शेष उवाच
विश्वास-प्रस्तुतिः
इति प्रोक्तं तु मुनिना संश्रुत्य परवीरहा
विस्मयं मानयामास हृदि शौनकमब्रवीत् ॥ १ ॥
मूलम्
इति प्रोक्तं तु मुनिना संश्रुत्य परवीरहा
विस्मयं मानयामास हृदि शौनकमब्रवीत् ॥ १ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्न उवाच
कर्मणो गहना वार्ता यया सात्वकनामधृत्
दिवं प्राप्तोऽपि महता कर्मणा राक्षसीकृतः ॥ २ ॥
मूलम्
शत्रुघ्न उवाच
कर्मणो गहना वार्ता यया सात्वकनामधृत्
दिवं प्राप्तोऽपि महता कर्मणा राक्षसीकृतः ॥ २ ॥
विश्वास-प्रस्तुतिः
स्वामिन्वद महर्षे त्वं कर्मणां स्वगतिर्यथा
येन कर्मविपाकेन यादृशं नरकं भवेत् ॥ ३ ॥
मूलम्
स्वामिन्वद महर्षे त्वं कर्मणां स्वगतिर्यथा
येन कर्मविपाकेन यादृशं नरकं भवेत् ॥ ३ ॥
विश्वास-प्रस्तुतिः
शौनक उवाच
धन्योसि राघवश्रेष्ठ यत्ते मतिरियं शुभा
जानन्नपि हितार्थाय लोकानां त्वं ब्रवीषि भोः ॥ ४ ॥
मूलम्
शौनक उवाच
धन्योसि राघवश्रेष्ठ यत्ते मतिरियं शुभा
जानन्नपि हितार्थाय लोकानां त्वं ब्रवीषि भोः ॥ ४ ॥
विश्वास-प्रस्तुतिः
कथयामि विचित्राणां कर्मणां विविधा गतीः
ताः शृणुष्व महाराज यच्छ्रुत्वा मोक्षमाप्नुयात् ॥ ५ ॥
मूलम्
कथयामि विचित्राणां कर्मणां विविधा गतीः
ताः शृणुष्व महाराज यच्छ्रुत्वा मोक्षमाप्नुयात् ॥ ५ ॥
विश्वास-प्रस्तुतिः
परवित्तं परापत्यं कलत्रं पारकं च यः
बलात्कारेण गृह्णाति भोगबुद्ध्या च दुर्मतिः ॥ ६ ॥
मूलम्
परवित्तं परापत्यं कलत्रं पारकं च यः
बलात्कारेण गृह्णाति भोगबुद्ध्या च दुर्मतिः ॥ ६ ॥
विश्वास-प्रस्तुतिः
कालपाशेन सम्बद्धो यमदूतैर्महाबलैः
तामिस्रे पात्यते तावद्यावद्वर्षसहस्रकम् ॥ ७ ॥
मूलम्
कालपाशेन सम्बद्धो यमदूतैर्महाबलैः
तामिस्रे पात्यते तावद्यावद्वर्षसहस्रकम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
तत्र ताडनमुद्धूताः कुर्वन्ति यमकिङ्कराः
पापभोगेन सन्तप्तस्ततो योनिं तु शौकरीम् ॥ ८ ॥
मूलम्
तत्र ताडनमुद्धूताः कुर्वन्ति यमकिङ्कराः
पापभोगेन सन्तप्तस्ततो योनिं तु शौकरीम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
तत्र भुक्त्वा महादुःखं मानुषत्वं गमिष्यति
रोगादिचिह्नितं तत्र दुर्यशो ज्ञापकं स्वकम् ॥ ९ ॥
मूलम्
तत्र भुक्त्वा महादुःखं मानुषत्वं गमिष्यति
रोगादिचिह्नितं तत्र दुर्यशो ज्ञापकं स्वकम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
भूतद्रोहं विधायैव केवलं स्वकुटुम्बकम्
पुष्णाति पापनिरतः सोंऽधतामिस्रके पतेत् ॥ १० ॥
मूलम्
भूतद्रोहं विधायैव केवलं स्वकुटुम्बकम्
पुष्णाति पापनिरतः सोंऽधतामिस्रके पतेत् ॥ १० ॥
विश्वास-प्रस्तुतिः
ये नरा इह जन्तूनां वधं कुर्वन्ति वै मृषा
ते रौरवे निपात्यन्ते भिद्यन्ते रुरुभी रुषा ॥ ११ ॥
मूलम्
ये नरा इह जन्तूनां वधं कुर्वन्ति वै मृषा
ते रौरवे निपात्यन्ते भिद्यन्ते रुरुभी रुषा ॥ ११ ॥
विश्वास-प्रस्तुतिः
यः स्वोदरार्थे भूतानां वधमाचरति स्फुटम्
महारौरवसञ्ज्ञे तु पात्यते स यमाज्ञया ॥ १२ ॥
मूलम्
यः स्वोदरार्थे भूतानां वधमाचरति स्फुटम्
महारौरवसञ्ज्ञे तु पात्यते स यमाज्ञया ॥ १२ ॥
विश्वास-प्रस्तुतिः
यो वै निजं तु जनकं ब्राह्मणं द्वेष्टि पापकृत्
कालसूत्रे महादुष्टे योजनायुतविस्तृते ॥ १३ ॥
मूलम्
यो वै निजं तु जनकं ब्राह्मणं द्वेष्टि पापकृत्
कालसूत्रे महादुष्टे योजनायुतविस्तृते ॥ १३ ॥
विश्वास-प्रस्तुतिः
यावन्ति पशुरोमाणि गवां द्वेषं करोति यः
तावद्वर्षसहस्राणि पच्यते यमकिङ्करैः ॥ १४ ॥
मूलम्
यावन्ति पशुरोमाणि गवां द्वेषं करोति यः
तावद्वर्षसहस्राणि पच्यते यमकिङ्करैः ॥ १४ ॥
विश्वास-प्रस्तुतिः
यो भूमौ भूपतिर्भूत्वा दण्डायोग्यं तु दण्डयेत्
करोति ब्राह्मणस्यापि देहदण्डं च लोलुपः ॥ १५ ॥
मूलम्
यो भूमौ भूपतिर्भूत्वा दण्डायोग्यं तु दण्डयेत्
करोति ब्राह्मणस्यापि देहदण्डं च लोलुपः ॥ १५ ॥
विश्वास-प्रस्तुतिः
स सूकरमुखैर्दुष्टैः पीड्यते यमकिङ्करैः
पश्चाद्दुष्टासु योनीषु जायते पापमुक्तये ॥ १६ ॥
मूलम्
स सूकरमुखैर्दुष्टैः पीड्यते यमकिङ्करैः
पश्चाद्दुष्टासु योनीषु जायते पापमुक्तये ॥ १६ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणानां गवां ये तु द्रव्यं वृत्तं तथाल्पकम्
वृत्तिं वा गृह्णते मोहाल्लुम्पन्ति स्वबलान्नराः ॥ १७ ॥
मूलम्
ब्राह्मणानां गवां ये तु द्रव्यं वृत्तं तथाल्पकम्
वृत्तिं वा गृह्णते मोहाल्लुम्पन्ति स्वबलान्नराः ॥ १७ ॥
विश्वास-प्रस्तुतिः
ते परत्रान्धकूपे च पात्यन्ते च महार्दिताः
योऽन्नं स्वयमुपाहृत्य मधुरं चात्तिलोलुपः ॥ १८ ॥
मूलम्
ते परत्रान्धकूपे च पात्यन्ते च महार्दिताः
योऽन्नं स्वयमुपाहृत्य मधुरं चात्तिलोलुपः ॥ १८ ॥
विश्वास-प्रस्तुतिः
न देवाय न सुहृदे ददाति रसनापरः
स पतत्येव नरके कृमिभोजनसञ्ज्ञिते ॥ १९ ॥
मूलम्
न देवाय न सुहृदे ददाति रसनापरः
स पतत्येव नरके कृमिभोजनसञ्ज्ञिते ॥ १९ ॥
विश्वास-प्रस्तुतिः
अनापदि नरो यस्तु हिरण्यादीन्यपाहरेत्
ब्रह्मस्वं वा महादुष्टे सन्दंशे नरके पतेत् ॥ २० ॥
मूलम्
अनापदि नरो यस्तु हिरण्यादीन्यपाहरेत्
ब्रह्मस्वं वा महादुष्टे सन्दंशे नरके पतेत् ॥ २० ॥
विश्वास-प्रस्तुतिः
यः स्वदेहं प्रपुष्णाति नान्यं जानाति मूढधीः
स पात्यते तैलतप्ते कुम्भीपाकेऽतिदारुणे ॥ २१ ॥
मूलम्
यः स्वदेहं प्रपुष्णाति नान्यं जानाति मूढधीः
स पात्यते तैलतप्ते कुम्भीपाकेऽतिदारुणे ॥ २१ ॥
विश्वास-प्रस्तुतिः
यो नागम्यां स्त्रियं मोहाद्योषिद्भावाच्च कामयेत्
तं तया किङ्कराः सूर्म्या परिरम्भं च कुर्वते ॥ २२ ॥
मूलम्
यो नागम्यां स्त्रियं मोहाद्योषिद्भावाच्च कामयेत्
तं तया किङ्कराः सूर्म्या परिरम्भं च कुर्वते ॥ २२ ॥
विश्वास-प्रस्तुतिः
ये बलाद्वेदमर्यादां लुम्पन्ति स्वबलोद्धताः
ते वैतरण्यां पतिता मांसशोणितभक्षकाः ॥ २३ ॥
मूलम्
ये बलाद्वेदमर्यादां लुम्पन्ति स्वबलोद्धताः
ते वैतरण्यां पतिता मांसशोणितभक्षकाः ॥ २३ ॥
विश्वास-प्रस्तुतिः
वृषलद्यं यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत्
पूयोदे निपतत्येव महादुःखसमन्वितः ॥ २४ ॥
मूलम्
वृषलद्यं यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत्
पूयोदे निपतत्येव महादुःखसमन्वितः ॥ २४ ॥
विश्वास-प्रस्तुतिः
ये दम्भमाश्रयन्ते वै धूर्ता लोकस्य वञ्चने
वैशसे नरके मूढाः पतन्ति यमताडिताः ॥ २५ ॥
मूलम्
ये दम्भमाश्रयन्ते वै धूर्ता लोकस्य वञ्चने
वैशसे नरके मूढाः पतन्ति यमताडिताः ॥ २५ ॥
विश्वास-प्रस्तुतिः
ये सवर्णां स्त्रियं मूढा रेतः स्वं पाययन्ति च
रेतःकुल्यासु ते पापा रेतःपानेषु तत्पराः ॥ २६ ॥
मूलम्
ये सवर्णां स्त्रियं मूढा रेतः स्वं पाययन्ति च
रेतःकुल्यासु ते पापा रेतःपानेषु तत्पराः ॥ २६ ॥
विश्वास-प्रस्तुतिः
ये चौरा वह्निदा दुष्टा गरदा ग्रामलुण्ठकाः
सारमेयादने ते वै पात्यन्ते पातकान्विताः ॥ २७ ॥
मूलम्
ये चौरा वह्निदा दुष्टा गरदा ग्रामलुण्ठकाः
सारमेयादने ते वै पात्यन्ते पातकान्विताः ॥ २७ ॥
विश्वास-प्रस्तुतिः
कूटसाक्ष्यं वदत्यद्धा पुरुषः पापसम्भृतः
परकीयं तु द्रव्यं यो हरति प्रसभं बली ॥ २८ ॥
मूलम्
कूटसाक्ष्यं वदत्यद्धा पुरुषः पापसम्भृतः
परकीयं तु द्रव्यं यो हरति प्रसभं बली ॥ २८ ॥
विश्वास-प्रस्तुतिः
सोऽवीचिनरके पापी अवाग्वक्त्रः पतत्यधः
तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत् ॥ २९ ॥
मूलम्
सोऽवीचिनरके पापी अवाग्वक्त्रः पतत्यधः
तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत् ॥ २९ ॥
विश्वास-प्रस्तुतिः
यो नरो रसनास्वादात्सुरां पिबति मूढधीः
तं पाययन्ति लोहस्य रसं धर्मस्य किङ्कराः ॥ ३० ॥
मूलम्
यो नरो रसनास्वादात्सुरां पिबति मूढधीः
तं पाययन्ति लोहस्य रसं धर्मस्य किङ्कराः ॥ ३० ॥
विश्वास-प्रस्तुतिः
यो गुरूनवमन्येत स्वविद्याचारदर्पितः
स मृतः पात्यते क्षारनरकेऽधोमुखः पुमान् ॥ ३१ ॥
मूलम्
यो गुरूनवमन्येत स्वविद्याचारदर्पितः
स मृतः पात्यते क्षारनरकेऽधोमुखः पुमान् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
विश्वासघातं कुर्वन्ति ये नरा धर्मनिष्कृताः
शूलप्रोते च नरके पात्यन्ते बहुयातने ॥ ३२ ॥
मूलम्
विश्वासघातं कुर्वन्ति ये नरा धर्मनिष्कृताः
शूलप्रोते च नरके पात्यन्ते बहुयातने ॥ ३२ ॥
विश्वास-प्रस्तुतिः
पिशुनो यो नरान्सर्वानुद्वेजयति वाक्यतः
दन्दशूके च पतितो दन्दशूकैः स दश्यते ॥ ३३ ॥
मूलम्
पिशुनो यो नरान्सर्वानुद्वेजयति वाक्यतः
दन्दशूके च पतितो दन्दशूकैः स दश्यते ॥ ३३ ॥
विश्वास-प्रस्तुतिः
एवं राजन्ननेके वै नरकाः पापकारिणाम्
पापं कृत्वा प्रयान्त्येते पीडां यान्ति सुदारुणाम् ॥ ३४ ॥
मूलम्
एवं राजन्ननेके वै नरकाः पापकारिणाम्
पापं कृत्वा प्रयान्त्येते पीडां यान्ति सुदारुणाम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
यैर्न श्रुता रामकथा न परोपकृतिः कृता
तेषां सर्वाणि दुःखानि भवन्ति नरकान्तरे ॥ ३५ ॥
मूलम्
यैर्न श्रुता रामकथा न परोपकृतिः कृता
तेषां सर्वाणि दुःखानि भवन्ति नरकान्तरे ॥ ३५ ॥
विश्वास-प्रस्तुतिः
अत्र यस्य सुखं स्वर्गे भूयात्तस्य इतीर्यते
ये दुःखिनो रोगयुता नरकादागताश्च ते ॥ ३६ ॥
मूलम्
अत्र यस्य सुखं स्वर्गे भूयात्तस्य इतीर्यते
ये दुःखिनो रोगयुता नरकादागताश्च ते ॥ ३६ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
एतच्छ्रुत्वा महीपालः कम्पमानः क्षणे क्षणे
पप्रच्छ भूयस्तं विप्रं सर्वसंशयनुत्तये ॥ ३७ ॥
मूलम्
शेष उवाच
एतच्छ्रुत्वा महीपालः कम्पमानः क्षणे क्षणे
पप्रच्छ भूयस्तं विप्रं सर्वसंशयनुत्तये ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तत्तत्पापस्य चिह्नानि कथयस्व महामुने
केन पापेन किं चिह्नं भूलोके उपजायते ॥ ३८ ॥
मूलम्
तत्तत्पापस्य चिह्नानि कथयस्व महामुने
केन पापेन किं चिह्नं भूलोके उपजायते ॥ ३८ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा तु तद्वाक्यं मुनिः प्रोवाच भूपतिम्
शृणु राजन्प्रवक्ष्यामि चिह्नानि पापकारिणाम् ॥ ३९ ॥
मूलम्
इति श्रुत्वा तु तद्वाक्यं मुनिः प्रोवाच भूपतिम्
शृणु राजन्प्रवक्ष्यामि चिह्नानि पापकारिणाम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
शौनक उवाच
सुरापः श्यामदन्तश्च नरकान्ते प्रजायते
अभक्ष्यभक्षकारी च जायते गुल्मकोदरः ॥ ४० ॥
मूलम्
शौनक उवाच
सुरापः श्यामदन्तश्च नरकान्ते प्रजायते
अभक्ष्यभक्षकारी च जायते गुल्मकोदरः ॥ ४० ॥
विश्वास-प्रस्तुतिः
उदक्यावीक्षितं भुक्त्वा जायते कृमिलोदरः
श्वमार्जारादिसंस्पृष्टं भुक्त्वा दुर्गन्धिमान्भवेत् ॥ ४१ ॥
मूलम्
उदक्यावीक्षितं भुक्त्वा जायते कृमिलोदरः
श्वमार्जारादिसंस्पृष्टं भुक्त्वा दुर्गन्धिमान्भवेत् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
अनिवेद्य सुरादिभ्यो भुञ्जानो जायते नरः
उदरे रोगवान्दुःखी महारोगप्रपीडितः ॥ ४२ ॥
मूलम्
अनिवेद्य सुरादिभ्यो भुञ्जानो जायते नरः
उदरे रोगवान्दुःखी महारोगप्रपीडितः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
परान्नविघ्नकरणादजीर्णमभिजायते
मन्दोदराग्निर्भवति सति द्रव्ये कदन्नदः ॥ ४३ ॥
मूलम्
परान्नविघ्नकरणादजीर्णमभिजायते
मन्दोदराग्निर्भवति सति द्रव्ये कदन्नदः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
विषदश्छर्दिरोगी स्यान्मार्गहा पादरोगवान्
पिशुनो नरकस्यान्ते जायते श्वासकासवान् ॥ ४४ ॥
मूलम्
विषदश्छर्दिरोगी स्यान्मार्गहा पादरोगवान्
पिशुनो नरकस्यान्ते जायते श्वासकासवान् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
धूर्तोऽपस्माररोगी स्याच्छूली च परतापनः
दावाग्निदायकश्चैव रक्तातीसारवान्भवेत् ॥ ४५ ॥
मूलम्
धूर्तोऽपस्माररोगी स्याच्छूली च परतापनः
दावाग्निदायकश्चैव रक्तातीसारवान्भवेत् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
सुरालये जले वापि शकृत्क्षेपं करोति यः
गुदरोगो भवेत्तस्य पापरूपः सुदारुणः ॥ ४६ ॥
मूलम्
सुरालये जले वापि शकृत्क्षेपं करोति यः
गुदरोगो भवेत्तस्य पापरूपः सुदारुणः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
गर्भपातनजा रोगाः क्षयमेहजलोदराः
प्रतिमा भङ्गकारी च अप्रतिष्ठश्च जायते ॥ ४७ ॥
मूलम्
गर्भपातनजा रोगाः क्षयमेहजलोदराः
प्रतिमा भङ्गकारी च अप्रतिष्ठश्च जायते ॥ ४७ ॥
विश्वास-प्रस्तुतिः
दुष्टवादी खण्डितः स्यात्खल्वाटः परनिन्दकः
सभायां पक्षपाती च जायते पक्षघातवान् ॥ ४८ ॥
मूलम्
दुष्टवादी खण्डितः स्यात्खल्वाटः परनिन्दकः
सभायां पक्षपाती च जायते पक्षघातवान् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
परोक्तहास्यकृत्काणः कुनखी विप्रहेमहृत्
तुन्दीवरी ताम्रचौरः कांस्यहृत्पुण्डरीकिकः ॥ ४९ ॥
मूलम्
परोक्तहास्यकृत्काणः कुनखी विप्रहेमहृत्
तुन्दीवरी ताम्रचौरः कांस्यहृत्पुण्डरीकिकः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
त्रपुहारी च पुरुषो जायते पिङ्गमूर्द्धजः
शीसहारी च पुरुषो जायते शीर्षरोगवान् ॥ ५० ॥
मूलम्
त्रपुहारी च पुरुषो जायते पिङ्गमूर्द्धजः
शीसहारी च पुरुषो जायते शीर्षरोगवान् ॥ ५० ॥
विश्वास-प्रस्तुतिः
घृतचौरस्तु पुरुषो जायते नेत्ररोगवान्
लोहहारी च पुरुषो बर्बराङ्गः प्रजायते ॥ ५१ ॥
मूलम्
घृतचौरस्तु पुरुषो जायते नेत्ररोगवान्
लोहहारी च पुरुषो बर्बराङ्गः प्रजायते ॥ ५१ ॥
विश्वास-प्रस्तुतिः
चर्महारी च पुरुषो जायते मेदसा वृतः
मधुचौरस्तु पुरुषो जायते बस्तिगन्धवान् ॥ ५२ ॥
मूलम्
चर्महारी च पुरुषो जायते मेदसा वृतः
मधुचौरस्तु पुरुषो जायते बस्तिगन्धवान् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तैलचौर्येण भवति नरः कण्ड्वातिपीडितः
आमान्नहरणाच्चैव दन्तहीनः प्रजायते ॥ ५३ ॥
मूलम्
तैलचौर्येण भवति नरः कण्ड्वातिपीडितः
आमान्नहरणाच्चैव दन्तहीनः प्रजायते ॥ ५३ ॥
विश्वास-प्रस्तुतिः
पक्वान्नहरणाच्चैव जिह्वारोगयुतो भवेत्
मातृगामी च पुरुषो जायते लिङ्गवर्जितः ॥ ५४ ॥
मूलम्
पक्वान्नहरणाच्चैव जिह्वारोगयुतो भवेत्
मातृगामी च पुरुषो जायते लिङ्गवर्जितः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते
भगिनीं चैव गमने पीतकुष्ठः प्रजायते ॥ ५५ ॥
मूलम्
गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते
भगिनीं चैव गमने पीतकुष्ठः प्रजायते ॥ ५५ ॥
विश्वास-प्रस्तुतिः
स्वसुतागमने चैव रक्तकुष्ठः प्रजायते
भ्रातृभार्याभिगमने गुल्मकुष्ठः प्रजायते ॥ ५६ ॥
मूलम्
स्वसुतागमने चैव रक्तकुष्ठः प्रजायते
भ्रातृभार्याभिगमने गुल्मकुष्ठः प्रजायते ॥ ५६ ॥
विश्वास-प्रस्तुतिः
स्वामिगम्यादिगमने जायते दद्रुमण्डलम्
विश्वस्तभार्यागमने गजचर्मा प्रजायते ॥ ५७ ॥
मूलम्
स्वामिगम्यादिगमने जायते दद्रुमण्डलम्
विश्वस्तभार्यागमने गजचर्मा प्रजायते ॥ ५७ ॥
विश्वास-प्रस्तुतिः
पितृष्वस्रभिगमने दक्षिणाङ्गे व्रणी भवेत्
मातुलान्यास्तु गमने वामाङ्गे व्रणवान्भवेत् ॥ ५८ ॥
मूलम्
पितृष्वस्रभिगमने दक्षिणाङ्गे व्रणी भवेत्
मातुलान्यास्तु गमने वामाङ्गे व्रणवान्भवेत् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
पितृव्यपत्नीगमने कटौ कुष्ठः प्रजायते
मित्रभार्याभिगमने मृतभार्यः प्रजायते ॥ ५९ ॥
मूलम्
पितृव्यपत्नीगमने कटौ कुष्ठः प्रजायते
मित्रभार्याभिगमने मृतभार्यः प्रजायते ॥ ५९ ॥
विश्वास-प्रस्तुतिः
स्वगोत्रस्त्रीप्रसङ्गेन जायते च भगन्दरः
तपस्विनीप्रसङ्गेन प्रमेहो जायते नरे ॥ ६० ॥
मूलम्
स्वगोत्रस्त्रीप्रसङ्गेन जायते च भगन्दरः
तपस्विनीप्रसङ्गेन प्रमेहो जायते नरे ॥ ६० ॥
विश्वास-प्रस्तुतिः
श्रोत्रियस्त्रीप्रसङ्गेन जायते नासिकाव्रणी
दीक्षितस्त्रीप्रसङ्गेन जायते दुष्टरक्तसृक् ॥ ६१ ॥
मूलम्
श्रोत्रियस्त्रीप्रसङ्गेन जायते नासिकाव्रणी
दीक्षितस्त्रीप्रसङ्गेन जायते दुष्टरक्तसृक् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
स्वजातिजायागमने जायते हृदयव्रणी
जात्युन्नतस्त्रीगमने जायते मस्तकव्रणी ॥ ६२ ॥
मूलम्
स्वजातिजायागमने जायते हृदयव्रणी
जात्युन्नतस्त्रीगमने जायते मस्तकव्रणी ॥ ६२ ॥
विश्वास-प्रस्तुतिः
पशुयोनौ च गमनान्मूत्रघातः प्रजायते
एते दोषा नराणां स्युर्नरकान्ते न संशयः ॥ ६३ ॥
मूलम्
पशुयोनौ च गमनान्मूत्रघातः प्रजायते
एते दोषा नराणां स्युर्नरकान्ते न संशयः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
स्त्रीणामपि भवन्त्येते तत्तत्पुरुषसङ्गमात्
एवं राजन्हि चिह्नानि कीर्तितानि सुपापिनाम् ॥ ६४ ॥
मूलम्
स्त्रीणामपि भवन्त्येते तत्तत्पुरुषसङ्गमात्
एवं राजन्हि चिह्नानि कीर्तितानि सुपापिनाम् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
दानपुण्यप्रसङ्गेन तीर्थादिक्रियया तथा
रामस्य चरितं श्रुत्वा तपसा वाक्षयं व्रजेत् ॥ ६५ ॥
मूलम्
दानपुण्यप्रसङ्गेन तीर्थादिक्रियया तथा
रामस्य चरितं श्रुत्वा तपसा वाक्षयं व्रजेत् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
सर्वेषामेव पापानां हरिकीर्तिधुनी नृणाम्
क्षालयेत्पापिनां पङ्कं नात्र कार्या विचारणा ॥ ६६ ॥
मूलम्
सर्वेषामेव पापानां हरिकीर्तिधुनी नृणाम्
क्षालयेत्पापिनां पङ्कं नात्र कार्या विचारणा ॥ ६६ ॥
विश्वास-प्रस्तुतिः
यो नावमन्येत हरिं तस्य यागाविधि श्रुताः
तीर्थान्यपि सुपुण्यानि पावितुं न क्षमाणि तम् ॥ ६७ ॥
मूलम्
यो नावमन्येत हरिं तस्य यागाविधि श्रुताः
तीर्थान्यपि सुपुण्यानि पावितुं न क्षमाणि तम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
हसते कीर्त्यमानं यश्चरित्रं ज्ञानदुर्बलः
न तस्य नरकान्मुक्तिः कल्पान्तेऽपि भविष्यति ॥ ६८ ॥
मूलम्
हसते कीर्त्यमानं यश्चरित्रं ज्ञानदुर्बलः
न तस्य नरकान्मुक्तिः कल्पान्तेऽपि भविष्यति ॥ ६८ ॥
विश्वास-प्रस्तुतिः
या हि राजन्विमोक्षार्थं हयस्यानुचरैः सह
श्रावय श्रीशचरितं यतो वाहगतिर्भवेत् ॥ ६९ ॥
मूलम्
या हि राजन्विमोक्षार्थं हयस्यानुचरैः सह
श्रावय श्रीशचरितं यतो वाहगतिर्भवेत् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति श्रुत्वा प्रहृष्टोऽभूच्छत्रुघ्नः परवीरहा
प्रणम्य तं परिक्रम्य ययौ सेवकसंयुतः ॥ ७० ॥
मूलम्
शेष उवाच
इति श्रुत्वा प्रहृष्टोऽभूच्छत्रुघ्नः परवीरहा
प्रणम्य तं परिक्रम्य ययौ सेवकसंयुतः ॥ ७० ॥
विश्वास-प्रस्तुतिः
तत्र गत्वा स हनुमान्हयवर्यस्य पार्श्वतः
उवाच रामचरितं महादुर्गतिनाशकम् ॥ ७१ ॥
मूलम्
तत्र गत्वा स हनुमान्हयवर्यस्य पार्श्वतः
उवाच रामचरितं महादुर्गतिनाशकम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
याहि देव विमानं स्वं रामकीर्तनपुण्यतः
स्वैरं चर स्वलोके त्वं मुक्तो भव कुयोनितः ॥ ७२ ॥
मूलम्
याहि देव विमानं स्वं रामकीर्तनपुण्यतः
स्वैरं चर स्वलोके त्वं मुक्तो भव कुयोनितः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य शत्रुघ्नो यावदास्थितः
तावद्ददर्श विमलं देवं वैमानिकं वरम् ॥ ७३ ॥
मूलम्
इति वाक्यं समाकर्ण्य शत्रुघ्नो यावदास्थितः
तावद्ददर्श विमलं देवं वैमानिकं वरम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
स उवाच विमुक्तोऽहं रामकीर्तनसंश्रुतेः
यामि स्वं भवनं राजन्नाज्ञापय महामते ॥ ७४ ॥
मूलम्
स उवाच विमुक्तोऽहं रामकीर्तनसंश्रुतेः
यामि स्वं भवनं राजन्नाज्ञापय महामते ॥ ७४ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा प्रययौ देवो विमाने स्वे परिस्थितः
तदा विस्मयमापुस्ते शत्रुघ्नेन सहानुगाः ॥ ७५ ॥
मूलम्
इत्युक्त्वा प्रययौ देवो विमाने स्वे परिस्थितः
तदा विस्मयमापुस्ते शत्रुघ्नेन सहानुगाः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
ततो वाहो विनिर्मुक्तो गात्रस्तम्भाच्च भूतलात्
ययौ तद्विपिनं सर्वं भ्रमन्पक्षिसमाकुलम् ॥ ७६ ॥
मूलम्
ततो वाहो विनिर्मुक्तो गात्रस्तम्भाच्च भूतलात्
ययौ तद्विपिनं सर्वं भ्रमन्पक्षिसमाकुलम् ॥ ७६ ॥
इति श्रीपद्मपुराणे पातालखण्डे रामाश्वमेधे शेषवात्स्यायनसंवादे हय-
निर्मुक्तिर्नामाष्टचत्वारिंशत्तमोऽध्यायः ४८