शेष उवाच
विश्वास-प्रस्तुतिः
अथ रामानुजो वेगात्समागत्य स्वसेवकान्
पप्रच्छ कुत्र वाहोऽसौ याज्ञिकः सुमनोहरः ॥ १ ॥
मूलम्
अथ रामानुजो वेगात्समागत्य स्वसेवकान्
पप्रच्छ कुत्र वाहोऽसौ याज्ञिकः सुमनोहरः ॥ १ ॥
विश्वास-प्रस्तुतिः
तदा ते वचनं प्रोचुः शत्रुघ्नं सुमहाबलाः
न जानीमो भटाः केचिद्धयं नीत्वा गताः पुरे ॥ २ ॥
मूलम्
तदा ते वचनं प्रोचुः शत्रुघ्नं सुमहाबलाः
न जानीमो भटाः केचिद्धयं नीत्वा गताः पुरे ॥ २ ॥
विश्वास-प्रस्तुतिः
वयं च धिक्कृताः सर्वे बलिभी राजसेवकैः
अत्र प्रमाणं भगवानिति कर्तव्य तां प्रति ॥ ३ ॥
मूलम्
वयं च धिक्कृताः सर्वे बलिभी राजसेवकैः
अत्र प्रमाणं भगवानिति कर्तव्य तां प्रति ॥ ३ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा वचनं तेषां शत्रुघ्नः कुपितो भृशम्
दशन्रोषात्स्वदशनाञ्जिह्वया लेलिहन्मुहुः ॥ ४ ॥
मूलम्
तच्छ्रुत्वा वचनं तेषां शत्रुघ्नः कुपितो भृशम्
दशन्रोषात्स्वदशनाञ्जिह्वया लेलिहन्मुहुः ॥ ४ ॥
विश्वास-प्रस्तुतिः
उवाच वीरो मद्वाहं हृत्वा कुत्र गमिष्यसि
इदानीं पातये बाणैः पुरञ्जनसमन्वितम् ॥ ५ ॥
मूलम्
उवाच वीरो मद्वाहं हृत्वा कुत्र गमिष्यसि
इदानीं पातये बाणैः पुरञ्जनसमन्वितम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा सुमतिं प्राह कस्येदं पुटभेदनम्
को वर्ततेऽस्याधिपतिर्यो मे वाहमजीहरत् ॥ ६ ॥
मूलम्
इत्युक्त्वा सुमतिं प्राह कस्येदं पुटभेदनम्
को वर्ततेऽस्याधिपतिर्यो मे वाहमजीहरत् ॥ ६ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति वाक्यं समाकर्ण्य भूपतेः कोपसंयुतम्
जगाद मन्त्री सुगिरा स्फुटाक्षरसमन्वितम् ॥ ७ ॥
मूलम्
शेष उवाच
इति वाक्यं समाकर्ण्य भूपतेः कोपसंयुतम्
जगाद मन्त्री सुगिरा स्फुटाक्षरसमन्वितम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
विद्धीदं कुण्डलं नाम नगरं सुमनोहरम्
अस्मिन्वसति धर्मात्मा सुरथः क्षत्त्रियो बली ॥ ८ ॥
मूलम्
विद्धीदं कुण्डलं नाम नगरं सुमनोहरम्
अस्मिन्वसति धर्मात्मा सुरथः क्षत्त्रियो बली ॥ ८ ॥
विश्वास-प्रस्तुतिः
नित्यं धर्मपरो रामचरणद्वन्द्वसेवकः
मनसा कर्मणा वाचा हनूमानिव सेवकः ॥ ९ ॥
मूलम्
नित्यं धर्मपरो रामचरणद्वन्द्वसेवकः
मनसा कर्मणा वाचा हनूमानिव सेवकः ॥ ९ ॥
विश्वास-प्रस्तुतिः
चरितान्यस्य शतशो वर्तन्ते धर्मकारिणः
महाबलपरीवारः सुरथः सर्वशोभनः ॥ १० ॥
मूलम्
चरितान्यस्य शतशो वर्तन्ते धर्मकारिणः
महाबलपरीवारः सुरथः सर्वशोभनः ॥ १० ॥
विश्वास-प्रस्तुतिः
महद्युद्धं भवेदत्र हृतश्चेद्वाहसत्तमः
अनेके प्रपतिष्यन्ति वीरा रणविशारदाः ॥ ११ ॥
मूलम्
महद्युद्धं भवेदत्र हृतश्चेद्वाहसत्तमः
अनेके प्रपतिष्यन्ति वीरा रणविशारदाः ॥ ११ ॥
विश्वास-प्रस्तुतिः
एवमुक्तं समाश्रुत्य शत्रुघ्नः सचिवं प्रति
उवाच पुनरप्येवं वचनं वदतां वरः ॥ १२ ॥
मूलम्
एवमुक्तं समाश्रुत्य शत्रुघ्नः सचिवं प्रति
उवाच पुनरप्येवं वचनं वदतां वरः ॥ १२ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्न उवाच
कथमत्र प्रकर्तव्यं रामाश्वोऽनेन चेद्धृतः
नायाति योद्धुं प्रबलं कटकं वीरसेवितम् ॥ १३ ॥
मूलम्
शत्रुघ्न उवाच
कथमत्र प्रकर्तव्यं रामाश्वोऽनेन चेद्धृतः
नायाति योद्धुं प्रबलं कटकं वीरसेवितम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
सुमतिरुवाच
दूतः प्रेष्यो महाराज राजानं प्रति वाग्मिकः
यद्वाक्येन समायाति बलेन बलिनां वरः ॥ १४ ॥
मूलम्
सुमतिरुवाच
दूतः प्रेष्यो महाराज राजानं प्रति वाग्मिकः
यद्वाक्येन समायाति बलेन बलिनां वरः ॥ १४ ॥
विश्वास-प्रस्तुतिः
नोचेदज्ञानतो वाहो धृतः केनापि मानिना
अर्पयिष्यति नः साधुमश्वं क्रतुवरं शुभम् ॥ १५ ॥
मूलम्
नोचेदज्ञानतो वाहो धृतः केनापि मानिना
अर्पयिष्यति नः साधुमश्वं क्रतुवरं शुभम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वातु तद्वाक्यं शत्रुघ्नो बुद्धिमान्बली
अङ्गदं प्रत्युवाचेदं वचनं विनयान्वितम् ॥ १६ ॥
मूलम्
इति श्रुत्वातु तद्वाक्यं शत्रुघ्नो बुद्धिमान्बली
अङ्गदं प्रत्युवाचेदं वचनं विनयान्वितम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्न उवाच
याहि त्वं निकटस्थे वै सुरथस्य महापुरे
दूतत्वेन ततो गत्वा प्रब्रूहि नृपतिं प्रति ॥ १७ ॥
मूलम्
शत्रुघ्न उवाच
याहि त्वं निकटस्थे वै सुरथस्य महापुरे
दूतत्वेन ततो गत्वा प्रब्रूहि नृपतिं प्रति ॥ १७ ॥
विश्वास-प्रस्तुतिः
त्वया धृतो रामवाहो ज्ञानतोऽज्ञानतोपि वा
अर्पयतु न वा यातु प्रधनं वीरसंयुतम् ॥ १८ ॥
मूलम्
त्वया धृतो रामवाहो ज्ञानतोऽज्ञानतोपि वा
अर्पयतु न वा यातु प्रधनं वीरसंयुतम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
रामस्य दौत्यं लङ्कायां रावणं प्रति यत्कृतम्
तथैव कुरु भूयिष्ठ बलसंयुतबुद्धिमन् ॥ १९ ॥
मूलम्
रामस्य दौत्यं लङ्कायां रावणं प्रति यत्कृतम्
तथैव कुरु भूयिष्ठ बलसंयुतबुद्धिमन् ॥ १९ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
एतच्छ्रुत्वाङ्गदो वीर ओमिति प्रोच्य भूमिपम्
जगाम संसदो मध्ये वीरश्रेणिसमन्विते ॥ २० ॥
मूलम्
शेष उवाच
एतच्छ्रुत्वाङ्गदो वीर ओमिति प्रोच्य भूमिपम्
जगाम संसदो मध्ये वीरश्रेणिसमन्विते ॥ २० ॥
विश्वास-प्रस्तुतिः
ददर्श सुरथं भूपं तुलसीमञ्जरीधरम्
रामभद्रं रसनया ब्रुवन्तं सेवकान्निजान् ॥ २१ ॥
मूलम्
ददर्श सुरथं भूपं तुलसीमञ्जरीधरम्
रामभद्रं रसनया ब्रुवन्तं सेवकान्निजान् ॥ २१ ॥
विश्वास-प्रस्तुतिः
राजापि दृष्ट्वा प्लवगं मनोहरवपुर्धरम्
शत्रुघ्नदूतं मत्वापि वालिजं प्रत्यभाषत ॥ २२ ॥
मूलम्
राजापि दृष्ट्वा प्लवगं मनोहरवपुर्धरम्
शत्रुघ्नदूतं मत्वापि वालिजं प्रत्यभाषत ॥ २२ ॥
विश्वास-प्रस्तुतिः
सुरथ उवाच
प्लवगाधिप कस्मात्त्वमागतोऽत्र कथं भवान्
ब्रूहि मे कारणं सर्वं यथा ज्ञात्वा करोमि तत् ॥ २३ ॥
मूलम्
सुरथ उवाच
प्लवगाधिप कस्मात्त्वमागतोऽत्र कथं भवान्
ब्रूहि मे कारणं सर्वं यथा ज्ञात्वा करोमि तत् ॥ २३ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति सम्भाषमाणं तं प्रत्युवाच कपीश्वरः
विस्मयंश्चेतसि भृशं रामसेवाकरं नृपम् ॥ २४ ॥
मूलम्
शेष उवाच
इति सम्भाषमाणं तं प्रत्युवाच कपीश्वरः
विस्मयंश्चेतसि भृशं रामसेवाकरं नृपम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
जानीहि मां नृपश्रेष्ठ वालिपुत्रं हरीश्वरम्
शत्रुघ्नेन च दूतत्वे प्रेषितो भवतोंऽतिकम् ॥ २५ ॥
मूलम्
जानीहि मां नृपश्रेष्ठ वालिपुत्रं हरीश्वरम्
शत्रुघ्नेन च दूतत्वे प्रेषितो भवतोंऽतिकम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
सेवकैः कैश्चिदागत्य धृतोऽश्वो मम साम्प्रतम्
अज्ञानतो महान्याय्यं कुर्वद्भिः सहसा नृप ॥ २६ ॥
मूलम्
सेवकैः कैश्चिदागत्य धृतोऽश्वो मम साम्प्रतम्
अज्ञानतो महान्याय्यं कुर्वद्भिः सहसा नृप ॥ २६ ॥
विश्वास-प्रस्तुतिः
तमश्वं सह राज्येन सहपुत्रैर्मुदान्वितः
शत्रुघ्नं याहि चरणे पतित्वाशु प्रदेहि च ॥ २७ ॥
मूलम्
तमश्वं सह राज्येन सहपुत्रैर्मुदान्वितः
शत्रुघ्नं याहि चरणे पतित्वाशु प्रदेहि च ॥ २७ ॥
विश्वास-प्रस्तुतिः
नोचेच्छत्रुघ्ननिर्मुक्तनाराचैः क्षतविग्रहः
पृथ्वीतलमलं कुर्वञ्छयिष्यसि विशीर्षकः ॥ २८ ॥
मूलम्
नोचेच्छत्रुघ्ननिर्मुक्तनाराचैः क्षतविग्रहः
पृथ्वीतलमलं कुर्वञ्छयिष्यसि विशीर्षकः ॥ २८ ॥
विश्वास-प्रस्तुतिः
येन लङ्कापतिर्नाशं प्रापितो लीलया क्षणात्
तस्याश्वं यागयोग्यं तु हृत्वा कुत्र गमिष्यसि ॥ २९ ॥
मूलम्
येन लङ्कापतिर्नाशं प्रापितो लीलया क्षणात्
तस्याश्वं यागयोग्यं तु हृत्वा कुत्र गमिष्यसि ॥ २९ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इत्यादिभाषमाणं तं प्रत्युवाच महीश्वरः
सर्वं तथ्यं ब्रवीषि त्वं नानृतं तव भाषितम् ॥ ३० ॥
मूलम्
शेष उवाच
इत्यादिभाषमाणं तं प्रत्युवाच महीश्वरः
सर्वं तथ्यं ब्रवीषि त्वं नानृतं तव भाषितम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
परं शृणुष्व मद्वाक्यं शत्रुघ्नपदसेवक
मया धृतो महानश्वो रामचन्द्रस्य धीमतः ॥ ३१ ॥
मूलम्
परं शृणुष्व मद्वाक्यं शत्रुघ्नपदसेवक
मया धृतो महानश्वो रामचन्द्रस्य धीमतः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
न मोक्ष्ये सर्वथा वाहं शत्रुघ्नादिभयादहम्
चेद्रामः स्वयमागत्य दर्शनं दास्यते मम ॥ ३२ ॥
मूलम्
न मोक्ष्ये सर्वथा वाहं शत्रुघ्नादिभयादहम्
चेद्रामः स्वयमागत्य दर्शनं दास्यते मम ॥ ३२ ॥
विश्वास-प्रस्तुतिः
तदाहं चरणौ नत्वा दास्यामि सुतसंयुतः
सर्वं राज्यं कुटुम्बं च धनं धान्यं बलं बहु ॥ ३३ ॥
मूलम्
तदाहं चरणौ नत्वा दास्यामि सुतसंयुतः
सर्वं राज्यं कुटुम्बं च धनं धान्यं बलं बहु ॥ ३३ ॥
विश्वास-प्रस्तुतिः
क्षत्त्रियाणामयं धर्मः स्वामिनापि विरुद्ध्यते
धर्मेण युद्धं तत्रापि रामदर्शनमिच्छता ॥ ३४ ॥
मूलम्
क्षत्त्रियाणामयं धर्मः स्वामिनापि विरुद्ध्यते
धर्मेण युद्धं तत्रापि रामदर्शनमिच्छता ॥ ३४ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नादीन्प्रवीरांस्तानधुनाहं क्षणादपि
जित्वा बध्नामि मद्गेहे नोचेद्रामः समाव्रजेत् ॥ ३५ ॥
मूलम्
शत्रुघ्नादीन्प्रवीरांस्तानधुनाहं क्षणादपि
जित्वा बध्नामि मद्गेहे नोचेद्रामः समाव्रजेत् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति श्रुत्वाङ्गदो धीमाञ्जहास नृपतिं तदा
उवाच च महद्वाक्यं महाधैर्यसमन्वितम् ॥ ३६ ॥
मूलम्
शेष उवाच
इति श्रुत्वाङ्गदो धीमाञ्जहास नृपतिं तदा
उवाच च महद्वाक्यं महाधैर्यसमन्वितम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अङ्गद उवाच
बुद्धिहीनः प्रवदसि वृद्धत्वात्सागता तव
यत्त्वं शत्रुघ्ननृपतिं धिक्करोषि धिया बली ॥ ३७ ॥
मूलम्
अङ्गद उवाच
बुद्धिहीनः प्रवदसि वृद्धत्वात्सागता तव
यत्त्वं शत्रुघ्ननृपतिं धिक्करोषि धिया बली ॥ ३७ ॥
विश्वास-प्रस्तुतिः
यो मान्धातृरिपुं दैत्यं लवणं लीलयावधीत्
येनानेके जिताः सङ्ख्ये वैरिणः प्रबलोद्धताः ॥ ३८ ॥
मूलम्
यो मान्धातृरिपुं दैत्यं लवणं लीलयावधीत्
येनानेके जिताः सङ्ख्ये वैरिणः प्रबलोद्धताः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
विद्युन्माली हतो येन राक्षसः कामगे स्थितः
त्वं तं बध्नासि वीरेन्द्रं मतिहीनः प्रभासि मे ॥ ३९ ॥
मूलम्
विद्युन्माली हतो येन राक्षसः कामगे स्थितः
त्वं तं बध्नासि वीरेन्द्रं मतिहीनः प्रभासि मे ॥ ३९ ॥
विश्वास-प्रस्तुतिः
भ्रातृजो यस्य सुबली पुष्कलः परमास्त्रवित्
येन रुद्रगणः सङ्ख्ये वीरभद्रः सुतोषितः ॥ ४० ॥
मूलम्
भ्रातृजो यस्य सुबली पुष्कलः परमास्त्रवित्
येन रुद्रगणः सङ्ख्ये वीरभद्रः सुतोषितः ॥ ४० ॥
विश्वास-प्रस्तुतिः
वर्णयामि किमेतस्य पराक्रान्तिं बलोर्जिताम्
येन नास्ति समः पृथ्व्यां बलेन यशसा श्रिया ॥ ४१ ॥
मूलम्
वर्णयामि किमेतस्य पराक्रान्तिं बलोर्जिताम्
येन नास्ति समः पृथ्व्यां बलेन यशसा श्रिया ॥ ४१ ॥
विश्वास-प्रस्तुतिः
हनूमान्यस्य निकटे रघुनाथपदाब्जधीः
यस्यानेकानि कर्माणि भविष्यन्ति श्रुतानि ते ॥ ४२ ॥
मूलम्
हनूमान्यस्य निकटे रघुनाथपदाब्जधीः
यस्यानेकानि कर्माणि भविष्यन्ति श्रुतानि ते ॥ ४२ ॥
विश्वास-प्रस्तुतिः
सत्रिकूटा राक्षसपूर्दग्धा येन क्षणाद्बलात्
अक्षो येन हतः पुत्रो राक्षसेन्द्रस्य दुर्मतेः ॥ ४३ ॥
मूलम्
सत्रिकूटा राक्षसपूर्दग्धा येन क्षणाद्बलात्
अक्षो येन हतः पुत्रो राक्षसेन्द्रस्य दुर्मतेः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
द्रोणोनाम गिरिर्येन पुच्छाग्रेण सदैवतः
आनीतो जीवनार्थं तु सैनिकानां मुहुर्मुहुः ॥ ४४ ॥
मूलम्
द्रोणोनाम गिरिर्येन पुच्छाग्रेण सदैवतः
आनीतो जीवनार्थं तु सैनिकानां मुहुर्मुहुः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
जानाति रामश्चारित्रं नान्यो जानाति मूढधीः
यं कपीन्द्रं मनाक्स्वान्तान्न विस्मरति सेवकम् ॥ ४५ ॥
मूलम्
जानाति रामश्चारित्रं नान्यो जानाति मूढधीः
यं कपीन्द्रं मनाक्स्वान्तान्न विस्मरति सेवकम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
सुग्रीवाद्याः कपीन्द्रा ये पृथ्वीं सर्वां ग्रसन्ति ये
ते शत्रुघ्नं नृपं सर्वे सेवन्ते प्रेक्षणोत्सुकाः ॥ ४६ ॥
मूलम्
सुग्रीवाद्याः कपीन्द्रा ये पृथ्वीं सर्वां ग्रसन्ति ये
ते शत्रुघ्नं नृपं सर्वे सेवन्ते प्रेक्षणोत्सुकाः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
कुशध्वजो नीलरत्नो रिपुतापो महास्त्रवित्
प्रतापाग्र्यः सुबाहुश्च विमलः सुमदस्तथा ॥ ४७ ॥
मूलम्
कुशध्वजो नीलरत्नो रिपुतापो महास्त्रवित्
प्रतापाग्र्यः सुबाहुश्च विमलः सुमदस्तथा ॥ ४७ ॥
विश्वास-प्रस्तुतिः
राजा वीरमणिः सत्ययुतो रामस्य सेवकः
एतेऽन्येपि नृपा भूमेः पतयः पर्युपासते ॥ ४८ ॥
मूलम्
राजा वीरमणिः सत्ययुतो रामस्य सेवकः
एतेऽन्येपि नृपा भूमेः पतयः पर्युपासते ॥ ४८ ॥
विश्वास-प्रस्तुतिः
तत्र त्वं वीर जलधौ मशकः को भवानिति
तज्ज्ञात्वा गच्छ शत्रुघ्नं कृपालुं पुत्रकैर्युतः ॥ ४९ ॥
मूलम्
तत्र त्वं वीर जलधौ मशकः को भवानिति
तज्ज्ञात्वा गच्छ शत्रुघ्नं कृपालुं पुत्रकैर्युतः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
वाहं समर्प्य गन्तासि रामं राजीवलोचनम्
दृष्ट्वा कृतार्थी कुरुषे स्वाङ्गानि जनुषा सह ॥ ५० ॥
मूलम्
वाहं समर्प्य गन्तासि रामं राजीवलोचनम्
दृष्ट्वा कृतार्थी कुरुषे स्वाङ्गानि जनुषा सह ॥ ५० ॥
विश्वास-प्रस्तुतिः
शेष उवाच
राजा प्रोवाच तं दूतं प्रब्रुवन्तमनेकधा
एतान्दर्शयसि क्षिप्रं सर्वे न ममगोचराः ॥ ५१ ॥
मूलम्
शेष उवाच
राजा प्रोवाच तं दूतं प्रब्रुवन्तमनेकधा
एतान्दर्शयसि क्षिप्रं सर्वे न ममगोचराः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
यादृशं मद्बलं दूत तादृशं न हनूमतः
यो रामं पृष्ठतः कृत्वा प्रागाद्यागस्य पालने ॥ ५२ ॥
मूलम्
यादृशं मद्बलं दूत तादृशं न हनूमतः
यो रामं पृष्ठतः कृत्वा प्रागाद्यागस्य पालने ॥ ५२ ॥
विश्वास-प्रस्तुतिः
यद्यहं मनसा वाचा कर्मणा कुतुकान्वितः
भजामि रामं तर्ह्याशु दर्शयिष्यति स्वां तनुम् ॥ ५३ ॥
मूलम्
यद्यहं मनसा वाचा कर्मणा कुतुकान्वितः
भजामि रामं तर्ह्याशु दर्शयिष्यति स्वां तनुम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
अन्यथा हनुमन्मुख्या वीरा बध्नन्तु मां बलात्
गृह्णन्तु वाहं तरसा रामभक्तिसमन्विताः ॥ ५४ ॥
मूलम्
अन्यथा हनुमन्मुख्या वीरा बध्नन्तु मां बलात्
गृह्णन्तु वाहं तरसा रामभक्तिसमन्विताः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
गच्छ त्वं नृप शत्रुघ्नं कथयस्व ममोदितम्
सज्जीभवन्तु सुभटा एष यामि रणे बली ॥ ५५ ॥
मूलम्
गच्छ त्वं नृप शत्रुघ्नं कथयस्व ममोदितम्
सज्जीभवन्तु सुभटा एष यामि रणे बली ॥ ५५ ॥
विश्वास-प्रस्तुतिः
स विचार्य यथायुक्तं करिष्यति रणाङ्गणे
मोचयन्तु महावाहं न वामा मा ददन्तु ते ॥ ५६ ॥
मूलम्
स विचार्य यथायुक्तं करिष्यति रणाङ्गणे
मोचयन्तु महावाहं न वामा मा ददन्तु ते ॥ ५६ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति श्रुत्वास्मि तं कृत्वा ययौ वीरो यतो नृपः
गत्वा निवेदयामास यथोक्तं सुरथेन वै ॥ ५७ ॥
मूलम्
शेष उवाच
इति श्रुत्वास्मि तं कृत्वा ययौ वीरो यतो नृपः
गत्वा निवेदयामास यथोक्तं सुरथेन वै ॥ ५७ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
सुरथदूतयोः संवादोनाम पञ्चाशत्तमोऽध्यायः ५०