०४०

शेष उवाच

विश्वास-प्रस्तुतिः

सेनाचरा महाराज्ञो महाबलसमन्विताः
समागतास्तं पश्यन्तो हयं रामस्य भूपतेः ॥ १ ॥

मूलम्

सेनाचरा महाराज्ञो महाबलसमन्विताः
समागतास्तं पश्यन्तो हयं रामस्य भूपतेः ॥ १ ॥

विश्वास-प्रस्तुतिः

क्वा सावश्वः केन नीतः कथं वा दृश्यते न सः
को गन्ता यमपुर्यां वै वाहं हृत्वा सुमन्दधीः ॥ २ ॥

मूलम्

क्वा सावश्वः केन नीतः कथं वा दृश्यते न सः
को गन्ता यमपुर्यां वै वाहं हृत्वा सुमन्दधीः ॥ २ ॥

विश्वास-प्रस्तुतिः

विलोकयन्तस्तन्मार्गं यावत्सेनाचरा रघोः
तावत्प्राप्तो महाराजो महासैन्यपरीवृतः ॥ ३ ॥

मूलम्

विलोकयन्तस्तन्मार्गं यावत्सेनाचरा रघोः
तावत्प्राप्तो महाराजो महासैन्यपरीवृतः ॥ ३ ॥

विश्वास-प्रस्तुतिः

पप्रच्छ सेवकान्सर्वान्कुत्राश्वो मम साम्प्रतम्
न दृश्यते कथं वाहः स्वर्णपत्रसुशोभितः ॥ ४ ॥

मूलम्

पप्रच्छ सेवकान्सर्वान्कुत्राश्वो मम साम्प्रतम्
न दृश्यते कथं वाहः स्वर्णपत्रसुशोभितः ॥ ४ ॥

विश्वास-प्रस्तुतिः

इति तद्वचनं श्रुत्वा सेवकास्ते हयानुगाः
प्रोचुर्नाथ मनोवेगो वाहः केनापि कानने ॥ ५ ॥

मूलम्

इति तद्वचनं श्रुत्वा सेवकास्ते हयानुगाः
प्रोचुर्नाथ मनोवेगो वाहः केनापि कानने ॥ ५ ॥

विश्वास-प्रस्तुतिः

हृतो न लक्ष्यते तस्मादस्माभिर्मार्गकोविदैः
तदत्र यत्नः कर्तव्यो हयप्राप्तिं प्रति प्रभो ॥ ६ ॥

मूलम्

हृतो न लक्ष्यते तस्मादस्माभिर्मार्गकोविदैः
तदत्र यत्नः कर्तव्यो हयप्राप्तिं प्रति प्रभो ॥ ६ ॥

विश्वास-प्रस्तुतिः

तेषां वचनमाकर्ण्य पप्रच्छ सुमतिं नृपः
शत्रुघ्नः शत्रुसंहारकारीमोहनरूपधृक् ॥ ७ ॥

मूलम्

तेषां वचनमाकर्ण्य पप्रच्छ सुमतिं नृपः
शत्रुघ्नः शत्रुसंहारकारीमोहनरूपधृक् ॥ ७ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्न उवाच
कोऽत्र राजा निवसति कथं वाहस्य सङ्गमः
कियद्बलं भूमिपतेर्येन मेऽद्य हृतो हयः ॥ ८ ॥

मूलम्

शत्रुघ्न उवाच
कोऽत्र राजा निवसति कथं वाहस्य सङ्गमः
कियद्बलं भूमिपतेर्येन मेऽद्य हृतो हयः ॥ ८ ॥

विश्वास-प्रस्तुतिः

सुमतिरुवाच
राजन्देवपुरं ह्येतद्देवेनैव विनिर्मितम्
कैलासमिव दुर्गम्यं वैरिसङ्घैः सुसंहतैः ॥ ९ ॥

मूलम्

सुमतिरुवाच
राजन्देवपुरं ह्येतद्देवेनैव विनिर्मितम्
कैलासमिव दुर्गम्यं वैरिसङ्घैः सुसंहतैः ॥ ९ ॥

विश्वास-प्रस्तुतिः

अस्मिन्वीरमणी राजा महाशूरः प्रतापवान्
राज्यं करोति धर्मेण शिवेन परिरक्षितः ॥ १० ॥

मूलम्

अस्मिन्वीरमणी राजा महाशूरः प्रतापवान्
राज्यं करोति धर्मेण शिवेन परिरक्षितः ॥ १० ॥

विश्वास-प्रस्तुतिः

योऽसौ प्रलयकारी स आस्ते भक्त्या वशीकृतः
चन्द्रचूडः स्वभक्तस्य पक्षपातं सृजन्सदा ॥ ११ ॥

मूलम्

योऽसौ प्रलयकारी स आस्ते भक्त्या वशीकृतः
चन्द्रचूडः स्वभक्तस्य पक्षपातं सृजन्सदा ॥ ११ ॥

विश्वास-प्रस्तुतिः

तस्मादत्र महद्युद्धं गृहीतश्चेद्भविष्यति
यत्ताः सन्तः प्रकुर्वन्तु रक्षणं कटकस्य हि ॥ १२ ॥

मूलम्

तस्मादत्र महद्युद्धं गृहीतश्चेद्भविष्यति
यत्ताः सन्तः प्रकुर्वन्तु रक्षणं कटकस्य हि ॥ १२ ॥

विश्वास-प्रस्तुतिः

एवं श्रुत्वा स शत्रुघ्नः सर्वभूपशिरोमणिः
सैन्यव्यूहं रचित्वासौ तिष्ठति स्म महायशाः ॥ १३ ॥

मूलम्

एवं श्रुत्वा स शत्रुघ्नः सर्वभूपशिरोमणिः
सैन्यव्यूहं रचित्वासौ तिष्ठति स्म महायशाः ॥ १३ ॥

विश्वास-प्रस्तुतिः

अथ तं सुखमासीनं मन्त्रयन्तं सुमन्त्रिणा
आजगाम स देवर्षिर्युद्धकौतुकसंयुतः ॥ १४ ॥

मूलम्

अथ तं सुखमासीनं मन्त्रयन्तं सुमन्त्रिणा
आजगाम स देवर्षिर्युद्धकौतुकसंयुतः ॥ १४ ॥

विश्वास-प्रस्तुतिः

तमागतं मुनिं दृष्ट्वा शत्रुघ्नस्तपसां निधिम्
अभ्युत्थायासने स्थाप्य मधुपर्कमथार्पयत् ॥ १५ ॥

मूलम्

तमागतं मुनिं दृष्ट्वा शत्रुघ्नस्तपसां निधिम्
अभ्युत्थायासने स्थाप्य मधुपर्कमथार्पयत् ॥ १५ ॥

विश्वास-प्रस्तुतिः

स्वागतेन च सन्तुष्टं नारदं मुनिसत्तमम्
उवाच प्रीणयन्वाचा वाक्यवादविशारदः ॥ १६ ॥

मूलम्

स्वागतेन च सन्तुष्टं नारदं मुनिसत्तमम्
उवाच प्रीणयन्वाचा वाक्यवादविशारदः ॥ १६ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्न उवाच
मदीयोऽश्व कुत्र विप्र कथयस्व महामते
न लक्ष्यते गतिस्तस्य सेवकैर्मम कोविदैः ॥ १७ ॥

मूलम्

शत्रुघ्न उवाच
मदीयोऽश्व कुत्र विप्र कथयस्व महामते
न लक्ष्यते गतिस्तस्य सेवकैर्मम कोविदैः ॥ १७ ॥

विश्वास-प्रस्तुतिः

शंस तं येन वा नीतं क्षत्त्रियेण च मानिना
कथमत्र हयप्राप्तिर्भविष्यति तपोधन ॥ १८ ॥

मूलम्

शंस तं येन वा नीतं क्षत्त्रियेण च मानिना
कथमत्र हयप्राप्तिर्भविष्यति तपोधन ॥ १८ ॥

विश्वास-प्रस्तुतिः

इति वाक्यं समाकर्ण्य शत्रुघ्नस्य स नारदः
उवाच वीणां रणयन्गायन्रामकथां मुहुः ॥ १९ ॥

मूलम्

इति वाक्यं समाकर्ण्य शत्रुघ्नस्य स नारदः
उवाच वीणां रणयन्गायन्रामकथां मुहुः ॥ १९ ॥

विश्वास-प्रस्तुतिः

नारद उवाच
एतद्देवपुरं राजन्भूपो वीरमणिर्महान्
तत्पुत्रेण वनस्थेन गृहीतस्तव वाजिराट् ॥ २० ॥

मूलम्

नारद उवाच
एतद्देवपुरं राजन्भूपो वीरमणिर्महान्
तत्पुत्रेण वनस्थेन गृहीतस्तव वाजिराट् ॥ २० ॥

विश्वास-प्रस्तुतिः

तत्र युद्धं महत्तेऽद्य भविष्यति सुदारुणम्
अत्र वीराः पतिष्यन्ति बलशौर्यसमन्विताः ॥ २१ ॥

मूलम्

तत्र युद्धं महत्तेऽद्य भविष्यति सुदारुणम्
अत्र वीराः पतिष्यन्ति बलशौर्यसमन्विताः ॥ २१ ॥

विश्वास-प्रस्तुतिः

तस्मादत्र महायत्नात्स्थातव्यं ते महाबल
रचय व्यूहरचनां दुर्गमां परसैनिकैः ॥ २२ ॥

मूलम्

तस्मादत्र महायत्नात्स्थातव्यं ते महाबल
रचय व्यूहरचनां दुर्गमां परसैनिकैः ॥ २२ ॥

विश्वास-प्रस्तुतिः

जयस्ते भविता राजन्कृच्छ्रेणास्मान्नृपोत्तमात्
रामं को नु पराजीयाद्भुवने सकले ह्यपि ॥ २३ ॥

मूलम्

जयस्ते भविता राजन्कृच्छ्रेणास्मान्नृपोत्तमात्
रामं को नु पराजीयाद्भुवने सकले ह्यपि ॥ २३ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वान्तर्दधे विप्रो नभसि स्थितवांस्ततः
युद्धं सुदारुणं द्रक्ष्यन्देवदानवयोरिव ॥ २४ ॥

मूलम्

इत्युक्त्वान्तर्दधे विप्रो नभसि स्थितवांस्ततः
युद्धं सुदारुणं द्रक्ष्यन्देवदानवयोरिव ॥ २४ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
अथ राजा वीरमणिः सर्वशूरशिरोमणिः
पटहं घोषितुं स्वीये पुरमध्ये महारवम् ॥ २५ ॥

मूलम्

शेष उवाच
अथ राजा वीरमणिः सर्वशूरशिरोमणिः
पटहं घोषितुं स्वीये पुरमध्ये महारवम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

आह्वयामास सेनान्यं रिपुवीरं महोन्नतम्
कथयामास च क्षिप्रं मेघगम्भीरया गिरा ॥ २६ ॥

मूलम्

आह्वयामास सेनान्यं रिपुवीरं महोन्नतम्
कथयामास च क्षिप्रं मेघगम्भीरया गिरा ॥ २६ ॥

विश्वास-प्रस्तुतिः

वीरमणिरुवाच
सेनानीः पटहस्याज्ञां देहि मे शोभने पुरे
तच्छ्रुत्वा मे सुसन्नद्धाः शत्रुघ्नं प्रति यान्तु ते ॥ २७ ॥

मूलम्

वीरमणिरुवाच
सेनानीः पटहस्याज्ञां देहि मे शोभने पुरे
तच्छ्रुत्वा मे सुसन्नद्धाः शत्रुघ्नं प्रति यान्तु ते ॥ २७ ॥

विश्वास-प्रस्तुतिः

इति वाक्यं समाकर्ण्य राज्ञो वीरमणेस्तदा
कारयामास पटहं महारवनिनादितम् ॥ २८ ॥

मूलम्

इति वाक्यं समाकर्ण्य राज्ञो वीरमणेस्तदा
कारयामास पटहं महारवनिनादितम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

गेहे गेहे च रथ्यायां श्रूयते पटहध्वनिः
शत्रुघ्नं यान्तु ये सर्वे वीरा राजपुरे स्थिताः ॥ २९ ॥

मूलम्

गेहे गेहे च रथ्यायां श्रूयते पटहध्वनिः
शत्रुघ्नं यान्तु ये सर्वे वीरा राजपुरे स्थिताः ॥ २९ ॥

विश्वास-प्रस्तुतिः

ये वै राज्ञः समुल्लङ्घ्य शासनं वीरमानिनः
पुत्रा वा भ्रातरो वापि ते वध्याः स्युर्नृपाज्ञया ॥ ३० ॥

मूलम्

ये वै राज्ञः समुल्लङ्घ्य शासनं वीरमानिनः
पुत्रा वा भ्रातरो वापि ते वध्याः स्युर्नृपाज्ञया ॥ ३० ॥

विश्वास-प्रस्तुतिः

शृण्वन्तु वीराः पुनरप्याह ते पटहे रवम्
श्रुत्वा विधीयतामाशु कर्तव्यं मा विलम्बितम् ॥ ३१ ॥

मूलम्

शृण्वन्तु वीराः पुनरप्याह ते पटहे रवम्
श्रुत्वा विधीयतामाशु कर्तव्यं मा विलम्बितम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
इति पटहरवं स्वकर्णगोचरं
नरवरवीरवरा ययुर्नृपोत्तमम्
कनककवचभूषितस्वदेहाः
समरमहोत्सव हृष्टचित्तकोशाः ॥ ३२ ॥

मूलम्

शेष उवाच
इति पटहरवं स्वकर्णगोचरं
नरवरवीरवरा ययुर्नृपोत्तमम्
कनककवचभूषितस्वदेहाः
समरमहोत्सव हृष्टचित्तकोशाः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

केचिद्ययुः शिरस्त्राणं धृत्वा शिरसि शोभनम्
कवचेन सुशोभाढ्याः शतकोटिसुशोभिताः ॥ ३३ ॥

मूलम्

केचिद्ययुः शिरस्त्राणं धृत्वा शिरसि शोभनम्
कवचेन सुशोभाढ्याः शतकोटिसुशोभिताः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

रथेन हययुग्मेन मणिकाञ्चनशोभिना
ययुस्ते राजसन्देशान्नृवरालयमुन्मदाः ॥ ३४ ॥

मूलम्

रथेन हययुग्मेन मणिकाञ्चनशोभिना
ययुस्ते राजसन्देशान्नृवरालयमुन्मदाः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

केचिन्मतङ्गजैर्मत्तैः केचिद्वाहैः सुशोभनैः
ययुर्नपगृहं सर्वे राजसन्देशकारकाः ॥ ३५ ॥

मूलम्

केचिन्मतङ्गजैर्मत्तैः केचिद्वाहैः सुशोभनैः
ययुर्नपगृहं सर्वे राजसन्देशकारकाः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

विविक्तस्वर्णकवचशिरस्त्राणसुशोभितः
रुक्माङ्गदोऽपि च निजे रथे तिष्ठन्मनोजवे ॥ ३६ ॥

मूलम्

विविक्तस्वर्णकवचशिरस्त्राणसुशोभितः
रुक्माङ्गदोऽपि च निजे रथे तिष्ठन्मनोजवे ॥ ३६ ॥

विश्वास-प्रस्तुतिः

शुभाङ्गदोऽनुजस्तस्य महारत्नमयं दधत्
कवचं वपुषि श्रेष्ठं निजं प्रायाद्रणोत्सवे ॥ ३७ ॥

मूलम्

शुभाङ्गदोऽनुजस्तस्य महारत्नमयं दधत्
कवचं वपुषि श्रेष्ठं निजं प्रायाद्रणोत्सवे ॥ ३७ ॥

विश्वास-प्रस्तुतिः

राजभ्राता वीरसिंहः सर्वशस्त्रास्त्रकोविदः
ययौ नृपाज्ञया तत्र शासनं भूमिपस्य हि ॥ ३८ ॥

मूलम्

राजभ्राता वीरसिंहः सर्वशस्त्रास्त्रकोविदः
ययौ नृपाज्ञया तत्र शासनं भूमिपस्य हि ॥ ३८ ॥

विश्वास-प्रस्तुतिः

जामेयस्तस्य राज्ञोऽपि बलमित्र इति स्मृतः
सन्नद्धः कवची खड्गी जगाम नृपमन्दिरम् ॥ ३९ ॥

मूलम्

जामेयस्तस्य राज्ञोऽपि बलमित्र इति स्मृतः
सन्नद्धः कवची खड्गी जगाम नृपमन्दिरम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

सेनानी रिपुवारोऽपि सेनां तां चतुरङ्गिणीम्
सज्जां विधाय भूपाय न्यवेदयदथो महान् ॥ ४० ॥

मूलम्

सेनानी रिपुवारोऽपि सेनां तां चतुरङ्गिणीम्
सज्जां विधाय भूपाय न्यवेदयदथो महान् ॥ ४० ॥

विश्वास-प्रस्तुतिः

अथ राजा वीरमणिः सर्वशस्त्रास्त्रपूरितम्
मणिसृष्टोच्चचक्रोच्चमारोहत्स्यन्दनोत्तमम् ॥ ४१ ॥

मूलम्

अथ राजा वीरमणिः सर्वशस्त्रास्त्रपूरितम्
मणिसृष्टोच्चचक्रोच्चमारोहत्स्यन्दनोत्तमम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

ततो वीरार्णवे शङ्खनिनादश्च समन्ततः
श्रूयते कातरान्वीरान्प्रेरयन्निव सङ्गरे ॥ ४२ ॥

मूलम्

ततो वीरार्णवे शङ्खनिनादश्च समन्ततः
श्रूयते कातरान्वीरान्प्रेरयन्निव सङ्गरे ॥ ४२ ॥

विश्वास-प्रस्तुतिः

भेर्यः समन्ततो जघ्नुः शुभवादकवादिताः
अनीकान्यत्र तस्यासन्सङ्ग्रामाय प्रतस्थुषः ॥ ४३ ॥

मूलम्

भेर्यः समन्ततो जघ्नुः शुभवादकवादिताः
अनीकान्यत्र तस्यासन्सङ्ग्रामाय प्रतस्थुषः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

सर्वे कृतस्वस्त्ययनाः सर्वाभरणभूषिताः
सर्वशस्त्रास्त्रसम्पूर्णा ययुः समरमण्डलम् ॥ ४४ ॥

मूलम्

सर्वे कृतस्वस्त्ययनाः सर्वाभरणभूषिताः
सर्वशस्त्रास्त्रसम्पूर्णा ययुः समरमण्डलम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

भेरीशङ्खनिनादेन पूरिताश्च नगा गुहाः
आकारितुं गतः किं नु तद्रवः स्वर्गसंस्थितान् ॥ ४५ ॥

मूलम्

भेरीशङ्खनिनादेन पूरिताश्च नगा गुहाः
आकारितुं गतः किं नु तद्रवः स्वर्गसंस्थितान् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

तस्मिन्कोलाहले वृत्ते राजा वीरमणिर्महान्
रणोत्साहेन संयुक्तो ययौ प्रधनमण्डलम् ॥ ४६ ॥

मूलम्

तस्मिन्कोलाहले वृत्ते राजा वीरमणिर्महान्
रणोत्साहेन संयुक्तो ययौ प्रधनमण्डलम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

आगत्य संस्थितस्तावद्रथपत्तिसमाकुलम्
समुद्र इव तत्स्थानात्प्लावितुं पुरुषानयात् ॥ ४७ ॥

मूलम्

आगत्य संस्थितस्तावद्रथपत्तिसमाकुलम्
समुद्र इव तत्स्थानात्प्लावितुं पुरुषानयात् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

तदागतं बलं दृष्ट्वा रथिभिः शस्त्रकोविदैः
कोलाहलीकृतं सर्वमुवाच सुमतिं नृपः ॥ ४८ ॥

मूलम्

तदागतं बलं दृष्ट्वा रथिभिः शस्त्रकोविदैः
कोलाहलीकृतं सर्वमुवाच सुमतिं नृपः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्न उवाच
समागतो वीरमणिर्मम वाजिधरो बली
योद्धुं मां महता भूयः सैन्येन चतुरङ्गिणा ॥ ४९ ॥

मूलम्

शत्रुघ्न उवाच
समागतो वीरमणिर्मम वाजिधरो बली
योद्धुं मां महता भूयः सैन्येन चतुरङ्गिणा ॥ ४९ ॥

विश्वास-प्रस्तुतिः

कथं युद्धं प्रकर्तव्यं के योत्स्यन्ति बलोत्कटाः
तान्सर्वान्दिश मे वीरान्यथा स्याज्जय ईप्सितः ॥ ५० ॥

मूलम्

कथं युद्धं प्रकर्तव्यं के योत्स्यन्ति बलोत्कटाः
तान्सर्वान्दिश मे वीरान्यथा स्याज्जय ईप्सितः ॥ ५० ॥

विश्वास-प्रस्तुतिः

सुमतिरुवाच
स्वामिन्नसौ महाराजो महासैन्यपरीवृतः
समागतः स युद्धार्थं शिवभक्तिसमन्वितः ॥ ५१ ॥

मूलम्

सुमतिरुवाच
स्वामिन्नसौ महाराजो महासैन्यपरीवृतः
समागतः स युद्धार्थं शिवभक्तिसमन्वितः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

साम्प्रतं युद्ध्यतां वीरः पुष्कलः परमास्त्रवित्
अन्येपि नीलरत्नाद्या योद्धारो युद्धकोविदाः ॥ ५२ ॥

मूलम्

साम्प्रतं युद्ध्यतां वीरः पुष्कलः परमास्त्रवित्
अन्येपि नीलरत्नाद्या योद्धारो युद्धकोविदाः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

शिवेन सह योद्धव्यं राज्ञा वा भवतानघ
द्वन्द्वयुद्धेन जेतव्यो महाबलपराक्रमः ॥ ५३ ॥

मूलम्

शिवेन सह योद्धव्यं राज्ञा वा भवतानघ
द्वन्द्वयुद्धेन जेतव्यो महाबलपराक्रमः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

अनेन विधिना राजञ्जयस्तेऽत्र भविष्यति
पश्चाद्यद्रोचते स्वामिंस्तत्कुरुष्व महामते ॥ ५४ ॥

मूलम्

अनेन विधिना राजञ्जयस्तेऽत्र भविष्यति
पश्चाद्यद्रोचते स्वामिंस्तत्कुरुष्व महामते ॥ ५४ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
इति वाक्यं समाकर्ण्य शत्रुघ्नः परवीरहा
सुभटानादिदेशाथ युद्धाय कृतनिश्चयः ॥ ५५ ॥

मूलम्

शेष उवाच
इति वाक्यं समाकर्ण्य शत्रुघ्नः परवीरहा
सुभटानादिदेशाथ युद्धाय कृतनिश्चयः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

सर्वैः ससैन्यैर्युद्धार्थं राजभिः शस्त्रकोविदैः
यथा स्यान्मे जयः क्षिप्रं यतितव्यं तथा पुनः ॥ ५६ ॥

मूलम्

सर्वैः ससैन्यैर्युद्धार्थं राजभिः शस्त्रकोविदैः
यथा स्यान्मे जयः क्षिप्रं यतितव्यं तथा पुनः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

जयार्थं राघवस्यैव श्रुत्वा ते रणकोविदाः
महोत्साहेन संयुक्ता ययुर्योद्धुं तु सैनिकैः ॥ ५७ ॥

मूलम्

जयार्थं राघवस्यैव श्रुत्वा ते रणकोविदाः
महोत्साहेन संयुक्ता ययुर्योद्धुं तु सैनिकैः ॥ ५७ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे वीर-
मणिना सह युद्धनिश्चयोनाम चत्वारिंशत्तमोऽध्यायः ४०