०५२

शेष उवाच

विश्वास-प्रस्तुतिः

चम्पकं पतितं दृष्ट्वा सुरथः क्षत्रियो बली
पुत्रदुःखपरीताङ्गो जगाम स्यन्दने स्थितः ॥ १ ॥

मूलम्

चम्पकं पतितं दृष्ट्वा सुरथः क्षत्रियो बली
पुत्रदुःखपरीताङ्गो जगाम स्यन्दने स्थितः ॥ १ ॥

विश्वास-प्रस्तुतिः

कपीन्द्रमाजुहावाथ सुरथः कोपसंयुतः
निःश्वासवेगं सम्मुञ्चन्महाबलसमन्वितः ॥ २ ॥

मूलम्

कपीन्द्रमाजुहावाथ सुरथः कोपसंयुतः
निःश्वासवेगं सम्मुञ्चन्महाबलसमन्वितः ॥ २ ॥

विश्वास-प्रस्तुतिः

आह्वयानं नृपं दृष्ट्वा निजं वीरः कपीश्वरः
जगाम तं महावीरो महावेगसमन्वितः ॥ ३ ॥

मूलम्

आह्वयानं नृपं दृष्ट्वा निजं वीरः कपीश्वरः
जगाम तं महावीरो महावेगसमन्वितः ॥ ३ ॥

विश्वास-प्रस्तुतिः

तमागतं हनूमन्तं तृणीकुर्वं तमुद्भटान्
उवाच सुरथो राजा मेघगम्भीरसुस्वरः ॥ ४ ॥

मूलम्

तमागतं हनूमन्तं तृणीकुर्वं तमुद्भटान्
उवाच सुरथो राजा मेघगम्भीरसुस्वरः ॥ ४ ॥

विश्वास-प्रस्तुतिः

सुरथ उवाच
धन्योसि कपिवर्य त्वं महाबलपराक्रमः
येन राममहत्कृत्यं कृतं राक्षसके पुरे ॥ ५ ॥

मूलम्

सुरथ उवाच
धन्योसि कपिवर्य त्वं महाबलपराक्रमः
येन राममहत्कृत्यं कृतं राक्षसके पुरे ॥ ५ ॥

विश्वास-प्रस्तुतिः

त्वं रामचरणस्यासि सेवको भक्तिसंयुतः
त्वया वीरेण मत्पुत्रः पातितश्चम्पको बली ॥ ६ ॥

मूलम्

त्वं रामचरणस्यासि सेवको भक्तिसंयुतः
त्वया वीरेण मत्पुत्रः पातितश्चम्पको बली ॥ ६ ॥

विश्वास-प्रस्तुतिः

इदानीं त्वां तु सम्बध्य गन्तास्मि नगरेमम
यत्नात्तिष्ठ कपीशेशसत्यमुक्तं मया स्मृतम् ॥ ७ ॥

मूलम्

इदानीं त्वां तु सम्बध्य गन्तास्मि नगरेमम
यत्नात्तिष्ठ कपीशेशसत्यमुक्तं मया स्मृतम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

इति भाषितमाकर्ण्य सुरथस्य कपीश्वरः
उवाच धीरया वाण्या रणे वीरैकभूषिते ॥ ८ ॥

मूलम्

इति भाषितमाकर्ण्य सुरथस्य कपीश्वरः
उवाच धीरया वाण्या रणे वीरैकभूषिते ॥ ८ ॥

विश्वास-प्रस्तुतिः

हनूमानुवाच
त्वं रामचरणस्मारी वयं रामस्य सेवकाः
बध्नासि चेन्मां प्रसभं मोचयिष्यति मत्प्रभुः ॥ ९ ॥

मूलम्

हनूमानुवाच
त्वं रामचरणस्मारी वयं रामस्य सेवकाः
बध्नासि चेन्मां प्रसभं मोचयिष्यति मत्प्रभुः ॥ ९ ॥

विश्वास-प्रस्तुतिः

कुरु वीर भवत्स्वान्तस्थितं सत्यं प्रतिश्रुतम्
रामं स्मरन्वै दुःखान्तं याति वेदा वदन्त्यदः ॥ १० ॥

मूलम्

कुरु वीर भवत्स्वान्तस्थितं सत्यं प्रतिश्रुतम्
रामं स्मरन्वै दुःखान्तं याति वेदा वदन्त्यदः ॥ १० ॥

विश्वास-प्रस्तुतिः

शेष उवाच
इति ब्रुवन्तं सुरथः प्रशस्य पवनात्मजम्
विव्याध बाणैर्बहुभिः शितैः शाणेन दारुणैः ॥ ११ ॥

मूलम्

शेष उवाच
इति ब्रुवन्तं सुरथः प्रशस्य पवनात्मजम्
विव्याध बाणैर्बहुभिः शितैः शाणेन दारुणैः ॥ ११ ॥

विश्वास-प्रस्तुतिः

तान्मुक्तानगणय्याथ बाणाञ्छोणितपातिनः
करे जग्राह कोदण्डं सज्यं शरसमन्वितम् ॥ १२ ॥

मूलम्

तान्मुक्तानगणय्याथ बाणाञ्छोणितपातिनः
करे जग्राह कोदण्डं सज्यं शरसमन्वितम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

गृहीत्वा करयोश्चापं बभञ्ज कुपितः कपिः
चीत्कुर्वंस्त्रासयन्वीरान्नखैर्दीर्णान्सृजन्भटान् ॥ १३ ॥

मूलम्

गृहीत्वा करयोश्चापं बभञ्ज कुपितः कपिः
चीत्कुर्वंस्त्रासयन्वीरान्नखैर्दीर्णान्सृजन्भटान् ॥ १३ ॥

विश्वास-प्रस्तुतिः

तेन भग्नं धनुर्दृष्ट्वा स्वकीयं गुणसंयुतम्
अपरं धनुरादत्त महद्गुणविशोभितम् ॥ १४ ॥

मूलम्

तेन भग्नं धनुर्दृष्ट्वा स्वकीयं गुणसंयुतम्
अपरं धनुरादत्त महद्गुणविशोभितम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

तच्चापि जगृहे रोषात्कपिश्चापं बभञ्ज तत्
अन्यच्चापं समादत्त तद्बभञ्ज महाबलः ॥ १५ ॥

मूलम्

तच्चापि जगृहे रोषात्कपिश्चापं बभञ्ज तत्
अन्यच्चापं समादत्त तद्बभञ्ज महाबलः ॥ १५ ॥

विश्वास-प्रस्तुतिः

तस्मिंश्चापे प्रभग्नेऽपि सोऽन्यद्धनुरुपाददत्
सोपि चापं बभञ्जाशु महावेगसमन्वितः ॥ १६ ॥

मूलम्

तस्मिंश्चापे प्रभग्नेऽपि सोऽन्यद्धनुरुपाददत्
सोपि चापं बभञ्जाशु महावेगसमन्वितः ॥ १६ ॥

विश्वास-प्रस्तुतिः

एवं राज्ञस्तु चापानामशीतिर्विदलीकृता
क्षणे क्षणे महारोषात्कुर्वन्नादाननेकधा ॥ १७ ॥

मूलम्

एवं राज्ञस्तु चापानामशीतिर्विदलीकृता
क्षणे क्षणे महारोषात्कुर्वन्नादाननेकधा ॥ १७ ॥

विश्वास-प्रस्तुतिः

तदात्यन्तं प्रकुपितः शक्तिमुग्रामथाददे
शक्त्या स ताडितो वीरः पपात क्षणमुत्सुकः ॥ १८ ॥

मूलम्

तदात्यन्तं प्रकुपितः शक्तिमुग्रामथाददे
शक्त्या स ताडितो वीरः पपात क्षणमुत्सुकः ॥ १८ ॥

विश्वास-प्रस्तुतिः

उत्थाय स्यन्दनं राज्ञो जग्राह कुपितो भृशम्
उड्डीनस्तं गृहीत्वा तु समुद्रमतिवेगतः ॥ १९ ॥

मूलम्

उत्थाय स्यन्दनं राज्ञो जग्राह कुपितो भृशम्
उड्डीनस्तं गृहीत्वा तु समुद्रमतिवेगतः ॥ १९ ॥

विश्वास-प्रस्तुतिः

तमुड्डीनं समालक्ष्य सुरथः परवीरहा
ताडयामास परिघैर्हृदि मारुतिमुद्यतम् ॥ २० ॥

मूलम्

तमुड्डीनं समालक्ष्य सुरथः परवीरहा
ताडयामास परिघैर्हृदि मारुतिमुद्यतम् ॥ २० ॥

विश्वास-प्रस्तुतिः

मुक्तस्तेन रथो दूराच्चूर्णीभूतोऽभवत्क्षणात्
सोऽन्यरथं समारुह्य ययौ वेगात्समीरजम् ॥ २१ ॥

मूलम्

मुक्तस्तेन रथो दूराच्चूर्णीभूतोऽभवत्क्षणात्
सोऽन्यरथं समारुह्य ययौ वेगात्समीरजम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

हनूमांस्तद्रथं पुच्छे संवेष्ट्य प्रधनाङ्गणे
हयसारथिसंयुक्तं बभञ्ज सपताकिनम् ॥ २२ ॥

मूलम्

हनूमांस्तद्रथं पुच्छे संवेष्ट्य प्रधनाङ्गणे
हयसारथिसंयुक्तं बभञ्ज सपताकिनम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

अन्यं रथं समास्थाय ययौ राजा महाबलः
बभञ्ज तं रथं वेगान्मारुतिः कुपिताङ्गकः ॥ २३ ॥

मूलम्

अन्यं रथं समास्थाय ययौ राजा महाबलः
बभञ्ज तं रथं वेगान्मारुतिः कुपिताङ्गकः ॥ २३ ॥

विश्वास-प्रस्तुतिः

भग्नं तं स्यन्दनं वीक्ष्य सुरथोऽन्यसमाश्रितः
भग्नः स तेन सहसा हयसारथिसंयुतः ॥ २४ ॥

मूलम्

भग्नं तं स्यन्दनं वीक्ष्य सुरथोऽन्यसमाश्रितः
भग्नः स तेन सहसा हयसारथिसंयुतः ॥ २४ ॥

विश्वास-प्रस्तुतिः

एवमेकोनपञ्चाशद्रथा भग्ना हनूमता
तत्कर्म वीक्ष्य राजापि विसिस्माय ससैनिकः ॥ २५ ॥

मूलम्

एवमेकोनपञ्चाशद्रथा भग्ना हनूमता
तत्कर्म वीक्ष्य राजापि विसिस्माय ससैनिकः ॥ २५ ॥

विश्वास-प्रस्तुतिः

कुपितः प्राह कीशेन्द्रं धन्योसि पवनात्मज
पराक्रमन्निदं कर्म न कर्ता न करिष्यति ॥ २६ ॥

मूलम्

कुपितः प्राह कीशेन्द्रं धन्योसि पवनात्मज
पराक्रमन्निदं कर्म न कर्ता न करिष्यति ॥ २६ ॥

विश्वास-प्रस्तुतिः

क्षणमेकं प्रतीक्षस्व यावत्सज्यं धनुस्त्वहम्
करोमि पवनोद्भूत रामपादाब्जषट्पद ॥ २७ ॥

मूलम्

क्षणमेकं प्रतीक्षस्व यावत्सज्यं धनुस्त्वहम्
करोमि पवनोद्भूत रामपादाब्जषट्पद ॥ २७ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा चापमात्तज्यं कृत्वा रोषपरिप्लुतः
अस्त्रं पाशुपतं नाम सन्दधे शर उल्बणे ॥ २८ ॥

मूलम्

इत्युक्त्वा चापमात्तज्यं कृत्वा रोषपरिप्लुतः
अस्त्रं पाशुपतं नाम सन्दधे शर उल्बणे ॥ २८ ॥

विश्वास-प्रस्तुतिः

ततो भूताश्च वेतालाः पिशाचा योगिनीमुखाः
प्रादुर्बभूवुः सहसा भीषयन्तः समीरजम् ॥ २९ ॥

मूलम्

ततो भूताश्च वेतालाः पिशाचा योगिनीमुखाः
प्रादुर्बभूवुः सहसा भीषयन्तः समीरजम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

कपिः पाशुपतैरस्त्रैर्बद्धो लोकैरभीक्षितः
हाहेति च वदन्त्येते यावत्तावत्समीरजः ॥ ३० ॥

मूलम्

कपिः पाशुपतैरस्त्रैर्बद्धो लोकैरभीक्षितः
हाहेति च वदन्त्येते यावत्तावत्समीरजः ॥ ३० ॥

विश्वास-प्रस्तुतिः

स्मृत्वा रामं स्वमनसा त्रोटयामास तत्क्षणात्
स मुक्तगात्रः सहसा युयुधे सुरथं नृपम् ॥ ३१ ॥

मूलम्

स्मृत्वा रामं स्वमनसा त्रोटयामास तत्क्षणात्
स मुक्तगात्रः सहसा युयुधे सुरथं नृपम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तं मुक्तगात्रं संवीक्ष्य सुरथः परमास्त्रवित्
महाबलं मन्यमानो ब्राह्ममस्त्रं समाददे ॥ ३२ ॥

मूलम्

तं मुक्तगात्रं संवीक्ष्य सुरथः परमास्त्रवित्
महाबलं मन्यमानो ब्राह्ममस्त्रं समाददे ॥ ३२ ॥

विश्वास-प्रस्तुतिः

मारुतिर्ब्राह्ममस्त्रं तु निजगाल हसन्बली
तन्निगीर्णं नृपो दृष्ट्वा रामं सस्मार भूमिपः ॥ ३३ ॥

मूलम्

मारुतिर्ब्राह्ममस्त्रं तु निजगाल हसन्बली
तन्निगीर्णं नृपो दृष्ट्वा रामं सस्मार भूमिपः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

स्मृत्वा दाशरथिं रामं रामास्त्रं स्वशरासने
सन्धाय तं जगादेदं बद्धोसि कपिपुङ्गव ॥ ३४ ॥

मूलम्

स्मृत्वा दाशरथिं रामं रामास्त्रं स्वशरासने
सन्धाय तं जगादेदं बद्धोसि कपिपुङ्गव ॥ ३४ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा तत्प्रक्रमेद्यावत्तावद्बद्धो रणाङ्गणे
राज्ञा रामास्त्रतो वीरो हनूमान्रामसेवकः ॥ ३५ ॥

मूलम्

श्रुत्वा तत्प्रक्रमेद्यावत्तावद्बद्धो रणाङ्गणे
राज्ञा रामास्त्रतो वीरो हनूमान्रामसेवकः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

उवाच भूपं हनुमान्किङ्करोमि महीभुज
मत्स्वाम्यस्त्रेण सम्बद्धो नान्येन प्राकृतेन वै ॥ ३६ ॥

मूलम्

उवाच भूपं हनुमान्किङ्करोमि महीभुज
मत्स्वाम्यस्त्रेण सम्बद्धो नान्येन प्राकृतेन वै ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तन्मानयामिभूपालनयस्वस्वपुरम्प्रति
मोचयिष्यति मत्स्वामी आगत्य स दयानिधिः ॥ ३७ ॥

मूलम्

तन्मानयामिभूपालनयस्वस्वपुरम्प्रति
मोचयिष्यति मत्स्वामी आगत्य स दयानिधिः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

बद्धे समीरजे क्रुद्धः पुष्कलो भूमिपं ययौ
तं पुष्कलं समायान्तं विव्याध वसुभिः शरैः ॥ ३८ ॥

मूलम्

बद्धे समीरजे क्रुद्धः पुष्कलो भूमिपं ययौ
तं पुष्कलं समायान्तं विव्याध वसुभिः शरैः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

अनेकबाणसाहस्रैर्निजघान नृपं बली
राज्ञानेके शरास्तस्य च्छिन्नाः प्रधनमण्डले ॥ ३९ ॥

मूलम्

अनेकबाणसाहस्रैर्निजघान नृपं बली
राज्ञानेके शरास्तस्य च्छिन्नाः प्रधनमण्डले ॥ ३९ ॥

विश्वास-प्रस्तुतिः

एवं समरसङ्क्रुद्धे सुरथे पुष्कले तथा
बाणैर्व्याप्तं जगत्सर्वं स्थास्नुभूयश्चरिष्णु च ॥ ४० ॥

मूलम्

एवं समरसङ्क्रुद्धे सुरथे पुष्कले तथा
बाणैर्व्याप्तं जगत्सर्वं स्थास्नुभूयश्चरिष्णु च ॥ ४० ॥

विश्वास-प्रस्तुतिः

तेषां रणोद्यमं वीक्ष्य मुमुहुः सुरसैनिकाः
मानवानां तु का वार्ता क्षणात्त्रासं समीयुषाम् ॥ ४१ ॥

मूलम्

तेषां रणोद्यमं वीक्ष्य मुमुहुः सुरसैनिकाः
मानवानां तु का वार्ता क्षणात्त्रासं समीयुषाम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

अस्त्रप्रत्यस्त्रविगमैर्महामन्त्रपरिस्तुतैः
बभूव तुमुलं युद्धं वीराणां रोमहर्षणम् ॥ ४२ ॥

मूलम्

अस्त्रप्रत्यस्त्रविगमैर्महामन्त्रपरिस्तुतैः
बभूव तुमुलं युद्धं वीराणां रोमहर्षणम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तदा प्रकुपितो राजा नाराचं तु समाददे
छिन्नः स तु क्रुधा मुक्तैर्वत्सदन्तैः सभारतैः ॥ ४३ ॥

मूलम्

तदा प्रकुपितो राजा नाराचं तु समाददे
छिन्नः स तु क्रुधा मुक्तैर्वत्सदन्तैः सभारतैः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

छिन्ने तस्मिञ्छरे राजा कोपादन्यं समाददे
छिनत्ति यावत्स शरं तावल्लग्नो हृदि क्षतः ॥ ४४ ॥

मूलम्

छिन्ने तस्मिञ्छरे राजा कोपादन्यं समाददे
छिनत्ति यावत्स शरं तावल्लग्नो हृदि क्षतः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

मूर्च्छां प्राप महातेजाः पुष्कलो महदद्भुतम्
युद्धं विधाय सुमहद्राज्ञा सह महामतिः ॥ ४५ ॥

मूलम्

मूर्च्छां प्राप महातेजाः पुष्कलो महदद्भुतम्
युद्धं विधाय सुमहद्राज्ञा सह महामतिः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

पुष्कले पतिते राजा शत्रुघ्नः शत्रुतापनः
सुरथं प्रति सङ्क्रुद्धो जगाम स्यन्दनस्थितः ॥ ४६ ॥

मूलम्

पुष्कले पतिते राजा शत्रुघ्नः शत्रुतापनः
सुरथं प्रति सङ्क्रुद्धो जगाम स्यन्दनस्थितः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

उवाच सुरथं भूपं रामभ्राता महाबलः
त्वया महत्कृतं कर्म यद्बद्धः पवनात्मजः ॥ ४७ ॥

मूलम्

उवाच सुरथं भूपं रामभ्राता महाबलः
त्वया महत्कृतं कर्म यद्बद्धः पवनात्मजः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

पुष्कलोऽपि महावीरस्तथान्ये मम सैनिकाः
पातिताः प्रधने घोरे महाबलपराक्रमाः ॥ ४८ ॥

मूलम्

पुष्कलोऽपि महावीरस्तथान्ये मम सैनिकाः
पातिताः प्रधने घोरे महाबलपराक्रमाः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

इदानीं तिष्ठ मद्वीरान्पातयित्वा रणाङ्गणे
कुत्र यास्यसि भूमीश सहस्व मम सायकान् ॥ ४९ ॥

मूलम्

इदानीं तिष्ठ मद्वीरान्पातयित्वा रणाङ्गणे
कुत्र यास्यसि भूमीश सहस्व मम सायकान् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

इत्थमाश्रुत्य वीरस्य भाषितं सुरथो बली
जगाद रामपादाब्जं दधच्चेतसि शोभनम् ॥ ५० ॥

मूलम्

इत्थमाश्रुत्य वीरस्य भाषितं सुरथो बली
जगाद रामपादाब्जं दधच्चेतसि शोभनम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

मया ते पातिताः सङ्ख्ये वीरा मारुतजोन्मुखाः
इदानीं पातयिष्यामि त्वामपि प्रधनाङ्गणे ॥ ५१ ॥

मूलम्

मया ते पातिताः सङ्ख्ये वीरा मारुतजोन्मुखाः
इदानीं पातयिष्यामि त्वामपि प्रधनाङ्गणे ॥ ५१ ॥

विश्वास-प्रस्तुतिः

स्मरस्व रामं यो वीरः स्वमागत्य प्ररक्षति
अन्यथा जीवितं नास्ति मत्पुरः शत्रुतापन ॥ ५२ ॥

मूलम्

स्मरस्व रामं यो वीरः स्वमागत्य प्ररक्षति
अन्यथा जीवितं नास्ति मत्पुरः शत्रुतापन ॥ ५२ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा बाणसाहस्रैस्तं जघान महीपतिः
शत्रुघ्नं शरसङ्घातपञ्जरे न्यदधात्परम् ॥ ५३ ॥

मूलम्

इत्युक्त्वा बाणसाहस्रैस्तं जघान महीपतिः
शत्रुघ्नं शरसङ्घातपञ्जरे न्यदधात्परम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नः शरसङ्घातं मुञ्चन्तं वह्निदैवतम्
अस्त्रं मुमोच दाहार्थं शराणां नतपर्वणाम् ॥ ५४ ॥

मूलम्

शत्रुघ्नः शरसङ्घातं मुञ्चन्तं वह्निदैवतम्
अस्त्रं मुमोच दाहार्थं शराणां नतपर्वणाम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

तदस्त्रं मुक्तमालोक्य राजा वै सुरथो महान्
वारुणास्त्रेण शमयन्विव्याध शरकोटिभिः ॥ ५५ ॥

मूलम्

तदस्त्रं मुक्तमालोक्य राजा वै सुरथो महान्
वारुणास्त्रेण शमयन्विव्याध शरकोटिभिः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

तदा तद्योगिनीदत्तमस्त्रं धनुषि सन्दधे
मोहनं सर्ववीराणां निद्राप्रापकमद्भुतम् ॥ ५६ ॥

मूलम्

तदा तद्योगिनीदत्तमस्त्रं धनुषि सन्दधे
मोहनं सर्ववीराणां निद्राप्रापकमद्भुतम् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

तन्मोहनं महास्त्रं स वीक्ष्य राजा हरिंस्मरन्
जगाद शत्रुघ्नमयं सर्वशस्त्रास्त्रकोविदः ॥ ५७ ॥

मूलम्

तन्मोहनं महास्त्रं स वीक्ष्य राजा हरिंस्मरन्
जगाद शत्रुघ्नमयं सर्वशस्त्रास्त्रकोविदः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

मोहितस्य मम श्रीमद्रामस्य स्मरणेन ह
नान्यन्मोहनमाभाति ममापि भयतापदम् ॥ ५८ ॥

मूलम्

मोहितस्य मम श्रीमद्रामस्य स्मरणेन ह
नान्यन्मोहनमाभाति ममापि भयतापदम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

इत्युक्तवति वीरे तु मुमोच स महास्त्रकम्
तेन बाणेन सञ्छिन्नं पपात रणमण्डले ॥ ५९ ॥

मूलम्

इत्युक्तवति वीरे तु मुमोच स महास्त्रकम्
तेन बाणेन सञ्छिन्नं पपात रणमण्डले ॥ ५९ ॥

विश्वास-प्रस्तुतिः

तन्मोहनं महास्त्रं तु निष्फलं वीक्ष्य भूमिपे
अत्यन्तं विस्मयं प्राप्य बाणं धनुषि सन्दधे ॥ ६० ॥

मूलम्

तन्मोहनं महास्त्रं तु निष्फलं वीक्ष्य भूमिपे
अत्यन्तं विस्मयं प्राप्य बाणं धनुषि सन्दधे ॥ ६० ॥

विश्वास-प्रस्तुतिः

लवणो येन निहतो महासुरविमर्दनः
तं बाणं चाप आधत्त घोरं कान्त्यानलप्रभम् ॥ ६१ ॥

मूलम्

लवणो येन निहतो महासुरविमर्दनः
तं बाणं चाप आधत्त घोरं कान्त्यानलप्रभम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

तं वीक्ष्य राजा प्रोवाच बाणोऽयमसतां हृदि
लगते रामभक्तस्य सम्मुखेऽपि न भात्यसौ ॥ ६२ ॥

मूलम्

तं वीक्ष्य राजा प्रोवाच बाणोऽयमसतां हृदि
लगते रामभक्तस्य सम्मुखेऽपि न भात्यसौ ॥ ६२ ॥

विश्वास-प्रस्तुतिः

इत्येवं भाषमाणं तु बाणेनानेन शत्रुहा
विव्याध हृदये क्षिप्रं वह्निज्वालासमप्रभम् ॥ ६३ ॥

मूलम्

इत्येवं भाषमाणं तु बाणेनानेन शत्रुहा
विव्याध हृदये क्षिप्रं वह्निज्वालासमप्रभम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

तेन बाणेन दुःखार्तो महापीडासमन्वितः
रथोपस्थे क्षणं मूर्च्छामवाप परतापनः ॥ ६४ ॥

मूलम्

तेन बाणेन दुःखार्तो महापीडासमन्वितः
रथोपस्थे क्षणं मूर्च्छामवाप परतापनः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

स क्षणात्तां व्यथां तीर्त्वा जगाद रिपुमग्रतः
सहस्वैकं प्रहारं मे कुत्र यासि ममाग्रतः ॥ ६५ ॥

मूलम्

स क्षणात्तां व्यथां तीर्त्वा जगाद रिपुमग्रतः
सहस्वैकं प्रहारं मे कुत्र यासि ममाग्रतः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा महासङ्ख्ये बाणमाधत्त सायके
ज्वालामालापरीताङ्गं स्वर्णपुङ्खसमन्वितम् ॥ ६६ ॥

मूलम्

एवमुक्त्वा महासङ्ख्ये बाणमाधत्त सायके
ज्वालामालापरीताङ्गं स्वर्णपुङ्खसमन्वितम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

स बाणो धनुषो मुक्तः शत्रुघ्नेन पथिस्थितः
छिन्नोऽप्यग्रफलेनाशु हृदये समपद्यत ॥ ६७ ॥

मूलम्

स बाणो धनुषो मुक्तः शत्रुघ्नेन पथिस्थितः
छिन्नोऽप्यग्रफलेनाशु हृदये समपद्यत ॥ ६७ ॥

विश्वास-प्रस्तुतिः

तेन बाणेन सम्मूर्छ्य पपात स्यन्दनोपरि
ततो हाहाकृतं सैन्यं भग्नं सर्वं पराद्रवत् ॥ ६८ ॥

मूलम्

तेन बाणेन सम्मूर्छ्य पपात स्यन्दनोपरि
ततो हाहाकृतं सैन्यं भग्नं सर्वं पराद्रवत् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

सुरथो जयमापेदे सङ्ग्रामे रामसेवकः
दशवीरा दशसुतैर्मूर्च्छिताः पतिताः क्वचित् ॥ ६९ ॥

मूलम्

सुरथो जयमापेदे सङ्ग्रामे रामसेवकः
दशवीरा दशसुतैर्मूर्च्छिताः पतिताः क्वचित् ॥ ६९ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
सुरथविजयोनाम द्विपञ्चाशत्तमोऽध्यायः ५२