०५३

सुग्रीवस्तु तत्कटकं भग्नं वीक्ष्य रणाङ्गणे

विश्वास-प्रस्तुतिः

स्वामिनं मूर्च्छितं वापि ययौ योद्धुं नृपं प्रति ॥ १ ॥

मूलम्

स्वामिनं मूर्च्छितं वापि ययौ योद्धुं नृपं प्रति ॥ १ ॥

विश्वास-प्रस्तुतिः

आगच्छ भूप सर्वान्नो मूर्च्छयित्वा कुतो भवान्
गच्छति क्षिप्रं मां देहि युद्धं रणविशारद ॥ २ ॥

मूलम्

आगच्छ भूप सर्वान्नो मूर्च्छयित्वा कुतो भवान्
गच्छति क्षिप्रं मां देहि युद्धं रणविशारद ॥ २ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा नगं कञ्चिद्विशालं शाखया युतम्
उत्पाट्य प्राहरत्तस्य मस्तके बलसंयुतः ॥ ३ ॥

मूलम्

एवमुक्त्वा नगं कञ्चिद्विशालं शाखया युतम्
उत्पाट्य प्राहरत्तस्य मस्तके बलसंयुतः ॥ ३ ॥

विश्वास-प्रस्तुतिः

तेन प्रहारेण महाबलो नृपः
संवीक्ष्यसु ग्रीवमथो स्वचापे
बाणान्समाधाय शितान्सरोषा
ज्जघान वक्षस्यतिपौरुषो बली ॥ ४ ॥

मूलम्

तेन प्रहारेण महाबलो नृपः
संवीक्ष्यसु ग्रीवमथो स्वचापे
बाणान्समाधाय शितान्सरोषा
ज्जघान वक्षस्यतिपौरुषो बली ॥ ४ ॥

विश्वास-प्रस्तुतिः

तान्बाणान्व्यधमत्सर्वान्सुग्रीवः सहसा हसन्
ताडयामास हृदये सुरथं सुमहाबलः ॥ ५ ॥

मूलम्

तान्बाणान्व्यधमत्सर्वान्सुग्रीवः सहसा हसन्
ताडयामास हृदये सुरथं सुमहाबलः ॥ ५ ॥

विश्वास-प्रस्तुतिः

पर्वतैः शिखरैश्चैव नगैर्द्विरदवर्ष्मभिः
वेगात्सन्ताडयामास दारयन्सुरथं नखैः ॥ ६ ॥

मूलम्

पर्वतैः शिखरैश्चैव नगैर्द्विरदवर्ष्मभिः
वेगात्सन्ताडयामास दारयन्सुरथं नखैः ॥ ६ ॥

विश्वास-प्रस्तुतिः

तमप्याशु बबन्धास्त्राद्रामसञ्ज्ञात्सुदारुणात्
बद्धः कपिवरो मेने सुरथं रामसेवकम् ॥ ७ ॥

मूलम्

तमप्याशु बबन्धास्त्राद्रामसञ्ज्ञात्सुदारुणात्
बद्धः कपिवरो मेने सुरथं रामसेवकम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

गजो यथायसमयीं शृङ्खलां पादलम्बिताम्
प्राप्य किञ्चिन्न वै कर्तुं शक्नोति स तथा ह्यभूत् ॥ ८ ॥

मूलम्

गजो यथायसमयीं शृङ्खलां पादलम्बिताम्
प्राप्य किञ्चिन्न वै कर्तुं शक्नोति स तथा ह्यभूत् ॥ ८ ॥

विश्वास-प्रस्तुतिः

जितं तेन महाराज्ञा सुरथेन सुपुत्रिणा
सर्वान्वीरान्रथे स्थाप्य ययौ स्वनगरं प्रति ॥ ९ ॥

मूलम्

जितं तेन महाराज्ञा सुरथेन सुपुत्रिणा
सर्वान्वीरान्रथे स्थाप्य ययौ स्वनगरं प्रति ॥ ९ ॥

विश्वास-प्रस्तुतिः

गत्वा सभायां सुमहान्बद्धं मारुतिमब्रवीत्
स्मर श्रीरघुनाथं त्वं दयालुं भक्तपालकम् ॥ १० ॥

मूलम्

गत्वा सभायां सुमहान्बद्धं मारुतिमब्रवीत्
स्मर श्रीरघुनाथं त्वं दयालुं भक्तपालकम् ॥ १० ॥

विश्वास-प्रस्तुतिः

यथा त्वां बन्धनात्सद्यो मोचयिष्यति सुष्ठुधीः
नान्यथायुतवर्षेण मोचयिष्यामि बन्धनात् ॥ ११ ॥

मूलम्

यथा त्वां बन्धनात्सद्यो मोचयिष्यति सुष्ठुधीः
नान्यथायुतवर्षेण मोचयिष्यामि बन्धनात् ॥ ११ ॥

विश्वास-प्रस्तुतिः

इत्युक्तमाकर्ण्य समीरजस्तदा
सुबद्धमात्मानमवेक्ष्य वीरान्
सम्मूर्च्छिताञ्छत्रुशराभिघात -
पीडायुतान्बन्धनमुक्तये स्मरत् ॥ १२ ॥

मूलम्

इत्युक्तमाकर्ण्य समीरजस्तदा
सुबद्धमात्मानमवेक्ष्य वीरान्
सम्मूर्च्छिताञ्छत्रुशराभिघात -
पीडायुतान्बन्धनमुक्तये स्मरत् ॥ १२ ॥

विश्वास-प्रस्तुतिः

श्रीरामचन्द्रं रघुवंशजातं सीतापतिं पङ्कजपत्रनेत्रम्
स्वमुक्तये बन्धनतः कृपालुं सस्मार सर्वैः करणैर्विशोकैः ॥ १३ ॥

मूलम्

श्रीरामचन्द्रं रघुवंशजातं सीतापतिं पङ्कजपत्रनेत्रम्
स्वमुक्तये बन्धनतः कृपालुं सस्मार सर्वैः करणैर्विशोकैः ॥ १३ ॥

विश्वास-प्रस्तुतिः

हनूमानुवाच
हा नाथ हा नरवरोत्तम हा दयालो
सीतापते रुचिरकुन्तलशोभिवक्त्र
भक्तार्तिदाहक मनोहररूपधारिन्
मां बन्धनात्सपदि मोचय मा विलम्बम् ॥ १४ ॥

मूलम्

हनूमानुवाच
हा नाथ हा नरवरोत्तम हा दयालो
सीतापते रुचिरकुन्तलशोभिवक्त्र
भक्तार्तिदाहक मनोहररूपधारिन्
मां बन्धनात्सपदि मोचय मा विलम्बम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

सम्मोचितास्तु भवता गजपुङ्गवाद्याः
देवाश्च दानवकुलाग्नि सुदह्यमानाः
तत्सुन्दरीशिरसिसंस्थितकेशबन्धः
सम्मोचितस्तु करुणालय मां स्मरस्व ॥ १५ ॥

मूलम्

सम्मोचितास्तु भवता गजपुङ्गवाद्याः
देवाश्च दानवकुलाग्नि सुदह्यमानाः
तत्सुन्दरीशिरसिसंस्थितकेशबन्धः
सम्मोचितस्तु करुणालय मां स्मरस्व ॥ १५ ॥

विश्वास-प्रस्तुतिः

त्वं यागकर्मनिरतोऽसि मुनीश्वरेन्द्रै
र्धर्मं विचारयसि भूमिपतीड्यपाद
अत्राहमद्य सुरथेन विगाढपाश -
बद्धोस्मि मोचय महापुरुषाशु देव ॥ १६ ॥

मूलम्

त्वं यागकर्मनिरतोऽसि मुनीश्वरेन्द्रै
र्धर्मं विचारयसि भूमिपतीड्यपाद
अत्राहमद्य सुरथेन विगाढपाश -
बद्धोस्मि मोचय महापुरुषाशु देव ॥ १६ ॥

विश्वास-प्रस्तुतिः

नो मोचयस्यथ यदि स्मरणातिरेकात्
त्वं सर्वदेववरपूजितपादपद्म
लोको भवन्तमिदमुल्लसितोऽहसिष्य -
त्तस्माद्विलम्बमिह माचर मोचयाशु ॥ १७ ॥

मूलम्

नो मोचयस्यथ यदि स्मरणातिरेकात्
त्वं सर्वदेववरपूजितपादपद्म
लोको भवन्तमिदमुल्लसितोऽहसिष्य -
त्तस्माद्विलम्बमिह माचर मोचयाशु ॥ १७ ॥

विश्वास-प्रस्तुतिः

इति श्रुत्वा जगन्नाथो रघुवीरः कृपानिधिः
भक्तं मोचयितुं प्रागात्पुष्पकेणाशुवेगिना ॥ १८ ॥

मूलम्

इति श्रुत्वा जगन्नाथो रघुवीरः कृपानिधिः
भक्तं मोचयितुं प्रागात्पुष्पकेणाशुवेगिना ॥ १८ ॥

विश्वास-प्रस्तुतिः

लक्ष्मणेनानुगेनाथ भरतेन सुशोभितम्
मुनिवृन्दैर्व्यासमुख्यैः समेतं ददृशे कपिः ॥ १९ ॥

मूलम्

लक्ष्मणेनानुगेनाथ भरतेन सुशोभितम्
मुनिवृन्दैर्व्यासमुख्यैः समेतं ददृशे कपिः ॥ १९ ॥

विश्वास-प्रस्तुतिः

तमागतं निजं नाथं वीक्ष्य भूपं समब्रवीत्
पश्य राजन्निजं मोक्तुमायातं कृपया हरिम् ॥ २० ॥

मूलम्

तमागतं निजं नाथं वीक्ष्य भूपं समब्रवीत्
पश्य राजन्निजं मोक्तुमायातं कृपया हरिम् ॥ २० ॥

विश्वास-प्रस्तुतिः

अनेके मोचिताः पूर्वं स्मरणात्सेवका निजाः
तथा मां पाशतो बद्धं सम्मोचयितुमागतः ॥ २१ ॥

मूलम्

अनेके मोचिताः पूर्वं स्मरणात्सेवका निजाः
तथा मां पाशतो बद्धं सम्मोचयितुमागतः ॥ २१ ॥

विश्वास-प्रस्तुतिः

श्रीरामभद्रमायान्तं वीक्ष्यासौ सुरथः क्षणात्
नतीश्च शतशश्चक्रे भक्तिपूरपरिप्लुतः ॥ २२ ॥

मूलम्

श्रीरामभद्रमायान्तं वीक्ष्यासौ सुरथः क्षणात्
नतीश्च शतशश्चक्रे भक्तिपूरपरिप्लुतः ॥ २२ ॥

विश्वास-प्रस्तुतिः

श्रीरामस्तं निजैर्दोर्भिः परिरेभे चतुर्भुजः
मूर्ध्नि सिञ्चन्नश्रुजलैर्हर्षाद्भक्तं स्वकं मुहुः ॥ २३ ॥

मूलम्

श्रीरामस्तं निजैर्दोर्भिः परिरेभे चतुर्भुजः
मूर्ध्नि सिञ्चन्नश्रुजलैर्हर्षाद्भक्तं स्वकं मुहुः ॥ २३ ॥

विश्वास-प्रस्तुतिः

उवाच धन्यदेहोऽसि महत्कर्म कृतं त्वया
कपीश्वरस्त्वया बद्धो हनूमान्सर्वतो बलः ॥ २४ ॥

मूलम्

उवाच धन्यदेहोऽसि महत्कर्म कृतं त्वया
कपीश्वरस्त्वया बद्धो हनूमान्सर्वतो बलः ॥ २४ ॥

विश्वास-प्रस्तुतिः

श्रीरामः कपिवर्यं तं मोचयामास बन्धनात्
मूर्छितांस्तान्भटान्सर्वान्वीक्ष्य दृष्ट्या स्वजीवयत् ॥ २५ ॥

मूलम्

श्रीरामः कपिवर्यं तं मोचयामास बन्धनात्
मूर्छितांस्तान्भटान्सर्वान्वीक्ष्य दृष्ट्या स्वजीवयत् ॥ २५ ॥

विश्वास-प्रस्तुतिः

ते मूर्च्छां तत्यजुर्दृष्टा रामेण सुरसेविना
उत्थिता ददृशुः श्रीमद्रामचन्द्रं मनोरमम् ॥ २६ ॥

मूलम्

ते मूर्च्छां तत्यजुर्दृष्टा रामेण सुरसेविना
उत्थिता ददृशुः श्रीमद्रामचन्द्रं मनोरमम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

प्रणतास्ते रघुपतिं तेन पृष्टा अनामयम्
सुखीभूता नृपं प्रोचुः सर्वं स्वकुशलं नृपाः ॥ २७ ॥

मूलम्

प्रणतास्ते रघुपतिं तेन पृष्टा अनामयम्
सुखीभूता नृपं प्रोचुः सर्वं स्वकुशलं नृपाः ॥ २७ ॥

विश्वास-प्रस्तुतिः

सुरथो वीक्ष्य रामं च कृपार्थं सेवकात्मनः
आगतं सकलं राज्यं सहयं सुमुदार्पयत् ॥ २८ ॥

मूलम्

सुरथो वीक्ष्य रामं च कृपार्थं सेवकात्मनः
आगतं सकलं राज्यं सहयं सुमुदार्पयत् ॥ २८ ॥

विश्वास-प्रस्तुतिः

अनेकवरिवस्याभिः श्रीरामं समतोषयत्
कथयामास मेऽन्याय्यं कृतं ते क्षम राघव
श्रीरामस्तमुवाचाथ कृतं ते वाहरक्षणम् ॥ २९ ॥

मूलम्

अनेकवरिवस्याभिः श्रीरामं समतोषयत्
कथयामास मेऽन्याय्यं कृतं ते क्षम राघव
श्रीरामस्तमुवाचाथ कृतं ते वाहरक्षणम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

क्षत्त्रियाणामयं धर्मः स्वामिना सह युद्ध्यते
त्वया साधुकृतं कर्म रणे वीराः प्रतोषिताः ॥ ३० ॥

मूलम्

क्षत्त्रियाणामयं धर्मः स्वामिना सह युद्ध्यते
त्वया साधुकृतं कर्म रणे वीराः प्रतोषिताः ॥ ३० ॥

विश्वास-प्रस्तुतिः

इत्युक्तवन्तं नृहरिं पूजयन्ससुतोऽभवत्
श्रीरामस्त्रिदिनं स्थित्वा ययौ तमनुमन्त्र्य च ॥ ३१ ॥

मूलम्

इत्युक्तवन्तं नृहरिं पूजयन्ससुतोऽभवत्
श्रीरामस्त्रिदिनं स्थित्वा ययौ तमनुमन्त्र्य च ॥ ३१ ॥

विश्वास-प्रस्तुतिः

कामगेन विमानेन मुनिभिः सहितो महान्
तं दृष्ट्वा विस्मितास्तस्य कथाश्चक्रुर्मनोहराः ॥ ३२ ॥

मूलम्

कामगेन विमानेन मुनिभिः सहितो महान्
तं दृष्ट्वा विस्मितास्तस्य कथाश्चक्रुर्मनोहराः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

चम्पकं स्वपुरे स्थाप्य सुरथः क्षत्रियो बली
शत्रुघ्नेन समं यातुं मनश्चक्रे महाबलः ॥ ३३ ॥

मूलम्

चम्पकं स्वपुरे स्थाप्य सुरथः क्षत्रियो बली
शत्रुघ्नेन समं यातुं मनश्चक्रे महाबलः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नः स्वहयं प्राप्य भेरीनादानकारयत्
शङ्खनादान्बहुविधान्सर्वत्र समवादयत् ॥ ३४ ॥

मूलम्

शत्रुघ्नः स्वहयं प्राप्य भेरीनादानकारयत्
शङ्खनादान्बहुविधान्सर्वत्र समवादयत् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

सुरथेन समं वीरो यज्ञवाहममूमुचत्
स बभ्रामापरान्देशान्न कोपि जगृहे बली ॥ ३५ ॥

मूलम्

सुरथेन समं वीरो यज्ञवाहममूमुचत्
स बभ्रामापरान्देशान्न कोपि जगृहे बली ॥ ३५ ॥

विश्वास-प्रस्तुतिः

यत्रयत्र गतो वाहस्तत्रतत्र परिभ्रमन्
सैन्येन महता यातः शत्रुघ्नः सुरथेन च ॥ ३६ ॥

मूलम्

यत्रयत्र गतो वाहस्तत्रतत्र परिभ्रमन्
सैन्येन महता यातः शत्रुघ्नः सुरथेन च ॥ ३६ ॥

विश्वास-प्रस्तुतिः

कदाचिज्जाह्नवीतीरे वाल्मीकेराश्रमं वरम्
गतो मुनिवरैर्जुष्टं प्रातर्धूमेन चिह्नितम् ॥ ३७ ॥

मूलम्

कदाचिज्जाह्नवीतीरे वाल्मीकेराश्रमं वरम्
गतो मुनिवरैर्जुष्टं प्रातर्धूमेन चिह्नितम् ॥ ३७ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
रघुनाथसमागमोनाम त्रिपञ्चाशत्तमोऽध्यायः ५३