०४५

शेष उवाच

विश्वास-प्रस्तुतिः

गुरुभाषितमाकर्ण्य वृषपर्वरिपुः स्वराट्
ज्ञात्वा रामस्य कार्यार्थमागतं पवनात्मजम् ॥ १ ॥

मूलम्

गुरुभाषितमाकर्ण्य वृषपर्वरिपुः स्वराट्
ज्ञात्वा रामस्य कार्यार्थमागतं पवनात्मजम् ॥ १ ॥

विश्वास-प्रस्तुतिः

भयं तत्याज मनसि वानरात्समुपस्थितम्
जहर्ष चित्ते च भृशं वाचस्पतिमुवाच ह ॥ २ ॥

मूलम्

भयं तत्याज मनसि वानरात्समुपस्थितम्
जहर्ष चित्ते च भृशं वाचस्पतिमुवाच ह ॥ २ ॥

विश्वास-प्रस्तुतिः

इन्द्र उवाच
कथं कार्यं सुराधीश द्रोणोऽयं नीयते यदि
देवानां जीवनं भूयः कथं स्यादिति मे वद ॥ ३ ॥

मूलम्

इन्द्र उवाच
कथं कार्यं सुराधीश द्रोणोऽयं नीयते यदि
देवानां जीवनं भूयः कथं स्यादिति मे वद ॥ ३ ॥

विश्वास-प्रस्तुतिः

इदानीं पवनोद्भूतं प्रसादय यथातथम्
रामः प्रीतिं परां याति देवानां च सुखं भवेत् ॥ ४ ॥

मूलम्

इदानीं पवनोद्भूतं प्रसादय यथातथम्
रामः प्रीतिं परां याति देवानां च सुखं भवेत् ॥ ४ ॥

विश्वास-प्रस्तुतिः

देवाधिपस्य वचनं श्रुत्वा वाचस्पतिस्तदा
शक्रं तु पुरतः कृत्वा सर्वदेवैः परीवृतम् ॥ ५ ॥

मूलम्

देवाधिपस्य वचनं श्रुत्वा वाचस्पतिस्तदा
शक्रं तु पुरतः कृत्वा सर्वदेवैः परीवृतम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

जगाम तत्र यत्रास्ते हनूमान्निर्भयः कपिः
गर्जति प्रसभं जित्वा सुरान्सर्वान्सुखासिनः ॥ ६ ॥

मूलम्

जगाम तत्र यत्रास्ते हनूमान्निर्भयः कपिः
गर्जति प्रसभं जित्वा सुरान्सर्वान्सुखासिनः ॥ ६ ॥

विश्वास-प्रस्तुतिः

ते गत्वा सन्निधौ तस्य बृहस्पतिपुरोगमाः
पेतुस्ते चरणौ नत्वा समीरतनुजस्य हि ॥ ७ ॥

मूलम्

ते गत्वा सन्निधौ तस्य बृहस्पतिपुरोगमाः
पेतुस्ते चरणौ नत्वा समीरतनुजस्य हि ॥ ७ ॥

विश्वास-प्रस्तुतिः

बृहस्पतिश्च तं वीरं जगाद प्रेरितोऽमुना
सुराधीशेन लोकस्य गुरुणा वदतां वरः ॥ ८ ॥

मूलम्

बृहस्पतिश्च तं वीरं जगाद प्रेरितोऽमुना
सुराधीशेन लोकस्य गुरुणा वदतां वरः ॥ ८ ॥

विश्वास-प्रस्तुतिः

अजानद्भिः कृतं कर्म देवैस्तव पराक्रमम्
श्रीरामचरणस्य त्वं सेवकोऽसि महामते ॥ ९ ॥

मूलम्

अजानद्भिः कृतं कर्म देवैस्तव पराक्रमम्
श्रीरामचरणस्य त्वं सेवकोऽसि महामते ॥ ९ ॥

विश्वास-प्रस्तुतिः

किमर्थमयमारम्भः कथमत्र समागमः
तत्करिष्यामहे सर्वे सन्नतास्तव भाषितम् ॥ १० ॥

मूलम्

किमर्थमयमारम्भः कथमत्र समागमः
तत्करिष्यामहे सर्वे सन्नतास्तव भाषितम् ॥ १० ॥

विश्वास-प्रस्तुतिः

रोषं त्यक्त्वा कृपां कृत्वा देवाधीशं विलोकय
पवनात्मज दैत्यानां भयङ्करवपुर्दधत् ॥ ११ ॥

मूलम्

रोषं त्यक्त्वा कृपां कृत्वा देवाधीशं विलोकय
पवनात्मज दैत्यानां भयङ्करवपुर्दधत् ॥ ११ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
इत्थं भाषितमाकर्ण्य देवानां स गुरोर्वचः
उवाच देवान्सकलान्गुरुं चैव महयशाः ॥ १२ ॥

मूलम्

शेष उवाच
इत्थं भाषितमाकर्ण्य देवानां स गुरोर्वचः
उवाच देवान्सकलान्गुरुं चैव महयशाः ॥ १२ ॥

विश्वास-प्रस्तुतिः

राज्ञो वीरमणेः सङ्ख्ये हताः शर्वेण भूरिशः
भटास्तान्वै जीवयितुं द्रोणं नेष्यामि पर्वतम् ॥ १३ ॥

मूलम्

राज्ञो वीरमणेः सङ्ख्ये हताः शर्वेण भूरिशः
भटास्तान्वै जीवयितुं द्रोणं नेष्यामि पर्वतम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

तं ये निवारयिष्यन्ति स्ववीर्यबलदर्पिताः
तान्नेष्यामि क्षणादेव यमस्य सदनं प्रति ॥ १४ ॥

मूलम्

तं ये निवारयिष्यन्ति स्ववीर्यबलदर्पिताः
तान्नेष्यामि क्षणादेव यमस्य सदनं प्रति ॥ १४ ॥

विश्वास-प्रस्तुतिः

तस्माद्वदत मे यूयं द्रोणं वाथ तदौषधम्
येन सञ्जीवयिष्यामि मृतान्वीरान्रणाङ्गणे ॥ १५ ॥

मूलम्

तस्माद्वदत मे यूयं द्रोणं वाथ तदौषधम्
येन सञ्जीवयिष्यामि मृतान्वीरान्रणाङ्गणे ॥ १५ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
इति वाक्यं समाकर्ण्य वायुसूनोर्महात्मनः
ते सर्वे प्रणतिं गत्वा ददुः सञ्जीवनौषधम् ॥ १६ ॥

मूलम्

शेष उवाच
इति वाक्यं समाकर्ण्य वायुसूनोर्महात्मनः
ते सर्वे प्रणतिं गत्वा ददुः सञ्जीवनौषधम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

ते प्रहृष्टा भयं त्यक्त्वा सुराः स्वर्गौकसः स्वयम्
ययुः सुरपतिं कृत्वा पुरः सौख्य समन्विताः ॥ १७ ॥

मूलम्

ते प्रहृष्टा भयं त्यक्त्वा सुराः स्वर्गौकसः स्वयम्
ययुः सुरपतिं कृत्वा पुरः सौख्य समन्विताः ॥ १७ ॥

विश्वास-प्रस्तुतिः

हनुमान्भेषजं तत्तु समादायागतो रणम्
स्तुतः सर्वैः सुरगणैर्महाकर्मसमुत्सुकैः ॥ १८ ॥

मूलम्

हनुमान्भेषजं तत्तु समादायागतो रणम्
स्तुतः सर्वैः सुरगणैर्महाकर्मसमुत्सुकैः ॥ १८ ॥

विश्वास-प्रस्तुतिः

तमागतं हनूमन्तं वीक्ष्य सर्वेऽपि वैरिणः
साधुसाधुप्रशंसन्तमद्भुतं मेनिरे कपिम् ॥ १९ ॥

मूलम्

तमागतं हनूमन्तं वीक्ष्य सर्वेऽपि वैरिणः
साधुसाधुप्रशंसन्तमद्भुतं मेनिरे कपिम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

कपिः समागत्य महामुदायुतः
पुरो भटं पुष्कलमागतं मृतम्
शिवेन संरक्षितमुग्रमण्डले
श्रीरामचित्तं सविधे जगाम ह ॥ २० ॥

मूलम्

कपिः समागत्य महामुदायुतः
पुरो भटं पुष्कलमागतं मृतम्
शिवेन संरक्षितमुग्रमण्डले
श्रीरामचित्तं सविधे जगाम ह ॥ २० ॥

विश्वास-प्रस्तुतिः

सुमतिं च समाहूय मन्त्रिणं महतां मतम्
उवाच जीवयाम्यद्य सर्वान्वीरान्रणे मृतान् ॥ २१ ॥

मूलम्

सुमतिं च समाहूय मन्त्रिणं महतां मतम्
उवाच जीवयाम्यद्य सर्वान्वीरान्रणे मृतान् ॥ २१ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा भेषजं तत्पुष्कलस्य महोरसि
शिरः कायेन सन्धाय जगाद वचनं शुभम् ॥ २२ ॥

मूलम्

एवमुक्त्वा भेषजं तत्पुष्कलस्य महोरसि
शिरः कायेन सन्धाय जगाद वचनं शुभम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

यद्यहं मनसा वाचा कर्मणा राघवं पतिम्
जानामि तर्हि एतेन भेषजेनाशु जीवतु ॥ २३ ॥

मूलम्

यद्यहं मनसा वाचा कर्मणा राघवं पतिम्
जानामि तर्हि एतेन भेषजेनाशु जीवतु ॥ २३ ॥

विश्वास-प्रस्तुतिः

इति वाक्यं यदा वक्ति तावत्पुष्कल उत्थितः
रणाङ्गणेऽदशद्रोषाद्दन्तान्वीरशिरोमणिः ॥ २४ ॥

मूलम्

इति वाक्यं यदा वक्ति तावत्पुष्कल उत्थितः
रणाङ्गणेऽदशद्रोषाद्दन्तान्वीरशिरोमणिः ॥ २४ ॥

विश्वास-प्रस्तुतिः

क्व गतो वीरभद्रोऽसौ मां सम्मूर्च्छ्य रणाङ्गणे
सद्योऽहं पातयाम्येनं क्वास्ति मे धनुरुत्तमम् ॥ २५ ॥

मूलम्

क्व गतो वीरभद्रोऽसौ मां सम्मूर्च्छ्य रणाङ्गणे
सद्योऽहं पातयाम्येनं क्वास्ति मे धनुरुत्तमम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

इति तं भाषमाणं वै प्राह वीरं कपीन्द्रकः
धन्योऽसि वीर यद्भूयो वदस्येनं रणाङ्गणे ॥ २६ ॥

मूलम्

इति तं भाषमाणं वै प्राह वीरं कपीन्द्रकः
धन्योऽसि वीर यद्भूयो वदस्येनं रणाङ्गणे ॥ २६ ॥

विश्वास-प्रस्तुतिः

त्वं हतो वीरभद्रेण रघुनाथप्रसादतः
पुनः सञ्जीवितोऽस्येहि शत्रुघ्नं याम मूर्च्छितम् ॥ २७ ॥

मूलम्

त्वं हतो वीरभद्रेण रघुनाथप्रसादतः
पुनः सञ्जीवितोऽस्येहि शत्रुघ्नं याम मूर्च्छितम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा प्रययौ तत्र सङ्ग्रामवरमूर्धनि
श्वसन्नास्ते स शत्रुघ्नः शिवबाणप्रपीडितः ॥ २८ ॥

मूलम्

इत्युक्त्वा प्रययौ तत्र सङ्ग्रामवरमूर्धनि
श्वसन्नास्ते स शत्रुघ्नः शिवबाणप्रपीडितः ॥ २८ ॥

विश्वास-प्रस्तुतिः

तत्र गत्वा समीपं तच्छत्रुघ्नस्य महात्मनः
निधाय भेषजं तस्य वक्षसि श्वासमागते ॥ २९ ॥

मूलम्

तत्र गत्वा समीपं तच्छत्रुघ्नस्य महात्मनः
निधाय भेषजं तस्य वक्षसि श्वासमागते ॥ २९ ॥

विश्वास-प्रस्तुतिः

उवाच हनुमांस्तं वै जीव शत्रुघ्नसत्तम
मूर्च्छितोऽसि रणे कस्मान्महाबलपराक्रम ॥ ३० ॥

मूलम्

उवाच हनुमांस्तं वै जीव शत्रुघ्नसत्तम
मूर्च्छितोऽसि रणे कस्मान्महाबलपराक्रम ॥ ३० ॥

विश्वास-प्रस्तुतिः

यद्यहं ब्रह्मचर्यं च जन्मपर्यन्तमुद्यतः
पालयामि तदा वीरः शत्रुघ्नो जीवतु क्षणात् ॥ ३१ ॥

मूलम्

यद्यहं ब्रह्मचर्यं च जन्मपर्यन्तमुद्यतः
पालयामि तदा वीरः शत्रुघ्नो जीवतु क्षणात् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

उक्तमात्रेण तेनेदं जीवितः क्षणमात्रतः
क्व शिवः क्व शिवो यातो विहायरणमण्डलम् ॥ ३२ ॥

मूलम्

उक्तमात्रेण तेनेदं जीवितः क्षणमात्रतः
क्व शिवः क्व शिवो यातो विहायरणमण्डलम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अनेके निहताः सङ्ख्ये श्रीरुद्रेण पिनाकिना
ते सर्वे जीविता वीराः कपीन्द्रेण महात्मना ॥ ३३ ॥

मूलम्

अनेके निहताः सङ्ख्ये श्रीरुद्रेण पिनाकिना
ते सर्वे जीविता वीराः कपीन्द्रेण महात्मना ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तदा सर्वे सुसन्नद्धा रोषपूरितमानसाः
स्वेस्वे रथे स्थिताः शत्रून्प्रययुः क्षतविग्रहाः ॥ ३४ ॥

मूलम्

तदा सर्वे सुसन्नद्धा रोषपूरितमानसाः
स्वेस्वे रथे स्थिताः शत्रून्प्रययुः क्षतविग्रहाः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

पुष्कलो वीरभद्रं तु चण्डं चैव कुशध्वजः
नन्दिनं हनुमान्वीरः शत्रुघ्नः सङ्गरे शिवम् ॥ ३५ ॥

मूलम्

पुष्कलो वीरभद्रं तु चण्डं चैव कुशध्वजः
नन्दिनं हनुमान्वीरः शत्रुघ्नः सङ्गरे शिवम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

धनुर्विस्फारयन्तं तं शत्रुघ्नं बलिनां वरम्
सङ्ग्रामे शिवमाहूय तिष्ठन्तं प्रययौ नृपः ॥ ३६ ॥

मूलम्

धनुर्विस्फारयन्तं तं शत्रुघ्नं बलिनां वरम्
सङ्ग्रामे शिवमाहूय तिष्ठन्तं प्रययौ नृपः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

राजा वीरमणिर्वीरः शत्रुघ्नः समरे बली
अन्योन्यं चक्रतुर्युद्धं मुनिविस्मयकारकम् ॥ ३७ ॥

मूलम्

राजा वीरमणिर्वीरः शत्रुघ्नः समरे बली
अन्योन्यं चक्रतुर्युद्धं मुनिविस्मयकारकम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

राज्ञा च वीरमणिना रथा भग्नाः शताधिकाः
शत्रुघ्नस्य नरेन्द्रस्य तिलशः क्षणतो द्विज ॥ ३८ ॥

मूलम्

राज्ञा च वीरमणिना रथा भग्नाः शताधिकाः
शत्रुघ्नस्य नरेन्द्रस्य तिलशः क्षणतो द्विज ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तदा प्रकुपितोऽत्यन्तं शत्रुघ्नो रणमण्डले
आग्नेयास्त्रं मुमोचामुं दग्धुं सैन्यसमन्वितम् ॥ ३९ ॥

मूलम्

तदा प्रकुपितोऽत्यन्तं शत्रुघ्नो रणमण्डले
आग्नेयास्त्रं मुमोचामुं दग्धुं सैन्यसमन्वितम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

दाहकं तन्महद्दृष्ट्वा महास्त्रं शत्रुमोचितम्
अत्यन्तं कुपितो राजा वारुणास्त्रं समाददे ॥ ४० ॥

मूलम्

दाहकं तन्महद्दृष्ट्वा महास्त्रं शत्रुमोचितम्
अत्यन्तं कुपितो राजा वारुणास्त्रं समाददे ॥ ४० ॥

विश्वास-प्रस्तुतिः

वारुणास्त्रेण शीतार्तं वीक्ष्य रामानुजो बली
वायव्यास्त्रं मुमोचास्मै तेन वायुर्महानभूत् ॥ ४१ ॥

मूलम्

वारुणास्त्रेण शीतार्तं वीक्ष्य रामानुजो बली
वायव्यास्त्रं मुमोचास्मै तेन वायुर्महानभूत् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

वायुना संहता मेघा ययुस्ते सर्वतोदिशम्
इतस्ततो गताः सर्वे सैन्यं तत्सुखितं बभौ ॥ ४२ ॥

मूलम्

वायुना संहता मेघा ययुस्ते सर्वतोदिशम्
इतस्ततो गताः सर्वे सैन्यं तत्सुखितं बभौ ॥ ४२ ॥

विश्वास-प्रस्तुतिः

सैन्ये पवनपीडार्ते नृपो वीरमतिर्महान्
पर्वतास्त्रं रिपूद्धारि जग्राह च शरासने ॥ ४३ ॥

मूलम्

सैन्ये पवनपीडार्ते नृपो वीरमतिर्महान्
पर्वतास्त्रं रिपूद्धारि जग्राह च शरासने ॥ ४३ ॥

विश्वास-प्रस्तुतिः

पर्वतैः स्तम्भितो वायुर्न चासर्पत सङ्गरे
तद्वीक्ष्य रामावरजो वज्रास्त्रं तु समाददे ॥ ४४ ॥

मूलम्

पर्वतैः स्तम्भितो वायुर्न चासर्पत सङ्गरे
तद्वीक्ष्य रामावरजो वज्रास्त्रं तु समाददे ॥ ४४ ॥

विश्वास-प्रस्तुतिः

वज्रास्त्रेण हताः सर्वे नगास्तु तिलशः कृताः
चूर्णतां प्रापुरेतस्मिन्रणे वीरवरार्चिते ॥ ४५ ॥

मूलम्

वज्रास्त्रेण हताः सर्वे नगास्तु तिलशः कृताः
चूर्णतां प्रापुरेतस्मिन्रणे वीरवरार्चिते ॥ ४५ ॥

विश्वास-प्रस्तुतिः

वज्रास्त्रेण विदीर्णाङ्गा वीराः शोणितशोभिताः
बभूवुः समरप्रान्ते चित्रं समभवद्रणम् ॥ ४६ ॥

मूलम्

वज्रास्त्रेण विदीर्णाङ्गा वीराः शोणितशोभिताः
बभूवुः समरप्रान्ते चित्रं समभवद्रणम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

तदा प्रकुपितोऽत्यन्तं राजा वीरमणिर्महान्
ब्रह्मास्त्रं चाप आधत्त वैरिदाहकमद्भुतम् ॥ ४७ ॥

मूलम्

तदा प्रकुपितोऽत्यन्तं राजा वीरमणिर्महान्
ब्रह्मास्त्रं चाप आधत्त वैरिदाहकमद्भुतम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नः शरमादाय सस्मार सुमनोहरम्
अस्त्रं तद्योगिनीदत्तं सर्ववैरिविमोहनम् ॥ ४८ ॥

मूलम्

शत्रुघ्नः शरमादाय सस्मार सुमनोहरम्
अस्त्रं तद्योगिनीदत्तं सर्ववैरिविमोहनम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

ब्रह्मास्त्रं तत्करभ्रष्टमागतं वैरिणं प्रति
तावच्छत्रुघ्ननाम्ना तु तन्मुक्तं मोहनास्त्रकम् ॥ ४९ ॥

मूलम्

ब्रह्मास्त्रं तत्करभ्रष्टमागतं वैरिणं प्रति
तावच्छत्रुघ्ननाम्ना तु तन्मुक्तं मोहनास्त्रकम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

मोहनास्त्रेण तद्ब्राह्मं द्विधाछिन्नं क्षणादिह
लग्नं राज्ञो हृदि क्षिप्रं मूर्च्छां सम्प्रापयन्नृपम् ॥ ५० ॥

मूलम्

मोहनास्त्रेण तद्ब्राह्मं द्विधाछिन्नं क्षणादिह
लग्नं राज्ञो हृदि क्षिप्रं मूर्च्छां सम्प्रापयन्नृपम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

ते बाणाः शतशो मुक्ताः शत्रुघ्नेन महीभृता
सर्वेपि मूर्च्छिता वीरा गणा रुद्रस्य ये पुनः ॥ ५१ ॥

मूलम्

ते बाणाः शतशो मुक्ताः शत्रुघ्नेन महीभृता
सर्वेपि मूर्च्छिता वीरा गणा रुद्रस्य ये पुनः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

शिवस्य चरणोपस्थे मूढाः पेतुर्महीतले
तदा शिवः प्रकुपितो रथे तिष्ठन्ययौ नृपम् ॥ ५२ ॥

मूलम्

शिवस्य चरणोपस्थे मूढाः पेतुर्महीतले
तदा शिवः प्रकुपितो रथे तिष्ठन्ययौ नृपम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

शिवेन सहसा योद्धुं समायातो रणाङ्गणे
शत्रुघ्नः सज्जमात्तज्यं धनुः कृत्वा व्ययुद्ध्यत ॥ ५३ ॥

मूलम्

शिवेन सहसा योद्धुं समायातो रणाङ्गणे
शत्रुघ्नः सज्जमात्तज्यं धनुः कृत्वा व्ययुद्ध्यत ॥ ५३ ॥

विश्वास-प्रस्तुतिः

तयोः समभवद्युद्धं घोरं वैरिविदारणम्
शस्त्रास्त्रैर्बहुधामुक्तैरादीपित दिगन्तरम् ॥ ५४ ॥

मूलम्

तयोः समभवद्युद्धं घोरं वैरिविदारणम्
शस्त्रास्त्रैर्बहुधामुक्तैरादीपित दिगन्तरम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

अस्त्रप्रत्यस्त्रसङ्घातैस्ताडनप्रतिताडनैः
देवानामपि दैत्यानां नैतादृग्रणमण्डलम् ॥ ५५ ॥

मूलम्

अस्त्रप्रत्यस्त्रसङ्घातैस्ताडनप्रतिताडनैः
देवानामपि दैत्यानां नैतादृग्रणमण्डलम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

तदा व्याकुलितोऽत्यन्तं शत्रुघ्नः शिवसङ्गरे
सस्मार स्वामिनं तत्र पावनेरुपदेशतः ॥ ५६ ॥

मूलम्

तदा व्याकुलितोऽत्यन्तं शत्रुघ्नः शिवसङ्गरे
सस्मार स्वामिनं तत्र पावनेरुपदेशतः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

हा नाथ भ्रातरत्युग्रः शिवः प्राणापहारणम्
करोति धनुरुद्यम्य त्रायस्व रणमण्डले ॥ ५७ ॥

मूलम्

हा नाथ भ्रातरत्युग्रः शिवः प्राणापहारणम्
करोति धनुरुद्यम्य त्रायस्व रणमण्डले ॥ ५७ ॥

विश्वास-प्रस्तुतिः

अनेके दुःखपाथोधिं तीर्णा राम तवाख्यया
मामप्युद्धर दुःखस्थं रामराम कृपानिधे ॥ ५८ ॥

मूलम्

अनेके दुःखपाथोधिं तीर्णा राम तवाख्यया
मामप्युद्धर दुःखस्थं रामराम कृपानिधे ॥ ५८ ॥

विश्वास-प्रस्तुतिः

इत्थं वक्ति यदा तावद्वीक्षितो रणमण्डले
नीलोत्पलदलश्यामो रामो राजीवलोचनः ॥ ५९ ॥

मूलम्

इत्थं वक्ति यदा तावद्वीक्षितो रणमण्डले
नीलोत्पलदलश्यामो रामो राजीवलोचनः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

मृगशृङ्गं कटौ धृत्वा दीक्षितं वपुरुद्वहन्
तं दृष्ट्वा विस्मयं प्राप शत्रुघ्नः समराङ्गणे ॥ ६० ॥

मूलम्

मृगशृङ्गं कटौ धृत्वा दीक्षितं वपुरुद्वहन्
तं दृष्ट्वा विस्मयं प्राप शत्रुघ्नः समराङ्गणे ॥ ६० ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
श्रीरामसमागमोनाम पञ्चचत्वारिंशत्तमोऽध्यायः ४५