०४७

शेष उवाच

विश्वास-प्रस्तुतिः

हयो गतो हेमकूटं भारतान्ते ततो द्विज
अनेकभटसाहस्रै रक्षितो बद्धचामरः ॥ १ ॥

मूलम्

हयो गतो हेमकूटं भारतान्ते ततो द्विज
अनेकभटसाहस्रै रक्षितो बद्धचामरः ॥ १ ॥

विश्वास-प्रस्तुतिः

यो वै विस्तरतो दैर्घ्याद्योजनानां समं ततः
अयुतेन सुशृङ्गैश्च राजतैः काञ्चनादिभिः ॥ २ ॥

मूलम्

यो वै विस्तरतो दैर्घ्याद्योजनानां समं ततः
अयुतेन सुशृङ्गैश्च राजतैः काञ्चनादिभिः ॥ २ ॥

विश्वास-प्रस्तुतिः

तत्रोद्यानं महच्छ्रेष्ठं पादपैः परिशोभितम्
शालैस्तालैस्तमालैश्च कर्णिकारैः समन्ततः ॥ ३ ॥

मूलम्

तत्रोद्यानं महच्छ्रेष्ठं पादपैः परिशोभितम्
शालैस्तालैस्तमालैश्च कर्णिकारैः समन्ततः ॥ ३ ॥

विश्वास-प्रस्तुतिः

हिन्तालैर्नागपुन्नागैः कोविदारैः सबिल्वकैः
चम्पकैर्बकुलैर्मेघैर्मदनैः कुटजादिभिः ॥ ४ ॥

मूलम्

हिन्तालैर्नागपुन्नागैः कोविदारैः सबिल्वकैः
चम्पकैर्बकुलैर्मेघैर्मदनैः कुटजादिभिः ॥ ४ ॥

विश्वास-प्रस्तुतिः

जातिकाभिर्यूथिकाभिर्नवमालिकया तथा
आम्रैर्माधवद्राक्षाभिर्दाडिमैः शोभितं वनम् ॥ ५ ॥

मूलम्

जातिकाभिर्यूथिकाभिर्नवमालिकया तथा
आम्रैर्माधवद्राक्षाभिर्दाडिमैः शोभितं वनम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

अनेकपक्षिसङ्घुष्टं भ्रमरैर्निनदीकृतम्
मयूरकेकारवितं सर्वर्तुसुखदं हयः ॥ ६ ॥

मूलम्

अनेकपक्षिसङ्घुष्टं भ्रमरैर्निनदीकृतम्
मयूरकेकारवितं सर्वर्तुसुखदं हयः ॥ ६ ॥

विश्वास-प्रस्तुतिः

प्रविवेश स शत्रुघ्नो मनोवेगसमन्वितः
स्वर्णपत्रं विशाले स्वे भाले बिभ्रन्मनोहरम् ॥ ७ ॥

मूलम्

प्रविवेश स शत्रुघ्नो मनोवेगसमन्वितः
स्वर्णपत्रं विशाले स्वे भाले बिभ्रन्मनोहरम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

गच्छतस्तस्य वाहस्य हयमेधक्रतोस्तदा
अकस्मादभवच्चित्रं तच्छृणुष्व द्विजोत्तम ॥ ८ ॥

मूलम्

गच्छतस्तस्य वाहस्य हयमेधक्रतोस्तदा
अकस्मादभवच्चित्रं तच्छृणुष्व द्विजोत्तम ॥ ८ ॥

विश्वास-प्रस्तुतिः

गात्रस्तम्भोऽभवत्तस्य न चचाल पथिस्थितः
हेमकूटइवाचाल्यो बभूव हयसत्तमः ॥ ९ ॥

मूलम्

गात्रस्तम्भोऽभवत्तस्य न चचाल पथिस्थितः
हेमकूटइवाचाल्यो बभूव हयसत्तमः ॥ ९ ॥

विश्वास-प्रस्तुतिः

तदा तद्रक्षकाः सर्वे कशाघातान्वितेनिरे
तदाहतेऽपि न ययौ स्तब्धगात्रो हयोत्तमः ॥ १० ॥

मूलम्

तदा तद्रक्षकाः सर्वे कशाघातान्वितेनिरे
तदाहतेऽपि न ययौ स्तब्धगात्रो हयोत्तमः ॥ १० ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नं सविधे गत्वा चुक्रुशुर्वाहरक्षकाः
स्वामिन्वयं न जानीमः किमभूद्धयसत्तमे ॥ ११ ॥

मूलम्

शत्रुघ्नं सविधे गत्वा चुक्रुशुर्वाहरक्षकाः
स्वामिन्वयं न जानीमः किमभूद्धयसत्तमे ॥ ११ ॥

विश्वास-प्रस्तुतिः

गच्छतो वाहवर्यस्य मनोवेगस्य भूपते
आकस्मिकोऽभवत्तस्य गात्रस्तम्भो महामते ॥ १२ ॥

मूलम्

गच्छतो वाहवर्यस्य मनोवेगस्य भूपते
आकस्मिकोऽभवत्तस्य गात्रस्तम्भो महामते ॥ १२ ॥

विश्वास-प्रस्तुतिः

कशाभिस्ताडितोऽस्माभिः परं तत्र चचाल न
एवं विचार्य यत्कर्म तत्कुरुष्व नृपोत्तम ॥ १३ ॥

मूलम्

कशाभिस्ताडितोऽस्माभिः परं तत्र चचाल न
एवं विचार्य यत्कर्म तत्कुरुष्व नृपोत्तम ॥ १३ ॥

विश्वास-प्रस्तुतिः

तदा विस्मयमापन्नो भूपतिः सह सैनिकैः
जगाम सहितः सर्वैर्हयस्य महतोऽन्तिके ॥ १४ ॥

मूलम्

तदा विस्मयमापन्नो भूपतिः सह सैनिकैः
जगाम सहितः सर्वैर्हयस्य महतोऽन्तिके ॥ १४ ॥

विश्वास-प्रस्तुतिः

पुष्कलो बाहुना धृत्वा चरणौ तस्य भूतलात्
उत्पाटयामास तदा परं नो चेलतुस्ततः ॥ १५ ॥

मूलम्

पुष्कलो बाहुना धृत्वा चरणौ तस्य भूतलात्
उत्पाटयामास तदा परं नो चेलतुस्ततः ॥ १५ ॥

विश्वास-प्रस्तुतिः

बलेन बलिनाक्रान्तो नाकम्पत हयस्तदा
हनूमांस्तं समुद्धर्तुं मतिं चक्रे महामनाः ॥ १६ ॥

मूलम्

बलेन बलिनाक्रान्तो नाकम्पत हयस्तदा
हनूमांस्तं समुद्धर्तुं मतिं चक्रे महामनाः ॥ १६ ॥

विश्वास-प्रस्तुतिः

लाङ्गूलेन समावेष्ट्य बलेन बलिनां वरः
आचकर्ष बलाद्वाहं न चचाल तथापि सः ॥ १७ ॥

मूलम्

लाङ्गूलेन समावेष्ट्य बलेन बलिनां वरः
आचकर्ष बलाद्वाहं न चचाल तथापि सः ॥ १७ ॥

विश्वास-प्रस्तुतिः

तदोवाच कपिश्रेष्ठो हनूमान्विस्मयान्वितः
शत्रुघ्नं बलिनां श्रेष्ठं वीराणां परिशृण्वताम् ॥ १८ ॥

मूलम्

तदोवाच कपिश्रेष्ठो हनूमान्विस्मयान्वितः
शत्रुघ्नं बलिनां श्रेष्ठं वीराणां परिशृण्वताम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

मया द्रोणो लाङ्गुलेन लीलयोत्पाटितोऽधुना
परमत्र महाश्चर्यं कम्पते न हयोऽल्पकः ॥ १९ ॥

मूलम्

मया द्रोणो लाङ्गुलेन लीलयोत्पाटितोऽधुना
परमत्र महाश्चर्यं कम्पते न हयोऽल्पकः ॥ १९ ॥

विश्वास-प्रस्तुतिः

दृष्टमत्र निदानं हि वीरैर्बलिभिरुद्धतैः
आकृष्टोऽपि न च स्थानाच्चचाल तिलमात्रतः ॥ २० ॥

मूलम्

दृष्टमत्र निदानं हि वीरैर्बलिभिरुद्धतैः
आकृष्टोऽपि न च स्थानाच्चचाल तिलमात्रतः ॥ २० ॥

विश्वास-प्रस्तुतिः

कपिभाषितमाकर्ण्य शत्रुघ्नो विस्मयान्वितः
सुमतिं मन्त्रिणां श्रेष्ठमुवाच वदतां वरः ॥ २१ ॥

मूलम्

कपिभाषितमाकर्ण्य शत्रुघ्नो विस्मयान्वितः
सुमतिं मन्त्रिणां श्रेष्ठमुवाच वदतां वरः ॥ २१ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्न उवाच
मन्त्रिन्किमभवद्वाहे स्तम्भनं वपुषोऽनघ
कोऽत्रोपायो विधेयः स्याद्येन वाहगतिर्भवेत् ॥ २२ ॥

मूलम्

शत्रुघ्न उवाच
मन्त्रिन्किमभवद्वाहे स्तम्भनं वपुषोऽनघ
कोऽत्रोपायो विधेयः स्याद्येन वाहगतिर्भवेत् ॥ २२ ॥

विश्वास-प्रस्तुतिः

सुमतिरुवाच
स्वामिन्कश्चिन्मुनिर्मृग्योऽखिलज्ञानविचक्षणः
देशोद्भवमहं जाने प्रत्यक्षं न परोक्षजम् ॥ २३ ॥

मूलम्

सुमतिरुवाच
स्वामिन्कश्चिन्मुनिर्मृग्योऽखिलज्ञानविचक्षणः
देशोद्भवमहं जाने प्रत्यक्षं न परोक्षजम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
इति वाक्यं समाकर्ण्य सुमतेर्धर्मकोविदः
अन्वेषयामास मुनिं सेवकैः सह शोभनम् ॥ २४ ॥

मूलम्

शेष उवाच
इति वाक्यं समाकर्ण्य सुमतेर्धर्मकोविदः
अन्वेषयामास मुनिं सेवकैः सह शोभनम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

ते सर्वे सर्वतो गत्वा मुनिं धर्मविदं भटाः
व्यालोकयन्तः सर्वत्र न चापश्यन्मुनीश्वरम् ॥ २५ ॥

मूलम्

ते सर्वे सर्वतो गत्वा मुनिं धर्मविदं भटाः
व्यालोकयन्तः सर्वत्र न चापश्यन्मुनीश्वरम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

एकस्त्वनुचरो विप्र गतो योजनमात्रतः
पूर्वस्यां दिशि चोद्युक्तः पश्यति स्म महाश्रमम् ॥ २६ ॥

मूलम्

एकस्त्वनुचरो विप्र गतो योजनमात्रतः
पूर्वस्यां दिशि चोद्युक्तः पश्यति स्म महाश्रमम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

यत्र निर्वैरिणः सर्वे पशवो जनतास्तथा
गङ्गास्नानहताशेषकिल्बिषाः सुमनोहराः ॥ २७ ॥

मूलम्

यत्र निर्वैरिणः सर्वे पशवो जनतास्तथा
गङ्गास्नानहताशेषकिल्बिषाः सुमनोहराः ॥ २७ ॥

विश्वास-प्रस्तुतिः

यत्र केचित्तपः श्रेष्ठं कुर्वन्ति स्म हुताशनैः
धूमैरधोमुखाः पत्रैर्वायुभिः स्वोदरम्भराः ॥ २८ ॥

मूलम्

यत्र केचित्तपः श्रेष्ठं कुर्वन्ति स्म हुताशनैः
धूमैरधोमुखाः पत्रैर्वायुभिः स्वोदरम्भराः ॥ २८ ॥

विश्वास-प्रस्तुतिः

यत्राग्निहोत्रजो धूमः पवित्रयति सर्वदा
अनेकमुनिसंहृष्टो मुक्तपत्रलतोत्तमः ॥ २९ ॥

मूलम्

यत्राग्निहोत्रजो धूमः पवित्रयति सर्वदा
अनेकमुनिसंहृष्टो मुक्तपत्रलतोत्तमः ॥ २९ ॥

विश्वास-प्रस्तुतिः

तमाश्रमं मुनेर्ज्ञात्वा शौनकस्य मनोहरम्
न्यवेदयन्नृपायासौ विस्मयाविष्टचेतसे ॥ ३० ॥

मूलम्

तमाश्रमं मुनेर्ज्ञात्वा शौनकस्य मनोहरम्
न्यवेदयन्नृपायासौ विस्मयाविष्टचेतसे ॥ ३० ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा हर्षितोऽत्यन्तं शत्रुघ्नः सह सेवकैः
हनूमत्पुष्कलाद्यैश्च सयुतोऽगात्तदाश्रमम् ॥ ३१ ॥

मूलम्

तच्छ्रुत्वा हर्षितोऽत्यन्तं शत्रुघ्नः सह सेवकैः
हनूमत्पुष्कलाद्यैश्च सयुतोऽगात्तदाश्रमम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तत्र वीक्ष्य मुनिश्रेष्ठं सम्यग्घुतहुताशनम्
प्रणम्य दण्डवत्तस्य चरणौ पापहारिणौ ॥ ३२ ॥

मूलम्

तत्र वीक्ष्य मुनिश्रेष्ठं सम्यग्घुतहुताशनम्
प्रणम्य दण्डवत्तस्य चरणौ पापहारिणौ ॥ ३२ ॥

विश्वास-प्रस्तुतिः

तमागतं नृपं ज्ञात्वा शत्रुघ्नं बलिनां वरम्
अर्घ्यपाद्यादिकं चक्रे प्रीतस्तद्दर्शनादभूत् ॥ ३३ ॥

मूलम्

तमागतं नृपं ज्ञात्वा शत्रुघ्नं बलिनां वरम्
अर्घ्यपाद्यादिकं चक्रे प्रीतस्तद्दर्शनादभूत् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

सुखोपविष्टं विश्रान्तं नृपं प्राह मुनीश्वरः
किमर्थमटनं देव महत्पर्यटनं तव ॥ ३४ ॥

मूलम्

सुखोपविष्टं विश्रान्तं नृपं प्राह मुनीश्वरः
किमर्थमटनं देव महत्पर्यटनं तव ॥ ३४ ॥

विश्वास-प्रस्तुतिः

त्वादृशाः पृथिवीं सर्वां नृपा वै न भ्रमन्ति चेत्
तदा दुष्टजनाः साधून्बाधन्ते विगतज्वरान् ॥ ३५ ॥

मूलम्

त्वादृशाः पृथिवीं सर्वां नृपा वै न भ्रमन्ति चेत्
तदा दुष्टजनाः साधून्बाधन्ते विगतज्वरान् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

कथयस्व महीपाल शत्रुघ्न बलिनां वर
सर्वं शुभायनो भूयात्तव पर्यटनादिकम् ॥ ३६ ॥

मूलम्

कथयस्व महीपाल शत्रुघ्न बलिनां वर
सर्वं शुभायनो भूयात्तव पर्यटनादिकम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
इत्युक्तवन्तं भूदेवं प्रत्युवाच महीश्वरः
गद्गद स्वरया वाण्या हर्षित स्वीयविग्रहः ॥ ३७ ॥

मूलम्

शेष उवाच
इत्युक्तवन्तं भूदेवं प्रत्युवाच महीश्वरः
गद्गद स्वरया वाण्या हर्षित स्वीयविग्रहः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्न उवाच
अकस्मादभवच्चित्रं रामाश्वस्य मनोहृतः
नातिदूरे त्वदावासात्तच्छृणुष्व विदांवर ॥ ३८ ॥

मूलम्

शत्रुघ्न उवाच
अकस्मादभवच्चित्रं रामाश्वस्य मनोहृतः
नातिदूरे त्वदावासात्तच्छृणुष्व विदांवर ॥ ३८ ॥

विश्वास-प्रस्तुतिः

उद्याने तव शोभाढ्ये यदृच्छातो हयो गतः
तत्प्रान्ते तस्य वाहस्य गात्रस्तम्भोऽभवत्क्षणात् ॥ ३९ ॥

मूलम्

उद्याने तव शोभाढ्ये यदृच्छातो हयो गतः
तत्प्रान्ते तस्य वाहस्य गात्रस्तम्भोऽभवत्क्षणात् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

तदा मे बलिनो वीराः पुष्कलाद्या मदोत्कटाः
बलादाचकृषुर्वाहं न चचाल तथाप्यसौ ॥ ४० ॥

मूलम्

तदा मे बलिनो वीराः पुष्कलाद्या मदोत्कटाः
बलादाचकृषुर्वाहं न चचाल तथाप्यसौ ॥ ४० ॥

विश्वास-प्रस्तुतिः

अस्मानपारदुःखाब्धौ मग्नान्प्रतितरिः स्मृतः
दैवाद्दृष्टः सुभाग्यैस्त्वं कथयस्व निदानकम् ॥ ४१ ॥

मूलम्

अस्मानपारदुःखाब्धौ मग्नान्प्रतितरिः स्मृतः
दैवाद्दृष्टः सुभाग्यैस्त्वं कथयस्व निदानकम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
एवं पृष्टो मुनिवरः क्षणं दध्यौ महामतिः
ततः कारणसंयुक्तं विचारेण दधद्धयम् ॥ ४२ ॥

मूलम्

शेष उवाच
एवं पृष्टो मुनिवरः क्षणं दध्यौ महामतिः
ततः कारणसंयुक्तं विचारेण दधद्धयम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

क्षणात्तज्ज्ञानतां प्राप्य विस्मयोत्फुल्ललोचनः
जगाद स महीपालं दुःखितं संशयान्वितम् ॥ ४३ ॥

मूलम्

क्षणात्तज्ज्ञानतां प्राप्य विस्मयोत्फुल्ललोचनः
जगाद स महीपालं दुःखितं संशयान्वितम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

शौनक उवाच
शृणु राजन्प्रवक्ष्यामि हयस्तम्भस्य कारणम्
यच्छ्रुत्वा मुच्यते दुःखादतिचित्रकथानकम् ॥ ४४ ॥

मूलम्

शौनक उवाच
शृणु राजन्प्रवक्ष्यामि हयस्तम्भस्य कारणम्
यच्छ्रुत्वा मुच्यते दुःखादतिचित्रकथानकम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

गौडदेशे महारण्ये कावेरीतीरभूषिते
वाडवः सात्वको नाम्ना चचार परमं तपः ॥ ४५ ॥

मूलम्

गौडदेशे महारण्ये कावेरीतीरभूषिते
वाडवः सात्वको नाम्ना चचार परमं तपः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

एकाहं पयसः प्राशी दिनैकं वायुभक्षकः
दिनैकं तु निराहार एवं त्रिदिनमुन्नयेत् ॥ ४६ ॥

मूलम्

एकाहं पयसः प्राशी दिनैकं वायुभक्षकः
दिनैकं तु निराहार एवं त्रिदिनमुन्नयेत् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

एवं व्रते प्रवृत्तस्य कालः सर्वक्षयङ्करः
जग्राह स्वस्य दंष्ट्रायां मृतिं प्राप महाव्रती ॥ ४७ ॥

मूलम्

एवं व्रते प्रवृत्तस्य कालः सर्वक्षयङ्करः
जग्राह स्वस्य दंष्ट्रायां मृतिं प्राप महाव्रती ॥ ४७ ॥

विश्वास-प्रस्तुतिः

विमाने सर्वशोभाढ्ये सर्वरत्नविभूषिते
अप्सरोभिः सह क्रीडन्ययौ मेरोः शिखास्थितौ ॥ ४८ ॥

मूलम्

विमाने सर्वशोभाढ्ये सर्वरत्नविभूषिते
अप्सरोभिः सह क्रीडन्ययौ मेरोः शिखास्थितौ ॥ ४८ ॥

विश्वास-प्रस्तुतिः

जम्बूनाममहावृक्षस्तत्र सेव्यरसोऽभवत्
नदी जाम्बवती सञ्ज्ञा स्वर्णद्रवसमन्विता ॥ ४९ ॥

मूलम्

जम्बूनाममहावृक्षस्तत्र सेव्यरसोऽभवत्
नदी जाम्बवती सञ्ज्ञा स्वर्णद्रवसमन्विता ॥ ४९ ॥

विश्वास-प्रस्तुतिः

तस्यां मुनयइच्छाभिः क्रीडन्ते कुतुकान्विताः
अनेकतपसा पुण्याः सर्वसौख्यसमन्विताः ॥ ५० ॥

मूलम्

तस्यां मुनयइच्छाभिः क्रीडन्ते कुतुकान्विताः
अनेकतपसा पुण्याः सर्वसौख्यसमन्विताः ॥ ५० ॥

विश्वास-प्रस्तुतिः

तत्रासौ स्वेच्छया क्रीडन्नप्सरोभिर्मुदान्वितः
प्रतीपमाचरत्तेषां स्वाभिमानमदोद्धतः ॥ ५१ ॥

मूलम्

तत्रासौ स्वेच्छया क्रीडन्नप्सरोभिर्मुदान्वितः
प्रतीपमाचरत्तेषां स्वाभिमानमदोद्धतः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

ततः शप्तः स मुनिभी राक्षसो भव दुर्मुखः
ततोऽतिदुःखितः प्राह मुनीन्विद्यातपोधनान् ॥ ५२ ॥

मूलम्

ततः शप्तः स मुनिभी राक्षसो भव दुर्मुखः
ततोऽतिदुःखितः प्राह मुनीन्विद्यातपोधनान् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

अनुगृह्णन्तु मां सर्वे विप्रा यूयं कृपालवः
तदा तैरनुगृहीतो यदा रामहयं भवान् ॥ ५३ ॥

मूलम्

अनुगृह्णन्तु मां सर्वे विप्रा यूयं कृपालवः
तदा तैरनुगृहीतो यदा रामहयं भवान् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

स्तम्भयिष्यति वेगेन ततो रामकथाश्रुतिः
पश्चान्मुक्तिर्भवित्री ते शापादस्मात्सुदारुणात् ॥ ५४ ॥

मूलम्

स्तम्भयिष्यति वेगेन ततो रामकथाश्रुतिः
पश्चान्मुक्तिर्भवित्री ते शापादस्मात्सुदारुणात् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

स प्रोक्तो मुनिभिर्देवो राक्षसत्वमितः प्रभो
स्तम्भयामास रामाश्वं मोचयानघकीर्तनैः ॥ ५५ ॥

मूलम्

स प्रोक्तो मुनिभिर्देवो राक्षसत्वमितः प्रभो
स्तम्भयामास रामाश्वं मोचयानघकीर्तनैः ॥ ५५ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
शापकीर्तनन्नाम सप्तचत्वारिंशत्तमोऽध्यायः ४७