शेष उवाच
विश्वास-प्रस्तुतिः
हनूमान्वीरसिंहं तु समागत्याब्रवीद्वचः
तिष्ठ यासि कुतो वीर जेष्यामि त्वां क्षणादिह ॥ १ ॥
मूलम्

एवमुक्तं समाकर्ण्य प्लवगस्य वचो महत्
कोपपूरपरिप्लुष्टः कार्मुकं जलदस्वनम् ॥ २ ॥

विनद्य घोरान्निशितान्बाणान्मुञ्चन्बभौ रणे
आषाढे जलदस्येव धारासारे मनोहरः ॥ ३ ॥

तान्दृष्ट्वा निशितान्बाणान्स्वदेहे सुविलग्नकान्
चुकोप हृदयेऽत्यतं हनूमानञ्जनी सुतः ॥ ४ ॥

मुष्टिना ताडयामास हृदये वज्रसारिणा
समुष्टिना हतो वीरः पपात धरणीतले ॥ ५ ॥
मूलम्
मुष्टिना ताडयामास हृदये वज्रसारिणा
समुष्टिना हतो वीरः पपात धरणीतले ॥ ५ ॥
विश्वास-प्रस्तुतिः
मूर्च्छितं तं समालोक्य पितृव्यं स शुभाङ्गदः
रुक्माङ्गदोऽपि सम्मूर्च्छां त्यक्त्वागाद्रणमण्डलम् ॥ ६ ॥

बाणान्समभिवर्षन्तौ मेघाविव महास्वनौ
कुर्वन्तौ कदनं घोरं प्लवङ्गं प्रति जग्मतुः ॥ ७ ॥

तौ दृष्ट्वा समरे वीरौ समायातौ कपीश्वरः
लाङ्गूलेन च संवेष्ट्य सरथौ चापधारकौ ॥ ८ ॥

स्फोटयामास भूदेशे तत्क्षणान्मूर्च्छितावुभौ
निश्चेष्टौ समभूतां तौ रुधिरारक्तदेहकौ ॥ ९ ॥

बलमित्रश्चिरं युद्धं विधाय सुमदेन हि
मूर्च्छामप्रापयत्तं वै बाणैः सुशितपर्वभिः ॥ १० ॥

पुष्कलेन क्षणान्नीतो मूर्च्छां चैतन्यवर्जिताम्
जयमाप्तं तु कटकं शत्रुघ्नस्य भटार्दनम् ॥ ११ ॥

एतस्मिन्समये साम्बः स्यन्दनं वरमास्थितः
विस्फारयन्धनुर्दिव्यमुपाधावद्भटानिमान् ॥ १२ ॥

जटाजूटान्तरगतां चन्द्ररेखां वहन्महान्
सर्पाभूषां मनःस्पर्शां दधदाजगवं धनुः ॥ १३ ॥

मूर्च्छितान्स्वजनान्दृष्ट्वा भक्तार्तिघ्नो महेश्वरः
योद्धुं प्रायान्महासैन्यैः शत्रुघ्नस्य भटानिमान् ॥ १४ ॥

सगणः सपरीवारः कम्पयन्पृथिवीतलम्
भक्तरक्षार्थमागच्छंस्त्रिपुरं तु पुरा यथा ॥ १५ ॥

कोपाच्छोणतरे नेत्रे वहन्प्रलयकारकः
पश्यन्वीरान्बहुमतीन्पिनाकी देववन्दितः ॥ १६ ॥

तमागतं महेशानं वीक्ष्य रामानुजो बली
जगाम समरे योद्धुं सर्वदेवशिरोमणिम् ॥ १७ ॥

अथागतं तु शत्रुघ्नं रुद्रो वीक्ष्य पिनाकधृक्
उवाच परमापन्नः कोपं सगुणचापधृक् ॥ १८ ॥

पुष्कलेन महत्कर्म कृतं रामाङ्घ्रिसेविना
मद्भक्तं यो रणे हत्वा गतः समरमण्डलम् ॥ १९ ॥

अद्य क्वास्ति परो वीरः पुष्कलः परमास्त्रवित्
तं हत्वा सुखमाप्स्यामि समरे भक्तपीडनम् ॥ २० ॥

इत्युक्त्वा वीरभद्रं स प्रेषयामास पुष्कलम्
याहि त्वं समरे योद्धुं पुष्कलं सेवकार्दनम् ॥ २१ ॥

नन्दिनं प्रेषयामास हनूमन्तं महाबलम्
कुशध्वजं प्रचण्डं तु भृङ्गिणं च सुबाहुकम् ॥ २२ ॥

सुमदं चण्डनामानं गणं स्वीयं समादिशत्
पुष्कलस्तु समायान्तं वीरभद्रं महागणम् ॥ २३ ॥

महारुद्रस्य संवीक्ष्य योद्धुं प्रायान्महामनाः
पुष्कलः पञ्चभिर्बाणैस्ताडयामास संयुगे ॥ २४ ॥

तैर्बाणैः क्षतगात्रस्तु त्रिशूलं स समादिशत्
स त्रिशूलं क्षणाच्छित्त्वा व्यगर्जत महाबलः ॥ २५ ॥

छिन्नं स्वीयं त्रिशूलं वै वीक्ष्य रुद्रानुगो बली
खट्वाङ्गेन जघानाशु मस्तके भारतिं द्विज ॥ २६ ॥

खट्वाङ्गाभिहतः सोऽथ मुमूर्च्छ क्षणमुद्भटः
विहाय मूर्च्छां सद्वीरः पुष्कलः परमास्त्रवित् ॥ २७ ॥

शरैश्चिच्छेद खट्वाङ्गं करस्थं तस्य तत्क्षणात्
वीरभद्रः स्वकेच्छिन्ने खट्वाङ्गे करसंस्थिते ॥ २८ ॥

परमक्रोधमापन्नो बभञ्ज रथिनो रथम्
भङ्क्त्वा रथं तु वीरस्य पदातिं च विधाय सः ॥ २९ ॥

बाहुयुद्धेन युयुधे पुष्कलेन महात्मना
स पुष्कलो रथं त्यक्त्वा चूर्णितं तेन वेगतः ॥ ३० ॥

मुष्टिना ताडयामास वीरभद्रं महाबलः
अन्योन्यं मुष्टिभिर्घ्नन्तावूरुभिर्जानुभिस्तथा ॥ ३१ ॥

परस्परवधोद्युक्तौ परस्परजयैषिणौ
एवं चतुर्दिनमभूद्रात्रिं दिवमपीशयोः ॥ ३२ ॥

न कोपि तत्र हीयेत न जीयेत महाबलः
पञ्चमे तु दिने वृत्ते वीरभद्रो महाबलः ॥ ३३ ॥

गृहीत्वा नभ उड्डीनो महावीरं तु पुष्कलम्
तत्र युद्धं तयोरासीद्देवासुरविमोहनम् ॥ ३४ ॥

मुष्टिना चरणाघातैर्बाहुभिः सुखुरैर्महत्
तदात्यन्तं प्रकुपितः पुष्कलो वीरभद्रकम् ॥ ३५ ॥

गृहीत्वा कण्ठदेशे तु ताडयामास भूतले
तत्प्रहारेण व्यथितो वीरभद्रो महाबलः ॥ ३६ ॥

गृहीत्वा पुष्कलं पादे जघानास्फालयन्मुहुः
ताडयित्वा महीदेशे पुष्कलं सुमहाबलः ॥ ३७ ॥

त्रिशूलेन चकर्ताशु शिरो ज्वलितकुण्डलम्
जगर्ज पुष्कलं हत्वा वीरभद्रो महाबलः ॥ ३८ ॥

गर्जता तेन शार्वेण प्रापितास्त्रा समुद्भटाः
हाहाकारो महानासीत्पुष्कले पतिते रणे ॥ ३९ ॥

त्रासं प्रापुर्जनाः सर्वे रणमध्ये सुकोविदाः
ते शशंशुश्च शत्रुघ्नं पुष्कलं पतितं रणे ॥ ४० ॥

निहतं वीरभद्रेण महेश्वरगणेन वै
इत्याश्रुत्य महावीरः पुष्कलस्य वधं तदा ॥ ४१ ॥

दुःखं प्राप्तो रणेऽत्यतं कम्पमानः शुचा महान्
तं दुःखितं च शत्रुघ्नं ज्ञात्वा रुद्रो ऽब्रवीद्वचः ॥ ४२ ॥

शत्रुघ्नं समरे वीरं शोचन्तं पुष्कले हते
रे शत्रुघ्न रणे शोकं मा कृथाः सुमहाबल ॥ ४३ ॥

वीराणां रणमध्ये तु पातनं कीर्तये स्मृतम्
धन्यो वीरः पुष्कलाख्यो यश्च वै दिनपञ्चकम् ॥ ४४ ॥

युयुधे वीरभद्रेण महाप्रलयकारिणा
येन क्षणाद्विनिहतो दक्षो मदपमानकृत् ॥ ४५ ॥

क्षणाद्विनिहता येन दैत्यास्त्रिपुरसैनिकाः
तस्माद्युद्ध्स्व राजेन्द्र शोकं त्यक्त्वा महाबल ॥ ४६ ॥

यत्नात्तिष्ठाद्य वीराग्र्य मयि योद्धरि संस्थिते
शोकं सन्त्यज्य शत्रुघ्नो वीरश्चुक्रोध शङ्करम् ॥ ४७ ॥

आत्तसज्जधनुर्बाणैः प्रचच्छाद महेश्वरम्
ते बाणाः सुरशीर्षण्य वपुषं क्षतविक्षतम् ॥ ४८ ॥

अकुर्वत महच्चित्रं भक्तरक्षार्थमागतम्
ते बाणाः शङ्करस्यापि बाणा नभसि संस्थिताः ॥ ४९ ॥

व्याप्यैतत्सकलं विश्वं चित्रकारि मुनेरपि
तद्बाणयोर्युद्धबलं वीक्ष्य सर्वत्र मेनिरे ॥ ५० ॥

प्रलयं लोकसंहारकारकं सर्वमोहकम्
आकाशे तु विमानानि संश्रित्य स्वपुरस्थिताः ॥ ५१ ॥

विलोकयितुमागत्य प्रशंसन्ति तयोर्भृशम्
अयं लोकत्रयस्यास्य प्रलयोत्पत्तिकारकः ॥ ५२ ॥

असावपि महाराज रामचन्द्रस्य चानुजः
किमिदं भविता को वा जेष्यति क्षितिमण्डले ॥ ५३ ॥

पराजयं वा को वीरः प्राप्स्यते रणमूर्धनि
एवमेकादशाहानि वृत्तं युद्धं परस्परम् ॥ ५४ ॥

द्वादशे दिवसे प्राप्ते मुमोचास्त्रं नराधिपः
ब्रह्मसञ्ज्ञं महादेवं हन्तुं क्रोधसमन्वितः ॥ ५५ ॥

सविज्ञाय महास्त्रं तन्मुक्तं शत्रुघ्नवैरिणा
हसन्नप्यपिबत्तेन मुक्तं ब्रह्मशिरो महत् ॥ ५६ ॥

अत्यन्तं विस्मयं प्राप्य किं कर्तव्यमतः परम्
एवं विचारयुक्तस्य हृदये ज्वलनोपमम् ॥ ५७ ॥

शरं वै निचखानाशु देवदेव शिरोमणिः
तेन बाणेन शत्रुघ्नो मूर्च्छितो रणमण्डले ॥ ५८ ॥

हाहाभूतमभूत्सर्वं कटकं भटसेवितम्
वीराः सर्वे रुद्रगणैः पातिताः पृथिवीतले ॥ ५९ ॥

सुबाहुसुमदोन्मुख्याः स्वबाहुबलदर्पिताः
पतितं मूर्च्छया वीक्ष्य शत्रुघ्नं शरपीडितम् ॥ ६० ॥

पुष्कलं तु रथे स्थाप्य सेवकैः परिरक्षितुम्
हनूमानागतो योद्धुं शिवं संहारकारकम् ॥ ६१ ॥

श्रीरामस्मरणं योधान्स्वीयान्विप्र प्रहर्षितान्
प्रकुर्वन्रोषितस्तीव्रं लाङ्गूलं च प्रकम्पयन् ॥ ६२ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्कल-
शत्रुघ्नपराजयोनाम त्रिचत्वारिंशत्तमोऽध्यायः ४३