शेषउवाच
विश्वास-प्रस्तुतिः
एतच्छ्रुत्वा तु विप्रेन्द्रो लोमशात्परमं महत्
पुनः पप्रच्छ तमृषिं सर्वज्ञं योगिनां वरम् ॥ १ ॥
मूलम्

आरण्यक उवाच
मुनिश्रेष्ठ वदैतन्मे पृच्छामि त्वां महामते
गुरवः कृपया युक्ता भाषन्ते सेवकेऽखिलम् ॥ २ ॥

कोऽसौ रामो महाभाग यो नित्यं ध्यायते त्वया
तस्य कानि चरित्राणि वदस्व त्वं द्विजर्षभ ॥ ३ ॥

किमर्थमवतीर्णोऽसौ कस्मान्मानुषतां गतः
तत्सर्वं कथयाशु त्वं मम संशयनुत्तये ॥ ४ ॥

शेष उवाच
इति वाक्यं समाकर्ण्य मुनेः परमशोभनम्
लोमशः कथयामास रामचारित्रमद्भुतम् ॥ ५ ॥
मूलम्
शेष उवाच
इति वाक्यं समाकर्ण्य मुनेः परमशोभनम्
लोमशः कथयामास रामचारित्रमद्भुतम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
लोकान्निरयसम्मग्नाञ्ज्ञात्वा योगेश्वरेश्वरः
कीर्तिं प्रथयितुं लोके यया घोरं तरिष्यति ॥ ६ ॥

एवं ज्ञात्वा दयावार्धिः परमेशो मनोहरः
अवतारं चकारात्र चतुर्धा सश्रियान्वितः ॥ ७ ॥

पुरा त्रेतायुगे प्राप्ते पूर्णांशो रघुनन्दनः
सूर्यवंशे समुत्पन्नो रामो राजीवलोचनः ॥ ८ ॥

स रामो लक्ष्मणसखः काकपक्षधरो युवा
तातस्य वचनात्तौ तु विश्वामित्रमनुव्रतौ ॥ ९ ॥

यज्ञसंरक्षणार्थाय राज्ञा दत्तौ कुमारकौ
दान्तौ धनुर्धरौ वीरौ विश्वामित्रमनुव्रतौ ॥ १० ॥

पथि प्रव्रजतोस्तत्र ताटका नाम राक्षसी
सङ्गता च वने घोरे तयोर्वै विघ्नकारणात् ॥ ११ ॥

ऋषेरनुज्ञया रामस्ताटकां यमयातनाम्
प्रावेशयद्धनुर्वेदविद्याभ्यासेन राघवः ॥ १२ ॥

यस्य पादतलस्पर्शाच्छिला वासवयोगजा
अहल्या गौतमवधूः पुनर्जाता स्वरूपिणी ॥ १३ ॥

विश्वामित्रस्य यज्ञे तु सुप्रवृत्ते रघूत्तमः
मारीचं च सुबाहुं च जघान परमेषुभिः ॥ १४ ॥

ईश्वरस्य धनुर्भग्नं जनकस्य गृहे स्थितम्
रामः पञ्चदशे वर्षे षड्वर्षामथ मैथिलीम् ॥ १५ ॥

उपयेमे विवाहेन रम्यां सीतामयोनिजाम्
कृतकृत्यस्तदा जातः सीतां सम्प्राप्य राघवः ॥ १६ ॥

ततो द्वादश वर्षाणि रेमे रामस्तया सह
सप्तविंशतिमे वर्षे यौवराज्यमकल्पयत् ॥ १७ ॥

राजानमथ कैकेयी वरद्वयमयाचत
तयोरेकेन रामस्तु ससीतः सह लक्ष्मणः ॥ १८ ॥

जटाधरः प्रव्रजतुवर्षाणीह चतुर्दश
भरतस्तु द्वितीयेन यौवराज्याधिपोऽस्तु मे ॥ १९ ॥

जानकी लक्ष्मणसखं रामं प्राव्राजयन्नृपः
त्रिरात्रमुदकाहारश्चतुर्थेऽह्नि फलाशनः ॥ २० ॥

पञ्चमे चित्रकूटे तु रामस्थानमकल्पयत्
अथ त्रयोदशे वर्षे पञ्चवट्यां महामुने ॥ २१ ॥

रामो विरूपयामास शूर्पणखां निशाचरीम्
वने विचरतस्तस्य जानक्या सहितस्य च ॥ २२ ॥

आगतो राक्षसस्तां तु हर्तुं पापविपाकतः
ततो माघासिताष्टम्यां मुहूर्ते वृन्दसञ्ज्ञिते ॥ २३ ॥

राघवाभ्यां विना सीतां जहार दशकन्धरः
तेनैवं ह्रियमाणा सा चक्रन्द कुररी यथा ॥ २४ ॥

रामरामेति मां रक्ष रक्ष मां रक्षसा हृताम्
यथा श्येनः क्षुधाक्रान्तः क्रन्दन्तीं वर्तिकां नयेत् ॥ २५ ॥

तथा कामवशं प्राप्तो रावणो जनकात्मजाम्
नयत्येवं जनकजां जटायुः पक्षिराट्तदा ॥ २६ ॥

युयुधे राक्षसेन्द्रेण स रावणहतोऽपतत्
मार्गशुक्लनवम्यां तु वसन्तीं रावणालये ॥ २७ ॥

सम्पातिर्दशमे मास आचख्यौ वानरेषु ताम्
एकादश्यां महेन्द्राद्रे पुःप्लुवे शतयोजनम् ॥ २८ ॥

हनूमान्निशि तस्यां तु लङ्कायां पर्यकालयत्
तद्रात्रिशेषे सीताया दर्शनं हि हनूमतः ॥ २९ ॥

द्वादश्यां शिंशपावृक्षे हनूमान्पर्यवस्थितः
तस्यां निशायां जानक्या विश्वासाय च सङ्कथा ॥ ३० ॥

अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्तत
ब्रह्मास्त्रेण चतुर्दश्यां बद्धः शक्रजिता कपिः ॥ ३१ ॥

वह्निना पुच्छयुक्तेन लङ्काया दहनं कृतम्
पूर्णिमायां महेन्द्राद्रौ पुनरागमनं कपेः ॥ ३२ ॥

मार्गासितप्रतिपदः पञ्चभिः पथिवासरैः
पुनरागत्य षष्ठेऽह्नि ध्वस्तं मधुवनं किल ॥ ३३ ॥

सप्तम्यां प्रत्यभिज्ञानदानं सर्वनिवेदनम्
अष्टम्युत्तरफल्गुन्यां मुहूर्ते विजयाभिधे ॥ ३४ ॥

मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य च
रामः कृत्वा प्रतिज्ञां तु प्रयातो दक्षिणां दिशम् ॥ ३५ ॥

तीर्त्वाहं सागरमपि हनिष्ये राक्षसेश्वरम्
दक्षिणाशां प्रयातस्य सुग्रीवोऽप्यभवत्सखा ॥ ३६ ॥

वासरैः सप्तभिः सिन्धोः स्कन्धावारनिवेशनम्
पौषशुक्लप्रतिपदस्तृतीयायावदम्बुधेः ॥ ३७ ॥

उपस्थानं ससैन्यस्य राघवस्य बभूव ह
बिभीषणश्चतुर्थ्यां तु रामेण सह सङ्गतः ॥ ३८ ॥

समुद्रतरणार्थाय पञ्चम्यां मन्त्र उद्यतः
प्रायोपवेशनं चक्रे रामो दिनचतुष्टयम् ॥ ३९ ॥

समुद्रवरलाभश्च सहोपायप्रदर्शनम्
ततो दशम्यामारम्भस्त्रयोदश्यां समापनम् ॥ ४० ॥

चतुर्दश्यां सुवेलाद्रौ रामः सैन्यं न्यवेशयत्
पौर्णमास्यां द्वितीयां तं त्रिदिनैः सैन्यतारणम् ॥ ४१ ॥

तीर्त्वा तोयनिधिं रामो वानरेश्वरसैन्यवान्
रुरोध च पुरीं लङ्कां सीतार्थं सह लक्ष्मणः ॥ ४२ ॥

तृतीयादि दशम्यन्तं निवेशश्च दिनाष्टकम्
शुकसारणयोस्तत्र प्राप्तिरेकादशे दिने ॥ ४३ ॥

पौषासिताख्यद्वादश्यां सैन्यसङ्ख्यानमेव च
शार्दूलेन कपीन्द्राणां सहसारोपवर्णनम् ॥ ४४ ॥

त्रयोदश्या अमावास्यां लङ्कायां दिवसैस्त्रिभिः
रावणः सैन्यसङ्ख्यानं रणोत्साहं तदाकरोत् ॥ ४५ ॥

प्रययावङ्गदो दौत्यं माघशुक्लाद्यवासरे
सीतायाश्च ततो भर्तुर्मायामूर्द्धादिदर्शनम् ॥ ४६ ॥

माघद्वितीयादि दिनैः सप्तभिर्यावदष्टमी
रक्षसां वानराणां च युद्धमासीच्च सङ्कुलम् ॥ ४७ ॥

माघशुक्लनवम्यां तु रात्राविन्द्रजिता रणे
रामलक्ष्मणयोर्नागपाशबन्धः कृतः किल ॥ ४८ ॥

आकुलेषु कपीशेषु निरुत्साहेषु सर्वशः
नागपाशविमोक्षार्थं दशम्यां पवनोऽजपत् ॥ ४९ ॥

कर्णे स्वरूपं रामस्य गरुडागमनं ततः
एकादश्यां च द्वादश्यां धूम्राक्षस्य वधः कृतः ॥ ५० ॥

त्रयोदश्यां तु तेनैव निहतः कम्पनो रणे
माघशुक्लचतुर्दश्या यावत्कृष्णादिवासरम् ॥ ५१ ॥

त्रिदिनेन प्रहस्तस्य नीलेन विहितो वधः
माघकृष्णद्वितीयायाश्चतुर्थ्यं तं त्रिभिर्दिनैः ॥ ५२ ॥

रामेण तुमुले युद्धे रावणो द्रावितो रणात्
पञ्चम्या अष्टमीयावद्रावणेन प्रबोधितः ॥ ५३ ॥

कुम्भकर्णस्तदा चक्रेऽभ्यवहारं चतुर्दिनम्
कुम्भकर्णो दिनैः षड्भिर्नवम्यास्तु चतुर्दशीम् ॥ ५४ ॥

रामेण निहतो युद्धे बहुवानरभक्षकः
अमावास्यादिने शोकादवहारो बभूव ह ॥ ५५ ॥
मूलम्
रामेण निहतो युद्धे बहुवानरभक्षकः
अमावास्यादिने शोकादवहारो बभूव ह ॥ ५५ ॥
विश्वास-प्रस्तुतिः
फाल्गुनादिप्रतिपदश्चतुर्थ्यन्तं चतुर्दिनैः
बिसतन्तुप्रभृतयो निहताः पञ्चराक्षसाः ॥ ५६ ॥

पञ्चम्याः सप्तमी यावदतिकायवधस्तथा
अष्टम्याद्वादशी यावन्निहतौ दिनपञ्चकात् ॥ ५७ ॥

निकुम्भकुम्भावूर्ध्वं तु मकराक्षस्त्रिभिर्दिनैः
फाल्गुनासितद्वितीयायां दिने शक्रजिता जितम् ॥ ५८ ॥

तृतीयादिसप्तम्यन्तं दिनपञ्चकमेव च
ओषध्यानयनव्यग्रादवहारो बभूव ह ॥ ५९ ॥
मूलम्
तृतीयादिसप्तम्यन्तं दिनपञ्चकमेव च
ओषध्यानयनव्यग्रादवहारो बभूव ह ॥ ५९ ॥
विश्वास-प्रस्तुतिः
ततस्त्रयोदशीयावद्दिनैः पञ्चभिरिन्द्रजित्
लक्ष्मणेन हतो युद्धे विख्यातबलपौरुषः ॥ ६० ॥

चतुर्दश्यां दशग्रीवो दीक्षां प्रापावहारतः
अमावास्यादिने प्रायाद्युद्धाय दशकन्धरः ॥ ६१ ॥

चैत्रशुक्लप्रतिपदः पञ्चमीदिनपञ्चकैः
रावणे युद्ध्यमाने तु प्रचुरो रक्षसां वधः ॥ ६२ ॥

चैत्रषष्ठ्याष्टमी यावन्महापार्श्वादि मारणम्
चैत्रशुक्लनवम्यां तु सौमित्रेः शक्तिभेदनम् ॥ ६३ ॥

कोपाविष्टेन रामेण द्रावितो दशकन्धरः
द्रोणाद्रिराञ्जनेयेन लक्ष्मणार्थमुपाहृतः ॥ ६४ ॥

दशम्यामवहारोभूद्रात्रौ युद्धे तु रक्षसाम्
एकादश्यां तु रामाय रथं मातलिसारथिः ॥ ६५ ॥

प्रेरितो वासवेनाजावर्पयामास भक्तितः
कोपवानथ द्वादश्या यावत्कृष्णचतुर्दशी ॥ ६६ ॥

अष्टादशदिनै रामो रावणं द्वैरथेऽवधीत्
सङ्ग्रामे तुमुले जाते रामो जयमवाप्तवान् ॥ ६७ ॥

माघशुक्लद्वितीयायाश्चैत्रकृष्ण चतुर्दशीम्
सप्ताशीतिदिनेष्वेव मध्यं पञ्चदशाहकम् ॥ ६८ ॥

युद्धावहारः सङ्ग्रामो द्वासप्तति दिनान्यभूत्
संस्कारो रावणादीनाममावस्या दिनेऽभवत् ॥ ६९ ॥

वैशाखादि तिथौ राम उवास रणभूमिषु
अभिषिक्तो द्वितीयायां लङ्काराज्ये विभीषणः ॥ ७० ॥

सीताशुद्धिस्तृतीयायां देवेभ्यो वरलम्भनम्
हत्वा चिरेण लङ्केशं लक्ष्मणाग्रज एव सः ॥ ७१ ॥

गृहीत्वा जानकीं पुण्यां दुःखितां राक्षसेन तु
आदाय परया प्रीत्या जानकीं स न्यवर्तत ॥ ७२ ॥

वैशाखस्य चतुर्थ्यां तु रामः पुष्पकमाश्रितः
विहायसा निवृत्तस्तु भूयोऽयोध्यां पुरीं प्रति ॥ ७३ ॥

पूर्णे चतुर्दशे वर्षे पञ्चम्यां माधवस्य तु
भरद्वाजाश्रमे रामः सगणः समुपाविशत् ॥ ७४ ॥

नन्दिग्रामे तु षष्ठ्यां स भरतेन समागतः
सप्तम्यामभिषिक्तोऽसावयोध्यायां रघूद्वहः ॥ ७५ ॥

दशैकाधिकमासांस्तुचतुर्दशाहानि मैथिली
उवास राम रहिता रावणस्य निवेशने ॥ ७६ ॥
मूलम्
दशैकाधिकमासांस्तुचतुर्दशाहानि मैथिली
उवास राम रहिता रावणस्य निवेशने ॥ ७६ ॥
विश्वास-प्रस्तुतिः
द्विचत्वारिंशक वर्षे रामो राज्यमकारयत्
सीतायाश्च त्रयस्त्रिंशद्वत्सराश्च तदाभवन् ॥ ७७ ॥

स चतुर्दशवर्षान्ते प्रविश्य च पुरीं प्रभुः
अयोध्यां मुदितो रामो हत्वा रावणमाहवे ॥ ७८ ॥

भ्रातृभिः सहितस्तत्र रामो राज्यमथाकरोत्
राज्यं प्रकुर्वतस्तस्य पुरोधा वदतां वरः ॥ ७९ ॥

अगस्त्यः कुम्भसम्भूतिस्तमागन्ता रघोः पतिम्
तद्वाक्याद्रघुनाथोऽसौ करिष्यति हयक्रतुम् ॥ ८० ॥

तस्यागमिष्यति हयो ह्याश्रमे तव सुव्रत
तस्य योधाः प्रमुदिता आयास्यन्ति तवाश्रमम् ॥ ८१ ॥

तेषामग्रे रामकथाः करिष्यसि मनोहराः
तैः साकं त्वमयोध्यायां गन्तासि वै द्विजर्षभ ॥ ८२ ॥

दृष्ट्वा राममयोध्यायां पद्मपत्रनिभेक्षणम्
तत्क्षणादेव संसारवार्धिनिस्तारवान्भव ॥ ८३ ॥

इत्युक्त्वा मां मुनिवरो लोमशः सर्वबुद्धिमान्
उवाच ते किं प्रष्टव्यं तदाहमवदं हि तम् ॥ ८४ ॥

ज्ञातं त्वत्कृपया सर्वं रामचारित्रमद्भुतम्
त्वत्प्रसादादवाप्स्येऽहं रामस्य चरणाम्बुजम् ॥ ८५ ॥

मया नमस्कृतः पश्चाज्जगाम स मुनीश्वरः
तत्प्रसादान्मयावाप्तं रामस्य चरणार्चनम् ॥ ८६ ॥

सोऽहं स्मरामि रामस्य चरणावन्वहं मुहुः
गायामि तस्य चरितं मुहुर्मुहुरतन्द्रितः ॥ ८७ ॥

पावयामि जनानन्यान्गानेन स्वान्तहारिणा
हृष्यामि तन्मुनेर्वाक्यं स्मारंस्मारं तदीक्षया ॥ ८८ ॥

धन्योऽहं कृतकृत्योऽहं सभाग्योऽहं महीतले
रामचन्द्र पदाम्भोज दिदृक्षा मे भविष्यति ॥ ८९ ॥

तस्मात्सर्वात्मना रामो भजनीयो मनोहरः
वन्दनीयो हि सर्वेषां संसाराब्धितितीर्षया ॥ ९० ॥

तस्माद्यूयं किमर्थं वै प्राप्ताः को वानराधिपः
यागं करोति धर्मात्मा हयमेधं महाक्रतुम् ॥ ९१ ॥

तत्सर्वं कथयन्त्वत्र यां तु वाहस्य पालने
स्मरन्तु रघुनाथाङ्घ्रिं स्मृत्वा स्मृत्वा पुनः पुनः ॥ ९२ ॥

इति वाक्यं समाकर्ण्य मुनेर्विस्मयमागताः
रघुनाथं स्मरन्तस्ते प्रोचुरारण्यकं मुनिम् ॥ ९३ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे लोम-
शारण्यकसंवादे रामचरित्रकथनन्नाम षट्त्रिंशत्तमोऽध्यायः ३६