥ ५० ॥

तदा स्वशिष्यैर्भगवान्वाल्मीकिः सङ्गतो वनम्
शुश्राव रुदितं तत्र करुणास्वरभाषितम् ॥ ५१ ॥

शिष्यान्प्रति जगादाथ पश्यन्तु वनमध्यतः
को रोदिति महाघोरे विपिने दुःखितस्वरः ॥ ५२ ॥

ते प्रयुक्ताश्च मुनिना सञ्जग्मुर्यत्र जानकी
रामरामेति भाषन्ती बाष्पपूरपरिप्लुता ॥ ५३ ॥

तां दृष्ट्वा स्त्रियमौत्सुक्याद्वाल्मीकिं प्रत्यगुर्मुनिम्
श्रुत्वा तदीरितं वाक्यं जगामासौ ततो मुनिः ॥ ५४ ॥

दृष्ट्वा तं तपसां राशिं जानकी पतिदेवता
नमोस्तु मुनये वेदमूर्तये व्रतवार्धये ॥ ५५ ॥

इत्युक्तवन्तीं तां सीतामाशीर्भिरभ्यनन्दयत्
भर्त्रा सह चिरञ्जीव पुत्रौ प्राप्नुहि शोभनौ ॥ ५६ ॥

कासि त्वं किं वने घोरे सङ्गतासि किमीदृशी
सर्वं मे शंस जानीयां तव दुःखस्य कारणम् ॥ ५७ ॥

सा तदा प्रत्युवाचेमं रामस्य महिला मुनिम्
निःश्वसन्ती करुणया गिरासञ्जातवेपथुः ॥ ५८ ॥

शृणु मे वाक्यमर्थोक्तं सर्वदुःखस्य कारणम्
जानीहि मां भूमिपते रघुनाथस्य सेवकीम् ॥ ५९ ॥

अपराधं विना त्यक्ता न जाने तत्र कारणम्
लक्ष्मणो मां विमुच्यात्र गतवान्राघवाज्ञया ॥ ६० ॥

इत्युक्त्वाश्रुकलापूर्णं बिभ्रतीं मुखपङ्कजम्
वाल्मीकिः सान्त्वयन्प्राह जानकीं कमलेक्षणाम् ॥ ६१ ॥

वाल्मीकिं मां विजानीहि पितुस्तव गुरुं मुनिम्
दुःखं मा कुरु वैदेहि ह्यागच्छ मम चाश्रमम् ॥ ६२ ॥

भिन्नस्थाने पितुर्गेहं जानीहि पतिदेवते
ईदृशे कर्मणि मम रोषोस्त्वेव महीपतेः ॥ ६३ ॥

एवं वचः समाकर्ण्य जानकी पतिदेवता
दुःखपूर्णाश्रुवदना किञ्चित्सुखमवाप सा ॥ ६४ ॥

वाल्मीकिः सान्त्वयित्वैनां दुःखपूराकुलेक्षणाम्
निनाय स्वाश्रमं पुण्यं तापसीवृन्दपूरितम् ॥ ६५ ॥

सा गच्छन्ती पृष्ठतोऽस्य वाल्मीकेस्तपसां निधेः
रराजेन्दोः पृष्ठतो वै तारकेव मनोहरा ॥ ६६ ॥

वाल्मीकिः प्राप्य च स्वीयमाश्रमं मुनिपूरितम्
तापसीः प्रतिसञ्चख्यौ जानकीं स्वाश्रमं गताम् ॥ ६७ ॥

वैदेही तापसीः सर्वा नमश्चक्रे महामनाः
परस्परं प्रहृषिताः परिरम्भं समाचरन् ॥ ६८ ॥

वाल्मीकिर्निजशिष्यान्स प्रत्युवाच तपोनिधिः
रच्यतां बत जानक्याः पर्णशाला मनोरमा ॥ ६९ ॥

इत्युक्तं वाक्यमाकर्ण्य वाल्मीकेः सुमनोरमम्
व्यरचन्पत्रकैः शालां दारुभिः सुमनोहराम् ॥ ७० ॥

तत्रावसद्धि वैदेही पतिव्रतपरायणा
वाल्मीकेः परिचर्यां च कुर्वन्ती फलभक्षिका ॥ ७१ ॥

जपन्ती रामरामेति मनसा वचसा स्वयम्
निनाय दिवसांस्तत्र जानकी पतिदेवता ॥ ७२ ॥

काले सासूत पूत्रौ द्वौ मनोहरवपुर्धरौ
रामचन्द्र प्रतिनिधी ह्यश्विनाविव जानकी ॥ ७३ ॥

तच्छ्रुत्वा तु मुनिर्हृष्टो जानक्याः पुत्रसम्भवम्
चकार जातकर्मादि संस्कारान्मन्त्रवित्तमः ॥ ७४ ॥

कुशैर्लवैश्च वाल्मीकिर्मुनिः कर्माणि चाचरत्
तन्नाम्ना पुत्रयोराख्या कुशो लव इति स्फुटा ॥ ७५ ॥

वाल्मीकिर्यत्र विरजा मङ्गलं तद्यथाचरत्
अत्यन्तं हृष्टचित्ता सा बभूव कमलेक्षणा ॥ ७६ ॥

तद्दिने लवणं हत्वा शत्रुघ्नः स्वल्पसैनिकः
आगमच्चाश्रमे चास्य वाल्मीकेर्निशि शोभने ॥ ७७ ॥

तदा वाल्मीकिना शिष्टः शत्रुघ्नो रघुनायकम्
मा शंस जानकीपुत्रौ कथयिष्याम्यहं पुरः ॥ ७८ ॥

जानकीपुत्रकौ तत्र ववृधाते मनोरमौ
कन्दमूलफलैः पुष्टौ व्यदधादुन्मदौ वरौ ॥ ७९ ॥

शुक्लप्रतिपदायाश्च शशीव सुमनोहरौ
कालेन संस्कृतौ जातावुपनीतौ मनोहरौ ॥ ८० ॥

उपनीयमुनिर्वेदं साङ्गमध्यापयत्सुतौ
सरहस्यं धनुर्वेदं रामायणमपाठयत् ॥ ८१ ॥
मूलम्
उपनीयमुनिर्वेदं साङ्गमध्यापयत्सुतौ
सरहस्यं धनुर्वेदं रामायणमपाठयत् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
वाल्मीकिना च धनुषी दत्ते स्वर्णसुभूषिते
अभेद्ये सगुणे श्रेष्ठे वैरिवृन्दविदारणे ॥ ८२ ॥

इषुधी बाणसम्पूर्णौ अक्षये करवालके
चर्माण्यभेद्यानि ददौ जानक्यात्मजयोस्तदा ॥ ८३ ॥

धनुर्धरौ धनुर्वेदपारगावाश्रमे मुदा
चरन्तौ तत्र रेजाते अश्विनाविव शोभनौ ॥ ८४ ॥

जानकी वीक्ष्य पुत्रौ द्वौ खड्गचर्मधरौ वरौ
परमं हर्षमापन्ना विरहोद्भवमत्यजत् ॥ ८५ ॥

एष ते कथितो विप्र जानक्याः पुत्रसम्भवः
अतः शृणुष्व यद्वृत्तं वीरबाहुविकृन्तनम् ॥ ८६ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
कुशलवोत्पत्तिकथानकन्नामैकोनषष्टितमोऽध्यायः ५९