शेष उवाच
विश्वास-प्रस्तुतिः
ते पृष्टा मुनिवर्येण रामचारित्रमद्भुतम्
धन्यं सभाग्यं मन्वानाः प्रोचुरात्मानमादरात् ॥ १ ॥
मूलम्
ते पृष्टा मुनिवर्येण रामचारित्रमद्भुतम्
धन्यं सभाग्यं मन्वानाः प्रोचुरात्मानमादरात् ॥ १ ॥
विश्वास-प्रस्तुतिः
जना ऊचुः
पवित्रिता वयं सर्वे दर्शनेन तवाधुना
यद्रामकथयास्मान्वै पावयस्यधुना जनान् ॥ २ ॥
मूलम्
जना ऊचुः
पवित्रिता वयं सर्वे दर्शनेन तवाधुना
यद्रामकथयास्मान्वै पावयस्यधुना जनान् ॥ २ ॥
विश्वास-प्रस्तुतिः
शृणुष्व वचनं तथ्यं भवान्ब्रह्मर्षिसत्तमः
त्वया पृष्टं यदस्मभ्यं सर्वं तत्कथयाम वै ॥ ३ ॥
मूलम्
शृणुष्व वचनं तथ्यं भवान्ब्रह्मर्षिसत्तमः
त्वया पृष्टं यदस्मभ्यं सर्वं तत्कथयाम वै ॥ ३ ॥
विश्वास-प्रस्तुतिः
अगस्त्यवाक्याच्छ्रीरामो विप्रहत्यापनुत्तये
यागं करोति सुमहान्सर्वसम्भारसम्भृतम् ॥ ४ ॥
मूलम्
अगस्त्यवाक्याच्छ्रीरामो विप्रहत्यापनुत्तये
यागं करोति सुमहान्सर्वसम्भारसम्भृतम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
तं पालयानाः सर्वे वै त्वदाश्रममुपागताः
अश्वेन सहिता विप्र तज्जानीहि महामते ॥ ५ ॥
मूलम्
तं पालयानाः सर्वे वै त्वदाश्रममुपागताः
अश्वेन सहिता विप्र तज्जानीहि महामते ॥ ५ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य मनोहारि रसायनम्
अत्यन्तं हर्षमापेदे ब्राह्मणो रामभक्तिमान् ॥ ६ ॥
मूलम्
इति वाक्यं समाकर्ण्य मनोहारि रसायनम्
अत्यन्तं हर्षमापेदे ब्राह्मणो रामभक्तिमान् ॥ ६ ॥
विश्वास-प्रस्तुतिः
अद्य मे फलितो वृक्षो मनोरथश्रियान्वितः
अद्य मे जननी धन्या जातं मां सुषुवे तु या ॥ ७ ॥
मूलम्
अद्य मे फलितो वृक्षो मनोरथश्रियान्वितः
अद्य मे जननी धन्या जातं मां सुषुवे तु या ॥ ७ ॥
विश्वास-प्रस्तुतिः
अद्य राज्यं मया प्राप्तं कण्टकेन विवर्जितम्
अद्य कोशाः सुसम्पन्ना अद्य देवाः सुतोषिताः ॥ ८ ॥
मूलम्
अद्य राज्यं मया प्राप्तं कण्टकेन विवर्जितम्
अद्य कोशाः सुसम्पन्ना अद्य देवाः सुतोषिताः ॥ ८ ॥
विश्वास-प्रस्तुतिः
अग्निहोत्रफलं त्वद्य प्राप्तं मे हविषा हुतम्
यद्द्रक्ष्ये रामचन्द्रस्य चरणाम्भोरुहोर्युगम् ॥ ९ ॥
मूलम्
अग्निहोत्रफलं त्वद्य प्राप्तं मे हविषा हुतम्
यद्द्रक्ष्ये रामचन्द्रस्य चरणाम्भोरुहोर्युगम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
यो नित्यं ध्यायते स्वान्ते अयोध्यायाः पतिः प्रभुः
स मे दृग्गोचरो नूनं भविष्यति मनोहरः ॥ १० ॥
मूलम्
यो नित्यं ध्यायते स्वान्ते अयोध्यायाः पतिः प्रभुः
स मे दृग्गोचरो नूनं भविष्यति मनोहरः ॥ १० ॥
विश्वास-प्रस्तुतिः
हनूमान्मां समालिङ्ग्य प्रक्ष्यते कुशलं मम
भक्तिं मे महतीं दृष्ट्वा तोषं प्राप्स्यति सत्तमः ॥ ११ ॥
मूलम्
हनूमान्मां समालिङ्ग्य प्रक्ष्यते कुशलं मम
भक्तिं मे महतीं दृष्ट्वा तोषं प्राप्स्यति सत्तमः ॥ ११ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य हनूमान्कपिसत्तमः
जग्राह पादयुगलं मुनेरारण्यकस्य हि ॥ १२ ॥
मूलम्
इति वाक्यं समाकर्ण्य हनूमान्कपिसत्तमः
जग्राह पादयुगलं मुनेरारण्यकस्य हि ॥ १२ ॥
विश्वास-प्रस्तुतिः
स्वामिन्हनूमान्विप्रर्षे सेवकोऽहं पुरःस्थितः
जानीहि रामदासस्य रेणुकल्पं मुनीश्वर ॥ १३ ॥
मूलम्
स्वामिन्हनूमान्विप्रर्षे सेवकोऽहं पुरःस्थितः
जानीहि रामदासस्य रेणुकल्पं मुनीश्वर ॥ १३ ॥
विश्वास-प्रस्तुतिः
इत्युक्तवति तस्मिन्वै मुनिः परमहर्षितः
आलिलिङ्ग हनूमन्तं रामभक्त्या सुशोभितम् ॥ १४ ॥
मूलम्
इत्युक्तवति तस्मिन्वै मुनिः परमहर्षितः
आलिलिङ्ग हनूमन्तं रामभक्त्या सुशोभितम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
उभौ प्रेमविनिर्भिन्नावुभावपि सुधाप्लुतौ
स्थगितौ चित्रलिखिताविव तत्र बभूवतुः ॥ १५ ॥
मूलम्
उभौ प्रेमविनिर्भिन्नावुभावपि सुधाप्लुतौ
स्थगितौ चित्रलिखिताविव तत्र बभूवतुः ॥ १५ ॥
विश्वास-प्रस्तुतिः
उपविष्टौ कथास्तत्र चक्रतुः सुमनोहराः
रघुनाथपदाम्भोजप्रीतिनिर्भरमानसौ ॥ १६ ॥
मूलम्
उपविष्टौ कथास्तत्र चक्रतुः सुमनोहराः
रघुनाथपदाम्भोजप्रीतिनिर्भरमानसौ ॥ १६ ॥
विश्वास-प्रस्तुतिः
हनूमांस्तमुवाचेदं वचो विविधशोभनम्
आरण्यकं मुनिवरं रामाङ्घ्रिध्याननिर्भृतम् ॥ १७ ॥
मूलम्
हनूमांस्तमुवाचेदं वचो विविधशोभनम्
आरण्यकं मुनिवरं रामाङ्घ्रिध्याननिर्भृतम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
स्वामिन्नयं दशरथकुलहीराङ्कुरो महान्
रामभ्राता महाशूरः शत्रुघ्नः प्रणमत्यसौ ॥ १८ ॥
मूलम्
स्वामिन्नयं दशरथकुलहीराङ्कुरो महान्
रामभ्राता महाशूरः शत्रुघ्नः प्रणमत्यसौ ॥ १८ ॥
विश्वास-प्रस्तुतिः
लवणो येन निहतः सर्वलोकभयङ्करः
कृताश्च सुखिनः सर्वे मुनयः सुतपोधनाः ॥ १९ ॥
मूलम्
लवणो येन निहतः सर्वलोकभयङ्करः
कृताश्च सुखिनः सर्वे मुनयः सुतपोधनाः ॥ १९ ॥
विश्वास-प्रस्तुतिः
एष पुष्कलनामा त्वां नमत्युद्भटसेवितः
येनाधुना महावीरा जिताः समरमण्डले ॥ २० ॥
मूलम्
एष पुष्कलनामा त्वां नमत्युद्भटसेवितः
येनाधुना महावीरा जिताः समरमण्डले ॥ २० ॥
विश्वास-प्रस्तुतिः
जानीह्येनं बहुगुणं रामामात्यं महाबलम्
प्राणप्रियं रघुपतेः सर्वज्ञं धर्मकोविदम् ॥ २१ ॥
मूलम्
जानीह्येनं बहुगुणं रामामात्यं महाबलम्
प्राणप्रियं रघुपतेः सर्वज्ञं धर्मकोविदम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
सुबाहुरयमत्युग्रो वैरिवंशदवानलः
रामपादाब्जरोलम्बो नमति त्वां महायशाः ॥ २२ ॥
मूलम्
सुबाहुरयमत्युग्रो वैरिवंशदवानलः
रामपादाब्जरोलम्बो नमति त्वां महायशाः ॥ २२ ॥
विश्वास-प्रस्तुतिः
सुमदोऽप्येष पार्वत्या दत्तरामाङ्घ्रिसेवया
प्राप्तोऽधुनासौ संसारवार्धिनिस्तरणं महत् ॥ २३ ॥
मूलम्
सुमदोऽप्येष पार्वत्या दत्तरामाङ्घ्रिसेवया
प्राप्तोऽधुनासौ संसारवार्धिनिस्तरणं महत् ॥ २३ ॥
विश्वास-प्रस्तुतिः
सत्यवानयमश्वं यः प्राप्तमाश्रुत्य सेवकात्
राज्यं निवेदयामास स त्वां प्रणमति क्षितौ ॥ २४ ॥
मूलम्
सत्यवानयमश्वं यः प्राप्तमाश्रुत्य सेवकात्
राज्यं निवेदयामास स त्वां प्रणमति क्षितौ ॥ २४ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य समालिङ्ग्य समादरात्
चकारारण्यक ऋषिः स्वागतं फलकादिना ॥ २५ ॥
मूलम्
इति वाक्यं समाकर्ण्य समालिङ्ग्य समादरात्
चकारारण्यक ऋषिः स्वागतं फलकादिना ॥ २५ ॥
विश्वास-प्रस्तुतिः
ते हृष्टास्तत्र वसतिं चक्रुर्मुनिवराश्रमे
प्रातर्नित्यक्रियां कृत्वा रेवायां ते महोद्यमाः ॥ २६ ॥
मूलम्
ते हृष्टास्तत्र वसतिं चक्रुर्मुनिवराश्रमे
प्रातर्नित्यक्रियां कृत्वा रेवायां ते महोद्यमाः ॥ २६ ॥
विश्वास-प्रस्तुतिः
नरयानमथारोप्य सेवकैः सहितं मुनिम्
शत्रुघ्नः प्रापयामासायोध्यां रामकृतालयाम् ॥ २७ ॥
मूलम्
नरयानमथारोप्य सेवकैः सहितं मुनिम्
शत्रुघ्नः प्रापयामासायोध्यां रामकृतालयाम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
स दूरान्नगरीं दृष्ट्वा सूर्यवंशनृपोषिताम्
पदातिरभवद्वेगाद्रघुनाथदिदृक्षया ॥ २८ ॥
मूलम्
स दूरान्नगरीं दृष्ट्वा सूर्यवंशनृपोषिताम्
पदातिरभवद्वेगाद्रघुनाथदिदृक्षया ॥ २८ ॥
विश्वास-प्रस्तुतिः
सम्प्राप्य नगरीं रम्यामयोध्यां जनशोभिताम्
मनोरथसहस्रेण संरूढो रामदर्शने ॥ २९ ॥
मूलम्
सम्प्राप्य नगरीं रम्यामयोध्यां जनशोभिताम्
मनोरथसहस्रेण संरूढो रामदर्शने ॥ २९ ॥
विश्वास-प्रस्तुतिः
ददर्श तत्र सरयूतीरे मण्डपशोभिते
रामं दूर्वादलश्यामं कञ्जकान्तिविलोचनम् ॥ ३० ॥
मूलम्
ददर्श तत्र सरयूतीरे मण्डपशोभिते
रामं दूर्वादलश्यामं कञ्जकान्तिविलोचनम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
मृगशृङ्गं कटौ रम्यं धारयन्तं श्रियान्वितम्
ऋषिवृन्दैर्व्यासमुख्यैर्वृतं शूरैः सुसेवितम् ॥ ३१ ॥
मूलम्
मृगशृङ्गं कटौ रम्यं धारयन्तं श्रियान्वितम्
ऋषिवृन्दैर्व्यासमुख्यैर्वृतं शूरैः सुसेवितम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
भरतेन सुमित्रायास्तनूजेन परीवृतम्
ददतं दीनसन्धेभ्यो दानानि प्रार्थितानि तम् ॥ ३२ ॥
मूलम्
भरतेन सुमित्रायास्तनूजेन परीवृतम्
ददतं दीनसन्धेभ्यो दानानि प्रार्थितानि तम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
विलोक्यारण्यकाख्योऽसौ कृतार्थ इत्यमन्यत
मल्लोचने पद्मदलसमाने रामलोकके ॥ ३३ ॥
मूलम्
विलोक्यारण्यकाख्योऽसौ कृतार्थ इत्यमन्यत
मल्लोचने पद्मदलसमाने रामलोकके ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अद्य मे सर्वशास्त्रस्य ज्ञातृत्वं बहुसार्थकम्
येन श्रीराममाज्ञाय प्राप्तोऽयोध्यापुरीमिमाम् ॥ ३४ ॥
मूलम्
अद्य मे सर्वशास्त्रस्य ज्ञातृत्वं बहुसार्थकम्
येन श्रीराममाज्ञाय प्राप्तोऽयोध्यापुरीमिमाम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
इत्येवमादिवचनानि बहूनि हृष्टो
रामाङ्घ्रिदर्शनसुहर्षित गात्रशोभी
प्रायाद्रमेश्वरसमीपमगम्यमन्यै-
र्योगेश्वरैरपि विचारपरैः सुदूरम् ॥ ३५ ॥
मूलम्
इत्येवमादिवचनानि बहूनि हृष्टो
रामाङ्घ्रिदर्शनसुहर्षित गात्रशोभी
प्रायाद्रमेश्वरसमीपमगम्यमन्यै-
र्योगेश्वरैरपि विचारपरैः सुदूरम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
धन्योऽहमद्य रामस्य चरणावक्षिगोचरौ
करिष्यामि वचो रम्यं वदन्राममवेक्षयन् ॥ ३६ ॥
मूलम्
धन्योऽहमद्य रामस्य चरणावक्षिगोचरौ
करिष्यामि वचो रम्यं वदन्राममवेक्षयन् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
रामोऽपि वाडवश्रेष्ठं ज्वलन्तं स्वेन तेजसा
तपोमूर्तिधरं वीक्ष्य प्रत्युत्थानमथाकरोत् ॥ ३७ ॥
मूलम्
रामोऽपि वाडवश्रेष्ठं ज्वलन्तं स्वेन तेजसा
तपोमूर्तिधरं वीक्ष्य प्रत्युत्थानमथाकरोत् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
रामचन्द्रस्तस्य पादौ सुचिरं नतवान्महान्
ब्रह्मण्यदेवपावित्र्यं कृतमद्यतनोर्मम ॥ ३८ ॥
मूलम्
रामचन्द्रस्तस्य पादौ सुचिरं नतवान्महान्
ब्रह्मण्यदेवपावित्र्यं कृतमद्यतनोर्मम ॥ ३८ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं वदंस्तस्य पादयोः पतितः प्रभुः
सुरासुरनमन्मौलिमणिनीराजिताङ्घ्रिकः ॥ ३९ ॥
मूलम्
इति वाक्यं वदंस्तस्य पादयोः पतितः प्रभुः
सुरासुरनमन्मौलिमणिनीराजिताङ्घ्रिकः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
प्रणतं तं नृपश्रेष्ठं वाडवेन्द्रो महातपाः
गृहीत्वा भुजयोर्मध्यमालिलिङ्ग प्रियं प्रभुम् ॥ ४० ॥
मूलम्
प्रणतं तं नृपश्रेष्ठं वाडवेन्द्रो महातपाः
गृहीत्वा भुजयोर्मध्यमालिलिङ्ग प्रियं प्रभुम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
कौसल्यातनयस्तं वा उच्चैर्मणिमयासने
संस्थाप्य च पदोर्युग्मं जलेनाक्षालयत्प्रभुः ॥ ४१ ॥
मूलम्
कौसल्यातनयस्तं वा उच्चैर्मणिमयासने
संस्थाप्य च पदोर्युग्मं जलेनाक्षालयत्प्रभुः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
पादावनेजनोदं तु मस्तकेऽधाद्धरिः स्वयम्
पवित्रितोऽद्य सगणः सकुटुम्ब इति ब्रुवन् ॥ ४२ ॥
मूलम्
पादावनेजनोदं तु मस्तकेऽधाद्धरिः स्वयम्
पवित्रितोऽद्य सगणः सकुटुम्ब इति ब्रुवन् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
चन्दनेन विलिप्याथ गां च प्रादात्पयस्विनीम्
उवाच च वचो रम्यं देवदेवेन्द्र सेवितः ॥ ४३ ॥
मूलम्
चन्दनेन विलिप्याथ गां च प्रादात्पयस्विनीम्
उवाच च वचो रम्यं देवदेवेन्द्र सेवितः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
स्वामिन्मखो मया वाजिमेधसञ्ज्ञः क्रियेत ह
सोयं त्वच्चरणा यातादद्यपूर्णो भविष्यति ॥ ४४ ॥
मूलम्
स्वामिन्मखो मया वाजिमेधसञ्ज्ञः क्रियेत ह
सोयं त्वच्चरणा यातादद्यपूर्णो भविष्यति ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अद्य मे ब्रह्महत्योत्थ पापहानिं करिष्यति
अश्वमेधः क्रतुर्युष्मच्चरणेन पवित्रितः ॥ ४५ ॥
मूलम्
अद्य मे ब्रह्महत्योत्थ पापहानिं करिष्यति
अश्वमेधः क्रतुर्युष्मच्चरणेन पवित्रितः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं ब्रुवाणं तं राजराजेन्द्रसेवितम्
आरण्यक उवाचेदं हसन्माध्व्या गिरा मुनिः ॥ ४६ ॥
मूलम्
इति वाक्यं ब्रुवाणं तं राजराजेन्द्रसेवितम्
आरण्यक उवाचेदं हसन्माध्व्या गिरा मुनिः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
स्वामिंस्तव तु युक्तं हि वचो ब्रह्मण्यभूमिप
त्वन्मूर्तयो महाराज ब्राह्मणा वेदपारगाः ॥ ४७ ॥
मूलम्
स्वामिंस्तव तु युक्तं हि वचो ब्रह्मण्यभूमिप
त्वन्मूर्तयो महाराज ब्राह्मणा वेदपारगाः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
त्वं यदा ब्रह्मपूजादि शुभं कर्म करिष्यसि
ततोऽखिला नृपा विप्रं पूजयिष्यन्ति भूमिप ॥ ४८ ॥
मूलम्
त्वं यदा ब्रह्मपूजादि शुभं कर्म करिष्यसि
ततोऽखिला नृपा विप्रं पूजयिष्यन्ति भूमिप ॥ ४८ ॥
विश्वास-प्रस्तुतिः
त्वयोक्तं यन्महाराज विप्रहत्यापनुत्तये
यागं करोमि विमलं तत्तु हास्यकरं वचः ॥ ४९ ॥
मूलम्
त्वयोक्तं यन्महाराज विप्रहत्यापनुत्तये
यागं करोमि विमलं तत्तु हास्यकरं वचः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
त्वन्नामस्मरणान्मूढः सर्वशास्त्रविवर्जितः
सर्वपापाब्धिमुत्तीर्य स गच्छेत्परमं पदम् ॥ ५० ॥
मूलम्
त्वन्नामस्मरणान्मूढः सर्वशास्त्रविवर्जितः
सर्वपापाब्धिमुत्तीर्य स गच्छेत्परमं पदम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
सर्ववेदेतिहासानां सारार्थोऽयमिति स्फुटम्
यद्रामनामस्मरणं क्रियते पापतारकम् ॥ ५१ ॥
मूलम्
सर्ववेदेतिहासानां सारार्थोऽयमिति स्फुटम्
यद्रामनामस्मरणं क्रियते पापतारकम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तावद्गर्जन्ति पापानि ब्रह्महत्यासमानि च
न यावत्प्रोच्यते नाम रामचन्द्र तव स्फुटम् ॥ ५२ ॥
मूलम्
तावद्गर्जन्ति पापानि ब्रह्महत्यासमानि च
न यावत्प्रोच्यते नाम रामचन्द्र तव स्फुटम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
त्वन्नामगर्जनं श्रुत्वा महापातककुञ्जराः
पलायन्ते महाराज कुत्रचित्स्थानलिप्सया ॥ ५३ ॥
मूलम्
त्वन्नामगर्जनं श्रुत्वा महापातककुञ्जराः
पलायन्ते महाराज कुत्रचित्स्थानलिप्सया ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तस्मात्तव कथं हत्या महापुण्यददर्शन
राम त्वत्सुकथां श्रुत्वा पूतः सद्यो भविष्यति ॥ ५४ ॥
मूलम्
तस्मात्तव कथं हत्या महापुण्यददर्शन
राम त्वत्सुकथां श्रुत्वा पूतः सद्यो भविष्यति ॥ ५४ ॥
विश्वास-प्रस्तुतिः
मया पूर्वं कृतयुगे गङ्गायास्तीरवासिनाम्
ऋषीणां मुखतो वाक्यं श्रुतमेतत्पुराविदाम् ॥ ५५ ॥
मूलम्
मया पूर्वं कृतयुगे गङ्गायास्तीरवासिनाम्
ऋषीणां मुखतो वाक्यं श्रुतमेतत्पुराविदाम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तावत्पापभियः पुंसां कातराणां सुपापिनाम्
यावन्न वदते वाचा रामनाममनोहरम् ॥ ५६ ॥
मूलम्
तावत्पापभियः पुंसां कातराणां सुपापिनाम्
यावन्न वदते वाचा रामनाममनोहरम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
तस्माद्धन्योऽहमधुना मम संसृतिनाशनम्
साम्प्रतं सुलभं रामचन्द्र त्वद्दर्शनादभूत् ॥ ५७ ॥
मूलम्
तस्माद्धन्योऽहमधुना मम संसृतिनाशनम्
साम्प्रतं सुलभं रामचन्द्र त्वद्दर्शनादभूत् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
इत्युक्तवन्तं स मुनिं पूजयामास तत्र वै
सर्वे मुनिजनाः साधु साधु वाक्यमिति ब्रुवन् ॥ ५८ ॥
मूलम्
इत्युक्तवन्तं स मुनिं पूजयामास तत्र वै
सर्वे मुनिजनाः साधु साधु वाक्यमिति ब्रुवन् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
अत्याश्चर्यमभूत्तत्र तन्मे निगदतः शृणु
वात्स्यायनमुनिश्रेष्ठ रामभक्तिपरायण ॥ ५९ ॥
मूलम्
शेष उवाच
अत्याश्चर्यमभूत्तत्र तन्मे निगदतः शृणु
वात्स्यायनमुनिश्रेष्ठ रामभक्तिपरायण ॥ ५९ ॥
विश्वास-प्रस्तुतिः
रामं दृष्ट्वा महाराजं यादृशं ध्यानगोचरम्
अत्यन्तं हर्षमापन्नो जगाद स मुनीश्वरान् ॥ ६० ॥
मूलम्
रामं दृष्ट्वा महाराजं यादृशं ध्यानगोचरम्
अत्यन्तं हर्षमापन्नो जगाद स मुनीश्वरान् ॥ ६० ॥
विश्वास-प्रस्तुतिः
मुनीश्वराः संशृणुत मद्वाक्यं सुमनोहरम्
मादृशः को न भूलोके भविष्यति सुभाग्यवान् ॥ ६१ ॥
मूलम्
मुनीश्वराः संशृणुत मद्वाक्यं सुमनोहरम्
मादृशः को न भूलोके भविष्यति सुभाग्यवान् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
नास्ति मत्सदृशः कोपि न जातो न भविष्यति
यद्रामभद्रो मां नत्वा स्वागतं परिपृष्टवान् ॥ ६२ ॥
मूलम्
नास्ति मत्सदृशः कोपि न जातो न भविष्यति
यद्रामभद्रो मां नत्वा स्वागतं परिपृष्टवान् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
यत्पादपङ्कजरजः श्रुतिमृग्यं सदैव हि
सोऽद्य मत्पादयोः पाथः पीत्वा पूतममन्यत ॥ ६३ ॥
मूलम्
यत्पादपङ्कजरजः श्रुतिमृग्यं सदैव हि
सोऽद्य मत्पादयोः पाथः पीत्वा पूतममन्यत ॥ ६३ ॥
विश्वास-प्रस्तुतिः
एवं प्रवदतस्तस्य ब्रह्मस्फोटोऽभवत्तदा
निर्गतं तद्भवं तेजो विवेश रघुनायके ॥ ६४ ॥
मूलम्
एवं प्रवदतस्तस्य ब्रह्मस्फोटोऽभवत्तदा
निर्गतं तद्भवं तेजो विवेश रघुनायके ॥ ६४ ॥
विश्वास-प्रस्तुतिः
पश्यतां सर्वलोकानां सरयूतीरमण्डपे
सायुज्यमुक्तिं सम्प्राप दुर्ल्लभां योगिभिर्जनैः ॥ ६५ ॥
मूलम्
पश्यतां सर्वलोकानां सरयूतीरमण्डपे
सायुज्यमुक्तिं सम्प्राप दुर्ल्लभां योगिभिर्जनैः ॥ ६५ ॥
विश्वास-प्रस्तुतिः
दिवि तूर्यनिनादोऽभूद्वीणानादोऽभवत्तदा
पुष्पवृष्टिः पपाताग्रे पश्यतां चित्रमद्भुतम् ॥ ६६ ॥
मूलम्
दिवि तूर्यनिनादोऽभूद्वीणानादोऽभवत्तदा
पुष्पवृष्टिः पपाताग्रे पश्यतां चित्रमद्भुतम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
मुनयोऽप्येतदीक्षित्वा प्रशंसन्तो मुनीश्वरम्
कृतार्थोयं मुनिश्रेष्ठो यद्रामवपुषीक्षितः ॥ ६७ ॥
मूलम्
मुनयोऽप्येतदीक्षित्वा प्रशंसन्तो मुनीश्वरम्
कृतार्थोयं मुनिश्रेष्ठो यद्रामवपुषीक्षितः ॥ ६७ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे आरण्य-
कमुनेर्विष्णुलोकगमनन्नाम सप्तत्रिंशत्तमोऽध्यायः ३७