०४४

शेष उवाच

विश्वास-प्रस्तुतिः

आगत्य सविधे रुद्रं समराङ्गणमूर्धनि
जगाद हनुमान्वीरः सञ्जिहीर्षुः सुराधिपम् ॥ १ ॥

मूलम्

हनूमानुवाच
त्वं यदाचरसे रुद्र धर्मस्य प्रतिकूलनम्
तस्मात्त्वां शास्तुमिच्छामि रामभक्तवधोद्यतम् ॥ २ ॥

मया पुरा श्रुतं देव ऋषिभिर्बहुधोदितम्
रघुनाथपदस्मारी नित्यं रुद्रः पिनाकभृत् ॥ ३ ॥

तत्सर्वं तु मृषा जातं शत्रुघ्नं प्रति युध्यतः
पुष्कलो मे हतः शूरः शत्रुघ्नोऽपि विमूर्च्छितः ॥ ४ ॥

तस्मात्त्वां पातयाम्यद्य त्रैलोक्यप्रलयोद्यतम्
यत्नात्तिष्ठस्व भोः शर्व रामभक्तिपराङ्मुखः ॥ ५ ॥

इत्युक्तवन्तं प्लवगं प्रोवाच स महेश्वरः
धन्योऽसि वीरवर्यस्त्वं भवान्वदति नो मृषा ॥ ६ ॥

मत्स्वामी रामचन्द्रोऽयं सुरासुरनमस्कृतः
तदश्वमानयामास शत्रुघ्नः परवीरहा ॥ ७ ॥

मूलम्

मत्स्वामी रामचन्द्रोऽयं सुरासुरनमस्कृतः
तदश्वमानयामास शत्रुघ्नः परवीरहा ॥ ७ ॥

विश्वास-प्रस्तुतिः

तद्रक्षार्थं समायातस्तद्भक्त्या तु वशीकृतः
यथाकथञ्चिद्भक्तोऽसौ रक्ष्यः स्वात्मा इति स्थितिः ॥ ८ ॥

रघुनाथः कृपां कृत्वा विलोकय तु निस्त्रपम्
मां स्वभक्त सुदुःखेन किञ्चित्कोपं दधन्महान् ॥ ९ ॥

एवं वदति चण्डीशे हनूमान्कुपितो भृशम्
शिलामादाय महतीं ताडयामास तद्रथम् ॥ १० ॥

मूलम्

शेष उवाच
एवं वदति चण्डीशे हनूमान्कुपितो भृशम्
शिलामादाय महतीं ताडयामास तद्रथम् ॥ १० ॥

विश्वास-प्रस्तुतिः

शिलया ताडितस्तस्य रथः शकलतां गतः
ससूतः सहयः केतुपताकाभिः समन्वितः ॥ ११ ॥

मूलम्

शिलया ताडितस्तस्य रथः शकलतां गतः
ससूतः सहयः केतुपताकाभिः समन्वितः ॥ ११ ॥

विश्वास-प्रस्तुतिः

नभःस्था देवताः सर्वाः प्रशशंसुः कपीश्वरम्
धन्योसि प्लवगाधीश महत्कर्म त्वया कृतम् ॥ १२ ॥

श्रीशिवं विरथं दृष्ट्वा नन्दी तं समुपाद्रवत्
उवाच श्रीमहादेवं मत्पृष्ठं गम्यतामिति ॥ १३ ॥

वृषस्थितं तु भूतेशं हनूमान्कुपितो भृशम्
शिलामुत्पाट्य तरसा प्राहनद्धृदये तदा ॥ १४ ॥

तदाहतो भूतपतिः शूलं तीक्ष्णं समाददे
जाज्वल्यमानं त्रिशिखं वह्निज्वालासमप्रभम् ॥ १५ ॥

आयातं तन्महद्दृष्ट्वा शूलं प्रज्वलनप्रभम्
हस्ते गृहीत्वा तरसा बभञ्ज तिलशः क्षणात् ॥ १६ ॥

भग्ने त्रिशूले तरसा कपीन्द्रेण क्षणाच्छिवः
शक्तिं करे समाधत्त सर्वलोहविनिर्मिताम् ॥ १७ ॥

सा शक्तिः शिवनिर्मुक्ता हृदये तस्य धीमतः
लग्ना क्षणादभूत्तत्र विक्लवः प्लवगाधिपः ॥ १८ ॥

क्षणाच्च तद्व्यथां तीर्त्वा गृहीत्वा वृक्षमुल्बणम्
ताडयामास हृदये महाव्यालविभूषिते ॥ १९ ॥

ताडितास्तेन वीरेण फणीन्द्रास्त्रा समागताः
इतस्ततस्ते तं मुक्त्वा गताः पातालमुज्जवाः ॥ २० ॥

शिवस्तस्मिन्नगे मुक्ते वक्षसि स्वे निरीक्ष्य च
कुपितो व्यदधाद्घोरं मुसलं करयुग्मके ॥ २१ ॥

हतोसि गच्छ सङ्ग्रामात्पलाय्य प्लवगाधम
एष ते प्राणहन्ताहं मुसलेन क्षणादिह ॥ २२ ॥

मुसलं वीक्ष्य निर्मुक्तं शिवेन कुपितेन वै
कीशस्तद्वञ्चयामास महावेगाद्धरिं स्मरन् ॥ २३ ॥

मुसलं तत्पपाताधः शिवमुक्तं महायसम्
विदार्य पृथिवीं सर्वां जगाम च रसातलम् ॥ २४ ॥

तदा प्रकुपितोऽत्यतं हनूमान्रामसेवकः
गृहीत्वा पर्वतं हस्ते ताडयामास वक्षसि ॥ २५ ॥

स यावत्पर्वतं छेत्तुं मतिं चक्रे सतीपतिः
तावद्धतः कपीन्द्रेण शालेन बहुशाखिना ॥ २६ ॥

तमपिच्छेत्तुमुद्युक्तो यावत्तावच्छिलाहतः
शिलास्ता भेदितुं स्वान्तं चकार मृड उद्यतः ॥ २७ ॥

तावद्वृष्टिं चकारायं शिलाभिर्नगपर्वतैः
लाङ्गूलेन च संवेष्ट्य ताडयत्येष भूतपम् ॥ २८ ॥

शिलाभिः पर्वतैर्वृक्षैः पुच्छास्फोटेन भूरिशः
नन्दी प्राप्तो महात्रासं चन्द्रोऽपि शकलीकृतः ॥ २९ ॥

अत्यन्तं विह्वलो जातो महेशानः प्रकोपनः
क्षणेक्षणे प्रहारेण विह्वलं कुर्वतं भृशम् ॥ ३० ॥

जगाद प्लवगाधीशं धन्योसि रघुपानुग
महत्कर्म कृतं तेऽद्य यत्तेहं सुप्रतोषितः ॥ ३१ ॥

न दानेन न यज्ञेन नाल्पेन तपसा ह्यहम्
सुलभोऽस्मि महावेग तस्मात्प्रार्थय मे वरम् ॥ ३२ ॥

एवं ब्रुवन्तं तं दृष्ट्वा हनूमान्निजगाद तम्
प्रहसन्निर्भिया वाण्या महेशानं सुतोषितम् ॥ ३३ ॥

रघुनाथप्रसादेन सर्वं मेऽस्ति महेश्वर
तथापि याचे हि वरं त्वत्तः समरतोषितात् ॥ ३४ ॥

एष पुष्कलसञ्ज्ञो नः समरे पतितो हतः
तथैव रामावरजः शत्रुघ्नो मूर्च्छितो रणे ॥ ३५ ॥

अन्ये च वीरा बहवः पतिताः शरविक्षताः
मूर्च्छिताः पतिताः केचित्तान्रक्षस्व गणैः सह ॥ ३६ ॥

यथा चैतान्महाभूता वेतालाश्च पिशाचकाः
न हरन्ति न खादन्ति श्वशृगालादयस्तथा ॥ ३७ ॥

एतेषां वपुषो भेदो न भवेत्त्वं तथाचर
यावदिन्द्रगणं जित्वा न यामि द्रोणपर्वतम् ॥ ३८ ॥

तत्रस्था औषधीर्वापि नीत्वा संस्थापितान्भटान्
जीवयामि बलात्सर्वांस्तावत्त्वं रक्ष सर्वशः ॥ ३९ ॥

एष गच्छामि तं नेतुं द्रोणं पर्वतसत्तमम्
यस्मिन्वसन्त्योषधयः प्राणिसञ्जीवनङ्कराः ॥ ४० ॥

एतद्वचः समाकर्ण्य तथेति निजगाद तम्
याहि शीघ्रं नगं तं तु रक्षामि त्वद्भटान्मृतान् ॥ ४१ ॥

तच्छ्रुत्वा वाक्यमीशस्य जगाम द्रोणपर्वतम्
द्वीपान्सर्वानतिक्रम्य जगाम क्षीरसागरम् ॥ ४२ ॥

अत्र तु स्वगणैश्चायं रक्षति स्म शिवो महान्
श्मशानं तद्गणैः स्वीयैर्महाबलपराक्रमैः ॥ ४३ ॥

हनूमान्द्रोणमासाद्य द्रोणन्नाम महागिरिम्
लाङ्गूले तं निधायाशु प्रतस्थे रणमण्डलम् ॥ ४४ ॥

तं नेतुमुद्यते विप्र चकम्पे स च पर्वतः
कम्पमानं तु तं दृष्ट्वा तत्पाला देवतागणाः ॥ ४५ ॥

हाहेति कृत्वा प्रोचुस्ते किमिदं भविता गिरौ
को ह्येनं नयते वीरो महाबलपराक्रमः ॥ ४६ ॥

एवं कृत्वा सुराः सर्वे संहता ददृशुः कपिम्
मुञ्चैनमिति तं प्रोच्य जघ्नुः शस्त्रास्त्रकोटिभिः ॥ ४७ ॥

तान्सर्वान्निघ्नतो दृष्ट्वा हनूमान्कुपितो भृशम्
जघान तान्क्षणाद्वीरः शक्रः सर्वासुरान्यथा ॥ ४८ ॥

केचित्पदाहतास्तत्र केचित्करविमर्दिताः
लाङ्गूलेन हताः केचित्केचिच्छृङ्गेण चाहताः ॥ ४९ ॥

सर्वे ते नाशमापन्नाः क्षणात्कीशेन ताडिताः
केचिन्निपतिता भूमौ रुधिरेण परिप्लुताः ॥ ५० ॥

केचित्कीशभयात्त्रस्ता जग्मुः शक्रं सुराधिपम्
क्षतेन च परिप्लुष्टा रुधिरक्षतदेहिनः ॥ ५१ ॥

तान्दृष्ट्वा भयसंविग्नान्रुधिरेण परिप्लुतान्
सुराञ्जगाद विमनाः शक्रः सर्वसुरोत्तमः ॥ ५२ ॥

कथं यूयं भयत्रस्ताः कथं रुधिरविप्लुताः
केन दैत्येन निहता राक्षसेनाधमेन वा ॥ ५३ ॥

सर्वं शंसत मे तथ्यं यथा ज्ञात्वा व्रजामि तम्
निहत्य बद्ध्वा चायामि युष्मद्घातकमुन्मदम् ॥ ५४ ॥

इति वाक्यं समाकर्ण्य तुरासाहं सुरोत्तमाः
जगदुर्दीनया वाचा सुरासुरनमस्कृतम् ॥ ५५ ॥

देवा ऊचुः
इहागत्य न जानीमः कश्चिद्वानररूपधृक्
नेतुं द्रोणं समुद्युक्तो लाङ्गूले वेष्ट्य तं गिरिम् ॥ ५६ ॥

गन्तुं कृतमतिस्तावद्वयं सर्वे सुसंहताः
युद्धं चक्रुः सुसन्नद्धाः सर्वशस्त्रास्त्रवर्षिणः ॥ ५७ ॥

तेन सर्वे वयं युद्धे निर्जिता बलशालिना
अनेके निहतास्तत्र भूमौ पेतुः सुरोत्तमाः ॥ ५८ ॥

वयं तु बहुभिः पुण्यैर्जीविता इह चागताः
शोणितेन सुसिक्ताङ्गाः क्षतपीडासमन्विताः ॥ ५९ ॥

एतद्वाक्यं समाकर्ण्य सुराणां स पुरन्दरः
आदिदेश सुरान्सर्वान्महाबलसमन्वितान् ॥ ६० ॥

यात महाद्रोणगिरिं कपिं बद्धुं महाबलम्
बद्ध्वा नयत यूयं वै सुराणां रणपातकम् ॥ ६१ ॥

इत्याज्ञप्ता ययुस्ते वै द्रोणं पर्वतसत्तमम्
यत्रास्ते बलवान्वीरो हनूमान्कपिसत्तमः ॥ ६२ ॥

गत्वा ते प्राहरन्सर्वे हनूमन्तं महाबलम्
हनूमता ते निहता मुष्टिभिः करताडनैः ॥ ६३ ॥

पतितास्ते क्षणात्तत्र रुधिरक्षतविग्रहाः
अन्ये पलायनपरा जग्मुस्ते त्रिदिवेश्वरम् ॥ ६४ ॥

तच्छ्रुत्वा कुपितः शक्रः सर्वानमरसत्तमान्
आदिदेश महावीरं वानरेन्द्रं सुरोत्तमः ॥ ६५ ॥

तदाज्ञप्ता ययुस्ते वै यत्र कीशेश्वरो बली
तान्सर्वानागतान्दृष्ट्वा जगाद कपिसत्तमः ॥ ६६ ॥

मायां तु वीराः समरे संहर्तारं हि मां बलात्
नेष्यामि युष्मानधुना संयमिन्याः पुरोंऽतिके ॥ ६७ ॥

इत्युक्ता अपि ते सर्वे सन्नद्धाः प्राहरन्कपिम्
शस्त्रास्त्रैर्बहुधा मुक्तैर्महाबलसमन्विताः ॥ ६८ ॥

केचिच्छूलैः परशुभिः केचित्खड्गैश्च पट्टिशैः
मुसलैः शक्तिभिः केचित्क्रोधेन कलुषीकृताः ॥ ६९ ॥

स आहतोऽमरवरैर्विविधैरायुधैर्बली
शिलाभिस्ताञ्जघानाशु सर्वानमरसत्तमान् ॥ ७० ॥

केचित्पलाय्य आहुस्ते गताः शक्रसमीपकम्
तदुक्तं वाक्यमाकर्ण्य भयं प्राप सुराधिपः ॥ ७१ ॥

बृहस्पतिं सुराध्यक्षं मन्त्रिणं स्वर्गवासिनाम्
पप्रच्छ सविधे गत्वा नत्वा सुरगुरुं वरम् ॥ ७२ ॥

इन्द्र उवाच
कोऽसौ यो वानरो द्रोणं नेतुं स्वामिन्समागतः
येन मे निहता वीरा अमराः शस्त्रधारिणः ॥ ७३ ॥

एतच्छ्रुत्वा तु तद्वाक्यमुक्तमाङ्गिरसो महान्
जगाद भयसंविग्नं तुरासाहं सुराधिपम् ॥ ७४ ॥

बृहस्पतिरुवाच
यो रावणमहन्सङ्ख्ये कुम्भकर्णमदीदहत्
येन ते वैरिणः सर्वे हतास्तस्यैव सेवकः ॥ ७५ ॥

येन लङ्का सत्रिकूटा निर्दग्धा पुच्छवह्निना
अक्षश्च निहतो येन हनूमन्तमवेहि तम् ॥ ७६ ॥

तेन सर्वे विनिहता द्रोणार्थमयमुद्यतः
हयमेधं महाराजः करोति बलिसत्तमः ॥ ७७ ॥

मूलम्

तेन सर्वे विनिहता द्रोणार्थमयमुद्यतः
हयमेधं महाराजः करोति बलिसत्तमः ॥ ७७ ॥

विश्वास-प्रस्तुतिः

तस्याश्वं शिवभक्तस्तु नृपो वीरमणिर्महान्
जहार तत्र समभूद्रणं सुरविमोहनम् ॥ ७८ ॥

शिवेन निहताः सङ्ख्ये वीरा रामस्य भूरिशः
तान्वै जीवयितुं द्रोणं नेष्यत्येव महाबलः ॥ ७९ ॥

नायं वर्षशतैर्जेयो भवता बलसंयुतः
तस्मात्प्रसादय कपिं देहि तत्रत्यमौषधम् ॥ ८० ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे द्रोणगिरौ
देवानां पराजयोनाम चतुश्चत्वारिंशत्तमोऽध्यायः ४४