शेष उवाच
विश्वास-प्रस्तुतिः
आह्वयन्तं महासैन्यवारिधौ पुष्कलं नृपम्
समालक्ष्य कपीन्द्रोऽपि हनूमांस्तमधावत ॥ १ ॥
मूलम्

लाङ्गूलमुद्यम्य विशालदेहं
सरावमातत्य पयोदघोषम्
रणस्थितान्वीरवरान्कपीन्द्रो
जगाम तं वीरमणिं नृपेन्द्रम् ॥ २ ॥
मूलम्
लाङ्गूलमुद्यम्य विशालदेहं
सरावमातत्य पयोदघोषम्
रणस्थितान्वीरवरान्कपीन्द्रो
जगाम तं वीरमणिं नृपेन्द्रम् ॥ २ ॥
विश्वास-प्रस्तुतिः
आयान्तं तं हनूमन्तं वीक्ष्य पुष्कल उद्भटः
विलोकयामासदृशा वैरिक्रोध सुशोणया ॥ ३ ॥

जगाद तं हनूमन्तं पुष्कलः परमास्त्रवित्
मेघगम्भीरया वाचा नादयन्रणमण्डलम् ॥ ४ ॥
मूलम्
जगाद तं हनूमन्तं पुष्कलः परमास्त्रवित्
मेघगम्भीरया वाचा नादयन्रणमण्डलम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
पुष्कल उवाच
कथं त्वं समरे योद्धुमागतोसि महाकपे
कियद्बलं स्वल्पमेतद्राज्ञो वीरमणेर्महत् ॥ ५ ॥

यत्र त्रिजगती सर्वा सम्मुखे समुपागता
तत्र त्वं लीलया योद्धुं यातुमिच्छसि वा न वा ॥ ६ ॥

कोयं राजा वीरमणिः कियद्बलमथाल्पकम्
अत्रागमनमत्युग्रं तव वीर न भाव्यते ॥ ७ ॥

रघुनाथकृपापाङ्गादहं निस्तीर्य दुस्तरम्
क्षणान्निर्यामि कीशेन्द्र मा चित्तं कुरु सङ्गरे ॥ ८ ॥

त्वया राक्षसपाथोधिस्तीर्णो रामकृपाव्रजात्
तथा रामं सुसंस्मृत्य निस्तरिष्यामि दुस्तरम् ॥ ९ ॥

ये केचिद्दुस्तरं प्राप्य रघुनाथं स्मरन्ति च
तेषां दुःखोदधिः शुष्को भविष्यति न संशयः ॥ १० ॥

तस्माद्व्रज महावीर शत्रुघ्नसविधे बलिन्
एष आयामि निर्जित्य भूपं वीरमणिं क्षणात् ॥ ११ ॥

इति धीरां समाकर्ण्य वाणीं पुष्कलभाषिताम्
जगाद वचनं भूयः पुष्कलं परवीरहा ॥ १२ ॥

हनुमानुवाच
पुत्र मा साहसं कार्षीर्भूपं वीरमणिं प्रति
एष दाता शरण्यश्च बलशौर्यसमन्वितः ॥ १३ ॥

त्वं बालः स्थविरो भूपोऽखिलशस्त्रास्त्रवित्तमः
अनेके विजिताः सङ्ख्ये वीराः शौर्यसुशोभिनः ॥ १४ ॥

जानीहि पार्श्वे तस्य त्वं रक्षितारं सदाशिवम्
भक्त्या वशीकृतं स्थाणुं सोमं चैतत्पुरिस्थितम् ॥ १५ ॥

तस्मादहमनेनैव योत्स्ये भूपेन पुष्कल
अन्यान्वीरान्विजित्वा त्वं कीर्तिमाप्नुहि पुष्कलाम् ॥ १६ ॥

शिवो भक्त्या वशीकृत्य स्वपुरे स्थापितोऽमुना
परमस्याशु हृदयेन तिष्ठति महेश्वरः ॥ १७ ॥

सदाशिवोयमाराध्य परमं स्थानमागतः
स रामो मन्मनस्त्यक्त्वा न क्वापि परिगच्छति ॥ १८ ॥

यत्र रामस्तत्र विश्वं सर्वं स्थास्नु चरिष्णु च
तस्मादहं जयिष्यामि रणे वीरमणिं नृपम् ॥ १९ ॥

व्रज त्वं समरे योद्धुमन्यान्मानिवरान्नृपान्
वीरसिंहमुखान्कीश मच्चिन्तां मा कुरु प्रभो ॥ २० ॥

वाचमित्थं समाकर्ण्य हनूमान्धीरसेविताम्
जगाम समरे योद्धुं वीरसिंहं नृपानुजम् ॥ २१ ॥

लक्ष्मीनिधिः सुतेनास्य शुभाङ्गदसुसञ्ज्ञिना
द्वैरथेन प्रयुयुधे महाशस्त्रास्त्रवेदिना ॥ २२ ॥

बलमित्रेण सुमदः स्वप्रतापबलोर्जितः
योद्धुं सशस्त्रः सङ्ग्रामं विचचार नृपात्मजः ॥ २३ ॥

आह्वयन्तं नृपं दृष्ट्वा द्वैरथे युद्धकोविदः
पुष्कलो रुक्मखचिते रथे तिष्ठन्ययौ हि तम् ॥ २४ ॥

राजा तमागतं दृष्ट्वा पुष्कलं युद्धकोविदम्
उवाच निर्भिया वाण्या रणमध्ये सुभाषितः ॥ २५ ॥

वीरमणिरुवाच
बालमायाहि मां क्रुद्धं सङ्ग्रामे चण्डकोपनम्
गच्छ प्राणपरीप्सायै मा युद्धं कुरु मे सह ॥ २६ ॥

त्वादृशान्बालकान्भूपा मादृशाः कृपयन्ति हि
प्रहरन्ति न चैतान्वै तस्माद्गच्छ रणाद्बहिः ॥ २७ ॥

यावत्त्वं न मया दृष्टश्चक्षुर्भ्यां तावदुन्मनाः
साम्प्रतं त्वां प्रहर्तुं न मनः समभिकाङ्क्षति ॥ २८ ॥

यत्त्वया मत्सुतो बाणैर्भिन्नो मूर्च्छीकृतः पुनः
सर्वं मया क्षान्तमद्य तवबालधियो महत् ॥ २९ ॥

इति वाक्यं समाकर्ण्य पुष्कलो निजगाद तम्
पुष्कल उवाच
बालोऽहं त्वं महावृद्धः सर्वशस्त्रास्त्रकोविदः ॥ ३० ॥

क्षत्रियाणां मतं चैव ये बलाधिक्यसंयुताः
त एव वृद्धा भूपाग्र्य न वयोवृद्धतां गताः ॥ ३१ ॥

मया ते मूर्च्छितः पुत्रः सशौर्यबलदर्पितः
इदानीं त्वामहं शस्त्रैः पातयिष्यामि सङ्गरे ॥ ३२ ॥

तस्मात्त्वं यत्नतस्तिष्ठ राजन्सङ्ग्राममूर्धनि
रामभक्तं न मां कश्चिज्जयतीन्द्रपदे स्थितः ॥ ३३ ॥

इत्थं भाषितमाश्रुत्य पुष्कलस्य नृपाग्रणीः
जहास बालं संवीक्ष्य कोपं च व्यदधात्पुनः ॥ ३४ ॥

तं वै कुपितमालक्ष्य भरतात्मज उन्मदः
जघान शरविंशत्या राजानं हृदि तीक्ष्णया ॥ ३५ ॥

राजा तानागतान्दृष्ट्वा बाणांस्तेन विमोचितान्
चिच्छेद परमक्रुद्धः शरैस्तीक्ष्णैरनेकधा ॥ ३६ ॥

तद्बाणच्छेदनं दृष्ट्वा भारतिः परवीरहा
चुकोप हृदयेऽत्यन्तं राजानं च त्रिभिः शरैः ॥ ३७ ॥

विव्याध भाले भूपाल पुत्रः पुष्कलसञ्ज्ञकः
तत्र लग्ना विरेजुस्ते त्रिकूटशिखराणि किम् ॥ ३८ ॥

तैर्बाणैर्व्यथितो राजा जघान नवभिः शरैः
हृदये पुष्कलं वीरं महाकोपसमन्वितः
तैर्वत्सदन्तैर्बह्वस्रं पीतं रामानुजाङ्गजम् ॥ ३९ ॥

सर्पा आशीविषा यद्वत्क्रुद्धास्तद्वपुषि स्थिताः
परमं कोपमापन्नः पुष्कलो भूमिपं पुनः ॥ ४० ॥

बाणानां शतकेनाशु बिभेद शितपर्वणाम्
तैर्बाणैः कवचं भिन्नं किरीटः सशिरस्त्रकः ॥ ४१ ॥

रथो धनुर्महत्सज्यं छिन्नं कोपपरिप्लवात्
क्षतजेन परिप्लुष्टो बाणभिन्नकलेवरः ॥ ४२ ॥

अन्यं स्यन्दनमारुह्य जगाम भरतात्मजम्
धन्योसि वीर रामस्य चरणाब्जमधुव्रत ॥ ४३ ॥

महत्कृतं कर्म तेऽद्य यदहं विरथीकृतः
प्राणान्रक्षस्व भो वीर साम्प्रतं मयि युद्ध्यति ॥ ४४ ॥

सुलभा न तव प्राणाः कालरूपे मयि स्थिते
इत्युक्त्वा व्यहनद्बाणैरसङ्ख्यैः शस्त्रकोविदः ॥ ४५ ॥

भूमौ दिशि च तद्बाणा नान्यद्दृश्येत तत्र ह
अनेके गजसाहस्रा भिन्ना अश्वाः समन्ततः ॥ ४६ ॥

रथारथियुतास्तेन छिन्ना भिन्ना द्विधाकृताः
शोणितौघा सरित्तत्र प्रसुस्राव रणाङ्गणे ॥ ४७ ॥

यत्रोन्मदा हि मातङ्गा दृश्यन्ते शैलशृङ्गवत्
केशाः शैवाललक्ष्यास्ते मुहुः प्राणिशिरः स्थिताः ॥ ४८ ॥

अनेके पाणयश्छिन्ना वीराणां मुद्रिकाश्रियः
दृश्यन्ते अहिवत्तत्र चन्दनादिकरूषिताः ॥ ४९ ॥

शिरांसि च भटाग्र्याणां कच्छपाभां वहन्ति वै
मांसानि पङ्का यत्रासन्वीराणां महतां ततः ॥ ५० ॥

एवं व्यतिकरे वृत्ते योगिन्यः शतशो रणे
पपुः पात्रेण रुधिरं प्राणिनां रणपातिनाम् ॥ ५१ ॥

मांसानि बुभुजुस्ता वै हर्षकौतुकसंयुताः
पीत्वा तु शोणितं तत्र भक्षित्वा मांसमुन्मदाः ॥ ५२ ॥

ननृतुर्जहसुः प्रोच्चैरुज्जगुः प्रधनाङ्गणे
पिशाचास्तत्र समरे प्राणिनां मस्तकानि वै ॥ ५३ ॥

धृत्वा कराभ्यां मत्ताङ्गास्तालवद्वादनोद्यताः
शिवास्तत्र महामांसं पतितानां रणाङ्गणे ॥ ५४ ॥

भक्षित्वा व्यनदन्मत्ताः कातराणां भयप्रदाः
कातरास्त्राः समापन्ना गताः कुञ्जरकोटरे ॥ ५५ ॥

भक्षिता योगिनीभिस्ते पापिनां क्वापि न स्थितिः
एतत्कदनमालक्ष्य स्वसैन्यस्य रथाग्रणीः ॥ ५६ ॥

पुष्कलोऽपि चकारात्र कदनं रणमण्डले
भिद्यन्ते गजशीर्षाणि पतन्ति मौक्तिकानि तु ॥ ५७ ॥

दृश्यते लोमभिः पूर्णा ताम्रपर्णीव तन्नदी
पुष्कलप्रहिता बाणा नृणामङ्गेषु सङ्गताः
कुर्वन्ति प्राणविच्छेदं वीराणामपि सर्वतः ॥ ५८ ॥

सर्वे रुधिरसिक्ताङ्गाः सर्वे च्छिन्ननिजाङ्गकाः
दृश्यन्ते किंशुका यद्वत्सुभटाः प्रधनाङ्गणे ॥ ५९ ॥

एतस्मिन्समये क्रुद्धः समाभाष्य महीपतिम्
जघान बहुबाणैस्तं रोषपूरपरिप्लुतः ॥ ६० ॥
मूलम्
एतस्मिन्समये क्रुद्धः समाभाष्य महीपतिम्
जघान बहुबाणैस्तं रोषपूरपरिप्लुतः ॥ ६० ॥
विश्वास-प्रस्तुतिः
तद्बाणवेधभिन्नाङ्गो विशीर्णकवचो नृपः
महाबलं तं मन्वानः प्राहरच्छरकोटिभिः ॥ ६१ ॥

तैर्बाणैः कवचान्मुक्तं सुस्राव बहुशोणितम्
वपुर्बभूव रुचिरं शरपञ्जरगोचरम् ॥ ६२ ॥

शरपञ्जरमध्यस्थो विह्वलीकृतमानसः
शरान्नेतुं च सन्धातुं न क्षमः स च भारतिः ॥ ६३ ॥

रामं स्मृत्वा धनुर्धृत्वा करे सज्जं महद्दृढम्
मुमोच बाणान्निशितान्वैरिवृन्दनिवारणान् ॥ ६४ ॥

तैर्बाणैः शरजालं तद्विधूय मुनिपुङ्गव
शङ्खं प्रध्माय समरे जगाद गतभीर्नृपम् ॥ ६५ ॥

त्वया कृतं महत्कर्म यन्मां बाणस्य पञ्जरे
गोचरं कृतवान्वीर वीरतापनमुद्भटम् ॥ ६६ ॥

वृद्धत्वान्मम मान्योसि साम्प्रतं रणमण्डले
पश्यमेऽद्य पराक्रान्तं राजन्वीरमणे महत् ॥ ६७ ॥

बाणत्रयेण भो वीर मूर्च्छितं करवै नहि
तर्हि प्रतिज्ञां शृणु वै सर्ववीरविमोहिनीम् ॥ ६८ ॥

गङ्गां प्राप्यापि यो वै तां निन्दित्वा पापहारिणीम्
न मज्जति महापापो महामूढविचेष्टितः ॥ ६९ ॥

तस्य पापं ममैवास्तु चेन्न त्वां रणमण्डले
पातये मूर्च्छया वीर सन्नद्धो भव भूपते ॥ ७० ॥

इति वाक्यं समाकर्ण्य पुष्कलस्य नृपोत्तमः
चुकोप भृशमुद्विग्नः सन्दधे निशिताञ्छरान् ॥ ७१ ॥

ते शरा हृदयं भित्त्वा गतास्ते भारतेर्महत्
पेतुः क्षितावधो यद्वद्रामभक्तिपराङ्मुखाः ॥ ७२ ॥

ततः शरं मुमोचास्मै निशितं वह्निसप्रभम्
लक्षीकृत्य महद्वक्षः कपाटतटविस्तृतम् ॥ ७३ ॥

स बाणो भूमिपतिना द्विधा छिन्नः शरेण हि
पपात रथमध्ये स रविमण्डलवज्ज्वलन् ॥ ७४ ॥
मूलम्
स बाणो भूमिपतिना द्विधा छिन्नः शरेण हि
पपात रथमध्ये स रविमण्डलवज्ज्वलन् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
अपरं बाणमाधत्त मातृभक्तिभवं ततः
निधाय पुण्यं सोऽप्येष चिच्छेद महता पुनः ॥ ७५ ॥

तदा खिन्नः स हृदये किङ्कर्तव्यमिति स्मरन्
रामं हृदि निजार्तिघ्नं मुमोच परमास्त्रवित् ॥ ७६ ॥

स बाणस्तस्य हृदये लग्न आशीविषोपमः
मूर्च्छामप्रापयत्तं वै ज्वलन्सूर्यसमप्रभः ॥ ७७ ॥

ततो हाहाकृतं सर्वं पलायनपरायणम्
राज्ञि सम्मूर्च्छिते जाते पुष्कलो जयमाप्तवान् ॥ ७८ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे वीरमणेः
पराभवोनाम द्विचत्वारिंशत्तमोऽध्यायः ४२