शेष उवाच
विश्वास-प्रस्तुतिः
युद्धाय ते सुसन्नद्धाः शत्रुघ्नस्य महाबलाः
ययुर्वीरमणेः सैन्यमध्ये शौर्यसमन्विताः ॥ १ ॥
मूलम्
युद्धाय ते सुसन्नद्धाः शत्रुघ्नस्य महाबलाः
ययुर्वीरमणेः सैन्यमध्ये शौर्यसमन्विताः ॥ १ ॥
विश्वास-प्रस्तुतिः
शरान्विमुञ्चमानास्ते भिन्दन्तः सैनिकान्बहून्
व्यदृश्यन्त रणान्तःस्थाः शरासनधरा नराः ॥ २ ॥
मूलम्
शरान्विमुञ्चमानास्ते भिन्दन्तः सैनिकान्बहून्
व्यदृश्यन्त रणान्तःस्थाः शरासनधरा नराः ॥ २ ॥
विश्वास-प्रस्तुतिः
अनेके निहतास्तत्र गजा मणिमया रथाः
भग्ना वाहसमेताश्च दृश्यन्ते रणमण्डले ॥ ३ ॥
मूलम्
अनेके निहतास्तत्र गजा मणिमया रथाः
भग्ना वाहसमेताश्च दृश्यन्ते रणमण्डले ॥ ३ ॥
विश्वास-प्रस्तुतिः
विहितं कदनं तेषां श्रुत्वा रुक्माङ्गदो बली
रथे मणिमये तिष्ठन्ययौ योद्धुं ससैनिकान् ॥ ४ ॥
मूलम्
विहितं कदनं तेषां श्रुत्वा रुक्माङ्गदो बली
रथे मणिमये तिष्ठन्ययौ योद्धुं ससैनिकान् ॥ ४ ॥
विश्वास-प्रस्तुतिः
शरासने शरान्धास्यन्निषुधी अक्षयौ दधत्
शोणनेत्रान्तरो भीमो महाकोपसमन्वितः ॥ ५ ॥
मूलम्
शरासने शरान्धास्यन्निषुधी अक्षयौ दधत्
शोणनेत्रान्तरो भीमो महाकोपसमन्वितः ॥ ५ ॥
विश्वास-प्रस्तुतिः
अनेकबाणसंविग्नान्कुर्वञ्छूरान्सहस्रशः
हाहाकारं कारयंस्तद्ययौ रुक्माङ्गदो बली ॥ ६ ॥
मूलम्
अनेकबाणसंविग्नान्कुर्वञ्छूरान्सहस्रशः
हाहाकारं कारयंस्तद्ययौ रुक्माङ्गदो बली ॥ ६ ॥
विश्वास-प्रस्तुतिः
राजपुत्रः स्वसदृशं बलेन यशसाश्रिया
आह्वयामास शत्रुघ्नं भारतिं पुष्कलं बली ॥ ७ ॥
मूलम्
राजपुत्रः स्वसदृशं बलेन यशसाश्रिया
आह्वयामास शत्रुघ्नं भारतिं पुष्कलं बली ॥ ७ ॥
विश्वास-प्रस्तुतिः
रुक्माङ्गद उवाच
आगच्छ वीरकर्मा त्वं महाबलपराक्रम
मया योद्धुं तु बलिना राजपुत्रेण भास्वता ॥ ८ ॥
मूलम्
रुक्माङ्गद उवाच
आगच्छ वीरकर्मा त्वं महाबलपराक्रम
मया योद्धुं तु बलिना राजपुत्रेण भास्वता ॥ ८ ॥
विश्वास-प्रस्तुतिः
किमन्यैस्त्रासितैर्वीर निहतैः कोटिभिर्नरैः
मया समं महायुद्धं विधाय जयमाप्नुहि ॥ ९ ॥
मूलम्
किमन्यैस्त्रासितैर्वीर निहतैः कोटिभिर्नरैः
मया समं महायुद्धं विधाय जयमाप्नुहि ॥ ९ ॥
विश्वास-प्रस्तुतिः
इत्युक्तवं तं तरसा प्रहसन्पुष्कलो बली
जघान विपुले मध्ये वक्षसस्तीक्ष्णपर्वभिः ॥ १० ॥
मूलम्
इत्युक्तवं तं तरसा प्रहसन्पुष्कलो बली
जघान विपुले मध्ये वक्षसस्तीक्ष्णपर्वभिः ॥ १० ॥
विश्वास-प्रस्तुतिः
तदमृष्यन्राजपुत्रो महाचापे दधच्छरान्
जघान दशभिर्वीरं पुष्कलं वक्षसोंऽतरे ॥ ११ ॥
मूलम्
तदमृष्यन्राजपुत्रो महाचापे दधच्छरान्
जघान दशभिर्वीरं पुष्कलं वक्षसोंऽतरे ॥ ११ ॥
विश्वास-प्रस्तुतिः
उभौ समरसंरब्धावुभावपि जयैषिणौ
रेजाते समरे तौ हि कुमारतारकौ यथा ॥ १२ ॥
मूलम्
उभौ समरसंरब्धावुभावपि जयैषिणौ
रेजाते समरे तौ हि कुमारतारकौ यथा ॥ १२ ॥
विश्वास-प्रस्तुतिः
बाणान्धनुषि सन्धाय दशसङ्ख्यान्महाशितान्
अकरोत्पुष्कलो वीरो विरथं राजपुत्रकम् ॥ १३ ॥
मूलम्
बाणान्धनुषि सन्धाय दशसङ्ख्यान्महाशितान्
अकरोत्पुष्कलो वीरो विरथं राजपुत्रकम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
चतुर्भिश्चतुरोवाहान्द्वाभ्यां सूतमपातयत्
एकेन ध्वजमेतस्य द्वाभ्यां स्यन्दनरक्षकौ ॥ १४ ॥
मूलम्
चतुर्भिश्चतुरोवाहान्द्वाभ्यां सूतमपातयत्
एकेन ध्वजमेतस्य द्वाभ्यां स्यन्दनरक्षकौ ॥ १४ ॥
विश्वास-प्रस्तुतिः
एकेन हृदि विव्याध राजपुत्रस्य वेगवान्
तदद्भुतं कर्म दृष्ट्वा सर्वे वीराः प्रतोषिताः ॥ १५ ॥
मूलम्
एकेन हृदि विव्याध राजपुत्रस्य वेगवान्
तदद्भुतं कर्म दृष्ट्वा सर्वे वीराः प्रतोषिताः ॥ १५ ॥
विश्वास-प्रस्तुतिः
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः
अत्यन्तं कोपमापन्नः स्यन्दनं परमाविशत् ॥ १६ ॥
मूलम्
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः
अत्यन्तं कोपमापन्नः स्यन्दनं परमाविशत् ॥ १६ ॥
विश्वास-प्रस्तुतिः
स स्थित्वा स्यन्दनवरे हयरत्नेन भूषिते
शरासनं महद्धृत्वा सुदृढं गुणपूरितम् ॥ १७ ॥
मूलम्
स स्थित्वा स्यन्दनवरे हयरत्नेन भूषिते
शरासनं महद्धृत्वा सुदृढं गुणपूरितम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
उवाच पुष्कलं वीरं रुक्माङ्गद इदं वचः
महत्पराक्रमं कृत्वा क्व यास्यसि परन्तप ॥ १८ ॥
मूलम्
उवाच पुष्कलं वीरं रुक्माङ्गद इदं वचः
महत्पराक्रमं कृत्वा क्व यास्यसि परन्तप ॥ १८ ॥
विश्वास-प्रस्तुतिः
पश्य मेऽद्यपराक्रान्तिं यद्बलेन विनिर्मिताम्
यत्नात्तिष्ठस्व भो वीर नयामि त्वद्रथं नभः ॥ १९ ॥
मूलम्
पश्य मेऽद्यपराक्रान्तिं यद्बलेन विनिर्मिताम्
यत्नात्तिष्ठस्व भो वीर नयामि त्वद्रथं नभः ॥ १९ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा शरमत्युग्रं दधार स्वशरासने
मन्त्रयित्वा ततश्चास्त्रं भ्रामकं पौष्कले रथे ॥ २० ॥
मूलम्
इत्युक्त्वा शरमत्युग्रं दधार स्वशरासने
मन्त्रयित्वा ततश्चास्त्रं भ्रामकं पौष्कले रथे ॥ २० ॥
विश्वास-प्रस्तुतिः
मुमोच निशितं बाणं स्वर्णपङ्खैकशोभितम्
तेन बाणेन नीतोऽस्य रथो योजनमात्रकम् ॥ २१ ॥
मूलम्
मुमोच निशितं बाणं स्वर्णपङ्खैकशोभितम्
तेन बाणेन नीतोऽस्य रथो योजनमात्रकम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
धृतः कृच्छ्रेण सूतेन रथो बभ्राम भूतले
कृच्छ्रेण प्राप्य स्वस्थानं पुष्कलः परमास्त्रवित् ॥ २२ ॥
मूलम्
धृतः कृच्छ्रेण सूतेन रथो बभ्राम भूतले
कृच्छ्रेण प्राप्य स्वस्थानं पुष्कलः परमास्त्रवित् ॥ २२ ॥
विश्वास-प्रस्तुतिः
जगाद वचनं तं वै बाणं बिभ्रच्छरासने
स्वर्गं प्राप्नुहि वीराग्र्य सर्वदेवैश्च सेवितम् ॥ २३ ॥
मूलम्
जगाद वचनं तं वै बाणं बिभ्रच्छरासने
स्वर्गं प्राप्नुहि वीराग्र्य सर्वदेवैश्च सेवितम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
त्वादृशाः पृथिवीयोग्या न भवन्ति नृपोत्तम
शतक्रतुसभायोग्यास्तद्गच्छ त्वं सुरालयम् ॥ २४ ॥
मूलम्
त्वादृशाः पृथिवीयोग्या न भवन्ति नृपोत्तम
शतक्रतुसभायोग्यास्तद्गच्छ त्वं सुरालयम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा स मुमोचास्त्रमाकाशप्रापकं महत्
तेन बाणेन सरथो ययौ खमनुलोमतः ॥ २५ ॥
मूलम्
इत्युक्त्वा स मुमोचास्त्रमाकाशप्रापकं महत्
तेन बाणेन सरथो ययौ खमनुलोमतः ॥ २५ ॥
विश्वास-प्रस्तुतिः
सर्वांल्लोकानतिक्रामन्ययौ सूर्यस्य मण्डलम्
तज्ज्वालया रथो दग्धो हयसूतसमन्वितः ॥ २६ ॥
मूलम्
सर्वांल्लोकानतिक्रामन्ययौ सूर्यस्य मण्डलम्
तज्ज्वालया रथो दग्धो हयसूतसमन्वितः ॥ २६ ॥
विश्वास-प्रस्तुतिः
तत्करैर्दग्धभूयिष्ठ कलेवरः सुदुःखितः
पपात चन्द्रचूडं स धृत्वा हृद्यसुखार्दनम् ॥ २७ ॥
मूलम्
तत्करैर्दग्धभूयिष्ठ कलेवरः सुदुःखितः
पपात चन्द्रचूडं स धृत्वा हृद्यसुखार्दनम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
भूमौ निपतितस्तत्र करदग्धकलेवरः
अत्यन्तं दुःखमापन्नो मुमूर्च्छ रणमण्डले ॥ २८ ॥
मूलम्
भूमौ निपतितस्तत्र करदग्धकलेवरः
अत्यन्तं दुःखमापन्नो मुमूर्च्छ रणमण्डले ॥ २८ ॥
विश्वास-प्रस्तुतिः
तस्मिन्निपतिते भूमौ मूर्च्छिते राजपुत्रके
हाहाकारो महानासीत्तत्र सङ्ग्राममूर्धनि ॥ २९ ॥
मूलम्
तस्मिन्निपतिते भूमौ मूर्च्छिते राजपुत्रके
हाहाकारो महानासीत्तत्र सङ्ग्राममूर्धनि ॥ २९ ॥
विश्वास-प्रस्तुतिः
वैरिणो जयलक्ष्मीं ते प्रापुः पुष्कलमुख्यकाः
पलायनपरा जाता वैरिणो हयरक्षकाः ॥ ३० ॥
मूलम्
वैरिणो जयलक्ष्मीं ते प्रापुः पुष्कलमुख्यकाः
पलायनपरा जाता वैरिणो हयरक्षकाः ॥ ३० ॥
विश्वास-प्रस्तुतिः
तदा पुत्रस्य वै मूर्च्छां दृष्ट्वा वीरमणिर्नृपः
प्रायात्समरमध्यस्थं पुष्कलं कोपपूरितः ॥ ३१ ॥
मूलम्
तदा पुत्रस्य वै मूर्च्छां दृष्ट्वा वीरमणिर्नृपः
प्रायात्समरमध्यस्थं पुष्कलं कोपपूरितः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तदा भूमिश्चचालेयं सपर्वतवनोत्तमा
शूरा वै हर्षमापन्नाः कातरा भयपीडिताः ॥ ३२ ॥
मूलम्
तदा भूमिश्चचालेयं सपर्वतवनोत्तमा
शूरा वै हर्षमापन्नाः कातरा भयपीडिताः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
चापं महद्दधानः स इषुधी अक्षयावपि
रोषान्निःश्वासमामुञ्चन्नाह्वयामास वैरिणम् ॥ ३३ ॥
मूलम्
चापं महद्दधानः स इषुधी अक्षयावपि
रोषान्निःश्वासमामुञ्चन्नाह्वयामास वैरिणम् ॥ ३३ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रुक्माङ्गद-
पराजय पुष्कलविजयोनाम एकचत्वारिंशत्तमोऽध्यायः ४१