शेष उवाच
विश्वास-प्रस्तुतिः
गतः प्रातःक्रियां कर्तुं समिधस्तत्क्रियार्हकाः
आनेतुं जानकीसूनुर्वृतो मुनिसुतैर्लवः ॥ १ ॥
मूलम्

ददर्श तत्र यज्ञाश्वं स्वर्णपत्रेण चिह्नितम्
कुङ्कुमागरुकस्तूरी दिव्यगन्धेन वासितम् ॥ २ ॥

विलोक्य जातकुतुको मुनिपुत्रानुवाच सः
अर्वा कस्य मनोवेगः प्राप्तो दैवान्मदाश्रमम् ॥ ३ ॥

आगच्छन्तु मया सार्धं प्रेक्षन्तां मा भयं कृथाः
इत्युक्त्वा स लवस्तूर्णं वाहस्य निकटे गतः ॥ ४ ॥

स रराज समीपस्थो वाहस्य रघुवंशजः
धनुर्बाणधरः स्कन्धे जयन्त इव दुर्जयः ॥ ५ ॥

गत्वा मुनिसुतैः सार्धं वाचयामास पत्रकम्
भालस्थितं स्पष्टवर्णराजिराजितमुत्तमम् ॥ ६ ॥

विवस्वतो महान्वंशः सर्वलोकेषु विश्रुतः
यत्र कोपि पराबाधी न परद्रव्यलम्पटः ॥ ७ ॥

सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः
यं देवाः सामराः सर्वे नमन्ति मणिमौलिभिः ॥ ८ ॥

तस्यात्मजो वीर बलदर्पहारी रघूद्वहः
रामचन्द्रो महाभागः सर्वशूरशिरोमणिः ॥ ९ ॥

तन्माता कोशलनृपपुत्रीरत्नसमुद्भवा
तस्याः कुक्षिभवं रत्नं रामः शत्रुक्षयङ्करः ॥ १० ॥

करोति हयमेधं स ब्राह्मणेन सुशिक्षितः
रावणाभिधविप्रेन्द्र वधपापापनुत्तये ॥ ११ ॥

मोचितस्तेन वाहानां मुख्योऽसौ याज्ञिको हयः
महाबलपरीवारो परिखाभिः सुरक्षितः ॥ १२ ॥

तद्रक्षकोऽस्ति मद्भ्राता शत्रुघ्नो लवणान्तकः
हस्त्यश्वरथपादातसङ्घसेनासमन्वितः ॥ १३ ॥

यस्य राज्ञ इति श्रेष्ठो मानो जायेत्स्वकान्मदात्
शूरा वयं धनुर्धारि श्रेष्ठा वयमिहोत्कटाः ॥ १४ ॥

ते गृह्णन्तु बलाद्वाहं रत्नमालाविभूषितम्
मनोवेगं कामजवं सर्वगत्याधिभास्वरम् ॥ १५ ॥

ततो मोचयिता भ्राता शत्रुघ्नो लीलया हठात्
शरासनविनिर्मुक्त वत्सदन्तकृतव्यथात् ॥ १६ ॥

ये क्षत्रियाः क्षत्रियकन्यकायां
जाताश्च सत्क्षेत्रकुलेषु सत्सु
गृह्णन्तु ते तद्विपरीतदेहा
नमन्तु राज्यं रघवे निवेद्य ॥ १७ ॥
मूलम्
ये क्षत्रियाः क्षत्रियकन्यकायां
जाताश्च सत्क्षेत्रकुलेषु सत्सु
गृह्णन्तु ते तद्विपरीतदेहा
नमन्तु राज्यं रघवे निवेद्य ॥ १७ ॥
विश्वास-प्रस्तुतिः
इति संवाच्य कुपितो लवः शस्त्रधनुर्धरः
उवाच मुनिपुत्रांस्तान्रोषगद्गदभाषितः ॥ १८ ॥

पश्यत क्षिप्रमेतस्य धृष्टत्वं क्षत्रियस्य वै
लिलेख यो भालपत्रे स्वप्रतापबलं नृपः ॥ १९ ॥

कोऽसौ रामः कः शत्रुघ्नः कीटाः स्वल्पबलाश्रिताः
क्षत्रियाणां कुले जाता एते न वयमुत्तमाः ॥ २० ॥

एतस्य वीरसूर्माता जानकी न कुशप्रसूः
या रत्नं कुशसञ्ज्ञं तु दधाराग्निमिवारणिः ॥ २१ ॥

इदानीं क्षत्रियत्वादि दर्शयिष्यामि सर्वतः
यदि क्षत्रियभूरेष भविष्यति च शत्रुहा ॥ २२ ॥

गृहीष्यति मया बद्धं वाहं यज्ञक्रियोचितम्
नोचेत्क्षत्रत्वमुन्मुच्य कुशस्य चरणार्चकः ॥ २३ ॥

अधुना मद्धनुर्मुक्तैः शरैः सुप्तो भविष्यति
अन्ये ये च महावीरा रणमण्डलभूषणाः ॥ २४ ॥

इत्यादिवाक्यमुच्चार्य लवो जग्राह तं हयम्
तृणीकृत्य नृपान्सर्वांश्चापबाणधरो वरः ॥ २५ ॥

तदा मुनिसुताः प्रोचुर्लवं हयजिहीर्षकम्
अयोध्यानृपती रामो महाबलपराक्रमः ॥ २६ ॥
मूलम्
तदा मुनिसुताः प्रोचुर्लवं हयजिहीर्षकम्
अयोध्यानृपती रामो महाबलपराक्रमः ॥ २६ ॥
विश्वास-प्रस्तुतिः
तस्य वाहं न गृह्णाति शक्रोऽपि स्वबलोद्धतः
मा गृहाण शृणुष्वेदं मद्वाक्यं हितसंयुतम् ॥ २७ ॥

इत्युक्तं स श्रुतौ धृत्वा जगाद स द्विजात्मजान्
यूयं बलं न जानीथ क्षत्रियाणां द्विजोत्तमाः ॥ २८ ॥

क्षत्रिया वीर्यशौण्डीर्या द्विजा भोजनशालिनः
तस्माद्यूयं गृहे गत्वा भुञ्जन्तु जननी हृतम् ॥ २९ ॥

इत्युक्तास्तेऽभवंस्तूष्णीं प्रेक्षन्तस्तत्पराक्रमम्
लवस्य मुनिपुत्रास्ते सन्तस्थुर्दूरतो बहिः ॥ ३० ॥

एवं व्यतिकरे वृत्ते सेवकास्तस्य भूपतेः
आयातास्तं हयं बद्धं दृष्ट्वा प्रोचुस्तदा लवम् ॥ ३१ ॥

बबन्ध को हयमहो रुष्टः कस्य च धर्मराट्
को बाणव्रजमध्यस्थः प्राप्स्यते परमां व्यथाम् ॥ ३२ ॥

तदा लवो जगादाशु मया बद्धोऽश्व उत्तमः
यो मोचयति तस्याशु रुष्टो भ्राता कुशो महान् ॥ ३३ ॥

यमः करिष्यति किमु ह्यागतोऽपि स्वयं प्रभुः
नत्वा गमिष्यति क्षिप्रं शरवृष्ट्या सुतोषितः ॥ ३४ ॥

इति वाक्यं समाकर्ण्य बालोयमिति तेब्रुवन्
समागता मोचयितुं हयं बद्धं तु ये हरेः ॥ ३५ ॥

तान्वैमोचयितुं प्राप्ताञ्छत्रुघ्नस्य च सेवकान्
कोदण्डं करयोर्धृत्वा क्षुरप्रान्सममूमुचत् ॥ ३६ ॥

ते छिन्नबाहवः शोकाच्छत्रुघ्नं प्रतिसङ्गताः
पृष्टास्ते जगदुः सर्वे लवात्स्वभुजकृन्तनम् ॥ ३७ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
लवेन हयबन्धनन्नाम चतुःपञ्चाशत्तमोऽध्यायः ५४