व्यास उवाच
विश्वास-प्रस्तुतिः
एतां श्रुत्वा कथां रम्यां लवस्य बलिनो मुनिः
संशयानः पर्यपृच्छन्नागं दशशताननम् ॥ १ ॥
मूलम्

श्रीवात्स्यायन उवाच
त्वयोक्तं तु पुरा रामः सीतामेकाकिनीं वने
रजकस्य दुरुक्त्यासौ तत्याज महि लोलुपः ॥ २ ॥

जानक्यां क्व सुतौ जातौ क्व धनुर्धरतां गतौ
कथं च शिक्षिता विद्या यो रामहयमाहरत् ॥ ३ ॥

इति श्रुत्वा मुनेर्वाक्यं शेषो नागो महामतिः
प्रशस्य विप्रं जगदे रामचारित्रमद्भुतम् ॥ ४ ॥

शेष उवाच
रामो राज्यमयोध्यायां भ्रातृभिः सहितोऽकरोत्
धर्मेण पालयन्सर्वं क्षितिखण्डं स्वया स्त्रिया ॥ ५ ॥

सीता दधार तद्वीर्यं मासाः पञ्चाभवंस्तदा
अत्यन्तं शुशुभे देवी त्रयीव पुरुषं धरा ॥ ६ ॥

कदाचित्समये रामः पप्रच्छ च विदेहजाम्
कीदृशो दोहदः साध्वि मया ते साध्यते हि सः ॥ ७ ॥

रहस्येव तु सा पृष्टा त्रपमाणा पतिं सती
लज्जा गद्गद वाग्रामं निजगाद वचोऽमृतम् ॥ ८ ॥

सीतोवाच
त्वत्कृपातो मया सर्वं भुक्तं भोक्ष्यामि शोभनम्
न कश्चिन्मानसे कान्त विषयो ह्यतिरिच्यते ॥ ९ ॥

यस्याभवादृशः स्वामी देवसंस्तुतसत्पदः
तस्याः सर्वं वरीवर्ति न किञ्चिदवशिष्यते ॥ १० ॥

त्वमाग्रहात्पृच्छसि मां दोहदं मनसि स्थितम्
ब्रवीमि पुरतः सत्यं तव स्वामिन्मनोहर ॥ ११ ॥

चिरं जातं मया सत्यो लोपामुद्रादिकाः स्त्रियः
दृष्ट्वा स्वामिन्मनो द्रष्टुं ता उत्सुकति सुन्दरीः ॥ १२ ॥

राज्यं प्राप्ता त्वया सार्द्धमनेकसुखमास्थिता
कृतघ्नाहं कदापीह ता नमस्कर्तुमानसा ॥ १३ ॥

तत्र गत्वा तपःकोशान्वस्त्राद्यैः परिपूजये
रत्नानि चैव भास्वन्ति भूषा अपि समर्पये ॥ १४ ॥

यथा मे तोषिताः सत्यो ददत्याशीर्मनोहराः
एष मे दोहदः कान्त परिपूरय मानसः ॥ १५ ॥
मूलम्
यथा मे तोषिताः सत्यो ददत्याशीर्मनोहराः
एष मे दोहदः कान्त परिपूरय मानसः ॥ १५ ॥
विश्वास-प्रस्तुतिः
इत्थमाकर्ण्य वचनं सीतायाः सुमनोहरम्
जगाद परमप्रीतो रामचन्द्रः प्रियां प्रति ॥ १६ ॥

धन्यासि जानकी प्रातर्गमिष्यसि तपोधनाः
प्रेक्ष्यतास्तु कृतार्था त्वमागमिष्यसि मेंऽतिकम् ॥ १७ ॥

इति रामवचः श्रुत्वा परमां प्रीतिमाप सा
प्रातर्मम भवत्यद्धा तापसीनां समीक्षणम् ॥ १८ ॥

अथ तन्निशि रामेण चाराः कीर्तिं निजां श्रुताम्
प्रेक्षितुं प्रेषितास्ते तु निशीथे ह्यगमनञ्छनैः ॥ १९ ॥

ते प्रत्यहं रामकथाः शृण्वन्तः सुमनोहराः
तद्दिने गतवन्तस्तु धनाढ्यस्य गृहं महत् ॥ २० ॥

दीपं वीक्ष्य प्रज्वलन्तं वचनं वीक्ष्य मानुषम्
स्थितास्तत्र क्षणं चाराः समशृण्वन्यशो भृशम् ॥ २१ ॥

तत्र काचन वामाक्षी बालकं प्रति हर्षिता
स्तनं धयन्तं निजगौ वाक्यं तु सुमनोहरम् ॥ २२ ॥

पिब पुत्र यथेष्टं त्वं स्तन्यं मम मनोहरम्
पश्चात्तव सुदुष्प्रापं भविष्यति ममात्मज ॥ २३ ॥

एतत्पुर्याः पती रामो नीलोत्पलदलप्रभः
तत्पुरीस्थजनानां तु न भविष्यति वै जनुः ॥ २४ ॥

जन्माभावात्कथं पानं स्तन्यस्य भुवि जायते
तस्मात्पिब मुहुः स्तन्यं दुर्ल्लभं हृदि मन्य च ॥ २५ ॥

ये श्रीरामं स्मरिष्यन्ति ध्यायन्ति च वदन्ति ये
तेषामपि पयःपानं न भविष्यति जातुचित् ॥ २६ ॥

इत्यादिवाक्यं संश्रुत्य श्रीरामयशसोऽमृतम्
हर्षिताः प्रययुर्गेहमन्यद्भाग्यवतो महत् ॥ २७ ॥

तावदन्यश्चरस्तत्र मनोरममिदं गृहम्
मत्वा तिष्ठन्हि रामस्य क्षणं शुश्रूषया यशः ॥ २८ ॥

तत्र काचिन्निजं कान्तं पर्यङ्कोपरि सुस्थितम्
ताम्बूलं चर्वती दत्तं भर्त्तास्नेहेन सुन्दरी ॥ २९ ॥

कङ्कणस्वरशोभाढ्या कर्पूरागरुधूपिता
कान्तं वीक्ष्य चलन्नेत्रा कामरूपमवोचत ॥ ३० ॥

नाथ त्वं तादृशो मह्यं भासि यादृग्रघोः पतिः
अत्यन्तं सुन्दरतरं वपुर्बिभ्रत्सुकोमलम् ॥ ३१ ॥

पद्मप्रान्तं नेत्रयुग्मं वक्षो मोहनविस्तृतम्
भुजौ च साङ्गदौ बिभ्रत्साक्षाद्राम इवासि मे ॥ ३२ ॥

इति वाक्यं समाकर्ण्य कान्तायाः सुमनोहरम्
उवाच नेत्रयोः प्रान्तं नर्तयन्कामसुन्दरः ॥ ३३ ॥

शृणु कान्ते त्वया प्रोक्तं साध्व्या तु सुमनोहरम्
पतिव्रतानां तद्योग्यं स्वकान्तो राम एव हि ॥ ३४ ॥

परं क्वाहं मन्दभाग्यः क्व रामो भाग्यवान्महान्
क्व चाहं कीटवत्तुच्छः क्व ब्रह्मादिसुरार्चितः ॥ ३५ ॥

खद्योतः क्व नभोरत्नं शलभः क्व नु पामरः
गजारिः क्व मृगेन्द्रोऽसौ शशकः क्व नु मन्दधीः ॥ ३६ ॥

क्व च सा जाह्नवी देवी क्व रथ्या जलमुत्पथम्
क्व मेरुः सुरसंवासः क्व गुञ्जापुञ्जकोल्पकः ॥ ३७ ॥

तथाहं क्व क्व रामोऽसौ यत्पादरजसाङ्गना
शिलीभूता क्षणाज्जाता ब्रह्ममोहनरूपधृक् ॥ ३८ ॥

इति वाक्यं प्रब्रुवाणं परिरेभे निजं पतिम्
जातकामा हृतप्रेम्णा नर्तित भ्रू धनुर्धरा ॥ ३९ ॥

इत्यादि वाक्यं संश्रुत्य गतश्चान्यनिवेशनम्
तावदन्यश्चरो वाक्यं शुश्राव यशसान्वितम् ॥ ४० ॥

काचित्पुष्पमयीं शय्यां चन्दनं सह चन्द्रकम्
सर्वं विधाय कामार्हं जगाद वचनं पतिम् ॥ ४१ ॥

पते कुरुष्व भोगार्हे शयनं पुष्पमञ्चके
चन्दनादिकलेपं च तथा भोगमनेकधा ॥ ४२ ॥
मूलम्
पते कुरुष्व भोगार्हे शयनं पुष्पमञ्चके
चन्दनादिकलेपं च तथा भोगमनेकधा ॥ ४२ ॥
विश्वास-प्रस्तुतिः
त्वादृशा एव भोगार्हा न च रामपराङ्मुखाः
सर्वं रामकृपाप्राप्तमुपभुङ्क्ष्व यथातथम् ॥ ४३ ॥

मत्सदृशी कामिनी ते चन्दनं तापहारकम्
पर्यङ्कः पुष्परचितः सर्वं रामकृपाभवम् ॥ ४४ ॥

ये रामं न भजिष्यन्ति ते नरा जठरं स्वयम्
न भर्तुं शक्नुवन्त्येव वस्त्रभोगादि वर्जिताः ॥ ४५ ॥

इति ब्रुवन्तीं महिलां हर्षितः पतिरब्रवीत्
सर्वं तथ्यं ब्रवीषि त्वं मम रामकृपाभवम् ॥ ४६ ॥

इत्येवं रामभद्रस्य यशः श्रुत्वा गतश्चरः
तावदन्यस्य वेश्मस्थश्चरोऽन्य शुश्रुवे वचः ॥ ४७ ॥

काचित्कान्तेन पर्यङ्के वीणावादनतत्परा
कान्तेन रामसत्कीर्तिं गायमाना पतिं जगौ ॥ ४८ ॥

स्वामिन्वयं धन्यतमा येषां पुर्याः पतिः प्रभुः
श्रीरामः स्वप्रजाः पुत्रानिव पाति च रक्षकः ॥ ४९ ॥

यो महत्कर्मदुःसाध्यं कृतवान्सुलभं न तत्
समुद्रं यो निजग्राह सेतुं तत्र बबन्ध च ॥ ५० ॥

रावणं यो रिपुं हत्वा लङ्कां सम्भज्य वानरैः
जानकीमाजहारात्र महदाचारमाचरत् ॥ ५१ ॥

इति प्रोक्तं समाकर्ण्य वचः सुमधुराक्षरम्
पतिः स्मितं चकारेमां वाक्यं पुनरथाब्रवीत् ॥ ५२ ॥

मुग्धेनेदं महत्कर्म रामचन्द्रस्य भामिनी
दशाननवधादीनि समुद्र दमनानि च ॥ ५३ ॥
मूलम्
मुग्धेनेदं महत्कर्म रामचन्द्रस्य भामिनी
दशाननवधादीनि समुद्र दमनानि च ॥ ५३ ॥
विश्वास-प्रस्तुतिः
लीलयायोऽवनिं प्राप्तो ब्रह्मादिप्रार्थितो महान्
करोति सच्चरित्राणि महापापहराणि च ॥ ५४ ॥

मा जानीहि नरं रामं कौसल्यानन्ददायकम्
सृजत्यवति हन्त्येतद्विश्वं लीलात्तमानुषः ॥ ५५ ॥

धन्या वयं ये रामस्य पश्यामो मुखपङ्कजम्
ब्रह्मादिसुरदुर्दर्शं महत्पुण्यकृतो वयम् ॥ ५६ ॥

अशृणोद्रामचन्द्रस्य चरित्रं श्रुतिसौख्यदम्
इत्यादिवाक्यं शुश्राव चारो द्वारिस्थितो मुहुः ॥ ५७ ॥

अन्यो ह्यन्यं गृहं गत्वा तस्थौ श्रोतुं हरेर्यशः
तत्रापि रामभद्रस्य यशः शुश्राव शोभनम् ॥ ५८ ॥

खेलन्ती स्वामिना सार्धं द्यूतेन सुमनोहरा
उवाच वाक्यं मधुरं नर्तयन्तीव कङ्कणे ॥ ५९ ॥

जितं मया कान्त जवेन सर्वं
करिष्यसि त्वं किमु हारिमानसः
इत्यादि वाक्यं परिहासपूर्वकं
कृत्वा स्वकान्तं परिषस्वजे मुदा ॥ ६० ॥
मूलम्
जितं मया कान्त जवेन सर्वं
करिष्यसि त्वं किमु हारिमानसः
इत्यादि वाक्यं परिहासपूर्वकं
कृत्वा स्वकान्तं परिषस्वजे मुदा ॥ ६० ॥
विश्वास-प्रस्तुतिः
उवाच कान्तश्चार्वङ्गि जितमेव सुशोभने
रामं मे स्मरतो नित्यं न कुत्रापि पराजयः ॥ ६१ ॥

इदानीं त्वां तु जेष्यामि रामं स्मृत्वा मनोहरम्
देवा यथा पुरा स्मृत्वा दितिजानजयन्क्षणात् ॥ ६२ ॥

एवमुक्त्वा पाशकानां परिवर्तनमाकरोत्
तावज्जयं प्रपेदेऽसौ हर्षितो वाक्यमब्रवीत् ॥ ६३ ॥

मम प्रोक्तमृतं जातं जिता त्वं नवयौवना
रामस्मारी कदाप्येव न भवेद्रिपुतो भयी ॥ ६४ ॥

इत्येवं तौ वदन्तौ च परस्परमथोत्सुकौ
परिरभ्य दृढं प्रेम्णा ततश्चारो गतो गृहम् ॥ ६५ ॥

एवं पञ्चमहाचारा राज्ञः संश्रुत्य वै यशः
परस्परं प्रशंसन्तो गेहं स्वं स्वं ययुर्मुदा ॥ ६६ ॥

एकः षष्ठश्चरः कारुगेहानालोक्य तत्र ह
जगाम श्रोतुकामोऽसौ यशो राज्ञो महीपतेः ॥ ६७ ॥

रजकः क्रोधसंस्पृष्टो भार्यामन्यगृहोषिताम्
पदा सन्ताडयामास धिक्कुर्वञ्छोणनेत्रवान् ॥ ६८ ॥

गच्छ त्वं मद्गृहात्तस्य गेहं यत्रोषिता दिनम्
नाहं गृह्णामि भवतीं दुष्टां वचनलङ्घिनीम् ॥ ६९ ॥

तदास्य माता प्रोवाच मा त्यजैनां गृहागताम्
अपराधेन रहितां दुष्टकर्मविवर्जिताम् ॥ ७० ॥

मातरं प्रत्युवाचाथ रजकः क्रोधसंयुतः
नाहं रामइव प्रेष्ठां गृह्णाम्यन्यगृहोषिताम् ॥ ७१ ॥

स राजा यत्करोत्येव तत्सर्वं नीतिमद्भवेत्
अहं गृह्णामि नो भार्यां परवेश्मनि संस्थिताम् ॥ ७२ ॥

पुनःपुनरुवाचेदं नाहं रामो महीश्वरः
यः परस्य गृहे संस्थां जानकीं वै ररक्ष सः ॥ ७३ ॥

इति वाक्यं समाश्रुत्य चारः क्रोधपरिप्लुतः
खड्गं गृहीत्वा स्वकरे तं हन्तुं विदधे मनः ॥ ७४ ॥

स रामोक्तं च सस्मार न वध्यः कोपि मे जनः
इति ज्ञात्वा सरोषं तु सञ्जहार महामनाः ॥ ७५ ॥

तदा श्रुत्वा सुदुःखार्तः पञ्चचारा यतः स्थिताः
ततो गतः प्रकुपितो निःश्वसन्मुहुरुच्छ्वसन् ॥ ७६ ॥

ते वै परस्परं तत्र मिलितास्तु समब्रुवन्
स्वश्रुतं रामचरितं सर्वलोकैकपूजितम् ॥ ७७ ॥

ते तद्भाषितमाकर्ण्य परस्परममन्त्रयन्
न वाच्यं रघुनाथाया वाच्यं दुष्टजनोदितम् ॥ ७८ ॥

इति सम्मन्त्र्य ते गेहं गत्वा सुषुपुरुत्सुकाः
प्राता राज्ञे प्रशंसाम इति बुद्ध्या व्यवस्थिताः ॥ ७९ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
चारनिरीक्षणन्नाम पञ्चपञ्चाशत्तमोऽध्यायः ५५