शेष उवाच
विश्वास-प्रस्तुतिः
आगतं वीक्ष्य श्रीरामं शत्रुघ्नः प्रणतार्तिहम्
भ्रातरं सकलाद्दुःखान्मुक्तोऽभूद्द्विजसत्तम ॥ १ ॥
मूलम्
आगतं वीक्ष्य श्रीरामं शत्रुघ्नः प्रणतार्तिहम्
भ्रातरं सकलाद्दुःखान्मुक्तोऽभूद्द्विजसत्तम ॥ १ ॥
विश्वास-प्रस्तुतिः
हनूमान्वीक्ष्य विभ्रान्तो रामस्य चरणौ मुदा
ववन्दे भक्तरक्षार्थमागतं निजगाद च ॥ २ ॥
मूलम्
हनूमान्वीक्ष्य विभ्रान्तो रामस्य चरणौ मुदा
ववन्दे भक्तरक्षार्थमागतं निजगाद च ॥ २ ॥
विश्वास-प्रस्तुतिः
स्वामिंस्तवैतद्युक्तं तु स्वभक्तपरिपालनम्
यत्सङ्ग्रामे जितं सर्वं पाशबद्धममोचयः ॥ ३ ॥
मूलम्
स्वामिंस्तवैतद्युक्तं तु स्वभक्तपरिपालनम्
यत्सङ्ग्रामे जितं सर्वं पाशबद्धममोचयः ॥ ३ ॥
विश्वास-प्रस्तुतिः
वयं त्विदानीं धन्या वै यद्द्रक्ष्यामो भवत्पदे
जेष्यामोऽरीन्क्षणादेव त्वत्कृपातो रघूद्वह ॥ ४ ॥
मूलम्
वयं त्विदानीं धन्या वै यद्द्रक्ष्यामो भवत्पदे
जेष्यामोऽरीन्क्षणादेव त्वत्कृपातो रघूद्वह ॥ ४ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
स्थाणुस्तदागतं रामं योगिनां ध्यानगोचरम्
पतित्वा पादयोर्विप्र जगाद प्रणताभयम् ॥ ५ ॥
मूलम्
शेष उवाच
स्थाणुस्तदागतं रामं योगिनां ध्यानगोचरम्
पतित्वा पादयोर्विप्र जगाद प्रणताभयम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
एकस्त्वं पुरुषः साक्षात्प्रकृतेः पर ईर्यसे
यः स्वांशकलया विश्वं सृजस्यवसि हंसि च ॥ ६ ॥
मूलम्
एकस्त्वं पुरुषः साक्षात्प्रकृतेः पर ईर्यसे
यः स्वांशकलया विश्वं सृजस्यवसि हंसि च ॥ ६ ॥
विश्वास-प्रस्तुतिः
अरूपस्त्वमशेषस्य जगतः कारणं परम्
एक एव त्रिधारूपं गृह्णासि कुहकान्वितः ॥ ७ ॥
मूलम्
अरूपस्त्वमशेषस्य जगतः कारणं परम्
एक एव त्रिधारूपं गृह्णासि कुहकान्वितः ॥ ७ ॥
विश्वास-प्रस्तुतिः
सृष्टौ विधातृरूपेण पालने स्वयमास च
प्रलये जगतः साक्षादहं शर्वाख्यतां गतः ॥ ८ ॥
मूलम्
सृष्टौ विधातृरूपेण पालने स्वयमास च
प्रलये जगतः साक्षादहं शर्वाख्यतां गतः ॥ ८ ॥
विश्वास-प्रस्तुतिः
तव यत्परमेशस्य हयमेधक्रतुक्रिया
ब्रह्महत्यापनोदाय तद्विडम्बनमद्भुतम् ॥ ९ ॥
मूलम्
तव यत्परमेशस्य हयमेधक्रतुक्रिया
ब्रह्महत्यापनोदाय तद्विडम्बनमद्भुतम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
यत्पादशौचममलं गङ्गाख्यं शिरसोंऽतरा
वहामि पापशान्त्यर्थं तस्य ते पातकं कुतः ॥ १० ॥
मूलम्
यत्पादशौचममलं गङ्गाख्यं शिरसोंऽतरा
वहामि पापशान्त्यर्थं तस्य ते पातकं कुतः ॥ १० ॥
विश्वास-प्रस्तुतिः
मया बह्वपकाराय कृतं कर्म तव स्फुटम्
क्षम्यतां तत्कृपालो हि भवतो व्यवधायकम् ॥ ११ ॥
मूलम्
मया बह्वपकाराय कृतं कर्म तव स्फुटम्
क्षम्यतां तत्कृपालो हि भवतो व्यवधायकम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
किं करोमि मया सत्यपालनार्थमिदं कृतम्
जानन्प्रभावं भवतो भक्तरक्षार्थमागतः ॥ १२ ॥
मूलम्
किं करोमि मया सत्यपालनार्थमिदं कृतम्
जानन्प्रभावं भवतो भक्तरक्षार्थमागतः ॥ १२ ॥
विश्वास-प्रस्तुतिः
असौ पुरा उज्जयिन्यां महाकालनिकेतने
स्नात्वा शिप्राख्य सरिति तपस्तेपे महाद्भुतम् ॥ १३ ॥
मूलम्
असौ पुरा उज्जयिन्यां महाकालनिकेतने
स्नात्वा शिप्राख्य सरिति तपस्तेपे महाद्भुतम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
ततः प्रसन्नो जातोऽहं जगाद भूमिपं प्रति
याचस्वेति महाराज स वव्रे राज्यमद्भुतम् ॥ १४ ॥
मूलम्
ततः प्रसन्नो जातोऽहं जगाद भूमिपं प्रति
याचस्वेति महाराज स वव्रे राज्यमद्भुतम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
मया प्रोक्तं देवपुरे तव राज्यं भविष्यति
यावद्रामहयः पुर्यामागमिष्यति याज्ञिकः ॥ १५ ॥
मूलम्
मया प्रोक्तं देवपुरे तव राज्यं भविष्यति
यावद्रामहयः पुर्यामागमिष्यति याज्ञिकः ॥ १५ ॥
विश्वास-प्रस्तुतिः
तावत्प्रभृत्यहं स्थास्ये तव रक्षार्थमुद्यतः
एतद्दत्तवरो राम किं करोमि स्वसत्यतः ॥ १६ ॥
मूलम्
तावत्प्रभृत्यहं स्थास्ये तव रक्षार्थमुद्यतः
एतद्दत्तवरो राम किं करोमि स्वसत्यतः ॥ १६ ॥
विश्वास-प्रस्तुतिः
घृणितोऽस्म्यधुना राज्ञा सपुत्रपशुबान्धवः
हयं समर्प्यते पादसेवां राजा विधास्यति ॥ १७ ॥
मूलम्
घृणितोऽस्म्यधुना राज्ञा सपुत्रपशुबान्धवः
हयं समर्प्यते पादसेवां राजा विधास्यति ॥ १७ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति वाक्यं समाकर्ण्य
महेशस्य रघूत्तमः
उवाच धीरया वाचा
कृपया पूर्णलोचनः ॥ १८ ॥
मूलम्
शेष उवाच
इति वाक्यं समाकर्ण्य महेशस्य रघूत्तमः
उवाच धीरया वाचा कृपया पूर्णलोचनः ॥ १८ ॥
विश्वास-प्रस्तुतिः
राम उवाच
देवानामयमेवास्ति धर्मो भक्तस्य पालनम्
त्वया साधुकृतं कर्म यद्भक्तो रक्षितोऽधुना ॥ १९ ॥
मूलम्
राम उवाच
देवानामयमेवास्ति धर्मो भक्तस्य पालनम्
त्वया साधुकृतं कर्म यद्भक्तो रक्षितोऽधुना ॥ १९ ॥
विश्वास-प्रस्तुतिः
ममासि हृदये शर्व भवतो हृदये त्वहम्
आवयोरन्तरं नास्ति मूढाः पश्यन्ति दुर्धियः ॥ २० ॥
मूलम्
ममासि हृदये शर्व भवतो हृदये त्वहम्
आवयोरन्तरं नास्ति मूढाः पश्यन्ति दुर्धियः ॥ २० ॥
विश्वास-प्रस्तुतिः
ये भेदं विदधत्यद्धा आवयोरेकरूपयोः
कुम्भीपाकेषु पच्यन्ते नराः कल्पसहस्रकम् ॥ २१ ॥
मूलम्
ये भेदं विदधत्यद्धा आवयोरेकरूपयोः
कुम्भीपाकेषु पच्यन्ते नराः कल्पसहस्रकम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
ये त्वद्भक्तास्त एवासन्मद्भक्ता धर्मसंयुताः
मद्भक्ता अपि भूयस्या भक्त्या तव नतिङ्कराः ॥ २२ ॥
मूलम्
ये त्वद्भक्तास्त एवासन्मद्भक्ता धर्मसंयुताः
मद्भक्ता अपि भूयस्या भक्त्या तव नतिङ्कराः ॥ २२ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इत्थं भाषितमाकर्ण्य शर्वो वीरमणिं नृपम्
मूर्च्छितं जीवयामास करस्पर्शादिना प्रभुः ॥ २३ ॥
मूलम्
शेष उवाच
इत्थं भाषितमाकर्ण्य शर्वो वीरमणिं नृपम्
मूर्च्छितं जीवयामास करस्पर्शादिना प्रभुः ॥ २३ ॥
विश्वास-प्रस्तुतिः
अन्यानपि सुतानस्य मूर्च्छिताञ्छरपीडितान्
जीवयामास स मृडः समर्थः प्रभुरीश्वरः ॥ २४ ॥
मूलम्
अन्यानपि सुतानस्य मूर्च्छिताञ्छरपीडितान्
जीवयामास स मृडः समर्थः प्रभुरीश्वरः ॥ २४ ॥
विश्वास-प्रस्तुतिः
सज्जं विधाय तं भूपं श्रीरामपदयोर्नतिम्
कारयामास भूतेशः पुत्रपौत्रैः परीवृतम् ॥ २५ ॥
मूलम्
सज्जं विधाय तं भूपं श्रीरामपदयोर्नतिम्
कारयामास भूतेशः पुत्रपौत्रैः परीवृतम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
धन्यो राजा वीरमणिर्यो ददर्श रघूत्तमम्
योगिभिर्योगनिष्ठाभिर्दुष्प्रापमयुतायुतैः ॥ २६ ॥
मूलम्
धन्यो राजा वीरमणिर्यो ददर्श रघूत्तमम्
योगिभिर्योगनिष्ठाभिर्दुष्प्रापमयुतायुतैः ॥ २६ ॥
विश्वास-प्रस्तुतिः
ते नत्वा रघुनाथं तं कृतार्थी कृतविग्रहाः
ब्रह्मादिभिः पूज्यतमा अभूवन्द्विजसत्तम ॥ २७ ॥
मूलम्
ते नत्वा रघुनाथं तं कृतार्थी कृतविग्रहाः
ब्रह्मादिभिः पूज्यतमा अभूवन्द्विजसत्तम ॥ २७ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्न हनुमद्भ्यां च पुष्कलादिभिरुद्भटैः
परिष्टुताय रामाय ददौ राजा हयोत्तमम् ॥ २८ ॥
मूलम्
शत्रुघ्न हनुमद्भ्यां च पुष्कलादिभिरुद्भटैः
परिष्टुताय रामाय ददौ राजा हयोत्तमम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
राज्येन सहितं सर्वं सपुत्रपशुबान्धवम्
शर्वेण प्रेरितः प्रादाद्भूपो वीरमणिस्तदा ॥ २९ ॥
मूलम्
राज्येन सहितं सर्वं सपुत्रपशुबान्धवम्
शर्वेण प्रेरितः प्रादाद्भूपो वीरमणिस्तदा ॥ २९ ॥
विश्वास-प्रस्तुतिः
ततो रामो नुतः सर्वैर्वैरिभिर्निजसेवकैः
शत्रुघ्नादिभिरत्यन्तमुत्सुकैश्च विशेषतः ॥ ३० ॥
मूलम्
ततो रामो नुतः सर्वैर्वैरिभिर्निजसेवकैः
शत्रुघ्नादिभिरत्यन्तमुत्सुकैश्च विशेषतः ॥ ३० ॥
विश्वास-प्रस्तुतिः
रथे मणिमये तिष्ठन्बभूव स तिरोहितः
अन्तर्हिते रामभद्रे सर्वे प्रापुः सुविस्मयम् ॥ ३१ ॥
मूलम्
रथे मणिमये तिष्ठन्बभूव स तिरोहितः
अन्तर्हिते रामभद्रे सर्वे प्रापुः सुविस्मयम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
मा जानीहि मनुष्यं तं रामं लोकैकवन्दितम्
जले स्थले च सर्वत्र वर्तते संस्थितः सदा ॥ ३२ ॥
मूलम्
मा जानीहि मनुष्यं तं रामं लोकैकवन्दितम्
जले स्थले च सर्वत्र वर्तते संस्थितः सदा ॥ ३२ ॥
विश्वास-प्रस्तुतिः
ततो वीरा अलं हृष्टा अन्योन्यं परिरेभिरे
तूर्यमङ्गलवादित्रैः सुमहानुत्सवोऽभवत् ॥ ३३ ॥
मूलम्
ततो वीरा अलं हृष्टा अन्योन्यं परिरेभिरे
तूर्यमङ्गलवादित्रैः सुमहानुत्सवोऽभवत् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ततो मुक्तो हयः सर्वैर्वीरैः शस्त्रास्त्रकोविदैः
सर्वैरनुगतः प्रीतैर्विस्मयेन समन्वितैः ॥ ३४ ॥
मूलम्
ततो मुक्तो हयः सर्वैर्वीरैः शस्त्रास्त्रकोविदैः
सर्वैरनुगतः प्रीतैर्विस्मयेन समन्वितैः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
शर्वः सत्यप्रतिज्ञश्च तमनुज्ञाप्य सेवकम्
श्रीरामं शरणं प्रोच्य याहि लोकैकदुर्ल्लभम् ॥ ३५ ॥
मूलम्
शर्वः सत्यप्रतिज्ञश्च तमनुज्ञाप्य सेवकम्
श्रीरामं शरणं प्रोच्य याहि लोकैकदुर्ल्लभम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
स्वयमन्तर्हितस्तत्र प्रलयोत्पत्तिकारकः
कैलासमगमच्छर्वः सेवकैः परिशोभितः ॥ ३६ ॥
मूलम्
स्वयमन्तर्हितस्तत्र प्रलयोत्पत्तिकारकः
कैलासमगमच्छर्वः सेवकैः परिशोभितः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
भूपो वीरमणिर्ध्यायञ्छ्रीरामचरणोदजम्
शत्रुघ्नेन ययौ साकं बलिना बलसंयुतः ॥ ३७ ॥
मूलम्
भूपो वीरमणिर्ध्यायञ्छ्रीरामचरणोदजम्
शत्रुघ्नेन ययौ साकं बलिना बलसंयुतः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
एतद्रामस्य चरितं ये शृण्वन्ति नरोत्तमाः
तेषां संसारजं दुःखं न भविष्यति कर्हिचित् ॥ ३८ ॥
मूलम्
एतद्रामस्य चरितं ये शृण्वन्ति नरोत्तमाः
तेषां संसारजं दुःखं न भविष्यति कर्हिचित् ॥ ३८ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
हयप्रस्थानन्नाम षट्चत्वारिंशत्तमोऽध्यायः ४६