सूत उवाच
विश्वास-प्रस्तुतिः
एतदाख्यानकं श्रुत्वा वात्स्यायन उदारधीः
परमं हर्षमापेदे जगाद च फणीश्वरम् ॥ १ ॥
मूलम्
एतदाख्यानकं श्रुत्वा वात्स्यायन उदारधीः
परमं हर्षमापेदे जगाद च फणीश्वरम् ॥ १ ॥
विश्वास-प्रस्तुतिः
वात्स्यायन उवाच
कथां संशृण्वते मह्यं तृप्तिर्नास्ति फणीश्वर
रघुनाथस्य भक्तार्तिहारिकीर्तिकरस्य वै ॥ २ ॥

धन्य आरण्यको नाम मुनिर्वेदधरः परः
रघुनाथं समालोक्य देहं तत्याज नश्वरम् ॥ ३ ॥

ततो राज्ञो हयः कुत्र गतः केन नियन्त्रितः
कथं तत्र रमानाथ कीर्तिर्जाता फणीश्वर ॥ ४ ॥

सर्वं कथय मे तथ्यं सर्वज्ञोऽस्ति यतो भवान्
धराधरवपुर्धारी साक्षात्तस्य स्वरूपधृक् ॥ ५ ॥

व्यास उवाच
इति वाक्यं समाकर्ण्य प्रहृष्टेनान्तरात्मना
उवाच रामचारित्रं तत्तद्गुणकथोदयम् ॥ ६ ॥

शेष उवाच
साधु पृच्छसि विप्रर्षे रघुनाथगुणान्मुहुः
श्रुता न श्रुतवत्कृत्वा तेषु लोलुपतां दधत् ॥ ७ ॥

ततो निरगमद्वाहः सैनिकैर्बहुभिवृतः
रेवातीरे मनोज्ञे तु मुनिवृन्दनिषेविते ॥ ८ ॥

सेनाचरास्ततः सर्वे यत्र वाहस्ततस्ततः
प्रसर्पन्ति निरीक्षन्तस्तन्मार्गं रणकोविदाः ॥ ९ ॥

वाजी गतोऽथ रेवाया ह्रदेऽगाधजलान्विते
भाले स्वर्णभवं पत्रं धारयन्पूजिताङ्गकः ॥ १० ॥

ततो जले ममज्जासौ रामचन्द्र हयो वरः
तदा सर्वे महाशूरास्तत्र विस्मयमागताः ॥ ११ ॥

तैः परस्परमेवोचे कथं हयसमागमः
कोऽत्र गन्ता जले वाहमानेतुं तं महोदयम् ॥ १२ ॥

इति यावत्समुद्विग्ना मन्त्रयन्ते परस्परम्
तावद्वीरशतैः सार्धमाजगाम रघोः पतिः ॥ १३ ॥

तान्सर्वान्विमनस्कान्स दृष्ट्वा शत्रुघ्नसञ्ज्ञितः
पप्रच्छ मेघगम्भीरवाचा वीरशिरोमणिः ॥ १४ ॥

किं स्थितं निखिलैरद्य युष्माभिः सङ्घशो जले
कुत्राश्वो रघुनाथस्य स्वर्णपत्रेण शोभितः ॥ १५ ॥

जले किं विनिमग्नोऽसौ हृतो वा केन मानिना
तन्मे कथयत क्षिप्रं कथं यूयं विमोहिताः ॥ १६ ॥

इति वाक्यं समाकर्ण्य राज्ञो रघुवरस्य हि
कथयामासुस्ते सर्वं वीराः शूरशिरोमणिम् ॥ १७ ॥

जना ऊचुः
स्वामिन्वयं न जानीमो मुहूर्तमभवज्जले
निममज्ज ततो नायाद्धयस्तव मनोहरः ॥ १८ ॥
मूलम्
जना ऊचुः
स्वामिन्वयं न जानीमो मुहूर्तमभवज्जले
निममज्ज ततो नायाद्धयस्तव मनोहरः ॥ १८ ॥
विश्वास-प्रस्तुतिः
त्वमेव तत्र गत्वेमं वाहमानय वेगतः
अस्माभिस्तत्र गन्तव्यं त्वया सार्द्धं महामते ॥ १९ ॥

इति श्रुत्वा वचस्तेषां सैनिकानां रघूद्वहः
खेदं प्राप जनान्पश्यञ्जलसन्तरणोद्यतान् ॥ २० ॥

उवाच मन्त्रिमुख्यं स किं कर्तव्यमतः परम्
कथं वाहस्य सम्प्राप्तिर्भविष्यति वदस्व तत् ॥ २१ ॥

के तत्र शूराः संयोज्या जलेऽन्वेषयितुं हयम्
को वा नयिष्यते वाहं केनोपायेन तद्वद ॥ २२ ॥

इति राज्ञोवचः श्रुत्वा सुमतिर्मन्त्रिसत्तमः
उवाच समये योग्यं शत्रुघ्नं हर्षयन्निव ॥ २३ ॥

स्वामिन्नस्ति तव श्रीमञ्छक्तिरद्भुतकर्मणः
पातालगमने शक्तिर्जलमध्यादिह स्फुटम् ॥ २४ ॥

अन्यच्च पुष्कलस्यापि शक्तिरस्ति महात्मनः
हनूमतोऽपि रामस्य पादसेवापरस्य च ॥ २५ ॥

तस्माद्यूयं त्रयो गत्वा हयमानयत ध्रुवम्
यतो भवेद्वाहमेधो रघुनाथस्य धीमतः ॥ २६ ॥
मूलम्
तस्माद्यूयं त्रयो गत्वा हयमानयत ध्रुवम्
यतो भवेद्वाहमेधो रघुनाथस्य धीमतः ॥ २६ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति वाक्यं समाश्रुत्य शत्रुघ्नः परवीरहा
स्वयं विवेश तोयान्तर्हनुमत्पुष्कलान्वितः ॥ २७ ॥

यावज्जलं विवेशासौ तावत्पुरमदृश्यत
अनेकोद्यानशोभाढ्यममेयं पुटभेदनम् ॥ २८ ॥
मूलम्
यावज्जलं विवेशासौ तावत्पुरमदृश्यत
अनेकोद्यानशोभाढ्यममेयं पुटभेदनम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
तत्र माणिक्यरचिते स्तम्भे स्वर्णमये हयम्
बद्धं ददर्श रामस्य स्वर्णपत्रसुशोभितम् ॥ २९ ॥

स्त्रियस्तत्र मनोहारि रूपधारिण्य उत्तमाः
सेवन्ते सुन्दरीमेकां पर्यङ्के सुखमास्थिताम् ॥ ३० ॥

तान्दृष्ट्वा ताः स्त्रियः सर्वाः प्रावोचन्स्वामिनीं प्रति
एतेऽल्पवर्ष्मवयसो मांसपुष्टकलेवराः ॥ ३१ ॥

भविष्यन्ति तव श्रेष्ठमाहारस्य फलं महत्
एतेषां शोणितं स्वादु पुरुषाणां गतायुषाम् ॥ ३२ ॥

एतद्वचः समाकर्ण्य सेवकीनां वराङ्गना
जहास किञ्चिद्वदनं नर्तयन्ती भ्रुवानघा ॥ ३३ ॥

तावत्त्रयस्ते सम्प्राप्ताः सन्नाहश्री विशोभिताः
शिरस्त्राणानि दधतः शौर्यवीर्यसमन्विताः ॥ ३४ ॥

ता दृष्ट्वा महिलास्तत्र सौन्दर्यश्रीसमन्विताः
प्रोचुस्ते विस्मयं विप्र किमिदं दृश्यते महत् ॥ ३५ ॥

नमश्चक्रुर्महात्मानः सर्वे देववराङ्गनाः
किरीटमणिविद्योतद्योतिताङ्घ्रियुगास्ततः ॥ ३६ ॥

सा तान्पप्रच्छ पुरुषान्सर्वश्रेष्ठा तु भामिनी
के यूयमत्र सम्प्राप्ताः कथं चापधरा नराः ॥ ३७ ॥

मत्स्थलं सर्वदेवानामगम्यं मोहनं महत्
अत्र प्राप्तस्य तु क्वापि निवृत्तिर्न भवत्युत ॥ ३८ ॥

अश्वोऽयं कस्य राज्ञो वै कथं चामरवीजितः
स्वर्णपत्रेण शोभाढ्यः कथयन्तु ममाग्रतः ॥ ३९ ॥

इति तस्या वचः श्रुत्वा मोहनाचारसंयुतम्
हनूमांस्तां प्रत्युवाच गतभीः प्रहसन्निव ॥ ४० ॥

वयं वै किङ्करा राज्ञस्त्रैलोक्यस्य शिखामणेः
त्रिलोकीयं प्रणमते सर्वदेवशिरोमणिम् ॥ ४१ ॥

रामभद्रस्य जानीहि हयमेधप्रवर्तितुः
प्रमुञ्च वाहमस्माकं कथं बद्धो वराङ्गने ॥ ४२ ॥

वयं सर्वास्त्रकुशलाः सर्वशस्त्रास्त्रकोविदाः
नयिष्यामो बलाद्वाहं हत्वा तत्प्रतिरोधकान् ॥ ४३ ॥

इति वाक्यं समाकर्ण्य प्लवङ्गस्य वराङ्गना
विवरस्था प्रत्युवाच हसन्ती वाक्यकोविदा ॥ ४४ ॥

मयानीतमिमं वाहं न कोमोचयितुं क्षमः
वर्षायुतेन निशितैर्बाणकोटिभिरुच्छिखैः ॥ ४५ ॥

परं रामस्य पादाब्जसैवकी कर्मकारिणी
न ग्रहीष्यामि तद्वाहं राजराजस्य धीमतः ॥ ४६ ॥

महान विनयो जातो मम नेत्र्याः सुवाजिनः
क्षमताद्रामचन्द्रस्तच्छरण्यो भक्तवत्सलः ॥ ४७ ॥

यूयं क्लिष्टास्तत्पुरुषा हयार्थं तस्य रक्षितुः
याचध्वं वरमप्राप्यं देवानामपि सत्तमाः ॥ ४८ ॥

यथा मेमीवमत्युग्रं क्षमेत पुरुषोत्तमः
व्रीडां त्यक्त्वाखिलां यूयं वृणुध्वं वरमुत्तमम् ॥ ४९ ॥

तस्या वचः परं श्रुत्वा हनूमान्नि जगाद ताम्
रघुनाथप्रसादेन सर्वमस्माकमूर्जितम् ॥ ५० ॥

तथापि याचे वरमेकमुत्तमं
विधेहि तन्मे मनसः समीहितम्
भवे भवे नो रघुनायकः पति -
र्वयं च तत्कर्मकराश्च किङ्कराः ॥ ५१ ॥
मूलम्
तथापि याचे वरमेकमुत्तमं
विधेहि तन्मे मनसः समीहितम्
भवे भवे नो रघुनायकः पति -
र्वयं च तत्कर्मकराश्च किङ्कराः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
एतद्वचनमाकर्ण्य प्लवगस्य तदाङ्गना
उवाच वाक्यं मधुरं प्रहस्य गुणपूजितम् ॥ ५२ ॥

भवद्भिः प्रार्थितं यद्वै दुर्ल्लभं सर्वदैवतैः
तद्भविष्यत्यसन्देहः सेवकास्तद्रघोः पतेः ॥ ५३ ॥

अथापि वरमेकं वै दास्यामि कृतहेलना
रघुनाथस्य तुष्ट्यर्थं तदृतं मे भवेद्वचः ॥ ५४ ॥

अग्रे वीरमणिर्भूपो महावीरसमन्वितः
ग्रहीष्यति भवद्वाहं शिवेन परिरक्षितः ॥ ५५ ॥

तज्जयार्थे महास्त्रं मे गृह्णीत सुमहाबलाः
द्वैरथे स तु योद्धव्यः शत्रुघ्नेन त्वया महान् ॥ ५६ ॥

इदमस्त्रं यदा त्वं तु क्षेपयिष्यसि सङ्गरे
अनेन पूतो रामस्य स्वरूपं ज्ञास्यते पुनः ॥ ५७ ॥

ज्ञात्वा तं वाजिनं दत्वा चरणे प्रपतिष्यति
तस्माद्गृह्णीध्वमस्त्रं तन्मम वैरिविदारणम् ॥ ५८ ॥

तच्छ्रुत्वा रघुनाथस्य भ्राता जग्राह चास्त्रकम्
उदङ्मुखः पवित्राङ्गो योगिन्या दत्तमद्भुतम् ॥ ५९ ॥

तत्प्राप्यास्त्रं महातेजा बभूव रिपुकर्शनः
दुष्प्रधर्ष्यो दुराराध्यो वैरिवारणसत्सृणिः ॥ ६० ॥

तां नत्वा राघवश्रेष्ठः शत्रुघ्नो हयसत्तमम्
गृहीत्वागाज्जलात्तस्माद्रेवातीरे सुखोचिते ॥ ६१ ॥

तं दृष्ट्वा सैनिकाः सर्वे प्रहृष्टाङ्गा मुदान्विताः
साधुसाधु प्रशंसन्तः पप्रच्छुर्हयनिर्गमम् ॥ ६२ ॥

हनूमान्कथयामास हयस्यागमनं महत्
वरप्राप्तिं च ताभ्यो वै तेऽपि श्रुत्वा मुदं गताः ॥ ६३ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नस्य योगिनीदर्शनजलमध्याद्वाहप्राप्तिर्नाम अष्टत्रिंशत्तमोऽध्यायः ३८