०४९

शेष उवाच

विश्वास-प्रस्तुतिः

मासाः सप्ताभवंस्तस्य हयवर्यस्य हेलया
चरतो भारतं वर्षमनेकनृपपूरितम् ॥ १ ॥

मूलम्

मासाः सप्ताभवंस्तस्य हयवर्यस्य हेलया
चरतो भारतं वर्षमनेकनृपपूरितम् ॥ १ ॥

विश्वास-प्रस्तुतिः

स पूजितो भूपवरैः परीत्य वरभारतम्
परीवृतो वीरवरैः शत्रुघ्नादिभिरुद्भटैः ॥ २ ॥

मूलम्

स पूजितो भूपवरैः परीत्य वरभारतम्
परीवृतो वीरवरैः शत्रुघ्नादिभिरुद्भटैः ॥ २ ॥

विश्वास-प्रस्तुतिः

स बभ्राम बहून्देशान्हिमालयसमीपतः
न कोपि तं निजग्राह हयं रामबलं स्मरन् ॥ ३ ॥

मूलम्

स बभ्राम बहून्देशान्हिमालयसमीपतः
न कोपि तं निजग्राह हयं रामबलं स्मरन् ॥ ३ ॥

विश्वास-प्रस्तुतिः

अङ्गवङ्गकलिङ्गानां राजभिः संस्तुतो हयः
जगाम राज्ञो नगरे सुरथस्य मनोहरे ॥ ४ ॥

मूलम्

अङ्गवङ्गकलिङ्गानां राजभिः संस्तुतो हयः
जगाम राज्ञो नगरे सुरथस्य मनोहरे ॥ ४ ॥

विश्वास-प्रस्तुतिः

कुण्डलं नाम नगरमदितेर्यत्र कुण्डलम्
कर्णयोः पतितं भूमौ हर्षभयसुकम्पयोः ॥ ५ ॥

मूलम्

कुण्डलं नाम नगरमदितेर्यत्र कुण्डलम्
कर्णयोः पतितं भूमौ हर्षभयसुकम्पयोः ॥ ५ ॥

विश्वास-प्रस्तुतिः

यत्र धर्मव्यतिक्रान्तिं न करोति कदापिना
श्रीरामस्मरणं प्रेम्णा करोति जनतान्वहम् ॥ ६ ॥

मूलम्

यत्र धर्मव्यतिक्रान्तिं न करोति कदापिना
श्रीरामस्मरणं प्रेम्णा करोति जनतान्वहम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

अश्वत्थानां तु यत्रार्चा तुलस्याः प्रत्यहं नृभिः
क्रियते रघुनाथस्य सेवकैः पापवर्जितैः ॥ ७ ॥

मूलम्

अश्वत्थानां तु यत्रार्चा तुलस्याः प्रत्यहं नृभिः
क्रियते रघुनाथस्य सेवकैः पापवर्जितैः ॥ ७ ॥

विश्वास-प्रस्तुतिः

यत्र देवालया रम्या राघवप्रतिमायुताः
पूज्यन्ते प्रत्यहं शुद्धचित्तैः कपटवर्जितैः ॥ ८ ॥

मूलम्

यत्र देवालया रम्या राघवप्रतिमायुताः
पूज्यन्ते प्रत्यहं शुद्धचित्तैः कपटवर्जितैः ॥ ८ ॥

विश्वास-प्रस्तुतिः

वाचि नाम हरेर्यत्र न वै कलहसङ्कथा
हृदि ध्यानं तु तस्यैव न च कामफलस्मृतिः ॥ ९ ॥

मूलम्

वाचि नाम हरेर्यत्र न वै कलहसङ्कथा
हृदि ध्यानं तु तस्यैव न च कामफलस्मृतिः ॥ ९ ॥

विश्वास-प्रस्तुतिः

देवनं यत्र रामस्य वार्त्ताभिः पूतदेहिनाम्
न जातुचिन्नृणामस्ति सत्यव्यसनमानिनाम् ॥ १० ॥

मूलम्

देवनं यत्र रामस्य वार्त्ताभिः पूतदेहिनाम्
न जातुचिन्नृणामस्ति सत्यव्यसनमानिनाम् ॥ १० ॥

विश्वास-प्रस्तुतिः

तस्मिन्वसति धर्मात्मा सुरथः सत्यवान्बली
रघुनाथपदस्मारहृष्टचित्तः परोन्मदः ॥ ११ ॥

मूलम्

तस्मिन्वसति धर्मात्मा सुरथः सत्यवान्बली
रघुनाथपदस्मारहृष्टचित्तः परोन्मदः ॥ ११ ॥

विश्वास-प्रस्तुतिः

किं वर्णयामि रामस्य सेवकं सुरथं वरम्
यस्याशेषगुणा भूमौ विस्तृताः पावयन्त्यघम् ॥ १२ ॥

मूलम्

किं वर्णयामि रामस्य सेवकं सुरथं वरम्
यस्याशेषगुणा भूमौ विस्तृताः पावयन्त्यघम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

सेवकास्तस्य भूपस्य पर्यटन्तः कदाचन
अपश्यन्हयमेधस्य हयं चन्दनचर्चितम् ॥ १३ ॥

मूलम्

सेवकास्तस्य भूपस्य पर्यटन्तः कदाचन
अपश्यन्हयमेधस्य हयं चन्दनचर्चितम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

ते दृष्ट्वा विस्मयं प्राप्ता हयपत्रमलोकयन्
स्पष्टाक्षरसमायुक्तं चन्दनादिकचर्चितम् ॥ १४ ॥

मूलम्

ते दृष्ट्वा विस्मयं प्राप्ता हयपत्रमलोकयन्
स्पष्टाक्षरसमायुक्तं चन्दनादिकचर्चितम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

ज्ञात्वा रामेण सम्मुक्तं हयं नेत्रमनोहरम्
हृष्टा राज्ञे सभास्थाय कथयामासुरुत्सुकाः ॥ १५ ॥

मूलम्

ज्ञात्वा रामेण सम्मुक्तं हयं नेत्रमनोहरम्
हृष्टा राज्ञे सभास्थाय कथयामासुरुत्सुकाः ॥ १५ ॥

विश्वास-प्रस्तुतिः

स्वामिन्नयोध्यानगरीपतिस्तस्यास्तु राघवः
हयमेधक्रतोर्योग्यो हयो मुक्तः परिभ्रमन् ॥ १६ ॥

मूलम्

स्वामिन्नयोध्यानगरीपतिस्तस्यास्तु राघवः
हयमेधक्रतोर्योग्यो हयो मुक्तः परिभ्रमन् ॥ १६ ॥

विश्वास-प्रस्तुतिः

स ते पुरस्य निकटे प्राप्तः सेवकसंयुतः
गृहाण त्वं महाराज हयं तं सुमनोहरम् ॥ १७ ॥

मूलम्

स ते पुरस्य निकटे प्राप्तः सेवकसंयुतः
गृहाण त्वं महाराज हयं तं सुमनोहरम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
इति श्रुत्वा निजप्रोक्तं वाक्यं हर्षपरिप्लुतः
उवाच वीरान्बलिनो मेघगम्भीरया गिरा ॥ १८ ॥

मूलम्

शेष उवाच
इति श्रुत्वा निजप्रोक्तं वाक्यं हर्षपरिप्लुतः
उवाच वीरान्बलिनो मेघगम्भीरया गिरा ॥ १८ ॥

विश्वास-प्रस्तुतिः

सुरथ उवाच
धन्या वयं राममुखं पश्यामः सह सेवकाः
ग्रहीष्यामि हयं तस्य भटकोटिपरीवृतम् ॥ १९ ॥

मूलम्

सुरथ उवाच
धन्या वयं राममुखं पश्यामः सह सेवकाः
ग्रहीष्यामि हयं तस्य भटकोटिपरीवृतम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

तदा मोक्ष्यामि वाहं तं यदा रामः समाव्रजेत्
कृतार्थं मम भक्तस्य चिरं ध्यानरतस्य वै ॥ २० ॥

मूलम्

तदा मोक्ष्यामि वाहं तं यदा रामः समाव्रजेत्
कृतार्थं मम भक्तस्य चिरं ध्यानरतस्य वै ॥ २० ॥

विश्वास-प्रस्तुतिः

शेष उवाच
इत्थमुक्त्वा महीपालः सेवकान्स्वयमादिशत्
गृह्णन्तु वाहं प्रसभं मोच्यो नाश्वोऽक्षिगोचरः ॥ २१ ॥

मूलम्

शेष उवाच
इत्थमुक्त्वा महीपालः सेवकान्स्वयमादिशत्
गृह्णन्तु वाहं प्रसभं मोच्यो नाश्वोऽक्षिगोचरः ॥ २१ ॥

विश्वास-प्रस्तुतिः

अनेन सुमहाल्ँलाभो भविष्यति तु मे मतम्
यद्रामचरणौ प्रेक्षे ब्रह्मशक्रादिदुर्ल्लभौ ॥ २२ ॥

मूलम्

अनेन सुमहाल्ँलाभो भविष्यति तु मे मतम्
यद्रामचरणौ प्रेक्षे ब्रह्मशक्रादिदुर्ल्लभौ ॥ २२ ॥

विश्वास-प्रस्तुतिः

स एव धन्यः स्वजनः पुत्रो वा बान्धवोऽथवा
पशुर्वा वाहनं वापि रामाप्तिर्येन सम्भवेत् ॥ २३ ॥

मूलम्

स एव धन्यः स्वजनः पुत्रो वा बान्धवोऽथवा
पशुर्वा वाहनं वापि रामाप्तिर्येन सम्भवेत् ॥ २३ ॥

विश्वास-प्रस्तुतिः

तस्माद्गृहीत्वा क्रत्वश्वं स्वर्णपत्रेण शोभितम्
बध्नन्तु वाजिशालायां कामवेगं मनोरमम् ॥ २४ ॥

मूलम्

तस्माद्गृहीत्वा क्रत्वश्वं स्वर्णपत्रेण शोभितम्
बध्नन्तु वाजिशालायां कामवेगं मनोरमम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

इत्युक्तास्ते ततो गत्वा वाहं रामस्य शोभितम्
गृहीत्वा तरसा राज्ञे ददुः सर्वं शुभाङ्गिनम् ॥ २५ ॥

मूलम्

इत्युक्तास्ते ततो गत्वा वाहं रामस्य शोभितम्
गृहीत्वा तरसा राज्ञे ददुः सर्वं शुभाङ्गिनम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

राजा प्राप्य मुदा चाश्वं रामस्य दनुजार्दनः
सेवकान्प्राह बलिनो धर्मकृत्यविचक्षणः ॥ २६ ॥

मूलम्

राजा प्राप्य मुदा चाश्वं रामस्य दनुजार्दनः
सेवकान्प्राह बलिनो धर्मकृत्यविचक्षणः ॥ २६ ॥

विश्वास-प्रस्तुतिः

वात्स्यायन महाबुद्धे शृणुष्वैकाग्रमानसः
न तस्य विषये कश्चित्परदाररतो नरः ॥ २७ ॥

मूलम्

वात्स्यायन महाबुद्धे शृणुष्वैकाग्रमानसः
न तस्य विषये कश्चित्परदाररतो नरः ॥ २७ ॥

विश्वास-प्रस्तुतिः

न परद्रव्यनिरतो न च कामेषु लम्पटः
न जिह्वाभिरतोन्मार्गे कीर्त्तयेद्रामकीर्तनात् ॥ २८ ॥

मूलम्

न परद्रव्यनिरतो न च कामेषु लम्पटः
न जिह्वाभिरतोन्मार्गे कीर्त्तयेद्रामकीर्तनात् ॥ २८ ॥

विश्वास-प्रस्तुतिः

यः सेवकान्नृपो वक्ति यूयं सेवार्थमागताः
कथयन्तु भवच्चेष्टां धर्मकर्मविशारदाः ॥ २९ ॥

मूलम्

यः सेवकान्नृपो वक्ति यूयं सेवार्थमागताः
कथयन्तु भवच्चेष्टां धर्मकर्मविशारदाः ॥ २९ ॥

विश्वास-प्रस्तुतिः

एकपत्नीव्रतधरा न परद्रव्यलोलुपाः
परापवादानिरता न च वेदोत्पथं गताः ॥ ३० ॥

मूलम्

एकपत्नीव्रतधरा न परद्रव्यलोलुपाः
परापवादानिरता न च वेदोत्पथं गताः ॥ ३० ॥

विश्वास-प्रस्तुतिः

श्रीरामस्मरणादीनि कुर्वन्ति प्रत्यहं भटाः
तानहं रामसेवार्थं रक्षाम्यन्तक कोपवान् ॥ ३१ ॥

मूलम्

श्रीरामस्मरणादीनि कुर्वन्ति प्रत्यहं भटाः
तानहं रामसेवार्थं रक्षाम्यन्तक कोपवान् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

एतद्विरुद्धधर्माणो ये नराः पापसंयुताः
तानहं विषये मह्यं वासयामि न दुर्मतीन् ॥ ३२ ॥

मूलम्

एतद्विरुद्धधर्माणो ये नराः पापसंयुताः
तानहं विषये मह्यं वासयामि न दुर्मतीन् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

तस्य देशे न पापिष्ठाः पापं कुर्वन्ति मानसे
हरिध्यानहताशेष पातकामोदसंयुताः ॥ ३३ ॥

मूलम्

तस्य देशे न पापिष्ठाः पापं कुर्वन्ति मानसे
हरिध्यानहताशेष पातकामोदसंयुताः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

यदैवमभवद्देशो राजा धर्मेण संयुतः
तदा तत्स्था नराः सर्वे मृता गच्छन्ति निर्वृतिम् ॥ ३४ ॥

मूलम्

यदैवमभवद्देशो राजा धर्मेण संयुतः
तदा तत्स्था नराः सर्वे मृता गच्छन्ति निर्वृतिम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

यमानुचरनिर्वेशो नाभवत्सौरथे पुरे
तदा यमो मुनेरूपं धृत्वा प्रागान्महीश्वरम् ॥ ३५ ॥

मूलम्

यमानुचरनिर्वेशो नाभवत्सौरथे पुरे
तदा यमो मुनेरूपं धृत्वा प्रागान्महीश्वरम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

वल्कलाम्बरधारी च जटाशोभितशीर्षकः
सुरथं तु सभामध्ये ददर्श हरिसेवकम् ॥ ३६ ॥

मूलम्

वल्कलाम्बरधारी च जटाशोभितशीर्षकः
सुरथं तु सभामध्ये ददर्श हरिसेवकम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तुलसीमस्तके यस्य वाचि नाम हरेः परम्
धर्मकर्मरतां वार्त्तां श्रावयन्तं निजाञ्जनान् ॥ ३७ ॥

मूलम्

तुलसीमस्तके यस्य वाचि नाम हरेः परम्
धर्मकर्मरतां वार्त्तां श्रावयन्तं निजाञ्जनान् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तदा मुनिं नृपो दृष्ट्वा तपोमूर्तिमिव स्थितम्
ववन्दे चरणौ तस्य पाद्यादिकमथाकरोत् ॥ ३८ ॥

मूलम्

तदा मुनिं नृपो दृष्ट्वा तपोमूर्तिमिव स्थितम्
ववन्दे चरणौ तस्य पाद्यादिकमथाकरोत् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

सुखोपविष्टं विश्रान्तं मुनिं प्राह नृपाग्रणीः
धन्यमद्य जनुर्मह्यं धन्यमद्य गृहं मम ॥ ३९ ॥

मूलम्

सुखोपविष्टं विश्रान्तं मुनिं प्राह नृपाग्रणीः
धन्यमद्य जनुर्मह्यं धन्यमद्य गृहं मम ॥ ३९ ॥

विश्वास-प्रस्तुतिः

कथाः कथयतान्मह्यं रामस्य विविधा वराः
याः शृण्वतां पापहानिर्भविष्यति पदे पदे ॥ ४० ॥

मूलम्

कथाः कथयतान्मह्यं रामस्य विविधा वराः
याः शृण्वतां पापहानिर्भविष्यति पदे पदे ॥ ४० ॥

विश्वास-प्रस्तुतिः

इत्थमुक्तं समाकर्ण्य जहास स मुनिर्भृशम्
दन्तान्प्रदर्शयन्सर्वांस्तालास्फालितपाणिकः ॥ ४१ ॥

मूलम्

इत्थमुक्तं समाकर्ण्य जहास स मुनिर्भृशम्
दन्तान्प्रदर्शयन्सर्वांस्तालास्फालितपाणिकः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

हसन्तं तं मुनिं प्राह हसने कारणं किमु
कथयस्व प्रसादेन यथा स्यान्मनसः सुखम् ॥ ४२ ॥

मूलम्

हसन्तं तं मुनिं प्राह हसने कारणं किमु
कथयस्व प्रसादेन यथा स्यान्मनसः सुखम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

ततो मुनिर्नृपं प्राह शृणु राजन्धियायुतः
यदहं तेऽभिधास्यामि स्मिते कारणमुत्तमम् ॥ ४३ ॥

मूलम्

ततो मुनिर्नृपं प्राह शृणु राजन्धियायुतः
यदहं तेऽभिधास्यामि स्मिते कारणमुत्तमम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

त्वया प्रोक्तं हरेः कीर्तिं कथयस्व ममाग्रतः
को हरिः कस्य वा कीर्तिः सर्वे कर्मवशा नराः ॥ ४४ ॥

मूलम्

त्वया प्रोक्तं हरेः कीर्तिं कथयस्व ममाग्रतः
को हरिः कस्य वा कीर्तिः सर्वे कर्मवशा नराः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

कर्मणा प्राप्यते स्वर्गः कर्मणा नरकं व्रजेत्
कर्मणैव भवेत्सर्वं पुत्रपौत्रादिकं बहु ॥ ४५ ॥

मूलम्

कर्मणा प्राप्यते स्वर्गः कर्मणा नरकं व्रजेत्
कर्मणैव भवेत्सर्वं पुत्रपौत्रादिकं बहु ॥ ४५ ॥

विश्वास-प्रस्तुतिः

शक्रः शतं क्रतूनां तु कृत्वागात्परमं पदम्
ब्रह्मापि कर्मणा लोकं प्राप्य सत्याख्यमद्भुतम् ॥ ४६ ॥

मूलम्

शक्रः शतं क्रतूनां तु कृत्वागात्परमं पदम्
ब्रह्मापि कर्मणा लोकं प्राप्य सत्याख्यमद्भुतम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

अनेके कर्मणा सिद्धा मरुदादय ईशिनः
कुर्वन्ति भोगसौख्यं च अप्सरोगणसेविताः ॥ ४७ ॥

मूलम्

अनेके कर्मणा सिद्धा मरुदादय ईशिनः
कुर्वन्ति भोगसौख्यं च अप्सरोगणसेविताः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

तस्मात्कुरुष्व यज्ञादीन्यजस्व किल देवताः
यथा ते विमलाकीर्तिर्भविष्यति महीतले ॥ ४८ ॥

मूलम्

तस्मात्कुरुष्व यज्ञादीन्यजस्व किल देवताः
यथा ते विमलाकीर्तिर्भविष्यति महीतले ॥ ४८ ॥

विश्वास-प्रस्तुतिः

इति श्रुत्वा तु तद्वाक्यं कोपक्षुभितमानसः
उवाच रामैकमना विप्रं कर्मविशारदम् ॥ ४९ ॥

मूलम्

इति श्रुत्वा तु तद्वाक्यं कोपक्षुभितमानसः
उवाच रामैकमना विप्रं कर्मविशारदम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

मा ब्रूहि कर्मणो वार्तां क्षयिष्णुफलदायिनीम्
गच्छ मन्नगरोपान्ताद्बहिर्लोकविगर्हितः ॥ ५० ॥

मूलम्

मा ब्रूहि कर्मणो वार्तां क्षयिष्णुफलदायिनीम्
गच्छ मन्नगरोपान्ताद्बहिर्लोकविगर्हितः ॥ ५० ॥

विश्वास-प्रस्तुतिः

इन्द्रः पतिष्यति क्षिप्रं पतिष्यत्यपि पद्मजः
न पतिष्यन्ति मनुजा रामस्य भजनोत्सुकाः ॥ ५१ ॥

मूलम्

इन्द्रः पतिष्यति क्षिप्रं पतिष्यत्यपि पद्मजः
न पतिष्यन्ति मनुजा रामस्य भजनोत्सुकाः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

पश्य ध्रुवं च प्रह्लादं बिभीषणमथाद्भुतम्
ये चान्ये रामभक्ता वै कदापि न पतन्ति ते ॥ ५२ ॥

मूलम्

पश्य ध्रुवं च प्रह्लादं बिभीषणमथाद्भुतम्
ये चान्ये रामभक्ता वै कदापि न पतन्ति ते ॥ ५२ ॥

विश्वास-प्रस्तुतिः

ये रामनिन्दका दुष्टास्तानि मे यमकिङ्कराः
ताडयिष्यन्ति लोहस्य मुद्गरैः पाशबन्धनैः ॥ ५३ ॥

मूलम्

ये रामनिन्दका दुष्टास्तानि मे यमकिङ्कराः
ताडयिष्यन्ति लोहस्य मुद्गरैः पाशबन्धनैः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणत्वाद्देहदण्डं न कुर्यां ते द्विजाधम
गच्छ गच्छ मदालोकात्ताडयिष्यामि चान्यथा ॥ ५४ ॥

मूलम्

ब्राह्मणत्वाद्देहदण्डं न कुर्यां ते द्विजाधम
गच्छ गच्छ मदालोकात्ताडयिष्यामि चान्यथा ॥ ५४ ॥

विश्वास-प्रस्तुतिः

इत्थमुक्तवति श्रेष्ठे भूपे सुरथसञ्ज्ञिते
सेवका बाहुना धृत्वा निष्कासयितुमुद्यताः ॥ ५५ ॥

मूलम्

इत्थमुक्तवति श्रेष्ठे भूपे सुरथसञ्ज्ञिते
सेवका बाहुना धृत्वा निष्कासयितुमुद्यताः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

तदा यमो निजं रूपं धृत्वा लोकैकवन्दितम्
प्राह भूपं प्रतुष्टोऽस्मि याचस्व हरिसेवक ॥ ५६ ॥

मूलम्

तदा यमो निजं रूपं धृत्वा लोकैकवन्दितम्
प्राह भूपं प्रतुष्टोऽस्मि याचस्व हरिसेवक ॥ ५६ ॥

विश्वास-प्रस्तुतिः

मया प्रलोभितो वाग्भिर्बह्वीभिरपि सुव्रत
चलितोसि न रामस्य सेवायाः साधुसेवितः ॥ ५७ ॥

मूलम्

मया प्रलोभितो वाग्भिर्बह्वीभिरपि सुव्रत
चलितोसि न रामस्य सेवायाः साधुसेवितः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

तदा प्रोवाच भूमीशो यमं दृष्ट्वा सुतोषितम्
उवाच यदि तुष्टोसि देहि मे वरमुत्तमम् ॥ ५८ ॥

मूलम्

तदा प्रोवाच भूमीशो यमं दृष्ट्वा सुतोषितम्
उवाच यदि तुष्टोसि देहि मे वरमुत्तमम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

तावन्मम न वै मृत्युर्यावद्रामसमागमः
न भयं मे भवत्तो हि कदाचन हि धर्मराट् ॥ ५९ ॥

मूलम्

तावन्मम न वै मृत्युर्यावद्रामसमागमः
न भयं मे भवत्तो हि कदाचन हि धर्मराट् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

तदोवाच यमो भूपमिदं तव भविष्यति
सर्वं त्वदीप्सितं तथ्यं करिष्यति रघोःपतिः ॥ ६० ॥

मूलम्

तदोवाच यमो भूपमिदं तव भविष्यति
सर्वं त्वदीप्सितं तथ्यं करिष्यति रघोःपतिः ॥ ६० ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वान्तर्हितो धर्मो जगाम स्वपुरं प्रति
प्रशस्य तस्य चरितं हरिभक्तिपरात्मनः ॥ ६१ ॥

मूलम्

इत्युक्त्वान्तर्हितो धर्मो जगाम स्वपुरं प्रति
प्रशस्य तस्य चरितं हरिभक्तिपरात्मनः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

स राजा धार्मिको रामसेवकः परया मुदा
गृहीत्वाश्वं प्रत्युवाच सेवकान्हरिसेवकान् ॥ ६२ ॥

मूलम्

स राजा धार्मिको रामसेवकः परया मुदा
गृहीत्वाश्वं प्रत्युवाच सेवकान्हरिसेवकान् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

मया गृहीतो वाहोऽसौ राघवस्य महीपतेः
सज्जी भवन्तु सर्वत्र यूयं रणविशारदाः ॥ ६३ ॥

मूलम्

मया गृहीतो वाहोऽसौ राघवस्य महीपतेः
सज्जी भवन्तु सर्वत्र यूयं रणविशारदाः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

इति प्रोक्तास्तु ते सर्वे भटा राज्ञो महाबलाः
सज्जीभूताः क्षणादेव सभायां जग्मुरुत्सुकाः ॥ ६४ ॥

मूलम्

इति प्रोक्तास्तु ते सर्वे भटा राज्ञो महाबलाः
सज्जीभूताः क्षणादेव सभायां जग्मुरुत्सुकाः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

राज्ञो वीरा दशसुताश्चम्पको मोहकस्तथा
रिपुञ्जयोऽतिदुर्वारः प्रतापीबलमोदकः ॥ ६५ ॥

मूलम्

राज्ञो वीरा दशसुताश्चम्पको मोहकस्तथा
रिपुञ्जयोऽतिदुर्वारः प्रतापीबलमोदकः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

हर्यक्षः सहदेवश्च भूरिदेवः सुतापनः
इति राज्ञो दश सुताः सज्जीभूता रणाङ्गणे ॥ ६६ ॥

मूलम्

हर्यक्षः सहदेवश्च भूरिदेवः सुतापनः
इति राज्ञो दश सुताः सज्जीभूता रणाङ्गणे ॥ ६६ ॥

विश्वास-प्रस्तुतिः

यातुमिच्छामकुर्वंस्ते महोत्साहसमन्विताः
राजापि स्वरथं चित्रं हेमशोभाविनिर्मितम् ॥ ६७ ॥

मूलम्

यातुमिच्छामकुर्वंस्ते महोत्साहसमन्विताः
राजापि स्वरथं चित्रं हेमशोभाविनिर्मितम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

आह्वयामास सुजवैर्वाजिभिः समलङ्कृतम्
रणोत्साहेन संयुक्तः सर्वसैन्यपरीवृतः ॥ ६८ ॥

मूलम्

आह्वयामास सुजवैर्वाजिभिः समलङ्कृतम्
रणोत्साहेन संयुक्तः सर्वसैन्यपरीवृतः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

सभायां सेवकान्सर्वान्दिशन्नास्ते महीपतिः ॥ ६९ ॥

मूलम्

सभायां सेवकान्सर्वान्दिशन्नास्ते महीपतिः ॥ ६९ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सुरथ-
राज्ञा हयग्रहणन्नाम एकोनपञ्चाशत्तमोऽध्यायः ४९