शेष उवाच
विश्वास-प्रस्तुतिः
भरतं मूर्च्छितं दृष्ट्वा रघुनाथः सुदुःखितः
प्रतीहारमुवाचेदं शत्रुघ्नं प्रापयाशु माम् ॥ १ ॥
मूलम्

तद्वाक्यं प्रोक्तमाकर्ण्य क्षणाच्छत्रुघ्नमानयत्
यत्र रामो निजभ्राता भरतेन सह स्थितः ॥ २ ॥

भरतं मूर्च्छितं दृष्ट्वा रघुनाथं च दुःखितम्
प्रणम्य दुःखितोऽवोचत्किमिदं दारुणं महत् ॥ ३ ॥

तदा रामोंऽत्यजप्रोक्तं वाक्यं लोकविगर्हितम्
तं प्रत्युवाच रामोऽसौ शत्रुघ्नं पदसेवकम् ॥ ४ ॥

अधोमुखो दीनरवो गद्गदाक्षरवेपथुः
शृणु भ्रातर्वचो मेऽद्य कुरु तत्क्षिप्रमादरात् ॥ ५ ॥

यथा स्याद्विमलाकीर्तिर्गङ्गेव पृथिवीं गता
सीताया वाच्यमतुलं लोके श्रुत्वान्त्यजोदितम् ॥ ६ ॥

हातुमिच्छामि देहं स्वमेनां वा जानकीं किल
इति वाक्यं समाकर्ण्य रामस्य किल शत्रुहा ॥ ७ ॥

सवेपथुः पपातोर्व्यां दुःखितः परदारणः
सञ्ज्ञां प्राप्य मुहूर्तेन रघुनाथमवोचत ॥ ८ ॥

शत्रुघ्न उवाच
किमेतदुच्यते स्वामिञ्जानकीं प्रति दारुणम्
पाखण्डैर्दुष्टचित्तैश्च सर्वधर्मबहिष्कृतैः ॥ ९ ॥

निन्दिता श्रुतिरग्राह्या भवति त्वग्र्यजन्मनाम्
जाह्नवी सर्वलोकानां पापघ्नी दुरितापहा ॥ १० ॥

निस्पृष्टा पापिभिः पुम्भिः सा स्पर्शेनार्हिता सताम्
सूर्यो जगत्प्रकाशाय समुदेति जगत्यहो ॥ ११ ॥

उलूकानां रुचिकरो न भवेत्तत्र का क्षतिः
तस्मात्त्वमेनां गृह्णीष्व मा त्यजानिन्दितां स्त्रियम् ॥ १२ ॥

श्रीरामभद्रकृपया कुरुष्व वचनं मम
एतच्छ्रुत्वा वचस्तस्य शत्रुघ्नस्य महात्मनः ॥ १३ ॥

पुनःपुनर्जगादेदं यदुक्तं भरतं प्रति
तन्निशम्य वचो भ्रातुर्दुःखपूरपरिप्लुतः ॥ १४ ॥

पपात मूर्च्छितो भूमौ छिन्नमूल इव द्रुमः
भ्रातरं पतितं वीक्ष्य शत्रुघ्नं दुःखितो भृशम् ॥ १५ ॥

प्रतीहारमुवाचेदं लक्ष्मणं त्वानयान्तिकम्
स लक्ष्मणगृहं गत्वा न्यवेदयदिदं वचः ॥ १६ ॥

प्रतीहार उवाच
स्वामिन्रामो भवन्तं तु समाह्वयति वेगतः
स तच्छ्रुत्वा समाह्वानं रामचन्द्रेण वेगतः ॥ १७ ॥

जगाम तरसा तत्र यत्र स भ्रातृकोऽनघः
भरतं मूर्च्छितं दृष्ट्वा शत्रुघ्नमपि मूर्च्छितम् ॥ १८ ॥

श्रीरामचन्द्रं दुःखार्तं दुःखितो वाक्यमब्रवीत्
किमेतद्दारुणं राजन्दृश्यते मूर्च्छनादिकम् ॥ १९ ॥

तदाशु शंस मां सर्वं कारणं मुख्यतोऽनघ
एवं वदन्तं नृपतिर्वृत्तान्तं सर्वमादितः ॥ २० ॥

शशंस लक्ष्मणं क्षिप्रं दुःखपूरपरिप्लुतम्
लक्ष्मणस्तद्वचः श्रुत्वा सीतायास्त्यागसम्भवम् ॥ २१ ॥

निःश्वसन्मुहुरुच्छ्वासं स्तब्धगात्र इवाभवत्
भ्रातरं स्तब्धगात्रं च कम्पमानं मुहुर्मुहुः ॥ २२ ॥

न किञ्चन वदन्तं तं वीक्ष्य शोकार्दितोऽब्रवीत्
किं करिष्याम्यहं भूमौ स्थित्वा दुर्यशसाङ्कितः ॥ २३ ॥

त्यजामीदं वपुः श्रीमल्लोकभीत्या च शोकवान्
सर्वदा भ्रातरो मह्यं मद्वाक्यकरणोत्सुकाः ॥ २४ ॥

इदानीं तेपि दैवेन प्रतिकूलवचः कराः
कुत्र गच्छामि कं यामि हसिष्यन्ति नृपा भुवि ॥ २५ ॥

दुर्यशो लाञ्छितं मां वै कुष्ठिनं रूपवन्नराः
मनोर्वंशे पुरा भूपा जाता जाता गुणाधिकाः ॥ २६ ॥

इदानीं मयि जाते तु विपरीतं बभूव तत्
इति सम्भाषमाणं तं रामभद्रं समीक्ष्य सः ॥ २७ ॥

संस्तभ्याश्रूणि विपुलान्युवाच विकल स्वरः
स्वामिन्विषादं मा कार्षीः कथं तव मतिर्हृता ॥ २८ ॥

सीतामनिन्दितां को नु त्यजति श्रुतवान्भवान्
आकारयामि रजकं परिपृच्छामि तं प्रति ॥ २९ ॥

कथं त्वयानिन्दिता सा जानकी योषितां वरा
तव देशे बलात्कश्चिद्बाध्यते न जनोऽल्पकः ॥ ३० ॥

तस्मात्तस्य यथास्वान्ते प्रतीतिः स्यात्तथाचर
किमर्थं त्यज्यते भीरुः पतिव्रतपरायणा ॥ ३१ ॥

मनसा वचसा नान्यं जानाति जनकात्मजा
तस्मादेनां गृहाण त्वमेतां मा त्यज जानकीम् ॥ ३२ ॥

ममोपरि कृपां कृत्वा मदुक्तं संश्रयाशु तत्
एवं वदन्तं प्रत्यूचे रामः शोकेन कर्षितः ॥ ३३ ॥

लक्ष्मणं धर्मवाक्येन बोधयंस्त्यजनोद्यमः ॥ ३४ ॥

राम उवाच
कथं तु मां ब्रवीषि त्वं मा त्यजैनामनिन्दिताम्
लोकापवादात्त्यक्ष्येऽहं जानन्नपि विपापिनीम् ॥ ३५ ॥

स्वयशः कारणेऽहं स्वं देहं त्यक्ष्याम्यशोभनम्
त्वामपि भ्रातरं त्यक्ष्ये लोकवादाद्विगर्हितम् ॥ ३६ ॥

किमुतान्ये गृहाः पुत्रा मित्राणि वसुशोभनम्
स्वयशःकारणे सर्वं त्यजामि किमु मैथिलीम् ॥ ३७ ॥

न तथा मे प्रियो भ्राता न कलत्रं न बान्धवाः
यथा मे विमलाकीर्तिर्वल्लभा लोकविश्रुता ॥ ३८ ॥

इदानीं रजको नैव प्रष्टव्यो भवति ध्रुवम्
कालेन सर्वं भविता लोकचित्तस्य रञ्जनम् ॥ ३९ ॥

आमयो यद्वदामस्तु न चिकित्स्यो भवेत्क्षितौ
सकालेन परीपाकाद्भेषजादेव नश्यति ॥ ४० ॥

तथा कालेन सम्भावि साम्प्रतं मा विलम्बय
त्यजैनां विपिने साध्वीं मां वा खड्गेन घातय ॥ ४१ ॥

इत्युक्तं वाक्यमाकर्ण्य दुःखितोऽभूत्तदा महान्
चिन्तयामास च स्वान्ते लक्ष्मणः शोककर्षितः ॥ ४२ ॥

पित्राज्ञप्तो जामदग्न्यो मातरं चाप्यघातयत्
गुरोराज्ञा नैव लङ्घ्या युक्ताऽयुक्तापि सर्वथा ॥ ४३ ॥

तस्मादेनां त्यजाम्येव रामस्य प्रियकाम्यया
इति सञ्चिन्त्य मनसि भ्रातरं प्रत्युवाच सः ॥ ४४ ॥

लक्ष्मणउवाच
अकृत्यमपि कार्यं वै गुर्वाज्ञां नैव लङ्घयेत्
तस्मात्कुर्वे भवद्वाक्यं यत्त्वं वदसि सुव्रत ॥ ४५ ॥

इत्येवं भाषमाणं तं लक्ष्मणं प्रत्युवाच सः
साधुसाधु महाप्राज्ञ त्वया मे तोषितं मनः ॥ ४६ ॥

अद्यैव रात्रौ जानक्या दोहदस्तापसी क्षणे
तन्मिषेण रथे स्थाप्य मोचयैनां महावने ॥ ४७ ॥

इत्थं भाषितमाकर्ण्य विशुष्यद्वदनोऽभितः
रुदन्बाष्पकलां मुञ्चञ्जगाम स्वं निवेशनम् ॥ ४८ ॥

सुमन्त्रं तु समाहूय वचनं तमथाब्रवीत्
रथं मे कुरु सज्जं वै सदश्ववरभूषितम् ॥ ४९ ॥

स तद्वाक्यं समाकर्ण्य रथमानीतवांस्तदा
आनीतं तं रथं दृष्ट्वा लक्ष्मणः शोककर्षितः ॥ ५० ॥

परमं दुःखमापन्नः संरुह्य स्यन्दनं वरम्
निःश्वसञ्जानकीगेहं प्रतस्थे भ्रातृसेवकः ॥ ५१ ॥

गत्वा चान्तःपुरे भ्राता रामस्य मिथिलात्मजाम्
प्रत्यूचे निःश्वसन्वाक्यं दुःखपूरपरिप्लुतः ॥ ५२ ॥

मातर्जानकि रामेण प्रेषितो भवनं तव
तापसीः प्रति याहि त्वं दोहदप्राप्तिहेतवे ॥ ५३ ॥

इति वाक्यं समाकर्ण्य लक्ष्मणस्य विदेहजा
परमं हर्षमापन्ना लक्ष्मणं प्रत्यभाषत ॥ ५४ ॥

जानक्युवाच
धन्याहं मैथिली राज्ञी रामस्य चरणस्मरा
यस्या दोहदपूर्त्यर्थं प्रेषयामास लक्ष्मणम् ॥ ५५ ॥

अद्याहं ता वनचरीस्तापसीः पतिदेवताः
नमस्कुर्यां च वासोभिः पूजयामि मनोहराः ॥ ५६ ॥

इत्युक्त्वा रम्यवस्त्राणि महार्हाभरणानि च
मणीन्विमलमुक्ताश्च कर्पूरादिसुगन्धिमत् ॥ ५७ ॥

चन्दनादिकवस्तूनि विचित्राणि सहस्रधा
जग्राह रघुनाथस्य पत्नी स्वप्रियकाम्यया ॥ ५८ ॥

सीता गृहीत्वा सर्वाणि दासीनां करयोर्मुहुः
लक्ष्मणं प्रतिगच्छन्ती देहल्यां चास्खलत्तदा ॥ ५९ ॥

अविचार्य तदौत्सुक्याल्लक्ष्मणं प्रियकारिणम्
उवाच कुत्र सरथो येन मां प्रापयिष्यसि ॥ ६० ॥

स निःश्वसन्रथं हैमं जानक्या सह निर्विशत्
सुमन्त्रं प्रत्युवाचासौ चालयाश्वान्मनोजवान् ॥ ६१ ॥

स सुयुक्तं रथं वाक्याल्लक्ष्मणस्य तु चाह्वयत्
अश्रुपूर्णमुखं पश्यल्ँलक्ष्मणं स मुहुर्मुहुः ॥ ६२ ॥

आहतास्तेन कशया वाहास्तस्यापतन्पथि
न चलन्ति यदा वाहास्तदा लक्ष्मणमब्रवीत् ॥ ६३ ॥

सुमन्त्र उवाच
स्वामिंश्चलन्ति नो वाहा यत्नेन परिचालिताः
किं करोमि न जानेऽत्र कारणं वाहपातने ॥ ६४ ॥

एवं ब्रुवन्तं प्रत्यूचे लक्ष्मणो गद्गदस्वरः
सारथिं धैर्यमास्थाय ताडयैतान्कशादिभिः ॥ ६५ ॥

एतच्छ्रुत्वोदितं यन्ता कथञ्चित्समचालयत्
तदा स्फुरद्दक्षनेत्रं जानक्या दुःखशंसकम् ॥ ६६ ॥

तदैव हृदये शोकः समभूद्दुःखशंसकः
तदैव पक्षिणः पुण्याः कुर्वन्ति परिवर्तनम् ॥ ६७ ॥

एवं वीक्ष्यैव वैदेही प्रत्युवाचाथ देवरम्
कथं मे तापसीक्षायै यातुमिच्छा रघूद्वह ॥ ६८ ॥

रामे भूयाद्धि कल्याणं भरते वा तथानुजे
तत्प्रजासु च सर्वत्र मा भवन्तु विपर्ययाः ॥ ६९ ॥

एवं ब्रुवन्तीं संवीक्ष्य जानकीं च स लक्ष्मणः
न किञ्चिदुक्तवान्रुद्ध कण्ठो बाष्पप्रपूरितः ॥ ७० ॥

सा गच्छन्ती मृगान्वामं परिवर्तनकारकान्
अपश्यद्दुःखसङ्घातकारकान्समभाषत ॥ ७१ ॥
मूलम्
सा गच्छन्ती मृगान्वामं परिवर्तनकारकान्
अपश्यद्दुःखसङ्घातकारकान्समभाषत ॥ ७१ ॥
विश्वास-प्रस्तुतिः
अद्य यन्मे मृगा वामं वर्तयन्ति तदिष्यते
श्रीरामचरणौ मुक्त्वा गच्छन्त्यायुक्तमेव तत् ॥ ७२ ॥

महिलानां परोधर्मः स्वभर्तृचरणार्चनम्
तन्मुक्त्वान्यत्र यान्त्या मे यद्भवेद्युक्तमेव तत् ॥ ७३ ॥

एवं पथि विचारं तु कुर्वन्त्या परमार्थतः
जाह्नवी ददृशे देव्या मुनिवृन्दैकसेविता ॥ ७४ ॥

यस्यां जलस्य कल्लोला दृश्यन्ते दुग्धसन्निभाः
तरङ्गो दृश्यते यत्र स्वर्गसोपानमूर्तिभृत् ॥ ७५ ॥

यस्या वारिकणस्पर्शान्महापातकसञ्चयः
पलायते न कुत्रापि स्थानमीक्षन्समन्ततः ॥ ७६ ॥

गङ्गां प्राप्याथ सौमित्रिर्जानकीं स्यन्दने स्थिताम्
उवाच निर्गलद्बाष्प एहि सीते रथाद्भुवि ॥ ७७ ॥

सीता तद्वाक्यमाकर्ण्य क्षणादवततार सा
लक्ष्मणेन धृता बाहौ स्खलन्ती पथि कण्टकैः ॥ ७८ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
जानक्या गङ्गादर्शनन्नाम अष्टपञ्चाशत्तमोऽध्यायः ५८