०५१

शेष उवाच

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा भाषितं तस्य सुरथस्याङ्गदाननात्
सज्जीभूता रणे सर्वे रथस्था रणकोविदाः ॥ १ ॥

मूलम्

पटहानां निनादोऽभूद्भेरीनादस्तथैव च
वीराणां गर्जनानादाः प्रादुर्भूता रणाङ्गणे ॥ २ ॥

रथचीत्कारशब्देन गजानां बृंहितेन च
व्याप्तं तत्सकलं विश्वं दिवं यातो महारवः ॥ ३ ॥

रणोत्साहेन संयुक्ता वीरा रणविशारदाः
कुर्वन्ति विविधान्नादान्कातरस्य भयङ्करान् ॥ ४ ॥

एवं कोलाहले वृत्ते सुरथो नाम भूमिपः
स्वसुतैः सैनिकैश्चाथ वृतः प्रायाद्रणाङ्गणे ॥ ५ ॥

गजैरथैर्हयैः पत्तिव्रजैः पूर्णां तु मेदिनीम्
कुर्वन्समुद्रइव तां प्लावयन्ददृशे भटैः ॥ ६ ॥

शङ्खनादेन सङ्घुष्टं जयनादैस्तथैव च
वीक्ष्य तं प्रधनोद्युक्तं सुमतिं प्राह भूमिपः ॥ ७ ॥

शत्रुघ्न उवाच
एष राजा समायातो महासैन्यपरीवृतः
अत्र यत्कृत्यमस्माकं तद्वदस्व महामते ॥ ८ ॥

सुमतिरुवाच
योद्धव्यमत्र बहुभिर्वीरै रणविशारदैः
पुष्कलादिभिरत्युग्रैः सर्वशस्त्रास्त्रकोविदैः ॥ ९ ॥

राज्ञा सह समीरस्य पुत्रः परमशौर्यवान्
युद्धं करोतु सुबलः परयुद्धविशारदः ॥ १० ॥

इति ब्रूते महामात्यो यावत्तावन्नृपात्मजाः
रणाङ्गणे धनूंष्यद्धा स्फारयामासुरुद्धताः ॥ ११ ॥

तान्वीक्ष्य योधाः सुबलाः पुष्कलाद्या रणोत्कटाः
अभिजग्मुः स्यन्दनैः स्वैर्धनुर्बाणकरा मताः ॥ १२ ॥

चम्पकेन महावीरः पुष्कलः परमास्त्रवित्
द्वैरथेनैव युयुधे महावीरेण शालिना ॥ १३ ॥

मोहकं योधयामास जानकिः स कुशध्वजः
रिपुञ्जयेन विमलो दुर्वारेण सुबाहुकः ॥ १४ ॥

प्रतापिना प्रतापाग्र्यो बलमोदेन चाङ्गदः
हर्यक्षेण नीलरत्नः सहदेवेन सत्यवान् ॥ १५ ॥

राजा वीरमणिर्भूरि देवेन युयुधे बली
असुतापेन चोग्राश्वो युयुधे बलसंयुतः ॥ १६ ॥

द्वैरथं तु महद्युद्धमकुर्वन्युद्धकोविदाः
सर्वे शस्त्रास्त्रकुशलाः सर्वे युद्धविशारदाः ॥ १७ ॥

एवं प्रवृत्ते सङ्ग्रामे सुरथस्य सुतैस्तदा
अत्यन्तं कदनं तत्र बभूव मुनिसत्तम ॥ १८ ॥

पुष्कलश्चम्पकं प्राह किं नामासि नृपात्मज
धन्योसि यो मया सार्धं रणमध्यमुपेयिवान् ॥ १९ ॥

इदानीं तिष्ठ किं यासि कथं ते जीवितं भवेत्
एहि युद्धं मया सार्धं सर्वशस्त्रास्त्रकोविद ॥ २० ॥

इत्यभिव्याहृतं तस्य श्रुत्वा राजात्मजो बली
जगाद पुष्कलं वीरो मेघगम्भीरया गिरा ॥ २१ ॥

चम्पक उवाच
न नाम्ना न कुलेनेदं युद्धमत्र भविष्यति
तथापि तव वक्ष्येऽहं स्वनामबलपूर्वकम् ॥ २२ ॥

मम माता राघवेशो मत्पिता राघवः स्मृतः
मम बन्धू रामचन्द्र स्वःजनो मम राघवः ॥ २३ ॥

मन्नाम रामदासश्च सदा रामस्य सेवकः
तारयिष्यति मां युद्धे रामो भक्तकृपाकरः ॥ २४ ॥

लोकानां मतमास्थाय प्रब्रवीमि तवाधुना
सुरथस्य सुतश्चाहं माता वीरवतीमम ॥ २५ ॥

मूलम्

लोकानां मतमास्थाय प्रब्रवीमि तवाधुना
सुरथस्य सुतश्चाहं माता वीरवतीमम ॥ २५ ॥

विश्वास-प्रस्तुतिः

मन्नामयो मधौ सर्वाञ्छोभनान्विदधाति वै
मधुपायंरसावा सन्त्यजन्ति मधुमोहिताः ॥ २६ ॥

वर्णेन स्वर्णसदृशो मध्ये लिङ्गवपुर्धरः
तदाख्ययाभिधां वीर जानीहि मम मोहिनीम् ॥ २७ ॥

युध्यस्व बाणैः प्रधनेन को जेतुं हि मां क्षमः
इदानीं दर्शयिष्यामि स्वपराक्रममद्भुतम् ॥ २८ ॥

इति श्रुत्वा महद्वाक्यं पुष्कलो हृदि तोषितः
तं दुर्जयं मन्यमानः शरान्मुञ्चन्रणेऽभवत् ॥ २९ ॥

शरसङ्घं प्रमुञ्चन्तं कोटिधा पुष्कलं ययौ
चम्पकः कोपसंयुक्तो धनुः सज्यमथाकरोत् ॥ ३० ॥

मुमोच निशितान्बाणान्वैरिवृन्दविदारणान्
स्वनामचिह्नितान्स्वर्णपुङ्खभागसमन्वितान् ॥ ३१ ॥

तांश्चिच्छेद महावीरः पुष्कलः प्रधनाङ्गणे
शरान्धकारं सर्वत्र मुञ्चन्बाणाञ्छिलाशितान् ॥ ३२ ॥

स्वबाणच्छेदनं दृष्ट्वा कृतं वीरेण चम्पकः
आह्वयामास बलिनं पुष्कलं कोपपूरितः ॥ ३३ ॥

मा प्रयाहि रणं त्यक्त्वेति ब्रुवन्समरे पुनः
पुष्कलं हृदये बाणैर्विव्याध दशभिस्त्वरन् ॥ ३४ ॥

ते बाणाः पुष्कलस्याहो हृदये तीव्रवेगिनः
आगत्य सुभृशं लग्नाः शोणितं पपुरूर्जितम् ॥ ३५ ॥

तैर्बाणैर्व्यथितो वीरः शरान्पञ्च समाददे
सुतीक्ष्णाग्रान्महाकोपाद्वारयन्पर्वतानिव ॥ ३६ ॥

ते बाणास्तस्य बाणाश्च परस्परमथोर्जिताः
आकाशे रचिताश्छिन्नाः शतधा राजसूनुना ॥ ३७ ॥

छित्त्वा बाणान्सुतीक्ष्णाग्रान्सुरथाङ्गोद्भवो बली
बाणाञ्छतं समाधत्त पुष्कलं ताडितुं हृदि ॥ ३८ ॥

ते बाणाः शतधाच्छिन्नाः पुष्कलेन महात्मना
अपतन्समरोपान्ते शरवेगप्रपीडिताः ॥ ३९ ॥

तदा तत्सुमहत्कर्म दृष्ट्वा राज्ञः सुतो बली
सहस्रेण शराणां च ताडयन्वक्षसि स्फुटम् ॥ ४० ॥

तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित्
पुनरप्याशु स्वे चापे समाधत्तायुतं शरान् ॥ ४१ ॥

ततोऽत्यतं प्रकुपितः शरवृष्टिमथाकरोत् ॥ ४२ ॥

शरवृष्टिं समायान्तीं मत्वा चम्पक वीरहा
साधुसाधुप्रशंसन्तं पुष्कलं समताडयत् ॥ ४३ ॥

पुष्कलश्चम्पकं दृष्ट्वा महावीर्यसमन्वितम्
ब्रह्मणोऽस्त्रसमाधत्त स्वे चापे सर्वशस्त्रवित् ॥ ४४ ॥

तेन मुक्तं महाशस्त्रं प्रजज्वाल दिशो दश
खं रोदसी व्याप्य विश्वं प्रलयं कर्तुमुद्यतम् ॥ ४५ ॥

चम्पको मुक्तमस्त्रं तद्दृष्ट्वा सर्वास्त्रकोविदः
तत्संहर्तुं तदेवास्त्रं मुमोच रिपुमुद्यतम् ॥ ४६ ॥

द्वयोरेकतमं तेजः प्रलयं मेनिरे जनाः
सञ्जहार तदास्त्रास्त्रमेकीभूतं परास्त्रकम् ॥ ४७ ॥

तत्कर्मचाद्भुतं दृष्ट्वा पुष्कलस्तिष्ठतिष्ठ च
ब्रुवञ्छरानमोघांस्तु चम्पकं स क्रुधाहनत् ॥ ४८ ॥

चम्पकस्ताञ्छरान्मुक्तानगणय्य महामनाः
रामास्त्रं प्रमुमोचाथ पुष्कलं प्रति दारुणम् ॥ ४९ ॥

तन्मुक्तमस्त्रमालोक्य चम्पकेन महात्मना
छेत्तुं यावन्मनश्चक्रे तावद्ग्रस्तः शरेण सः ॥ ५० ॥

बद्धश्चम्पकवीरेण रथे स्वे स्थापितः पुनः
पुरं प्रेषयितुं तावन्मनश्चक्रे महामनाः ॥ ५१ ॥

हाहाकारो महानासीद्बद्धे पुष्कलसञ्ज्ञिके
शत्रुघ्नं प्रययुर्योधाः पलायनपरायणाः ॥ ५२ ॥

भग्नांस्तान्वीक्ष्य शत्रुघ्नो हनूमन्तमुवाच ह
केन वीरेण मे भग्नं बलं वीरैरलङ्कृतम् ॥ ५३ ॥

तदोवाच महीनाथ पुष्कलं परवीरहा
बद्ध्वा नयति वीरोऽसौ चम्पकः स्वपदोद्धुरः ॥ ५४ ॥

तस्येदृग्वाक्यमाकर्ण्य शत्रुघ्नः कोपसंयुतः
उवाच पवनोद्भूतं मोचयाशु नृपात्मजात् ॥ ५५ ॥

महाबलः सुतश्चास्य बद्ध्वा यः पुष्कलं भटम्
तस्मान्मोचय वीराग्र्य कथं तिष्ठसि चाहवे ॥ ५६ ॥

एतद्वाक्यं समाकर्ण्य हनूमानोमिति ब्रुवन्
जगाम तं मोचयितुं पुष्कलं चम्पकाद्भटात् ॥ ५७ ॥

हनूमन्तमथालोक्य तं मोचयितुमागतम्
बाणैः शतैश्च साहस्रैर्जघान परकोपनः ॥ ५८ ॥

बाणांस्तान्स बभञ्जाशु मुक्तांस्तेन महात्मना
पुनरप्येनमेवाशु बाणान्मुञ्चन्महानभूत् ॥ ५९ ॥

तान्सर्वांश्चूर्णयामास नाराचान्वैरिमोचितान्
शालं करे समाधृत्य जघान नृपनन्दनम् ॥ ६० ॥

शालं तेन विनिर्मुक्तं तिलशः कृतवान्बली
गजो हनूमता मुक्तो नृपनन्दन मस्तके ॥ ६१ ॥

सोऽप्याहतश्चम्पकेन मृतो भूमौ पपातसः
शिलाः सम्मोचयामास हनूमान्परमास्त्रवित् ॥ ६२ ॥

चम्पकस्ताः शिलाः सर्वाः क्षणाच्चूर्णितवान्भृशम्
बाणयन्त्रिकया ब्रह्मन्महच्चित्रमभूदिदम् ॥ ६३ ॥

स्वमुक्तास्ताः शिलाः सर्वाश्चूर्णिता वीक्ष्य मारुतिः
चुकोप हृदयेऽत्यतं बहुवीर्यमिति स्मरन् ॥ ६४ ॥

आगत्य च करे धृत्वा नभस्युत्पतितः कपिः
तावद्ययौ नेत्रपथादुपरि क्षिप्रवेगवान् ॥ ६५ ॥

चम्पकस्तं हनूमन्तं युयुधे नभसि स्थितः
बाहुयुद्धेन महता ताडितः कपिपुङ्गवः ॥ ६६ ॥

चुकोप मानसे वीरो गर्वपर्वतदारुणः
पदा धृत्वा चम्पकं तं ताडयामास भूतले ॥ ६७ ॥

ताडितोऽसौ कपीन्द्रेण क्षणादुत्थाय वेगवान्
हनूमन्तं तु लाङ्गूले धृत्वा बभ्राम सर्वतः ॥ ६८ ॥

कपीन्द्रस्तद्बलं वीक्ष्य हसन्पादेऽग्रहीत्पुनः
भ्रामयित्वा शतगुणं गजोपस्थे ह्यपातयत् ॥ ६९ ॥

पपात भूमौ सुबलो राजसूनुः स चम्पकः
मूर्च्छितो वीरभूषाढ्यमलङ्कुर्वन्रणाङ्गणम् ॥ ७० ॥

तदा हाहेति वै लोकाश्चुक्रुशुश्चम्पकानुगाः
पुष्कलं मोचयामास बद्धं चम्पकपाशतः ७१