०३९

शेष उवाच

विश्वास-प्रस्तुतिः

निनदत्सुमृदङ्गेषु वीणानादेषु सर्वतः
मुक्तो वाहस्ततो देव पुरं देवविनिर्मितम् ॥ १ ॥

मूलम्

निनदत्सुमृदङ्गेषु वीणानादेषु सर्वतः
मुक्तो वाहस्ततो देव पुरं देवविनिर्मितम् ॥ १ ॥

विश्वास-प्रस्तुतिः

यत्र स्फाटिक कुड्यानां रचनाभिर्गृहा नृणाम्
हसन्ति विन्ध्यं विमलं पर्वतं नागसेवितम् ॥ २ ॥

मूलम्

यत्र स्फाटिक कुड्यानां रचनाभिर्गृहा नृणाम्
हसन्ति विन्ध्यं विमलं पर्वतं नागसेवितम् ॥ २ ॥

विश्वास-प्रस्तुतिः

राजतानि गृहाण्यत्र दृश्यन्ते प्रकृतेरपि
विचित्रमणिसन्नद्धा नानामाणिक्यगोपुराः ॥ ३ ॥

मूलम्

राजतानि गृहाण्यत्र दृश्यन्ते प्रकृतेरपि
विचित्रमणिसन्नद्धा नानामाणिक्यगोपुराः ॥ ३ ॥

विश्वास-प्रस्तुतिः

पद्मिन्यो यत्र लोकानां गेहे गेहे मनोहराः
हरन्ति चित्तानि नृणां मुखपद्मकलेक्षिताः ॥ ४ ॥

मूलम्

पद्मिन्यो यत्र लोकानां गेहे गेहे मनोहराः
हरन्ति चित्तानि नृणां मुखपद्मकलेक्षिताः ॥ ४ ॥

विश्वास-प्रस्तुतिः

पद्मरागमणिर्यत्र गेहे गेहे सुभूमिषु
बद्धः संलक्ष्यते विप्र तदोष्ठस्पर्धया नु किम् ॥ ५ ॥

मूलम्

पद्मरागमणिर्यत्र गेहे गेहे सुभूमिषु
बद्धः संलक्ष्यते विप्र तदोष्ठस्पर्धया नु किम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

क्रीडाशैलाः प्रत्यगारं नीलरत्नविनिर्मिताः
कुर्वन्ति शङ्कां मेघस्य मयूराणां कलापिनाम् ॥ ६ ॥

मूलम्

क्रीडाशैलाः प्रत्यगारं नीलरत्नविनिर्मिताः
कुर्वन्ति शङ्कां मेघस्य मयूराणां कलापिनाम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

हंसा यत्र नृणां गेहे स्फाटिकेषु नियन्त्रिताः
कुर्वन्ति मेघान्नो भीतिं मानसं न स्मरन्ति च ॥ ७ ॥

मूलम्

हंसा यत्र नृणां गेहे स्फाटिकेषु नियन्त्रिताः
कुर्वन्ति मेघान्नो भीतिं मानसं न स्मरन्ति च ॥ ७ ॥

विश्वास-प्रस्तुतिः

निरन्तरं शिवस्थाने ध्वस्तं चन्द्रिकया तमः
शुक्लकृष्णविभेदो न पक्षयोस्तत्र वै नृणाम् ॥ ८ ॥

मूलम्

निरन्तरं शिवस्थाने ध्वस्तं चन्द्रिकया तमः
शुक्लकृष्णविभेदो न पक्षयोस्तत्र वै नृणाम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

तत्र वीरमणी राजा धार्मिकेष्वग्रणीर्महान्
राज्यं करोति विपुलं सर्वभोगसमन्वितम् ॥ ९ ॥

मूलम्

तत्र वीरमणी राजा धार्मिकेष्वग्रणीर्महान्
राज्यं करोति विपुलं सर्वभोगसमन्वितम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

तस्य पुत्रो महाशूरो नाम्ना रुक्माङ्गदो बली
वनिताभिर्गतो रम्यदेहाभिः क्रीडितुं वनम् ॥ १० ॥

मूलम्

तस्य पुत्रो महाशूरो नाम्ना रुक्माङ्गदो बली
वनिताभिर्गतो रम्यदेहाभिः क्रीडितुं वनम् ॥ १० ॥

विश्वास-प्रस्तुतिः

तासां मञ्जीरसंरावः कङ्कणानां रवस्तथा
मनो हरति कामस्य किमन्यस्य कथात्र भोः ॥ ११ ॥

मूलम्

तासां मञ्जीरसंरावः कङ्कणानां रवस्तथा
मनो हरति कामस्य किमन्यस्य कथात्र भोः ॥ ११ ॥

विश्वास-प्रस्तुतिः

वनं जगाम सुमहत्सुपुष्पनगसंयुतम्
सदाशिवकृतस्थानमृतुषट्कैर्विराजितम् ॥ १२ ॥

मूलम्

वनं जगाम सुमहत्सुपुष्पनगसंयुतम्
सदाशिवकृतस्थानमृतुषट्कैर्विराजितम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

चम्पका यत्र बहुशः फुल्लकोरकशोभिताः
कुर्वन्ति कामिनां तत्र हृच्छयार्तिं विलोकिताः ॥ १३ ॥

मूलम्

चम्पका यत्र बहुशः फुल्लकोरकशोभिताः
कुर्वन्ति कामिनां तत्र हृच्छयार्तिं विलोकिताः ॥ १३ ॥

विश्वास-प्रस्तुतिः

चूताः फलादिभिर्नम्रा मञ्जरीकोटिसंयुताः
नागाः पुन्नागवृक्षाश्च शालास्तालास्तमालकाः ॥ १४ ॥

मूलम्

चूताः फलादिभिर्नम्रा मञ्जरीकोटिसंयुताः
नागाः पुन्नागवृक्षाश्च शालास्तालास्तमालकाः ॥ १४ ॥

विश्वास-प्रस्तुतिः

कोकिलानां समारावा यत्र च श्रुतिगोचराः
सदा मधुपझङ्कार गतनिद्राः सुमल्लिकाः ॥ १५ ॥

मूलम्

कोकिलानां समारावा यत्र च श्रुतिगोचराः
सदा मधुपझङ्कार गतनिद्राः सुमल्लिकाः ॥ १५ ॥

विश्वास-प्रस्तुतिः

दाडिमानां समूहाश्च कर्णिकारैः समन्विताः
केतकीकानकीवन्यवृक्षराजिविराजिताः ॥ १६ ॥

मूलम्

दाडिमानां समूहाश्च कर्णिकारैः समन्विताः
केतकीकानकीवन्यवृक्षराजिविराजिताः ॥ १६ ॥

विश्वास-प्रस्तुतिः

तस्मिन्वने प्रमदसंयुतचित्तवृत्तिर्गायन्कलं मधुरवाग्विचिकीर्षयोच्चैः
उद्यत्कुचाभिरभितो वनिताभिरागाच्छोभानिधान वपुरुद्गतभीर्विवेश ॥ १७ ॥

मूलम्

तस्मिन्वने प्रमदसंयुतचित्तवृत्तिर्गायन्कलं मधुरवाग्विचिकीर्षयोच्चैः
उद्यत्कुचाभिरभितो वनिताभिरागाच्छोभानिधान वपुरुद्गतभीर्विवेश ॥ १७ ॥

विश्वास-प्रस्तुतिः

काश्चित्तं नृत्यविद्याभिस्तोषयन्ति स्म शोभनम्
काश्चिद्गानकलाभिश्च काश्चिद्वाक्चतुरोचितैः ॥ १८ ॥

मूलम्

काश्चित्तं नृत्यविद्याभिस्तोषयन्ति स्म शोभनम्
काश्चिद्गानकलाभिश्च काश्चिद्वाक्चतुरोचितैः ॥ १८ ॥

विश्वास-प्रस्तुतिः

भ्रूसञ्ज्ञया पराः काश्चित्तोषयामासुरुन्मदाः
परिरम्भणचातुर्यैस्तं हृष्टं विदधुः स्त्रियः ॥ १९ ॥

मूलम्

भ्रूसञ्ज्ञया पराः काश्चित्तोषयामासुरुन्मदाः
परिरम्भणचातुर्यैस्तं हृष्टं विदधुः स्त्रियः ॥ १९ ॥

विश्वास-प्रस्तुतिः

ताभिः पुष्पोच्चयं कृत्वा भूषयामास ताः स्त्रियः
वाण्या कोमलया शंसन्रेमे कामवपुर्धरः ॥ २० ॥

मूलम्

ताभिः पुष्पोच्चयं कृत्वा भूषयामास ताः स्त्रियः
वाण्या कोमलया शंसन्रेमे कामवपुर्धरः ॥ २० ॥

विश्वास-प्रस्तुतिः

एवं प्रवृत्ते समये राजराजस्य धीमतः
प्रायात्तद्वनदेशं स हयः परमशोभनः ॥ २१ ॥

मूलम्

एवं प्रवृत्ते समये राजराजस्य धीमतः
प्रायात्तद्वनदेशं स हयः परमशोभनः ॥ २१ ॥

विश्वास-प्रस्तुतिः

तं स्वर्णपत्ररचितैकललाटदेशं
गङ्गासमं घुसृणकुङ्कुम पिञ्जराङ्गम्
गत्यासमं पवनवेगतिरस्करिण्या
दृष्ट्वा स्त्रियः परमकौतुकधामदेहम् ॥ २२ ॥

मूलम्

तं स्वर्णपत्ररचितैकललाटदेशं
गङ्गासमं घुसृणकुङ्कुम पिञ्जराङ्गम्
गत्यासमं पवनवेगतिरस्करिण्या
दृष्ट्वा स्त्रियः परमकौतुकधामदेहम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

ऊचुः पतिं कमलमध्यपिशङ्गवर्णा -
स्ताम्राधरप्रतिभयाहतविद्रुमाभाः
दन्तव्रजप्रमितहास्यसुशोभिवक्त्राः
कामस्य बाणनयनादिविमोहनाभाः ॥ २३ ॥

मूलम्

ऊचुः पतिं कमलमध्यपिशङ्गवर्णा -
स्ताम्राधरप्रतिभयाहतविद्रुमाभाः
दन्तव्रजप्रमितहास्यसुशोभिवक्त्राः
कामस्य बाणनयनादिविमोहनाभाः ॥ २३ ॥

विश्वास-प्रस्तुतिः

स्त्रिय ऊचुः
कान्तकोयं महानर्वास्वर्णपत्रैकशोभितः
कस्य वा भाति शोभाढ्यो गृहाण स्वबलादिमम् ॥ २४ ॥

मूलम्

स्त्रिय ऊचुः
कान्तकोयं महानर्वास्वर्णपत्रैकशोभितः
कस्य वा भाति शोभाढ्यो गृहाण स्वबलादिमम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
तदुक्तं वच आकर्ण्य लीलाललितलोचनः
जग्राह हयमेकेन करपद्मेन लीलया ॥ २५ ॥

मूलम्

शेष उवाच
तदुक्तं वच आकर्ण्य लीलाललितलोचनः
जग्राह हयमेकेन करपद्मेन लीलया ॥ २५ ॥

विश्वास-प्रस्तुतिः

वाचयित्वा स्वर्णपत्रं स्पष्टवर्णसमन्वितम्
जहास महिलामध्ये जगाद वचनं पुनः ॥ २६ ॥

मूलम्

वाचयित्वा स्वर्णपत्रं स्पष्टवर्णसमन्वितम्
जहास महिलामध्ये जगाद वचनं पुनः ॥ २६ ॥

विश्वास-प्रस्तुतिः

रुक्माङ्गद उवाच
पृथिव्यां नास्ति मे पित्रा समः शौर्येण च श्रिया
तस्मिन्कथं विधत्ते स उत्सेकं रामभूमिपः ॥ २७ ॥

मूलम्

रुक्माङ्गद उवाच
पृथिव्यां नास्ति मे पित्रा समः शौर्येण च श्रिया
तस्मिन्कथं विधत्ते स उत्सेकं रामभूमिपः ॥ २७ ॥

विश्वास-प्रस्तुतिः

यस्य रक्षां प्रकुरुते सदा रुद्रः पिनाकधृक्
यं देवा दानवा यक्षा नमन्ति मणिमौलिभिः ॥ २८ ॥

मूलम्

यस्य रक्षां प्रकुरुते सदा रुद्रः पिनाकधृक्
यं देवा दानवा यक्षा नमन्ति मणिमौलिभिः ॥ २८ ॥

विश्वास-प्रस्तुतिः

कुरुताद्वाजिमेधं वै जनको मे महाबलः
या त्वेष वाजिशालायां बध्नन्तु मम वै भटाः ॥ २९ ॥

मूलम्

कुरुताद्वाजिमेधं वै जनको मे महाबलः
या त्वेष वाजिशालायां बध्नन्तु मम वै भटाः ॥ २९ ॥

विश्वास-प्रस्तुतिः

इति वाक्यं समाकर्ण्य महिलास्ता मनोहराः
प्रहर्षवदना जाताः कान्तं तु परिरेभिरे ॥ ३० ॥

मूलम्

इति वाक्यं समाकर्ण्य महिलास्ता मनोहराः
प्रहर्षवदना जाताः कान्तं तु परिरेभिरे ॥ ३० ॥

विश्वास-प्रस्तुतिः

गृहीत्वा च हयं पुत्रो राज्ञो वीरमणेर्महान्
पुरं पत्नीसमायुक्तो महोत्साहमवीविशत् ॥ ३१ ॥

मूलम्

गृहीत्वा च हयं पुत्रो राज्ञो वीरमणेर्महान्
पुरं पत्नीसमायुक्तो महोत्साहमवीविशत् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

मृदङ्गध्वनिषु प्रोच्चैराहतेषु समन्ततः
बन्दिभिः संस्तुतः प्रागात्स्वपितुर्मन्दिरं महत् ॥ ३२ ॥

मूलम्

मृदङ्गध्वनिषु प्रोच्चैराहतेषु समन्ततः
बन्दिभिः संस्तुतः प्रागात्स्वपितुर्मन्दिरं महत् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

तस्मै स कथयामास हयं नीतं रघोः पतेः
वाजिमेधाय निर्मुक्तं स्वच्छन्दगतिमद्भुतम् ॥ ३३ ॥

मूलम्

तस्मै स कथयामास हयं नीतं रघोः पतेः
वाजिमेधाय निर्मुक्तं स्वच्छन्दगतिमद्भुतम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

रक्षितं शत्रुसूदेन महाबलसमेतिना
तच्छ्रुत्वा वचनं तस्य नृपो वीरमणिर्महान् ॥ ३४ ॥

मूलम्

रक्षितं शत्रुसूदेन महाबलसमेतिना
तच्छ्रुत्वा वचनं तस्य नृपो वीरमणिर्महान् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

नातिप्रशंसयामास तत्कर्म सुमहामतिः
नीत्वा पुनः समायान्तं चौरस्येव विचेष्टितम् ॥ ३५ ॥

मूलम्

नातिप्रशंसयामास तत्कर्म सुमहामतिः
नीत्वा पुनः समायान्तं चौरस्येव विचेष्टितम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

कथयामास जामात्रे शिवायाद्भुतकर्मणे
अर्धाङ्गनाधरायाङ्गभूषाय चन्द्रधारिणे ॥ ३६ ॥

मूलम्

कथयामास जामात्रे शिवायाद्भुतकर्मणे
अर्धाङ्गनाधरायाङ्गभूषाय चन्द्रधारिणे ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तेन सम्मन्त्रयामास नृपो वीरमणिर्महान्
पुत्रसृष्टं महत्कर्म विनिन्द्यं महतां मतः ॥ ३७ ॥

मूलम्

तेन सम्मन्त्रयामास नृपो वीरमणिर्महान्
पुत्रसृष्टं महत्कर्म विनिन्द्यं महतां मतः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

शिव उवाच
राजन्पुत्रेण भवतः कृतं कर्म महाद्भुतम्
यो जहार महावाहंरामचन्द्रस्य धीमतः ॥ ३८ ॥

मूलम्

शिव उवाच
राजन्पुत्रेण भवतः कृतं कर्म महाद्भुतम्
यो जहार महावाहंरामचन्द्रस्य धीमतः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

अद्य युद्धं महद्भाति सुरासुरविमोहनम्
शत्रुघ्नेन महाराज्ञा वीरकोट्येकरक्षिणा ॥ ३९ ॥

मूलम्

अद्य युद्धं महद्भाति सुरासुरविमोहनम्
शत्रुघ्नेन महाराज्ञा वीरकोट्येकरक्षिणा ॥ ३९ ॥

विश्वास-प्रस्तुतिः

मया यो ध्रियते स्वान्ते जिह्वया प्रोच्यते हि यः
तस्य रामस्ययज्ञाङ्गं जहार तव पुत्रकः ॥ ४० ॥

मूलम्

मया यो ध्रियते स्वान्ते जिह्वया प्रोच्यते हि यः
तस्य रामस्ययज्ञाङ्गं जहार तव पुत्रकः ॥ ४० ॥

विश्वास-प्रस्तुतिः

परमत्र महाल्ँलाभो भविष्यतितरां रणे
यद्रामचरणाम्भोजं द्रक्ष्यामः स्वीयसेवितम् ॥ ४१ ॥

मूलम्

परमत्र महाल्ँलाभो भविष्यतितरां रणे
यद्रामचरणाम्भोजं द्रक्ष्यामः स्वीयसेवितम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

अत्र यत्नो महान्कार्यो हयस्य परिरक्षणे
नयिष्यन्ति बलाद्वाहं मया रक्षितमप्यमुम् ॥ ४२ ॥

मूलम्

अत्र यत्नो महान्कार्यो हयस्य परिरक्षणे
नयिष्यन्ति बलाद्वाहं मया रक्षितमप्यमुम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तस्मादिमं महाराज राज्येन सह सन्नतः
वाजिनं भोजनं दत्वा प्रेक्षस्वाङ्घ्रियुगं ततः ॥ ४३ ॥

मूलम्

तस्मादिमं महाराज राज्येन सह सन्नतः
वाजिनं भोजनं दत्वा प्रेक्षस्वाङ्घ्रियुगं ततः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

इति वाक्यं समाकर्ण्य शिवस्य स नृपोत्तमः
उवाच तं सुरेन्द्रादिवन्द्यपादाम्बुजद्वयम् ॥ ४४ ॥

मूलम्

इति वाक्यं समाकर्ण्य शिवस्य स नृपोत्तमः
उवाच तं सुरेन्द्रादिवन्द्यपादाम्बुजद्वयम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

वीरमणिरुवाच
क्षत्रियाणामयं धर्मो यत्प्रतापस्य रक्षणम्
तदसौ क्रान्तुमुद्युक्तः क्रतुना हयसञ्ज्ञिना ॥ ४५ ॥

मूलम्

वीरमणिरुवाच
क्षत्रियाणामयं धर्मो यत्प्रतापस्य रक्षणम्
तदसौ क्रान्तुमुद्युक्तः क्रतुना हयसञ्ज्ञिना ॥ ४५ ॥

विश्वास-प्रस्तुतिः

तस्माद्रक्ष्यः स्वप्रतापो येनकेनापि मानिना
यावच्छक्यं कर्म कृत्वा शरीरव्ययकारिणा ॥ ४६ ॥

मूलम्

तस्माद्रक्ष्यः स्वप्रतापो येनकेनापि मानिना
यावच्छक्यं कर्म कृत्वा शरीरव्ययकारिणा ॥ ४६ ॥

विश्वास-प्रस्तुतिः

सर्वं कृतं सुतेनेदं गृहीतोऽश्व पुनर्यतः
कोपितं रामभूपालं समयार्हं कुरु प्रभो ॥ ४७ ॥

मूलम्

सर्वं कृतं सुतेनेदं गृहीतोऽश्व पुनर्यतः
कोपितं रामभूपालं समयार्हं कुरु प्रभो ॥ ४७ ॥

विश्वास-प्रस्तुतिः

क्षत्त्रियाणामिदं कर्म कर्तव्यार्हं भवेन्नहि
यदकस्माद्रिपोः पादौ प्रणमेद्भयविह्वलः ॥ ४८ ॥

मूलम्

क्षत्त्रियाणामिदं कर्म कर्तव्यार्हं भवेन्नहि
यदकस्माद्रिपोः पादौ प्रणमेद्भयविह्वलः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

रिपवो विहसन्त्येनं कातरोऽयं नृपाधमः
क्षुद्रः प्राकृतवन्नीचो नतवान्भयविह्वलः ॥ ४९ ॥

मूलम्

रिपवो विहसन्त्येनं कातरोऽयं नृपाधमः
क्षुद्रः प्राकृतवन्नीचो नतवान्भयविह्वलः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

तस्माद्भवान्यथायोग्यं योद्धव्ये समुपस्थिते
यद्विधेयं विचार्यैव कर्तव्यं भक्तरक्षणम् ॥ ५० ॥

मूलम्

तस्माद्भवान्यथायोग्यं योद्धव्ये समुपस्थिते
यद्विधेयं विचार्यैव कर्तव्यं भक्तरक्षणम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

शेष उवाच
इति वाक्यं समाकर्ण्य चन्द्रचूडोवदद्वचः
प्रहसन्मेघगम्भीरवाण्या सम्मोहयन्मनः ॥ ५१ ॥

मूलम्

शेष उवाच
इति वाक्यं समाकर्ण्य चन्द्रचूडोवदद्वचः
प्रहसन्मेघगम्भीरवाण्या सम्मोहयन्मनः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

यदि देवास्त्रयस्त्रिंशत्कोटयः समुपस्थिताः
तथापि त्वत्तः केनाश्वो गृह्यते मम रक्षितुः ॥ ५२ ॥

मूलम्

यदि देवास्त्रयस्त्रिंशत्कोटयः समुपस्थिताः
तथापि त्वत्तः केनाश्वो गृह्यते मम रक्षितुः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

यदि रामः समागत्य स्वात्मानं दर्शयिष्यति
तदाहं चरणौ तस्य प्रणमामि सुकोमलौ ॥ ५३ ॥

मूलम्

यदि रामः समागत्य स्वात्मानं दर्शयिष्यति
तदाहं चरणौ तस्य प्रणमामि सुकोमलौ ॥ ५३ ॥

विश्वास-प्रस्तुतिः

स्वामिना न हि योद्धव्यं महान नय उच्यते
अन्ये वीरास्तृणप्रायाः किञ्चित्कर्तुं न वै क्षमाः ॥ ५४ ॥

मूलम्

स्वामिना न हि योद्धव्यं महान नय उच्यते
अन्ये वीरास्तृणप्रायाः किञ्चित्कर्तुं न वै क्षमाः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

तस्माद्युद्ध्यस्व राजेन्द्र रक्षके मयि सुस्थिते
को गृह्णाति बलाद्वाहं त्रिलोकी यदि सङ्गता ॥ ५५ ॥

मूलम्

तस्माद्युद्ध्यस्व राजेन्द्र रक्षके मयि सुस्थिते
को गृह्णाति बलाद्वाहं त्रिलोकी यदि सङ्गता ॥ ५५ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
एतद्वचः परं श्रुत्वा चन्द्रचूडस्य भूमिपः
जहर्ष मानसेऽत्यन्तं युद्धकर्मणि कौतुकी ॥ ५६ ॥

मूलम्

शेष उवाच
एतद्वचः परं श्रुत्वा चन्द्रचूडस्य भूमिपः
जहर्ष मानसेऽत्यन्तं युद्धकर्मणि कौतुकी ॥ ५६ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे वीर-
मणिपुत्रेण हयग्रहणन्नाम एकोनचत्वारिंशत्तमोऽध्यायः ३९