०३३

शेष उवाच

विश्वास-प्रस्तुतिः

गच्छत्सु रथिवर्येषु शत्रुघ्नादिषु भूरिषु
महाराजेषु सर्वेषु रथकोटियुतेषु च ॥ १ ॥

मूलम्

अकस्मादभवन्मार्गे तमः परमदारुणम्
यस्मिन्स्वीयो न पारक्यो लक्ष्यते ज्ञातिभिर्नरैः ॥ २ ॥

रजसा व्यावृतं व्योम विद्युत्स्तनितसङ्कुलम्
एतादृशे तु सम्मर्दे महाभयकरे ततः ॥ ३ ॥

मेघा वर्षन्ति रुधिरं पूयामेध्यादिकं बहु
अत्याकुला बभूवुस्ते वीराः परमवैरिणः ॥ ४ ॥

आकुलीकृतलोके तु किमिदं किमिति स्थितिः
तमोव्याप्तानि लोकानां चक्षूंषि प्रथितौजसाम् ॥ ५ ॥

जहाराश्वं रावणस्य सुहृत्पातालसंस्थितः
विद्युन्मालीति विख्यातो राक्षसश्रेणिसंवृतः ॥ ६ ॥

कामगे सुविमाने तु सर्वायसनिषेविणि
आरूढोऽश्वं तु वीराणां भयं कुर्वञ्जहार ह ॥ ७ ॥

मुहूर्तात्तत्तमो नष्टमाकाशं विमलं बभौ
वीराः शत्रुघ्नमुख्यास्ते प्रोचुः कुत्र हयोऽस्ति सः ॥ ८ ॥

ते सर्वे हयराजं तु लोकयन्तः परस्परम्
ददृशुर्न यदा वाहं हाहाकारस्तदाभवत् ॥ ९ ॥

कुत्राश्वो हयमेधस्य केन नीतः कुबुद्धिना
इति वाचमवोचंस्ते तावत्स दनुजेश्वरः ॥ १० ॥

ददृशे सुभटैः सर्वै रथस्थैः शौर्यशोभितैः
विमानवरमारूढै राक्षसाग्र्यैः समावृतः ॥ ११ ॥

दुमुर्खा विकरालास्या लम्बदंष्ट्रा भयानकाः
राक्षसास्तत्र दृश्यन्ते सैन्यग्रासाय चोद्यताः ॥ १२ ॥

तदा तं वेदयामासुः शत्रुघ्नं नृवरोत्तमम्
हयो नीतो न जानीमः खे विमानविलासिना ॥ १३ ॥

तमसा व्याकुलान्कृत्वा वीरानस्मान्समाययौ
जग्राह नृपशार्दूल हयं कुरु यथोचितम् ॥ १४ ॥

शत्रुघ्नस्तद्वचः श्रुत्वा महारोषसमावृतः
कोऽस्त्येष राक्षसो यो मे हयं जग्राह वीर्यवान् ॥ १५ ॥

विमानं तत्पतत्वद्य मद्बाणव्रजनिर्हतम्
पतत्वद्य शिरस्तस्य क्षुरप्रैर्मम वैरिणः ॥ १६ ॥

सज्जीयन्तां रथाः सर्वैर्महाशस्त्रास्त्रपूरिताः
यान्तु तं प्रतिसंहर्तुं योद्धारो वाजिहारिणम् ॥ १७ ॥

इत्युक्त्वा रोषताम्राक्ष उवाच निजमन्त्रिणम्
नयानयविदं शूरं युद्धकार्यविशारदम् ॥ १८ ॥

शत्रुघ्न उवाच
मन्त्रिन्कथय के योज्या राक्षसस्य वधोद्यताः
महाशस्त्रा महाशूराः परमास्त्रविदुत्तमाः ॥ १९ ॥

कथयाशु विचार्यैवं तत्करोमि भवद्वचः
वीरान्कथय तस्यैवं योग्यान्सर्वास्त्रकोविदान् ॥ २० ॥

एतच्छ्रुत्वा तु सचिवः प्राह वाक्यं यथोचितम्
वीरान्रणवरे योग्यान्दर्शयंस्तरसा नतान् ॥ २१ ॥

सुमतिरुवाच
जेतुं गच्छतु तद्रक्षः समरे विजयोद्यतः
महाशस्त्रास्त्रसंयुक्तः पुष्कलः परतापनः ॥ २२ ॥

तथा लक्ष्मीनिधिर्यातु शस्त्रसङ्घसमन्वितः
करोतु तस्य यानस्य भङ्गं तीक्ष्णैः स्वसायकैः ॥ २३ ॥

हनूमान्धृष्टकर्मात्र राक्षसैर्योधितुं क्षमः
करोतु मुखपुच्छाभ्यां ताडनं रक्षसां प्रभो ॥ २४ ॥

वानरा अपि ये वीरा रणकर्मविशारदाः
गच्छन्तु तेऽखिला योद्धुं तववाक्यप्रणोदिताः ॥ २५ ॥

सुमदश्च सुबाहुश्च प्रतापाग्र्यश्च सत्तमाः
गच्छन्तु सायकैस्तीक्ष्णैस्तान्योद्धुं राक्षसाधमान् ॥ २६ ॥

भवानपि महाशस्त्रपरिवारो रथे स्थितः
करोतु युद्धे विजयं राक्षसं हन्तुमुद्यतः ॥ २७ ॥

एतन्मम मतं राजन्ये योधास्तत्प्रमर्दनाः
ते गच्छन्तु रणे शूराः किमन्यैर्बहुभिर्भटैः ॥ २८ ॥

इत्युक्तवति वीराग्र्येऽमात्ये सुमतिसञ्ज्ञिके
शत्रुघ्नः कथयामास वीरान्सङ्ग्रामकोविदान् ॥ २९ ॥

भो वीराः पुष्कलाद्या ये सर्वशस्त्रास्त्रकोविदाः
ते वदन्तु प्रतिज्ञां वै मत्पुरो राक्षसार्दने ॥ ३० ॥

कृत्वा प्रतिज्ञां विपुलां स्वपराक्रमशोभिनीम्
गच्छन्तु रणमध्ये हि भवन्तो बलसंयुताः ॥ ३१ ॥

इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महाबलाः
स्वां स्वां प्रतिज्ञां महतीं चक्रुस्ते तेजसान्विताः ॥ ३२ ॥

तत्रादौ पुष्कलो वीरः श्रुत्वा वाक्यं महीपतेः
परमोत्साहसम्पन्नः प्रतिज्ञामूचिवानिमाम् ॥ ३३ ॥

पुष्कल उवाच
शृणुष्व नृपशार्दूल मत्प्रतिज्ञां पराक्रमात्
विहितां सर्वलोकानां शृण्वतां परमाद्भुताम् ॥ ३४ ॥

चेन्न कुर्यां क्षुरप्राग्रैस्तीक्ष्णैः कोदण्डनिर्गतैः
दैत्यं मूर्च्छासमाक्रान्तं कीर्णकेशाकुलाननम् ॥ ३५ ॥

कन्या स्वभोक्तुर्यत्पापं यत्पापं देवनिन्दने
तत्पापं मम वै भूयाच्चेत्कुर्यां स्ववचोऽनृतम् ॥ ३६ ॥

यदिमद्बाणनिर्भिन्नाः सैनिकाः सुमहाबलाः
न पतन्ति महाराज प्रतिज्ञां तत्र मे शृणु ॥ ३७ ॥

विष्ण्वीशयोर्विभेदं यः शिवशक्त्योः करोत्यपि
तत्पापं मम वै भूयाच्चेन्न कुर्यामृतं वचः ॥ ३८ ॥

सर्वं मद्वाक्यमित्युक्तं रघुनाथपदाम्बुजे
भक्तिर्मे निश्चला यास्ति सैव सत्यं करिष्यति ॥ ३९ ॥

पुष्कलस्य प्रतिज्ञां तां श्रुत्वा लक्ष्मीनिधिर्नृपः
प्रतिज्ञां व्यदधात्सत्यां स्वपराक्रमशोभिताम् ॥ ४० ॥

लक्ष्मीनिधिरुवाच
वेदानां निन्दनं श्रुत्वा आस्ते यो मौनिवन्नरः
मानसे रोचयेद्यस्तु सर्वधर्मबहिष्कृतः ॥ ४१ ॥

ब्राह्मणो यो दुराचारो रसलाक्षादिविक्रयी
विक्रीणाति च गां मूढो धनलोभेन मोहितः ॥ ४२ ॥

म्लेच्छकूपोदकं पीत्वा प्रायश्चित्तं तु नाचरेत्
तत्पापं मम वै भूयाद्विमुखश्चेद्भवाम्यहम् ॥ ४३ ॥

तत्प्रतिज्ञामथाश्रुत्य हनूमान्रणकोविदः
रामाङ्घ्रिस्मरणं कृत्वा प्रोवाच वचनं शुभम् ॥ ४४ ॥

मत्स्वामीहृदये नित्यं ध्येयो वै योगिभिर्मुहुः
यं देवाः सासुराः सर्वे नमन्ति मणिमौलिभिः ॥ ४५ ॥

रामः श्रीमानयोध्यायाः पतिर्लोकेशपूजितः
तं स्मृत्वा यद्ब्रुवे वाक्यं तद्वै सत्यं भवष्यिति ॥ ४६ ॥

राजन्कोयं लघुर्दैत्यो दुर्बलः कामगे स्थितः
कथयाशु मया कार्यमेकेन विनिपातनम् ॥ ४७ ॥

मेरुं देवेन्द्रसहितं लाङ्गूलाग्रेण तोलये
जलधिं शोषये सर्वं सांवर्तं वा पिबाम्यहम् ॥ ४८ ॥

राज्ञः श्रीरघुनाथस्य जानक्याः कृपया मम
तन्नास्ति भूतले राजन्यदसाध्यं कदा भवेत् ॥ ४९ ॥

एतद्वाक्यं मया प्रोक्तमनृतं स्याद्यदि प्रभो
तदैव रघुनाथस्य भक्तिदूरो भवाम्यहम् ॥ ५० ॥

यः शूद्रः कपिलां गां वै पयोबुद्ध्यानुपालयेत्
तस्य पापं ममैवास्तु चेत्कुर्यामनृतं वचः ॥ ५१ ॥

ब्राह्मणीं गच्छते मोहाच्छूद्रः कामविमोहितः
तस्य पापं ममैवास्तु चेत्कुर्यामनृतं वचः ॥ ५२ ॥

यद्घ्राणान्नरकं गच्छेत्स्पर्शनाच्चापि रौरवम्
तां पिबेन्मदिरां यो वा जिह्वास्वादेन लोलुपः ॥ ५३ ॥

तस्य यज्जायते पापं तन्ममैवास्तु निश्चितम्
चेन्न कुर्यां प्रतिज्ञातं सत्यं रामकृपाबलात् ॥ ५४ ॥

एवमुक्ते महावीरैर्योद्धारस्तरसा युताः
चक्रुः प्रतिज्ञां महतीं स्वपराक्रमशालिनीम् ॥ ५५ ॥

शत्रुघ्नोऽपि व्यधात्तत्र प्रतिज्ञां पश्यतां नृणाम्
साधुसाधु प्रशंसन्वै तान्वीरान्युद्धकोविदान् ॥ ५६ ॥

कथयामि पुरो वः स्वां प्रतिज्ञां सत्त्वशोभिताम्
तच्छृण्वन्तु महाभागा युद्धोत्साहसमन्विताः ॥ ५७ ॥

चेत्तस्य शिर आहत्य पातयामि न सायकैः
विमानाच्च कबन्धाच्च भिन्नं छिन्नं च भूतले ॥ ५८ ॥

यत्पापं कूटसाक्ष्येण यत्पापं स्वर्णचौर्यतः
यत्पापं ब्रह्मनिन्दायां तन्ममास्त्वद्य निश्चयात् ॥ ५९ ॥

इति शत्रुघ्नसद्वाक्यं श्रुत्वा ते वीरपूजिताः
धन्योसि राघवभ्रातः कस्त्वदन्यो परो भवेत् ॥ ६० ॥

त्वया वै निहतो दैत्यो देवदानवदुःखदः
लवणो नाम लोकेश मधुपुत्रो महाबलः ॥ ६१ ॥

मूलम्

त्वया वै निहतो दैत्यो देवदानवदुःखदः
लवणो नाम लोकेश मधुपुत्रो महाबलः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

कोयं वै राक्षसो दुष्टः क्व चास्य बलमल्पकम्
करिष्यसि क्षणादेव तस्य नाशं महामते ॥ ६२ ॥

इत्युक्त्वा ते महावीराः सज्जीभूता रणाङ्गणे
प्रतिज्ञां स्वामृतां कर्तुं ययुस्ते राक्षसं मुदा ॥ ६३ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
वीरप्रतिज्ञाकथनन्नाम त्रयस्त्रिंशत्तमोऽध्यायः ३३