शेष उवाच
विश्वास-प्रस्तुतिः
प्राप्य तं वाजिनं राजा शत्रुघ्नो राक्षसैर्हृतम्
अत्यन्तं हर्षमापेदे पुष्कलेन समन्वितः ॥ १ ॥
मूलम्

रुधिरैः सिक्तगात्रास्ते योधा लक्ष्मीनिधिस्तथा
रणोत्साहेन संयुक्तं प्रशशंसुर्महानृपम् ॥ २ ॥

हते तस्मिन्महादैत्ये विद्युन्मालिनि दुर्जये
सुराः सर्वे भयं त्यक्त्वा सुखमापुर्मुनेमहत् ॥ ३ ॥

नद्यस्तु विमला जाता रविस्तु विमलोऽभवत्
वाता ववुः सुगन्धोद सिक्ता विमलशुष्मिणः ॥ ४ ॥

सन्नद्धास्ते महावीरा रथस्था विमलाङ्गकाः
राजानमूचुस्ते सर्वे जयलक्ष्म्या समन्विताः ॥ ५ ॥

वीरा ऊचुः
दिष्ट्या हतस्त्वया दैत्यो विद्युन्माली महामते
यद्भयात्त्रासमापन्नाः सुराः स्वर्गान्निराकृताः ॥ ६ ॥

दिष्ट्या प्राप्तो महावाजी रघुनाथस्य शोभनः
दिष्ट्या गन्तासि सर्वत्र जयं तु क्षितिमण्डले ॥ ७ ॥

स्वामिन्मुञ्चत्विमं वाहं मनोवेगं मनोरमम्
समयस्य विलम्बो मा भवत्वत्र महामते ॥ ८ ॥

इति श्रुत्वा तु तद्वाक्यं वीराणां समयोचितम्
साधु साधु प्रशस्यैतान्मुमोच हयसत्तमम् ॥ ९ ॥

स मुक्तश्चोत्तरामाशां बभ्रामाथ सुरक्षितः
रथपत्तिहयश्रेष्ठैः सर्वशस्त्रास्त्रकोविदैः ॥ १० ॥

तत्र यद्वृत्तमेतस्य शत्रुघ्नस्य मनोहरम्
वात्स्यायन शृणुष्वैतत्पापराशिप्रदाहकम् ॥ ११ ॥

रेवातीरमथ प्राप्तो मुनिवृन्दनिषेवितम्
नीलरत्नसमूहस्य रसः किं तु पयो मिषात् ॥ १२ ॥

तांस्तान्मुनिवरान्सर्वान्प्रणमञ्छूरसेवितः
जगाम हयरत्नस्य पृष्ठतः कामगामिनः ॥ १३ ॥

गच्छंस्तत्राश्रमं जीर्णं पलाशपर्णनिर्मितम्
रेवायाजलकल्लोलैः सिक्तं पापहराश्रयम् ॥ १४ ॥

तं दृष्ट्वा सुमतिं प्राह सर्वज्ञं नयकोविदम्
शत्रुघ्नः सर्वधर्मार्थकर्मकर्तव्यकोविदः ॥ १५ ॥

राजोवाच
मन्त्रिन्कथय कस्यायमाश्रमः पुण्यदर्शनः
विचारचतुरश्रेष्ठ वदैतन्मम पृच्छतः ॥ १६ ॥

इति वाक्यं समाकर्ण्य सुमतिः प्राह तं नृपम्
विशद स्मेरया वाचा दर्शयन्नात्मसौहृदम् ॥ १७ ॥

सुमतिरुवाच
एनं दृष्ट्वा महाराज धूतपापा वयं खलु
भविष्यामो मुनिश्रेष्ठं सर्वशास्त्रपरायणम् ॥ १८ ॥

तस्मान्नत्वा तमापृच्छ सर्वं ते कथयिष्यति
रघुनाथपदाम्भोजमकरन्दाति लोलुपः ॥ १९ ॥

नाम्ना त्वारण्यकं ख्यातं रघुनाथाङ्घ्रिसेवकम्
अत्युग्रतपसा पूर्णं सर्वशास्त्रार्थकोविदम् ॥ २० ॥

इति श्रुत्वा तु तद्वाक्यं धर्मार्थपरिबृंहितम्
जगाम तमथो द्रष्टुं स्वल्पसेवकसंयुतः ॥ २१ ॥

हनूमान्पुष्कलो वीरः सुमतिर्मन्त्रिसत्तमः
लक्ष्मीनिधिः प्रतापाग्र्यः सुबाहुः सुमदस्तथा ॥ २२ ॥

एतैः परिवृतो राजा शत्रुघ्नः प्रापदाश्रमम्
नमस्कर्तुं द्विजवरमारण्यकमुदारधीः ॥ २३ ॥

गत्वा तं तापसश्रेष्ठं नमस्कारमथाकरोत्
सर्वैस्तैः सहितो वीरैर्विनयानतकन्धरैः ॥ २४ ॥

तान्दृष्ट्वा सन्नतान्सर्वाञ्छत्रुघ्नप्रमुखान्नृपान्
अर्घ्यपाद्यादिकं चक्रे फलमूलादिभिस्तदा ॥ २५ ॥

उवाच तान्नृपान्सर्वान्भवन्तः कुत्र सङ्गताः
कथमत्र समायातास्तत्सर्वं वदतानघाः ॥ २६ ॥

तच्छ्रुत्वा वाक्यमेतस्य मुनिवर्यस्य वाडव
सुमतिः कथयामास वाक्यं वादविचक्षणः ॥ २७ ॥

रघुवंशनृपस्यायमश्वो वै पाल्यतेऽखिलैः
यागं करिष्यते वीरः सर्वसम्भारसम्भृतम् ॥ २८ ॥

तच्छ्रुत्वा वचनं तेषां जगाद मुनिसत्तमः
दन्तकान्त्याखिलं घोरं तमोनिर्वारयन्निव ॥ २९ ॥

आरण्यक उवाच
किं यागैर्विविधैरन्यैः सर्वसम्भारसम्भृतैः
स्वल्पपुण्यप्रदैर्नूनं क्षयिष्णुपददातृभिः ॥ ३० ॥

मूढो लोको हरिं त्यक्त्वा करोत्यन्यसमर्चनम्
रघुवीरं रमानाथं स्थिरैश्वर्यपदप्रदम् ॥ ३१ ॥

यो नरैः स्मृतमात्रोपि हरते पापपर्वतम्
तं मुक्त्वा क्लिश्यते मूढो यागयोगव्रतादिभिः ॥ ३२ ॥

अहो पश्यत मूढत्वं लोकानामतिवञ्चितम्
सुलभं रामभजनं मुक्त्वा दुर्ल्लभमाचरेत् ॥ ३३ ॥

सकामैर्योगिभिर्वापि चिन्त्यते कामवर्जितैः
अपवर्गप्रदं नॄणां स्मृतमात्राखिलाघहम् ॥ ३४ ॥

पुराहं तत्त्ववित्सायां ज्ञानिनं सुविचारयन्
अगमं बहुतीर्थानि तत्त्वं कोपि न मेऽदिशत् ॥ ३५ ॥

तदैकं हि महद्भाग्यात्प्राप्तं वै लोमशं मुनिम्
स्वर्गलोकात्समायातं तीर्थयात्राचिकीर्षया ॥ ३६ ॥

तमहं प्रणिपत्याथ पर्यपृच्छं महामुनिम्
महायुषं महायोगिसंसेवितपदद्वयम् ॥ ३७ ॥
मूलम्
तमहं प्रणिपत्याथ पर्यपृच्छं महामुनिम्
महायुषं महायोगिसंसेवितपदद्वयम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
स्वामिन्मयाद्य मानुष्यं प्राप्तमद्भुतदुर्ल्लभम्
संसारघोरजलधिं किं कर्तव्यं तितीर्षुणा ॥ ३८ ॥

विचार्य कथय त्वं तद्व्रतं दानं जपो मखः
देवो वा विद्यते यो वै संसृत्यम्भोधितारकः ॥ ३९ ॥

यज्ज्ञात्वा संसृतिं घोरां तरामि त्वत्कृपाब्धितः
तन्मे कथय योगेश सर्वशास्त्रार्थपारग ॥ ४० ॥

इति मद्वाक्यमाकर्ण्य जगाद मुनिसत्तमः
शृणुष्वैकमना विप्र श्रद्धया परया युतः ॥ ४१ ॥

सन्ति दानानि तीर्थानि व्रतानि नियमा यमाः
योगा यज्ञास्तथानेके वर्तन्ते स्वर्गदायकाः ॥ ४२ ॥

परं गुह्यं प्रवक्ष्यामि सर्वपापप्रणाशनम्
तच्छृणुष्व महाभाग संसाराम्भोधितारकम् ॥ ४३ ॥

नास्तिकाय न वक्तव्यं न चाऽश्रद्धालवे पुनः
निन्दकाय शठायापि न देयं भक्तिवैरिणे ॥ ४४ ॥

रामभक्ताय शान्ताय कामक्रोधवियोगिने
वक्तव्यं सर्वदुःखस्य नाशकारकमुत्तमम् ॥ ४५ ॥

रामान्नास्ति परो देवो रामान्नास्ति परं व्रतम्
न हि रामात्परो योगो न हि रामात्परो मखः ॥ ४६ ॥

तं स्मृत्वा चैव जप्त्वा च पूजयित्वा नरः परम्
प्राप्नोति परमामृद्धिमैहिकामुष्मिकीं तथा ॥ ४७ ॥

संस्मृतो मनसा ध्यातः सर्वकामफलप्रदः
ददाति परमां भक्तिं संसाराम्भोधितारिणीम् ॥ ४८ ॥

श्वपाकोपि हि संस्मृत्य रामं याति परां गतिम्
ये वेदशास्त्रनिरतास्त्वादृशास्तत्र किं पुनः ॥ ४९ ॥

सर्वेषां वेदशास्त्राणां रहस्यं ते प्रकाशितम्
समाचर तथा त्वं वै यथा स्यात्ते मनीषितम् ॥ ५० ॥

एको देवो रामचन्द्रो व्रतमेकं तदर्चनम्
मन्त्रोऽप्येकश्च तन्नाम शास्त्रं तद्ध्येव तत्स्तुतिः ॥ ५१ ॥

तस्मात्सर्वात्मना रामचन्द्रं भजमनोहरम्
यथा गोष्पदवत्तुच्छो भवेत्संसारसागरः ॥ ५२ ॥

श्रुत्वा मया तु तद्वाक्यं पुनः प्रश्नमकारिषम्
कथं वा ध्यायते देवः कथं वा पूज्यते नरैः ॥ ५३ ॥

कथयस्व महाबुद्धे सर्वज्ञ मम विस्तरात्
यज्ज्ञात्वाहं कृतार्थः स्यां त्रिलोक्यां मुनिसत्तम ॥ ५४ ॥

एतच्छ्रुत्वा तु मद्वाक्यं विचार्य स तु लोमशः
कथयामास मे सर्वं रामध्यानपुरःसरम् ॥ ५५ ॥

शृणु विप्रेन्द्र वक्ष्यामि यत्पृष्टं तु त्वयानघ
यथा तुष्येद्रमानाथः संसारज्वरदाहकः ॥ ५६ ॥

अयोध्यानगरे रम्ये चित्रमण्डपशोभिते
ध्यायेत्कल्पतरोर्मूले सर्वकामसमृद्धिदे ॥ ५७ ॥

महामरकतस्वर्णनीलरत्नादिशोभितम्
सिंहासनं चित्तहरं कान्त्या तामिस्रनाशनम् ॥ ५८ ॥

तस्योपरि समासीनं रघुराजं मनोरमम्
दूर्वादलश्यामतनुं देवदेवेन्द्रपूजितम् ॥ ५९ ॥

राकायां पूर्णशीतांशुकान्तिधिक्कारिवक्त्रिणम्
अष्टमीचन्द्रशकलसमभालाधिधारिणम् ॥ ६० ॥

नीलकुन्तलशोभाढ्यं किरीटमणिरञ्जितम्
मकराकारसौन्दर्यकुण्डलाभ्यां विराजितम् ॥ ६१ ॥

विद्रुमच्छवि सत्कान्तिरदच्छदविराजितम्
तारापतिकराकार द्विजराजि सुशोभितम् ॥ ६२ ॥

जपापुष्पाभया माध्व्या जिह्वया शोभिताननम्
यस्यां वसन्ति निगमा ऋगाद्याः शास्त्रसंयुताः ॥ ६३ ॥

कम्बुकान्तिधरग्रीवा शोभया समलङ्कृतम्
सिंहवदुच्चकौ स्कन्धौ मांसलौ बिभ्रतं वरम् ॥ ६४ ॥

बाहू दधानं दीर्घाङ्गौ केयूरकटकाङ्कितौ
मुद्रिकाहीरशोभाभिर्भूषितौ जानुलम्बिनौ ॥ ६५ ॥

वक्षो दधानं विपुलं लक्ष्मीवासेन शोभितम्
श्रीवत्सादिविचित्राङ्कैरङ्कितं सुमनोहरम् ॥ ६६ ॥

महोदरं महानाभिं शुभकट्याविराजितम्
काञ्च्या वै मणिमत्या च विशेषेण श्रियान्वितम् ॥ ६७ ॥

ऊरुभ्यां विमलाभ्यां वै जानुभ्यां शोभितं श्रिया
चरणाभ्यां वज्ररेखा यवाङ्कुशसुरेखया ॥ ६८ ॥

युताभ्यां योगिध्येयाभ्यां कोमलाभ्यां विराजितम्
ध्यात्वा स्मृत्वा च संसारसागरं त्वं तरिष्यसि ॥ ६९ ॥

तमेव पूजयन्नित्यं चन्दनादिभिरिच्छया
प्राप्नोति परमामृद्धिमैहिकामुष्मिकीं पराम् ॥ ७० ॥

त्वया पृष्टं महाराज रामस्य ध्यानमुत्तमम्
तत्ते कथितमेतद्वै संसारजलधिं तर ॥ ७१ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे आरण्यको
पाख्याने लोमशारण्यकसंवादोनाम पञ्चत्रिंशत्तमोऽध्यायः ३५