०५६

शेष उवाच

विश्वास-प्रस्तुतिः

प्रातर्नित्यं विधायासौ ब्राह्मणान्वेदवित्तमान्
हिरण्यदानैः सन्तर्प्य विधिवत्संसदं ययौ ॥ १ ॥

मूलम्

लोकाः सर्वे नमस्कर्तुं रघुनाथं महीपतिम्
पुत्रवत्स्वप्रजाः सर्वाः पालयन्तं ययुः सभाम् ॥ २ ॥

लक्ष्मणेनातपत्रं तु धृतं मूर्धनि भूपतेः
तदा भरतशत्रुघ्नौ चामरद्वन्द्व धारिणौ ॥ ३ ॥

वसिष्ठप्रमुखास्तत्र मुनयः पर्युपासत
सुमन्त्रप्रमुखास्तत्र मन्त्रिणो न्यायकर्तृकाः ॥ ४ ॥

एवं प्रवृत्ते समये षट्चारास्ते स्वलङ्कृताः
समाजग्मुर्नरपतिं नमस्कर्तुं सभास्थितम् ॥ ५ ॥

तान्वक्तुकामान्संवीक्ष्य चारान्नृपतिसत्तमः
सभायामन्तरावेश्म रहः प्राविशदुत्सुकः ॥ ६ ॥

एकान्ते तांश्चरान्सर्वान्पप्रच्छ सुमतिर्नृपः
कथयन्तु चरा मह्यं यथातथ्यमरिन्दमाः ॥ ७ ॥

लोका ब्रुवन्ति मां कीदृग्भार्याया मम कीदृशम्
मन्त्रिणां कीदृशं लोका वदन्ति चरितं कथम् ॥ ८ ॥

इति वाक्यं समाकर्ण्य चारा राममथाब्रुवन्
मेघगम्भीरया वाचा पृच्छन्तं रघुनायकम् ॥ ९ ॥

चारा ऊचुः
नाथ कीर्तिर्जनान्सर्वान्पावयत्यधुना भुवि
गृहेगृहे श्रुतास्माभिः पुरुषैः स्त्रीभिरीडिता ॥ १० ॥

विवस्वतो महान्वंशो भवता परमेष्ठिना
अलङ्कर्तुं गतं भूमौ कीर्तिर्विस्तारिता बहुः ॥ ११ ॥

अनेके सगराद्याश्च कीर्तिमन्तो महाबलाः
अभवंस्तादृशी कीर्तिस्तेषां नाभूद्यथा तव ॥ १२ ॥

त्वया नाथेन सकलाः कृतार्थाश्च प्रजाः कृताः
यासां नाकालमरणं न च रागाद्युपद्रुतिः ॥ १३ ॥

यादृशश्चन्द्रमालोके यादृशी जाह्नवी सरित्
तादृक्तव च सत्कीर्तिः प्रकाशयति भूतलम् ॥ १४ ॥

ब्रह्मादिका भवत्कीर्तिमाकर्ण्य त्रपिता भृशम्
नाथ सर्वत्र ते कीर्तिः पावयत्यधुना जनान् ॥ १५ ॥

वयं धन्यतमाः सर्वे ये चारास्तव भूपते
क्षणेक्षणे तव मुखं लोकयाम मनोहरम् ॥ १६ ॥

इत्यादिवाक्यं चाराणां पञ्चानां वीक्ष्य राघवः
षष्ठं पप्रच्छ चारं तं विलक्षणमुखाङ्कितम् ॥ १७ ॥

राम उवाच
सत्यं वद महाबुद्धे यच्छ्रुतं लोकसङ्करे
तादृक्प्रशंस मे सर्वमन्यथा पातकादिकृत् ॥ १८ ॥

पुनः पुनश्च तं रामः पप्रच्छाशु सविस्तरम्
तथापि न ब्रवीत्येव रामं लौकिकभाषितम् ॥ १९ ॥

तदा रामः प्रत्यवोचच्चारं मुखविलक्षितम्
शपामि त्वां तु सत्येन शंस सर्वं यथातथम् ॥ २० ॥

तदा रामं प्रत्युवाच चारो वाक्यं शनैः शनैः
अकथ्यमपि ते वाच्यं वाक्यं कारुजनोदितम् ॥ २१ ॥

चार उवाच
स्वामिन्सर्वत्र ते कीर्तिर्दशाननवधादिका
अन्यत्र राक्षसगृहे स्थितायास्ते स्त्रिया अहो ॥ २२ ॥

कारुरेकस्तु रजको निशीथे महिलां स्वकाम्
अन्यगेहोषितां दृष्ट्वा धिक्कुर्वन्समताडयत् ॥ २३ ॥

तन्माता प्रत्युवाचेमां कथं ताडयसेऽनघाम्
गृहाण मा कृथा निन्दां स्त्रियं मद्वाक्यमाचर ॥ २४ ॥

तदावोचत्स रजको नाहं रामो महीपतिः
यद्राक्षसगृहेध्युष्टां सीतामङ्गीचकार सः ॥ २५ ॥

सर्वं राज्ञः कृतं कर्म नीतिमद्भवति प्रभो
अन्येषां पुण्यकर्तॄणामपि कृत्यमनीतिमत् ॥ २६ ॥

पुनः पुनरुवाचासौ नाहं रामो महीपतिः
चुक्रुधे समये राजन्मया वाक्यं तव स्मृतम् ॥ २७ ॥

तदानीं शिर आच्छिद्य पातयामि महीतले
कृतः पुनर्विचारोमे क्व रामो रजकः क्व नु ॥ २८ ॥

अयं दुष्टोऽनृतं वक्ति न हीदं तथ्यमुच्यते
आज्ञापयसि चेद्राम साम्प्रतं मारयामि तम् ॥ २९ ॥

अवाच्यमपि ते प्रोक्तं त्वदाग्रहत उन्नयम्
राजा प्रमाणमत्रेदं विचारयतु सङ्गतम् ॥ ३० ॥

इति वाक्यं समाकर्ण्य महावज्रनिभाक्षरम्
निःश्वसन्मुहुरुच्छ्वासमाचरन्मूर्च्छितोऽपतत् ॥ ३१ ॥

तं मूर्च्छितं नृपं दृष्ट्वा चारा दुःखसमन्विताः
वीजयामासुर्वासोग्रैर्दुःखापनय हेतवे ॥ ३२ ॥

स लब्धसञ्ज्ञो नृपतिर्मुहूर्तेन जगाद तान्
गच्छन्तु भरतं शीघ्रं प्रेषयन्तु च मां प्रति ॥ ३३ ॥

ते दुःखिताश्चरास्तूर्णं भरतस्य गृहं गताः
कथयामासु रामस्य सन्देशं नयहारकाः ॥ ३४ ॥

भरतो रामसन्देशं श्रुत्वा धीमान्ययौ सदः
रामं प्रति रहःसंस्थं श्रुत्वा तं त्वरया युतः ॥ ३५ ॥

आगत्य तं प्रतीहारं प्रत्युवाच महामनाः
कुत्रास्ते रामभद्रोऽसौ मम भ्राता कृपानिधिः ॥ ३६ ॥

तन्निर्दिष्टं गृहं वीरो ययौ रत्नमनोहरम्
रामं विलोक्य विक्लान्तं भयमाप स मानसे ॥ ३७ ॥

किं वासौ कुपितो रामः किं वा दुःखमिदं विभोः
तदा प्रोवाच नृपतिं निःश्वसन्तं मुहुर्मुहुः ॥ ३८ ॥

स्वामिन्सुखसमाराध्यं वक्त्रं ते कथमानतम्
अश्रुभिर्लक्ष्यते राहुग्रस्तदेहः शशीव ते ॥ ३९ ॥

सर्वं मे कारणं तथ्यं ब्रूहि मां किं करोमि ते
त्यज दुःखं महाराज कथं दुःखस्य भाजनम् ॥ ४० ॥

एवं भ्रात्रा प्रोच्यमानो गद्गदस्वरया गिरा
प्रोवाच भ्रातरं वीरो रामचन्द्रश्च धार्मिकः ॥ ४१ ॥

शृणु भ्रातर्वचो मह्यं मम दुःखस्य कारणम्
तन्मार्जनं कुरुष्वाद्य भ्रातः प्रातर्महामते ॥ ४२ ॥

वंशे वैवस्वते राजा न कश्चिदयशः क्षतः
मत्कीर्तिरद्य कलुषा गङ्गायमुनया गता ॥ ४३ ॥

येषां यशो नृणां भूमौ तेषामेव सुजीवितम्
अपकीर्तिक्षतानां तु जीवितं मृतकैः समम् ॥ ४४ ॥

येषां यशो भवेद्भूमौ तेषां लोकाः सनातनाः
अपकीर्त्युरगी दष्टास्तेषां भूयादधोगतिः ॥ ४५ ॥

अद्य मे कलुषा कीर्तिः स्वर्धुनी लोकविश्रुता
तच्छृणुष्व वचो मेऽद्य रजकेन यथोदितम् ॥ ४६ ॥

अस्मिन्पुरेऽद्य रजक उक्तवाञ्जानकीभवम्
किञ्चिद्वाच्यं ततो भ्रातः किं करोमि महीतले ॥ ४७ ॥

किमात्मानं जहाम्यद्य किमेनां जानकीं स्त्रियम्
उभयोः किं मया कार्यं तत्तथ्यं ब्रूहि मे भवान् ॥ ४८ ॥

इत्युक्त्वा निर्गलद्बाष्पो वेपथु क्षुभिताङ्गकः
पपात भूमौ विरजो धार्मिकाणां शिरोमणिः ॥ ४९ ॥

भ्रातरं पतितं दृष्ट्वा भरतो दुःखसंयुतः
संवीक्ष्य शनकै रामं प्राप्तसञ्ज्ञं चकार सः ॥ ५० ॥

सञ्ज्ञां प्राप्तं तु संवीक्ष्य रामचन्द्रं सुदुःखितम्
उवाच दुःखनाशाय वाक्यं तु सुमनोहरम् ॥ ५१ ॥

कोऽयं वै रजकः किन्तु वाच्यं वाक्यं यथाब्रवीत्
जिह्वाच्छेदं करिष्यामि जानकीवाच्यकारिणः ॥ ५२ ॥

तदा रामोऽब्रवीद्वाक्यं रजकस्य मुखोद्गतम्
श्रुतं चारेण तत्सर्वं भरताय महात्मने ॥ ५३ ॥

तच्छ्रुत्वा भरतः प्राह भ्रातरं दुःखशोकिनम्
जानकीवह्निशुद्धाभूल्लङ्कायां वीरपूजिता ॥ ५४ ॥

ब्रह्माब्रवीदियं शुद्धा पिता दशरथस्तव
कथं सा रजकोक्तित्वाद्धातव्या लोकपूजिता ॥ ५५ ॥

ब्रह्मादिसंस्तुता कीर्तिस्तवलोकान्पुनाति हि
सा कथं रजकोक्त्या वै कलुषाद्य भविष्यति ॥ ५६ ॥

तस्मात्त्यज महादुःखं सीतावाच्यसमुद्भवम्
कुरु राज्यं तया सार्धमन्तर्वत्न्या सुभाग्यया ॥ ५७ ॥

त्वं कथं स्वशरीरं तु हातुमिच्छसि शोभनम्
वयं हताः स्म सर्वेऽद्य त्वां विना दुःखनाशकम् ॥ ५८ ॥

क्षणं सीता न जीवेत त्वां विना सुमहोदया
तस्मात्पतिव्रता साकं भुनक्तु विपुलां श्रियम् ॥ ५९ ॥

इति वाक्यं समाकर्ण्य भरतस्य च धार्मिकः
पुनरेव जगादेमं वाक्यं वाक्यविदां वरः ॥ ६० ॥

यत्त्वं कथयसि भ्रातस्तत्सर्वं धर्मसंयुतम्
परं यद्वच्म्यहं वाक्यं तत्कुरुष्व ममाज्ञया ॥ ६१ ॥

जानाम्येनां वह्निशुद्धां पवित्रां लोकपूजिताम्
लोकापवादाद्भीतोऽहं त्यजामि स्वां तु जानकीम् ॥ ६२ ॥

तस्मात्करे शितं धृत्वा करवालं सुदारुणम्
शिरश्छिन्ध्यथवा जायां जानकीं मुञ्च वै वने ॥ ६३ ॥

इति वाक्यं समाकर्ण्य रामस्य भरतोऽपतत्
मूर्च्छितः सन्क्षितौ देहे कम्पयुक्तः सबाष्पकः ॥ ६४ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
भरतवाक्यन्नाम षट्पञ्चाशत्तमोऽध्यायः ५६