सुमतिरुवाच
विश्वास-प्रस्तुतिः
असावपि नृपः सौम्य सत्यवान्नाम विश्रुतः
निजधर्मेण लोकेशं रघुनाथमतोषयत् ॥ १ ॥
मूलम्
असावपि नृपः सौम्य सत्यवान्नाम विश्रुतः
निजधर्मेण लोकेशं रघुनाथमतोषयत् ॥ १ ॥
विश्वास-प्रस्तुतिः
अस्मै तुष्टो रमानाथो ददौ भक्तिमचञ्चलाम्
निजाङ्घ्रिपद्मे यजतां दुर्लभां पुण्यकोटिभिः ॥ २ ॥
मूलम्
अस्मै तुष्टो रमानाथो ददौ भक्तिमचञ्चलाम्
निजाङ्घ्रिपद्मे यजतां दुर्लभां पुण्यकोटिभिः ॥ २ ॥
विश्वास-प्रस्तुतिः
नित्यं श्रीरघुनाथस्य कथानकमनातुरः
कुरुते सर्वलोकानां पावनं कृपयायुतः ॥ ३ ॥
मूलम्
नित्यं श्रीरघुनाथस्य कथानकमनातुरः
कुरुते सर्वलोकानां पावनं कृपयायुतः ॥ ३ ॥
विश्वास-प्रस्तुतिः
यो न पूजयते देवं रघुनाथं रमापतिम्
स तेन ताड्यते दण्डैर्यमस्यापि भयावहैः ॥ ४ ॥
मूलम्
यो न पूजयते देवं रघुनाथं रमापतिम्
स तेन ताड्यते दण्डैर्यमस्यापि भयावहैः ॥ ४ ॥
विश्वास-प्रस्तुतिः
अष्टमाद्वत्सरादूर्ध्वमशीतिवत्सरो भवेत्
तावदेकादशी सर्वैर्मानुषैः कारिताऽमुना ॥ ५ ॥
मूलम्
अष्टमाद्वत्सरादूर्ध्वमशीतिवत्सरो भवेत्
तावदेकादशी सर्वैर्मानुषैः कारिताऽमुना ॥ ५ ॥
विश्वास-प्रस्तुतिः
तुलसी वल्लभा यस्य कदाचिद्यच्छिरोधराम्
न मुञ्चति रमानाथ पादपद्मस्रगुत्तमा ॥ ६ ॥
मूलम्
तुलसी वल्लभा यस्य कदाचिद्यच्छिरोधराम्
न मुञ्चति रमानाथ पादपद्मस्रगुत्तमा ॥ ६ ॥
विश्वास-प्रस्तुतिः
ऋषीणामपि पूज्योयमितरेषां कथं नहि
रघुनाथस्मृतिप्रीतिर्धूतपाप्मा हताशुभः ॥ ७ ॥
मूलम्
ऋषीणामपि पूज्योयमितरेषां कथं नहि
रघुनाथस्मृतिप्रीतिर्धूतपाप्मा हताशुभः ॥ ७ ॥
विश्वास-प्रस्तुतिः
ज्ञात्वायं रामचन्द्रस्य वाजिनं परमाद्भुतम्
आगत्य तुभ्यं सन्दास्यत्येतद्राज्यमकण्टकम् ॥ ८ ॥
मूलम्
ज्ञात्वायं रामचन्द्रस्य वाजिनं परमाद्भुतम्
आगत्य तुभ्यं सन्दास्यत्येतद्राज्यमकण्टकम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
त्वया यद्गदितं राजंस्तत्ते कथितमुत्तमम्
पुनः किं पृच्छसे स्वामिन्नाज्ञापय करोमि तत् ॥ ९ ॥
मूलम्
त्वया यद्गदितं राजंस्तत्ते कथितमुत्तमम्
पुनः किं पृच्छसे स्वामिन्नाज्ञापय करोमि तत् ॥ ९ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
गतोऽश्वस्तत्पुरान्तस्तु नानाश्चर्यसमन्वितः
तं दृष्ट्वा जनताः सर्वा राज्ञे गत्वा न्यवेदयन् ॥ १० ॥
मूलम्
शेष उवाच
गतोऽश्वस्तत्पुरान्तस्तु नानाश्चर्यसमन्वितः
तं दृष्ट्वा जनताः सर्वा राज्ञे गत्वा न्यवेदयन् ॥ १० ॥
विश्वास-प्रस्तुतिः
जनता ऊचुः
कोऽप्यश्वः सितवर्णेन गङ्गाजलसमेन वै
भाले सौवर्णपत्रेण राजमानः समागतः ॥ ११ ॥
मूलम्
जनता ऊचुः
कोऽप्यश्वः सितवर्णेन गङ्गाजलसमेन वै
भाले सौवर्णपत्रेण राजमानः समागतः ॥ ११ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा वचनं रम्यं जनानां हृद्यमीरितम्
ताः प्रत्याह हसन्भूपो ज्ञायतां कस्य वै हयः ॥ १२ ॥
मूलम्
तच्छ्रुत्वा वचनं रम्यं जनानां हृद्यमीरितम्
ताः प्रत्याह हसन्भूपो ज्ञायतां कस्य वै हयः ॥ १२ ॥
विश्वास-प्रस्तुतिः
ताश्चैनं कथयामासुः शत्रुघ्नेन प्रपालितः
आयात्यश्वो महीभर्तू रामस्य पुरमध्यतः ॥ १३ ॥
मूलम्
ताश्चैनं कथयामासुः शत्रुघ्नेन प्रपालितः
आयात्यश्वो महीभर्तू रामस्य पुरमध्यतः ॥ १३ ॥
विश्वास-प्रस्तुतिः
रामस्य नाम स श्रुत्वा द्व्यक्षरं सुमनोरमम्
जहर्ष चित्ते सुभृशं गद्गदस्वरचिन्हितः ॥ १४ ॥
मूलम्
रामस्य नाम स श्रुत्वा द्व्यक्षरं सुमनोरमम्
जहर्ष चित्ते सुभृशं गद्गदस्वरचिन्हितः ॥ १४ ॥
विश्वास-प्रस्तुतिः
मयायोध्यापतिर्नित्यं यो रामश्चिन्त्यते हृदि
तस्याश्वः सहशत्रुघ्नः समायातः पुरं मम ॥ १५ ॥
मूलम्
मयायोध्यापतिर्नित्यं यो रामश्चिन्त्यते हृदि
तस्याश्वः सहशत्रुघ्नः समायातः पुरं मम ॥ १५ ॥
विश्वास-प्रस्तुतिः
हनूमांस्तत्र रामाङ्घ्रिसेवाकर्ता भविष्यति
कदाचिदपि यो रामं न विस्मरति मानसे ॥ १६ ॥
मूलम्
हनूमांस्तत्र रामाङ्घ्रिसेवाकर्ता भविष्यति
कदाचिदपि यो रामं न विस्मरति मानसे ॥ १६ ॥
विश्वास-प्रस्तुतिः
गच्छामि यत्र शत्रुघ्नो यत्र मारुतनन्दनः
अन्येऽपि यत्र पुरुषा रामपादाब्जसेवकाः ॥ १७ ॥
मूलम्
गच्छामि यत्र शत्रुघ्नो यत्र मारुतनन्दनः
अन्येऽपि यत्र पुरुषा रामपादाब्जसेवकाः ॥ १७ ॥
विश्वास-प्रस्तुतिः
अमात्यमादिदेशाथ सर्वं राजधनं महत्
गृहीत्वा तु मया सार्द्धमागच्छ त्वरया युतः ॥ १८ ॥
मूलम्
अमात्यमादिदेशाथ सर्वं राजधनं महत्
गृहीत्वा तु मया सार्द्धमागच्छ त्वरया युतः ॥ १८ ॥
विश्वास-प्रस्तुतिः
यास्येऽहं रघुनाथस्य हयं पालयितुं वरम्
कर्तुं च रामपादाब्जपरिचर्यां सुदुर्लभाम् ॥ १९ ॥
मूलम्
यास्येऽहं रघुनाथस्य हयं पालयितुं वरम्
कर्तुं च रामपादाब्जपरिचर्यां सुदुर्लभाम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा निर्जगामाथ शत्रुघ्नं प्रति सैनिकैः
तावत्पुरीमथ प्राप्तो रामभ्राता ससैनिकः ॥ २० ॥
मूलम्
इत्युक्त्वा निर्जगामाथ शत्रुघ्नं प्रति सैनिकैः
तावत्पुरीमथ प्राप्तो रामभ्राता ससैनिकः ॥ २० ॥
विश्वास-प्रस्तुतिः
वीरा गर्जन्ति प्रबला रथाः सुनिनदन्ति च
जयशङ्खस्वनास्तत्र वेणुनादाश्च सर्वतः ॥ २१ ॥
मूलम्
वीरा गर्जन्ति प्रबला रथाः सुनिनदन्ति च
जयशङ्खस्वनास्तत्र वेणुनादाश्च सर्वतः ॥ २१ ॥
विश्वास-प्रस्तुतिः
आगत्य सत्यवान्राजा मन्त्रिभिः सुसमन्वितः
चरणे प्रणिपत्यास्मै राज्यं प्रादान्महाधनम् ॥ २२ ॥
मूलम्
आगत्य सत्यवान्राजा मन्त्रिभिः सुसमन्वितः
चरणे प्रणिपत्यास्मै राज्यं प्रादान्महाधनम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नस्तं तु राजानं ज्ञात्वा राममनुव्रतम्
तद्राज्यं तस्य पुत्राय रुक्मनाम्ने ददौ महत् ॥ २३ ॥
मूलम्
शत्रुघ्नस्तं तु राजानं ज्ञात्वा राममनुव्रतम्
तद्राज्यं तस्य पुत्राय रुक्मनाम्ने ददौ महत् ॥ २३ ॥
विश्वास-प्रस्तुतिः
हनूमन्तं परीरभ्य सुबाहुं रामसेवकम्
अन्यान्वै रामभक्तांश्च परिरभ्य महायशाः ॥ २४ ॥
मूलम्
हनूमन्तं परीरभ्य सुबाहुं रामसेवकम्
अन्यान्वै रामभक्तांश्च परिरभ्य महायशाः ॥ २४ ॥
विश्वास-प्रस्तुतिः
कृतार्थमिव चात्मानं मेने सत्यसमन्वितः
ननन्द चेतसि तदा शत्रुघ्नेन समन्वितः ॥ २५ ॥
मूलम्
कृतार्थमिव चात्मानं मेने सत्यसमन्वितः
ननन्द चेतसि तदा शत्रुघ्नेन समन्वितः ॥ २५ ॥
विश्वास-प्रस्तुतिः
हयस्तावद्गतो दूरं वीरैः सुपरिरक्षितः
शत्रुघ्नस्तेन भूपेन ययौ वीरसमन्वितः ॥ २६ ॥
मूलम्
हयस्तावद्गतो दूरं वीरैः सुपरिरक्षितः
शत्रुघ्नस्तेन भूपेन ययौ वीरसमन्वितः ॥ २६ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्य-
वत्समागमोनाम द्वात्रिंशोऽध्यायः ३२