०५७

वात्स्यायन उवाच

विश्वास-प्रस्तुतिः

जगत्पवित्रसत्कीर्ति जानक्या वाच्यवाचनम्
कथं समकरोत्स्वामी तन्मे कथय सुव्रत ॥ १ ॥

मूलम्

यथा मे मनसः सौख्यं भविष्यति सुशोभनम्
तथा कुरुष्व शेषाद्य त्वन्मुखान्निःसृतामृतम्
पिबतस्तृप्तिरेव स्याद्यया संसृतिकृं तनम् ॥ २ ॥

शेष उवाच
मिथिलायां महापुर्यां जनको नाम भूपतिः
तस्यां करोति सद्राज्यं धर्मेणाराधयन्प्रजाः ॥ ३ ॥

तस्य सङ्कर्षतो भूमिं सीतया दीर्घमुख्यया
सीरध्वजस्य निरगात्कुमारी ह्यतिसुन्दरी ॥ ४ ॥

तदात्यन्तं मुदं प्राप्तः सीरकेतुर्महीपतिः
सीता नामाकरोत्तस्या मोहिन्या जगतः श्रियः ॥ ५ ॥

सैकदोद्यानविपिने खेलन्ती सुमनोहरा
अपश्यत्स्वमनःकान्तं शुकशुक्योर्युगं वदत् ॥ ६ ॥

अत्यन्तं हर्षमापन्नमत्यन्तं कामलोलुपम्
परस्परं भाषमाणं स्नेहेन शुभया गिरा ॥ ७ ॥

रममाणं तदा युग्मं नभसि क्षिप्रवेगतः
समुत्पतन्नगोपस्थे स्थितं शब्दं चकार तत् ॥ ८ ॥

रामो महीपतिर्भूमौ भविष्यति मनोहरः
तस्य सीतेति नाम्ना तु भविष्यति महेलिका ॥ ९ ॥

स तया सह वर्षाणां सहस्राण्येकयुग्दश
राज्यं करिष्यते धीमान्कर्षन्भूमिपतीन्बली ॥ १० ॥

धन्या सा जानकी देवी धन्योऽसौ रामसञ्ज्ञितः
यौ परस्परमापन्नौ पृथिव्यां रंस्यतो मुदा ॥ ११ ॥

इति सम्भाष्यमाणं तु शुकयुग्मं तु मैथिली
ज्ञात्वेदं देवतायुग्मं वाणीं तस्य विलोक्य च ॥ १२ ॥

मदीयास्तु कथा रम्याः कुरुते शुकयोर्युगम्
एतद्गृहीत्वा पृच्छामि सर्वं वाक्यं गतार्थकम् ॥ १३ ॥

एवं विचार्य सा स्वीयाः सखीः प्रतिजगाद ह
गृह्णन्तु शनकैरेतत्पक्षियुग्मं मनोहरम् ॥ १४ ॥

सख्यस्तास्तद्गिरिं गत्वा गृह्णन्पक्षियुगं वरम्
निवेदयामासुरिदं स्वसख्याः प्रियकाम्यया ॥ १५ ॥

बहुधा विविधाञ्छब्दान्कुर्वद्वीक्ष्य मनोहरम्
आश्वासयामास तदा पप्रच्छ तदिदं वचः ॥ १६ ॥

सीतोवाच
मा भैषातां युवां रम्यौ कौ वां कुत्र समागतौ
को रामः का च सा सीता तज्ज्ञानं तु कुतः स्मृतम् ॥ १७ ॥

तत्सर्वं शंसतं क्षिप्रं मत्तो वां व्येतु यद्भयम्
इति पृष्टं तया पक्षियुगं सर्वमशंसत ॥ १८ ॥

पक्षियुग्ममुवाच
वाल्मीकिरास्ते सुमहानृषिर्धर्मविदुत्तमः
आवां तदाश्रमस्थाने सर्वदा सुमनोहरे ॥ १९ ॥

सशिष्यान्गापयामास भावि रामायणं मुनिः
प्रत्यहं तत्पदस्मारी सर्वभूतहिते रतः ॥ २० ॥

तदावाभ्यां श्रुतं सर्वं भावि रामायणं महत्
मुहुर्मुहुर्गीयमानमायातं परिपाठतः ॥ २१ ॥

शृण्वावां तेऽभिधास्यावो यो रामो या च जानकी
यद्यद्भविष्यते तस्या रामेण क्रीडितात्मना ॥ २२ ॥

ऋष्यशृङ्गकृतेष्ट्यां च चतुर्धा त्वङ्गतो हरिः
प्रादुर्भविष्यति श्रीमान्सुरस्त्रीगीतसत्कथः ॥ २३ ॥

स कौशिकेन मिथिलां प्राप्स्यते भ्रातृसंयुतः
धनुष्पाणिस्तदा दृष्ट्वा दुर्ग्राह्यमन्यभूभुजाम् ॥ २४ ॥

धनुर्भङ्क्त्वा जनकजां प्राप्स्यते सुमनोहराम्
तया सह महद्राज्यं करिष्यति श्रुतं वरे ॥ २५ ॥

एतदन्यच्च तत्रस्थैः श्रुतमस्माभिरुद्गतैः
कथितं तव चार्वङ्गि मुञ्चावां गन्तुकामुकौ ॥ २६ ॥

इति वाक्यं तयोर्धृत्वा श्रोत्रयोः सुमनोहरम्
पुनरेवजगादेदं वाक्यं पक्षियुगं प्रति ॥ २७ ॥

स रामः कुत्र वर्तेत कस्य पुत्रः कथं तु ताम्
परिग्रहीष्यति वरः कीदृग्रूपधरो नरः ॥ २८ ॥

मया पृष्टमिदं सर्वं कथयन्तु यथातथम्
पश्चात्सर्वं करिष्यामि प्रियं युष्मन्मनोहरम् ॥ २९ ॥

तच्छ्रुत्वा तां तु कामेन पीडितां वीक्ष्य सा शुकी
जानकीं हृदये ज्ञात्वा पपाठ पुरतस्ततः ॥ ३० ॥

सूर्यवंशध्वजो धीमान्राजा पङ्क्तिरथो बली
यं देवाः श्रित्य सर्वारीन्विजेष्यन्ति च सर्वशः ॥ ३१ ॥

तस्य भार्यात्रयं भावि शक्रमोहनरूपधृक्
तस्मिन्नपत्य चातुष्कं भविष्यति बलोन्नतम् ॥ ३२ ॥

सर्वेषामग्रजो रामो भरतस्तदनुस्मृतः
लक्ष्मणस्तदनु श्रीमाञ्छत्रुघ्नः सर्वतो बली ॥ ३३ ॥

रघुनाथ इति ख्यातिं गमिष्यति महामनाः
तेषामनन्तनामानि रामस्य बलिनः सखि ॥ ३४ ॥

मूलम्

रघुनाथ इति ख्यातिं गमिष्यति महामनाः
तेषामनन्तनामानि रामस्य बलिनः सखि ॥ ३४ ॥

विश्वास-प्रस्तुतिः

पद्मकोश इव शोभनं मुखं
पङ्कजाभनयने सुदीर्घके
उन्नता पृथुमनोहरा नसा
वल्गुसङ्गत मनोहरे भ्रुवौ ॥ ३५ ॥

मूलम्

पद्मकोश इव शोभनं मुखं
पङ्कजाभनयने सुदीर्घके
उन्नता पृथुमनोहरा नसा
वल्गुसङ्गत मनोहरे भ्रुवौ ॥ ३५ ॥

विश्वास-प्रस्तुतिः

जानुलम्बित मनोहरौ भुजौ
कम्बुशोभिगलकोऽतिह्रस्वकः
सत्कपाटतलविस्तृतश्रिकं
वक्ष एतदमलं सलक्ष्मकम् ॥ ३६ ॥

मूलम्

जानुलम्बित मनोहरौ भुजौ
कम्बुशोभिगलकोऽतिह्रस्वकः
सत्कपाटतलविस्तृतश्रिकं
वक्ष एतदमलं सलक्ष्मकम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

शोभनोरुकटिशोभया युतं
जानुयुग्मममलं स्वसेवितम्
पादपद्ममखिलैर्निजैः सदा
सेवितं रघुपतिं सुशोभनम् ॥ ३७ ॥

मूलम्

शोभनोरुकटिशोभया युतं
जानुयुग्मममलं स्वसेवितम्
पादपद्ममखिलैर्निजैः सदा
सेवितं रघुपतिं सुशोभनम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

एतद्रूपधरो रामो मया किं तु स वर्ण्यते
शताननोपि नो याति पक्षिणः किमु मादृशाः ॥ ३८ ॥

यद्रूपं वीक्ष्य ललिता मनोहरवपुर्धरा
लक्ष्मीर्मुमोह भुविका वर्तते या न मोहति ॥ ३९ ॥

महाबलो महावीर्यो महामोहनरूपधृक्
किं वर्णयामि श्रीरामं सर्वैश्वर्यगुणान्वितम् ॥ ४० ॥

धन्या सा जानकीदेवी महामोहनरूपधृक्
रंस्यते येन सहिता वर्षाणामयुतं मुदा ॥ ४१ ॥

त्वं कासि किं तु नामासि बत सुन्दरि यत्तु माम्
परिपृच्छसि वैदग्ध्याद्रामकीर्तनमादरात् ॥ ४२ ॥

एतद्वाक्यं समाकर्ण्य जानकी पक्षिणोर्युगम्
उवाच जन्मललितं शंसन्ती स्वस्य मोहनम् ॥ ४३ ॥

या त्वया जानकी प्रोक्ता साहं जनकपुत्रिका
स रामो मां यदाभ्येत्य प्राप्स्यते सुमनोहरः ॥ ४४ ॥

तदा वां मोचयाम्यद्धानान्यथा वाक्यलोभिता
लालयामि सुखेनास्तां मद्गेहे मधुराक्षरौ ॥ ४५ ॥

इत्युक्तं तत्समाकर्ण्य वेपतुर्भयतां गतौ
परस्परं प्रक्षुभितौ जानकीमित्यवोचताम् ॥ ४६ ॥

वयं वै पक्षिणः साध्वि वनस्था वृक्षगोचराः
परिभ्रमाम सर्वत्र नो सुखं नो भवेद्गृहे ॥ ४७ ॥

अन्तर्वत्नी स्वके स्थाने गत्वा संसूय पुत्रकान्
त्वत्स्थानमागमिष्यामि सत्यं मे ह्युदितं वचः ॥ ४८ ॥

एवं प्रोक्ता तया सा तु न मुमोच शुकीं स्वयम्
तदापतिस्तां प्रोवाच विनीतवदनुत्सुकः ॥ ४९ ॥

सीते मुञ्च कथं भार्यां रक्षसे मे मनोहरीम्
आवां गच्छाव विपिने विचरावः सुखं वने ॥ ५० ॥

अन्तर्वत्नी तु वर्तेत भार्या मम मनोरमा
तस्याः प्रसूतिं कृत्वा त्वामागमिष्यामि शोभने ॥ ५१ ॥

इत्युक्ता निजगादेमं सुखं गच्छ महामते
एतां रक्षामि सुखिनीं मत्पार्श्वे प्रियकारिणीम् ॥ ५२ ॥

इत्युक्तो दुःखितः पक्षी तामूचे करुणान्वितः
योगिभिः प्रोच्यते यद्वै तद्वचस्तथ्यमेव हि ॥ ५३ ॥

न वक्तव्यं न वक्तव्यं मौनमाश्रित्य तिष्ठताम्
नोचेत्स वाक्यदोषेण प्राप्नोत्यालानमुन्मदः ॥ ५४ ॥

वयं चेदत्र वाक्यं नाकरिष्याम नगोपरि
बन्धनं कथमावां स्यात्तस्मान्मौनं समाचरेत् ॥ ५५ ॥

इत्युक्त्वा तां प्रत्युवाच नाहं जीवामि सुन्दरि
एतया भार्यया सीते तस्मान्मुञ्च मनोहरे ॥ ५६ ॥

अनेकविधवाक्यैः सा बोधिता नामुचत्तदा
कुपिता दुःखिता भार्या शशाप जनकात्मजाम् ॥ ५७ ॥

यथा त्वं पतिना सार्धं वियोजयसि मामितः
तथा त्वमपि रामेण वियुक्ता भव गर्भिणी ॥ ५८ ॥

इत्युक्तवत्यां तस्यां तु दुःखितायां पुनः पुनः
प्राणा निरगमन्दुःखात्पतिदुःखेन पूरितात् ॥ ५९ ॥

रामं रामं स्मरन्त्याश्च वदन्त्यांश्च पुनः पुनः
विमानमागतं सुष्ठु पक्षिणी स्वर्गता बभौ ॥ ६० ॥

तस्यां मृतायां दुःखार्तो भर्ता तस्याः स पक्षिराट्
परमं क्रोधमापन्नो जाह्नव्यां दुःखितोऽपतत् ॥ ६१ ॥

तथा भवामि रामस्य नगरे जनपूरिते
मद्वाक्यादियमुद्विग्ना वियोगेन सुदुःखिता ॥ ६२ ॥

इत्युक्त्वा स पपातोदे जाह्नव्या भ्रमशोभिते
दुःखितः कुपितो भीतस्तद्वियोगेन कम्पितः ॥ ६३ ॥

क्रुद्धत्वाद्दुःखितत्वाच्च सीताया अपमाननात्
अन्त्यजत्वं परं प्राप्तो रजकः क्रोधनाभिधः ॥ ६४ ॥

यः क्रोधाच्च स्वकान्प्राणान्महतां दुष्टमाचरन्
सन्त्यजेत्स मृतो याति अन्त्यजत्वं द्विजोत्तमः ॥ ६५ ॥

तज्जातं रजकोक्त्यासौ निन्दिता च वियोगिता
रजकस्य च शापेन वियुक्ता सा वनं गता ॥ ६६ ॥

एतत्ते कथितं विप्र यत्ते पृष्टं विदेहजाम्
पुनरत्र परं वृत्तं शृणुष्व निगदामि तत् ६७