०३४

शेष उवाच

विश्वास-प्रस्तुतिः

रथैः सदश्वैः शोभाढ्यैः सर्वशस्त्रास्त्रपूरितैः
नानारत्नसमायुक्तैर्ययुस्ते राक्षसाधमम् ॥ १ ॥

मूलम्

तान्दृष्ट्वा कामगे याने स्थितः प्रोवाच राक्षसः
मेघगम्भीरया वाचा तर्जयन्निव भूरिशः ॥ २ ॥

मायां तु सुभटा योद्धुं गच्छन्तु निजमन्दिरम्
मा त्यजन्तु स्वकान्प्राणान्न मोक्ष्ये वाजिनं वरम् ॥ ३ ॥

विद्युन्मालीति विख्यातो रावणस्य सुहृत्सखा
मत्सख्युः प्रेतभूतस्य निष्कृतिं कर्तुमेयिवान् ॥ ४ ॥

क्वासौ रामो य आहत्य सखायं रावणं गतः
तस्य भ्रातापि कुत्रास्ते सर्वशूरशिरोमणिः ॥ ५ ॥

तं हत्वा निष्कृतिं तस्य प्राप्स्ये रामस्य चानुजम्
पिबन्रुधिरमुद्भूतं कण्ठनालस्य बुद्बुदैः ॥ ६ ॥

इति वाक्यं समाकर्ण्य योधानां प्रवरोत्तमः
पुष्कलो निजगादैनं वीर्यशौर्यसमन्वितम् ॥ ७ ॥

पुष्कल उवाच
विकत्थनं न कुर्वन्ति सङ्ग्रामे सुभटा नराः
पराक्रमं दर्शयन्ति निजशस्त्रास्त्रवर्षणैः ॥ ८ ॥

रावणो निहतो येन ससुहृत्स्वजनैर्वृतः
तस्य वाजिनमाहृत्य कुत्र गन्तासि दुर्मद ॥ ९ ॥

पतिष्यसि त्वं शत्रुघ्नबाणैः कोदण्डनिर्गतैः
त्वामत्स्यन्ति शिवा भूमौ पतितं प्राणवर्जितम् ॥ १० ॥

मा गर्ज दुष्ट रामस्य सेवके मयि संस्थिते
गर्जन्ति सुभटा युद्धे शत्रुं जित्वा महोदयात् ॥ ११ ॥

एवं ब्रुवन्तं तं वीरं पुष्कलं रणदुर्मदम्
जघान शक्त्या सुभृशं हृदि राक्षससत्तमः ॥ १२ ॥

आयान्तीं तां महाशक्तिमायसीं काञ्चनाश्रिताम्
चिच्छेद त्रिभिरत्युग्रैः शितैर्बाणैः स पुष्कलः ॥ १३ ॥

सा त्रिधा ह्यपतद्भूमौ विशिखैर्निष्प्रभीकृता
पतन्ती विरराजासौ विष्णोः शक्तित्रयीव किम् ॥ १४ ॥

तां छिन्नां शक्तिकां दृष्ट्वा राक्षसः परतापनः
जग्राह शूलं तरसा त्रिशिखं लोहनिर्मितम् ॥ १५ ॥

तीक्ष्णाग्रं ज्वलनप्रख्यं राक्षसेन्द्रो व्यमोचयत्
आयान्तं तिलशश्चक्रे बाणैः पुष्कलसञ्ज्ञितः ॥ १६ ॥

छित्त्वा त्रिशूलं तरसा राघवस्य हि सेवकः
पुष्कलश्चाप आधत्त बाणांस्तीक्ष्णान्मनोजवान् ॥ १७ ॥

ते बाणा हृदि तस्याशु लग्ना रागं बतासृजन्
वैष्णवस्य यथा स्वान्ते गुणा विष्णोर्मनोहराः ॥ १८ ॥

तद्बाणवेधदुःखार्तो विद्युन्माली सुदुर्मदः
जग्राह मुद्गरं घोरं पुष्कलं हन्तुमुद्यतः ॥ १९ ॥

मुद्गरः प्रहितस्तेन विद्युन्माल्यभिधेन हि
हृदि लग्नोसृजच्छीघ्रं कश्मलं तदकारयत् ॥ २० ॥

मुद्गरप्रहतो वीरः कम्पमानः सवेपथुः
पपात स्यन्दनोपस्थे पुष्कलः शत्रुतापनः ॥ २१ ॥

उग्रदंष्ट्रोऽथ तद्भ्राता लक्ष्मीनिधिमयोधयत्
शस्त्रास्त्रैर्बहुधा मुक्तैर्वीरप्राणहृतिङ्करैः ॥ २२ ॥

पुष्कलस्तत्क्षणात्प्राप्य सञ्ज्ञां राक्षसमब्रवीत्
धन्योसि राक्षसश्रेष्ठ महीयांस्ते पराक्रमः ॥ २३ ॥

पश्येदानीं ममाप्युच्चैः प्रतिज्ञां शूरमानिताम्
विमानात्पातयाम्यद्य भूमौ त्वां शितसायकैः ॥ २४ ॥

इत्युक्त्वा निशितं बाणं समगृह्णाद्दुरासदम्
ज्वलन्तमग्नितेजस्कं महौदार्यसमन्वितम् ॥ २५ ॥

स यावत्तत्प्रतीकर्तुं विधत्ते स्वपराक्रमम्
तावद्धृदिगतोऽत्युग्रस्तीक्ष्णधारः ससायकः ॥ २६ ॥

तेन बाणेन विभ्रान्तो भ्रमच्चित्तः स राक्षसः
पपात कामगोपस्थाद्भूमौ विगतचेतनः ॥ २७ ॥

उग्रदंष्ट्रेण वै दृष्टः पतमानो निजाग्रजः
गृहीत्वा तं विमानान्तर्निनाय रिपुशङ्कितः ॥ २८ ॥

प्राह चारिं महारोषात्पुष्कलं बलिनां वरम्
मद्भ्रातरं पातयित्वा कुत्र यास्यसि दुर्मते ॥ २९ ॥

मां वै युधि विनिर्जित्य गन्तासि जयमुत्तमम्
स्थिते मयि तव स्वान्ते जयाशा विनिवर्त्य ताम् ॥ ३० ॥

एवं ब्रुवन्तं तरसा जघान दशभिः शरैः
हृदये तस्य दुष्टस्य रोषपूरितलोचनः ॥ ३१ ॥

स ताडितो दशशरैः पुष्कलेन महात्मना
चुक्रोध हृदि दुर्बुद्धिस्तं हन्तुमुपचक्रमे ॥ ३२ ॥

दन्तान्निष्पिष्य सक्रोधो मुष्टिमुद्यम्य चाहनत्
व्यनदद्वज्रनिर्घातपातशङ्कां सृजन्हृदि ॥ ३३ ॥

मुष्टिनाभिहतो वीरः पुष्कलः परमास्त्रवित्
नाकम्पत विनिष्पेषं वाञ्छंस्तस्य दुरात्मनः ॥ ३४ ॥

वत्सदन्तान्महातीक्ष्णान्मुमोच हृदि सायकान्
तैर्बाणैर्व्यथितो दैत्यस्त्रिशूलं तु समाददे ॥ ३५ ॥

जाज्वल्यमानं त्रिशिखं ज्वालामालातिभीषणम्
लग्नं हृदि महावीर पुष्कलस्य तु दारुणम् ॥ ३६ ॥

मूर्च्छितस्तेन शूलेन निहतो धन्विसत्तमः
कश्मलं परमं प्राप्तः पपात स्यन्दनोपरि ॥ ३७ ॥

मूर्च्छां प्राप्तं तमाज्ञाय हनूमान्पवनात्मजः
कोपव्याकुलितस्वान्तो बभाषे तं तु राक्षसम् ॥ ३८ ॥

कुत्र गच्छसि दुर्बुद्धे मयि योद्धरि संस्थिते
त्वां हन्मि चरणाघातैर्वाजिहर्तारमागतम् ॥ ३९ ॥

एवमुक्त्वा महादैत्याञ्जघान परसैनिकान्
विमानस्थान्नखाग्रेण दारयन्नभसि स्थितः ॥ ४० ॥

लाङ्गूलेनाहताः केचित्केचित्पादतला हताः
बाहुभ्यां दारिताः केचित्पवनस्य तनूभुवा ॥ ४१ ॥

नश्यन्ति केचिन्निहताः केचिन्मूर्च्छन्ति संहताः
पलायन्ते पदाघातभयपीडाहतास्ततः ॥ ४२ ॥

अनेके निहतास्तत्र राक्षसाश्चातिदारुणाः
छिन्ना भिन्ना द्विधा जाताः पवनस्य सुतेन वै ॥ ४३ ॥

कामगन्तुविमानं तद्भिन्नप्राकारतोरणम्
हाहा कुर्वद्भिरसुरैः समन्तात्परिवारितम् ॥ ४४ ॥

हनूमति महाशूरे क्षणं भूमौ क्षणं दिवि
इतस्ततः प्रदृश्येत कामयानं दुरासदम् ॥ ४५ ॥

यत्रयत्र विमानं तत्तत्रतत्र समीरजः
प्रहरन्नेव दृश्येत कामरूपधरः कपिः ॥ ४६ ॥

एवं तदाकुलीभूते विमानस्थे महाजने
उग्रदंष्ट्रस्तु दैत्येन्द्रो हनूमन्तमुपेयिवान् ॥ ४७ ॥

कपे त्वया महत्कर्म कृतं यद्भटपातनम्
क्षणं तिष्ठसि चेत्कुर्वे तव प्राणवियोजनम् ॥ ४८ ॥

एवमुक्त्वा हनूमन्तं प्रजघान स दुर्मतिः
त्रिशूलेन सुतीक्ष्णेन ज्वलत्पावककान्तिना ॥ ४९ ॥

तदागतं त्रिशूलं च मुखे जग्राह वीर्यवान्
चूर्णयामास सकलं सर्वलोहविनिर्मितम् ॥ ५० ॥

चूर्णयित्वा त्रिशूलं तदायसं दैत्यमोचितम्
जघान तं चपेटाभिर्बह्वीभिर्हनुमान्बली ॥ ५१ ॥

स आहतः कपीन्द्रेण चपेटाभिरितस्ततः
व्यथितो व्यसृजन्मायां सर्वलोकभयङ्करीम् ॥ ५२ ॥

तदा तमोभवत्तीव्रं यत्र को वा न लक्ष्यते
यत्र स्वीयो न पारक्यो विदामास जनान्बहून् ॥ ५३ ॥

शिलाः पर्वतशृङ्गाभाः पतन्ति सुभटोपरि
ताभिर्हतास्तु ते सर्वे व्याकुला अथ जज्ञिरे ॥ ५४ ॥

विद्युतो विलसन्त्यत्र गर्जन्ति जलदा घनम्
वर्षन्ति पूयरुधिरं मुञ्चन्ति समलं जलम् ॥ ५५ ॥

आकाशात्पतमानानि कबन्धानि बहूनि च
दृश्यन्ते छिन्नशीर्षाणि सकुण्डलयुतानि च ॥ ५६ ॥

नग्ना विरूपाः सुभृशं कीर्णकेशाः सुदुर्मुखाः
दृश्यन्ते सर्वतो दैत्या दारुणा भयकारिणः ॥ ५७ ॥

तदा व्याकुलिता लोकाः परस्परभयाकुलाः
पलायनपरा जाता महोत्पातममंसत ॥ ५८ ॥

मूलम्

तदा व्याकुलिता लोकाः परस्परभयाकुलाः
पलायनपरा जाता महोत्पातममंसत ॥ ५८ ॥

विश्वास-प्रस्तुतिः

तदा शत्रुघ्न आयातो रथे स्थित्वा महायशाः
श्रीरामस्मरणं कृत्वा चापे सन्धाय सायकान् ॥ ५९ ॥

तां मायां स विधूयाथ मोहनास्त्रेण वीर्यवान्
शरधाराः किरन्व्योम्नि ववर्ष समरेसुरम् ॥ ६० ॥

तदादिशः प्रसेदुस्ता रविस्त्वपरिवेषवान्
मेघा यथागतं याता विद्युतः शान्तिमागताः ॥ ६१ ॥

तदा विमानं पुरतो दृश्यते राक्षसैर्युतम्
छिन्धि भिन्धीति भाषाभिर्व्याकुलं सुतरां महत् ॥ ६२ ॥

बाणाश्च शतसाहस्राः स्वर्णपुङ्खैश्च शोभिताः
पेतुर्विमाने नभसि स्थिते कामगमे मुहुः ॥ ६३ ॥

तदा भग्नं विमानं हि दृश्यते न तदुच्चकैः
स्वपुरी खण्डमेकत्र भग्नाङ्गमिव भूतले ॥ ६४ ॥

तदा प्रकुपितो दैत्यो बाणान्धनुषि सन्दधे
तैर्बाणैर्विकिरन्रामभ्रातरं चाभिगर्जितः ॥ ६५ ॥

ते बाणाः शतशस्तस्य लग्ना वपुषि भूरिशः
शोभामापुः शोणितौघान्वहन्तस्तीक्ष्णवक्त्रिणः ॥ ६६ ॥

शत्रुघ्नः परया शक्त्या संयुक्तो वायुदैवतम्
अस्त्रं धनुषि चाधत्त राक्षसानां प्रकम्पनम् ॥ ६७ ॥

तेनास्त्रेण विमानात्खात्पतन्तो मुक्तमूर्धजाः
दृश्यन्ते भूतवेतालसङ्घा इव नभश्चराः ॥ ६८ ॥

तदस्त्रं रघुनाथस्य भ्रात्रा मुक्तं विलोक्य सः
अस्त्रं च पाशुपत्यं स चापे धाद्दनुजात्मजः ॥ ६९ ॥

ततः प्रवृत्ता वेताला भूताः प्रेतनिशाचराः
कपालकर्तरीयुक्ताः पिबन्तः शोणितं बहु ॥ ७० ॥

ते वै शत्रुघ्नवीराणां रुधिराणि पपुर्मुदा
जीवतामपि दुर्वाराः कर्तरीपाणिशोभिताः ॥ ७१ ॥

तदस्त्रं व्याप्नुवद्दृष्ट्वा सर्ववीरप्रभञ्जनम्
मुमोच तन्निरासाय चास्त्रं नारायणाभिधम् ॥ ७२ ॥

नारायणास्त्रं तान्सर्वान्वारयामास तत्क्षणात्
ते सर्वे विलयं प्रापुर्निशाचरप्रणोदिताः ॥ ७३ ॥

तदा क्रुद्धो निशाचारी विद्युन्माली समाददे
त्रिशूलं निशितं घोरं शत्रुघ्नं हन्तुमुल्बणम् ॥ ७४ ॥

शूलहस्तं समायान्तं विद्युन्मालिनमाहवे
सायकैः प्राहरत्तस्य भुजे त्वर्धशशिप्रभैः ॥ ७५ ॥

तैर्बाणैश्छिन्नहस्तः स शिरसा हन्तुमुद्यतः
हतोसि याहि शत्रुघ्न कस्त्वां त्राता भविष्यति ॥ ७६ ॥

इति ब्रुवाणं तरसा चिच्छेद शितसायकैः
मस्तकं तस्य बलिनः शूरस्य सह कुण्डलम् ॥ ७७ ॥

तं छिन्नशिरसं दृष्ट्वा उग्रदंष्ट्रः प्रतापवान्
मुष्टिना हन्तुमारेभे शत्रुघ्नं शूरसेवितम् ॥ ७८ ॥

शत्रुघ्नस्तु क्षुरप्रेण सायकेनाच्छिनच्छिरः
प्रधावतो रणे वीरान्सर्वशस्त्रास्त्रकोविदान् ॥ ७९ ॥

हतशेषा ययुः सर्वे राक्षसा नाथवर्जिताः
शत्रुघ्नं प्रणिपत्याथ ददुर्वाजिनमाहृतम् ॥ ८० ॥

ततो वीणानिनादाश्च शङ्खनादाः समन्ततः
श्रूयन्ते शूरवीराणां जयनादा मनोहराः ॥ ८१ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे विद्युन्मा-
लिनामराक्षसपराजयोनाम चतुस्त्रिंशत्तमोऽध्यायः ३४