०३१

जाबालिरुवाच

विश्वास-प्रस्तुतिः

अथ तेषु प्रयातेषु नरकस्थेषु वै नृषु
राजा पप्रच्छ कीनाशं सर्वधर्मविदांवरम् ॥ १ ॥

मूलम्

अथ तेषु प्रयातेषु नरकस्थेषु वै नृषु
राजा पप्रच्छ कीनाशं सर्वधर्मविदांवरम् ॥ १ ॥

विश्वास-प्रस्तुतिः

राजोवाच
धर्मराज त्वया प्रोक्तं यत्पातककरा नराः
आयान्ति तव संस्थानं न च धर्मकथारताः ॥ २ ॥

मूलम्

राजोवाच
धर्मराज त्वया प्रोक्तं यत्पातककरा नराः
आयान्ति तव संस्थानं न च धर्मकथारताः ॥ २ ॥

विश्वास-प्रस्तुतिः

मदागमनमत्राभूत्केनपापेन धार्मिक
तद्वै कथय सर्वं मे पापकारणमादितः ॥ ३ ॥

मूलम्

मदागमनमत्राभूत्केनपापेन धार्मिक
तद्वै कथय सर्वं मे पापकारणमादितः ॥ ३ ॥

विश्वास-प्रस्तुतिः

इति श्रुत्वा तु तद्वाक्यं धर्मराजः परन्तप
कथयामास तस्यैवं यमपुर्यागमं तदा ॥ ४ ॥

मूलम्

इति श्रुत्वा तु तद्वाक्यं धर्मराजः परन्तप
कथयामास तस्यैवं यमपुर्यागमं तदा ॥ ४ ॥

विश्वास-प्रस्तुतिः

धर्मराज उवाच
राजंस्तव महत्पुण्यं नैतादृक्कस्य भूतले
रघुनाथपदद्वन्द्वमकरन्द मधुव्रत ॥ ५ ॥

मूलम्

धर्मराज उवाच
राजंस्तव महत्पुण्यं नैतादृक्कस्य भूतले
रघुनाथपदद्वन्द्वमकरन्द मधुव्रत ॥ ५ ॥

विश्वास-प्रस्तुतिः

त्वत्कीर्ति स्वर्धुनी सर्वान्पापिनो मलसंयुतान्
पुनाति परमाह्लादकारिणी दुष्टतारिणी ॥ ६ ॥

मूलम्

त्वत्कीर्ति स्वर्धुनी सर्वान्पापिनो मलसंयुतान्
पुनाति परमाह्लादकारिणी दुष्टतारिणी ॥ ६ ॥

विश्वास-प्रस्तुतिः

तथापि पापलेशस्ते वर्तते नृपसत्तम
येन संयमिनीपार्श्वमागतः पुण्यपूरितः ॥ ७ ॥

मूलम्

तथापि पापलेशस्ते वर्तते नृपसत्तम
येन संयमिनीपार्श्वमागतः पुण्यपूरितः ॥ ७ ॥

विश्वास-प्रस्तुतिः

एकदा तु चरन्तीं गां वारयामास वै भवान्
तेन पापविपाकेन निरयद्वारदर्शनम् ॥ ८ ॥

मूलम्

एकदा तु चरन्तीं गां वारयामास वै भवान्
तेन पापविपाकेन निरयद्वारदर्शनम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

इदानीं पापनिर्मुक्तो बहुपुण्यसमन्वितः
भुङ्क्ष्व भोगान्सुविपुलान्निजपुण्यार्जितान्बहून् ॥ ९ ॥

मूलम्

इदानीं पापनिर्मुक्तो बहुपुण्यसमन्वितः
भुङ्क्ष्व भोगान्सुविपुलान्निजपुण्यार्जितान्बहून् ॥ ९ ॥

विश्वास-प्रस्तुतिः

एतेषां करुणावार्धी रघुनाथो सुखं हरन्
संयमिन्या महामार्गे प्रेरयामास वैष्णवम् ॥ १० ॥

मूलम्

एतेषां करुणावार्धी रघुनाथो सुखं हरन्
संयमिन्या महामार्गे प्रेरयामास वैष्णवम् ॥ १० ॥

विश्वास-प्रस्तुतिः

नागमिष्यो यदि त्वं वै मार्गेणानेन सुव्रत
अभविष्यत्कथं तेषां निरयात्परिमोचनम् ॥ ११ ॥

मूलम्

नागमिष्यो यदि त्वं वै मार्गेणानेन सुव्रत
अभविष्यत्कथं तेषां निरयात्परिमोचनम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

त्वादृशाः परदुःखेन दुःखिताः करुणालयाः
प्राणिनां दुःखविच्छेदं कुर्वन्त्येव महामते ॥ १२ ॥

मूलम्

त्वादृशाः परदुःखेन दुःखिताः करुणालयाः
प्राणिनां दुःखविच्छेदं कुर्वन्त्येव महामते ॥ १२ ॥

विश्वास-प्रस्तुतिः

जाबालिरुवाच
एवं वदन्तं शमनं प्रणम्य स दिवङ्गतः
दिव्येन सुविमानेन अप्सरोगणशोभिना ॥ १३ ॥

मूलम्

जाबालिरुवाच
एवं वदन्तं शमनं प्रणम्य स दिवङ्गतः
दिव्येन सुविमानेन अप्सरोगणशोभिना ॥ १३ ॥

विश्वास-प्रस्तुतिः

तस्माद्गावोऽनिशं पूज्या मनसापि न गर्हयेत्
गर्हयन्निरयं याति यावदिन्द्राश्चतुर्दश ॥ १४ ॥

मूलम्

तस्माद्गावोऽनिशं पूज्या मनसापि न गर्हयेत्
गर्हयन्निरयं याति यावदिन्द्राश्चतुर्दश ॥ १४ ॥

विश्वास-प्रस्तुतिः

तस्मात्त्वं नृपतिश्रेष्ठ गोपूजां वै समाचर
सा तुष्टा दास्यति क्षिप्रं पुत्रं धर्मपरायणम् ॥ १५ ॥

मूलम्

तस्मात्त्वं नृपतिश्रेष्ठ गोपूजां वै समाचर
सा तुष्टा दास्यति क्षिप्रं पुत्रं धर्मपरायणम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

सुमतिरुवाच
तच्छ्रुत्वा धेनुपूजां स पप्रच्छ कथमादरात्
पूजनीया प्रयत्नेन कीदृशं कुरुते नरम् ॥ १६ ॥

मूलम्

सुमतिरुवाच
तच्छ्रुत्वा धेनुपूजां स पप्रच्छ कथमादरात्
पूजनीया प्रयत्नेन कीदृशं कुरुते नरम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

जाबालि कथयामास धेनुपूजां यथाविधि
प्रत्यहं विपिनं गच्छेच्चारणार्थं व्रती तु गोः ॥ १७ ॥

मूलम्

जाबालि कथयामास धेनुपूजां यथाविधि
प्रत्यहं विपिनं गच्छेच्चारणार्थं व्रती तु गोः ॥ १७ ॥

विश्वास-प्रस्तुतिः

गवे यवांस्तु सम्भोज्य गोमयस्थान्समाहरेत्
भक्षणीया यवास्ते तु पुत्रकामेन भूपते ॥ १८ ॥

मूलम्

गवे यवांस्तु सम्भोज्य गोमयस्थान्समाहरेत्
भक्षणीया यवास्ते तु पुत्रकामेन भूपते ॥ १८ ॥

विश्वास-प्रस्तुतिः

सा यदा पिबते तोयं तदा पेयं जलं शुचि
सोच्चैः स्थाने यदा तिष्ठेत्तदानीं चासनस्थितः ॥ १९ ॥

मूलम्

सा यदा पिबते तोयं तदा पेयं जलं शुचि
सोच्चैः स्थाने यदा तिष्ठेत्तदानीं चासनस्थितः ॥ १९ ॥

विश्वास-प्रस्तुतिः

दंशान्निवारयेन्नित्यं यवसं स्वयमाहरेत्
एवं प्रकुर्वतः पुत्रं दास्यते धर्मतत्परम् ॥ २० ॥

मूलम्

दंशान्निवारयेन्नित्यं यवसं स्वयमाहरेत्
एवं प्रकुर्वतः पुत्रं दास्यते धर्मतत्परम् ॥ २० ॥

विश्वास-प्रस्तुतिः

सुमतिरुवाच
इति वाक्यं समाकर्ण्य पुत्रकाम ऋतम्भरः
व्रतं चकार धर्मात्मा धेनुपूजां समाचरन् ॥ २१ ॥

मूलम्

सुमतिरुवाच
इति वाक्यं समाकर्ण्य पुत्रकाम ऋतम्भरः
व्रतं चकार धर्मात्मा धेनुपूजां समाचरन् ॥ २१ ॥

विश्वास-प्रस्तुतिः

प्रत्यहं कुरुते गां वै यवसाद्येन तोषिताम्
दंशान्न्यवारयद्धीमान्यवभक्षकृतादरः ॥ २२ ॥

मूलम्

प्रत्यहं कुरुते गां वै यवसाद्येन तोषिताम्
दंशान्न्यवारयद्धीमान्यवभक्षकृतादरः ॥ २२ ॥

विश्वास-प्रस्तुतिः

एवं धेनुं पूजयतो गतास्तु दिवसा घनाः
वनमध्ये तृणादींश्च चरन्तीमकुतोभयाम् ॥ २३ ॥

मूलम्

एवं धेनुं पूजयतो गतास्तु दिवसा घनाः
वनमध्ये तृणादींश्च चरन्तीमकुतोभयाम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

एकदा नृपतिस्तस्य वनस्य श्रीनिरीक्षणे
न्यस्तदृष्टिः सपरितो बभ्राम स कुतूहली ॥ २४ ॥

मूलम्

एकदा नृपतिस्तस्य वनस्य श्रीनिरीक्षणे
न्यस्तदृष्टिः सपरितो बभ्राम स कुतूहली ॥ २४ ॥

विश्वास-प्रस्तुतिः

तदागत्याहनद्गां वै पञ्चास्यः काननान्तरात्
क्रोशन्तीं बहुधा दीनां सिंहभारेणदुःखिताम् ॥ २५ ॥

मूलम्

तदागत्याहनद्गां वै पञ्चास्यः काननान्तरात्
क्रोशन्तीं बहुधा दीनां सिंहभारेणदुःखिताम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

तदा नृपः समागत्य विलोक्य निजमातरम्
सिंहेन निहतां पश्यन्रुरोदातीव विह्वलः ॥ २६ ॥

मूलम्

तदा नृपः समागत्य विलोक्य निजमातरम्
सिंहेन निहतां पश्यन्रुरोदातीव विह्वलः ॥ २६ ॥

विश्वास-प्रस्तुतिः

स दुःखितः समागत्य जाबालिमुनिसत्तमम्
निष्कृतिं तस्य पप्रच्छ गोवधस्य प्रमादतः ॥ २७ ॥

मूलम्

स दुःखितः समागत्य जाबालिमुनिसत्तमम्
निष्कृतिं तस्य पप्रच्छ गोवधस्य प्रमादतः ॥ २७ ॥

विश्वास-प्रस्तुतिः

ऋतम्भर उवाच
स्वामिंस्त्वदाज्ञया धेनुं पालयन्वनमास्थितः
कुतोप्यागत्य तां सिंहो जघानादृष्टिगोचरः ॥ २८ ॥

मूलम्

ऋतम्भर उवाच
स्वामिंस्त्वदाज्ञया धेनुं पालयन्वनमास्थितः
कुतोप्यागत्य तां सिंहो जघानादृष्टिगोचरः ॥ २८ ॥

विश्वास-प्रस्तुतिः

तस्य पापस्य निष्कृत्यै किं करोमि त्वदाज्ञया
कथं वा व्रतसम्पूर्तिर्मम पुत्रप्रदायिनी ॥ २९ ॥

मूलम्

तस्य पापस्य निष्कृत्यै किं करोमि त्वदाज्ञया
कथं वा व्रतसम्पूर्तिर्मम पुत्रप्रदायिनी ॥ २९ ॥

विश्वास-प्रस्तुतिः

इत्युक्तवन्तं तं भूपं जगाद मुनिसत्तमः
सन्त्युपाया महीपाल पापस्यास्यापनुत्तये ॥ ३० ॥

मूलम्

इत्युक्तवन्तं तं भूपं जगाद मुनिसत्तमः
सन्त्युपाया महीपाल पापस्यास्यापनुत्तये ॥ ३० ॥

विश्वास-प्रस्तुतिः

ब्रह्मघ्नस्य कृतघ्नस्य सुरापस्य महामते
प्रायश्चित्तानि वर्तन्ते सर्वपापहराणि च ॥ ३१ ॥

मूलम्

ब्रह्मघ्नस्य कृतघ्नस्य सुरापस्य महामते
प्रायश्चित्तानि वर्तन्ते सर्वपापहराणि च ॥ ३१ ॥

विश्वास-प्रस्तुतिः

कृच्छ्रैश्चान्द्रायणैर्दानैर्व्रतैः सनियमैर्यमैः
पापानि प्रलयं यान्ति नियमादनुतिष्ठतः ॥ ३२ ॥

मूलम्

कृच्छ्रैश्चान्द्रायणैर्दानैर्व्रतैः सनियमैर्यमैः
पापानि प्रलयं यान्ति नियमादनुतिष्ठतः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

द्वयोश्च निष्कृतिर्नास्ति पापपुञ्जकृतोस्तयोः
मत्या गोवधकर्तुश्च नारायणविनिन्दितुः ॥ ३३ ॥

मूलम्

द्वयोश्च निष्कृतिर्नास्ति पापपुञ्जकृतोस्तयोः
मत्या गोवधकर्तुश्च नारायणविनिन्दितुः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

गवां यो मनसा दुःखं वाञ्च्छत्यधमसत्तमः
स याति निरयस्थानं यावदिन्द्राश्चतुर्दश ॥ ३४ ॥

मूलम्

गवां यो मनसा दुःखं वाञ्च्छत्यधमसत्तमः
स याति निरयस्थानं यावदिन्द्राश्चतुर्दश ॥ ३४ ॥

विश्वास-प्रस्तुतिः

योऽपि देवं हरिं निन्देत्सकृद्दुर्भाग्यवान्नरः
स चापि नरकं पश्येत्पुत्रपौत्रपरीवृतः ॥ ३५ ॥

मूलम्

योऽपि देवं हरिं निन्देत्सकृद्दुर्भाग्यवान्नरः
स चापि नरकं पश्येत्पुत्रपौत्रपरीवृतः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

तस्माज्ज्ञात्वा हरिं निन्दन्गोषु दुःखं समाचरन्
कदापि नरकान्मुक्तिं न प्राप्नोति नरेश्वर ॥ ३६ ॥

मूलम्

तस्माज्ज्ञात्वा हरिं निन्दन्गोषु दुःखं समाचरन्
कदापि नरकान्मुक्तिं न प्राप्नोति नरेश्वर ॥ ३६ ॥

विश्वास-प्रस्तुतिः

अज्ञानप्राप्तगोहत्या प्रायश्चित्तं तु विद्यते
रामभक्तं तु धीमन्तं याहि त्वमृतुपर्णकम् ॥ ३७ ॥

मूलम्

अज्ञानप्राप्तगोहत्या प्रायश्चित्तं तु विद्यते
रामभक्तं तु धीमन्तं याहि त्वमृतुपर्णकम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

स वै समदृशः सर्वाञ्छत्रून्मित्राणि पश्यति
तुभ्यं कथिष्यति क्षिप्रं गोवधस्यास्य निष्कृतिम् ॥ ३८ ॥

मूलम्

स वै समदृशः सर्वाञ्छत्रून्मित्राणि पश्यति
तुभ्यं कथिष्यति क्षिप्रं गोवधस्यास्य निष्कृतिम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तस्य देशांस्त्वमाक्रामंस्तेन निर्वासितः पुरा
वैरिभावं परित्यज्य गच्छ त्वमृतुपर्णकम् ॥ ३९ ॥

मूलम्

तस्य देशांस्त्वमाक्रामंस्तेन निर्वासितः पुरा
वैरिभावं परित्यज्य गच्छ त्वमृतुपर्णकम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

स यद्वदिष्यति क्षिप्रं तत्कुरुष्व समाहितः
यथा त्वत्कृतपापस्य निष्कृतिर्हि भविष्यति ॥ ४० ॥

मूलम्

स यद्वदिष्यति क्षिप्रं तत्कुरुष्व समाहितः
यथा त्वत्कृतपापस्य निष्कृतिर्हि भविष्यति ॥ ४० ॥

विश्वास-प्रस्तुतिः

स तु तद्वचनं श्रुत्वा जगाम ऋतुपर्णकम्
रामभक्तं रिपौ मित्रे समदृष्ट्या समञ्जसम् ॥ ४१ ॥

मूलम्

स तु तद्वचनं श्रुत्वा जगाम ऋतुपर्णकम्
रामभक्तं रिपौ मित्रे समदृष्ट्या समञ्जसम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

स तस्मै कथयामास यज्जातं गोवधादिकम्
तस्य पापस्य निष्कृत्यै ह्युपायं सोऽप्यचिन्तयत् ॥ ४२ ॥

मूलम्

स तस्मै कथयामास यज्जातं गोवधादिकम्
तस्य पापस्य निष्कृत्यै ह्युपायं सोऽप्यचिन्तयत् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

क्षणं ध्यात्वाथ तं राजा ऋतुपर्ण ऋतम्भरम्
उवाच प्रहसन्वाक्यं बुद्धिमान्धर्मकोविदः ॥ ४३ ॥

मूलम्

क्षणं ध्यात्वाथ तं राजा ऋतुपर्ण ऋतम्भरम्
उवाच प्रहसन्वाक्यं बुद्धिमान्धर्मकोविदः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

कोऽहं राजन्मुनीनां वै पुरतः शास्त्रवेदिनाम्
तान्हित्वा किं तु मां प्राप्तो मूर्खम्पण्डितमानिनम् ॥ ४४ ॥

मूलम्

कोऽहं राजन्मुनीनां वै पुरतः शास्त्रवेदिनाम्
तान्हित्वा किं तु मां प्राप्तो मूर्खम्पण्डितमानिनम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

तव मय्यस्ति चेच्छ्रद्धा तदा किञ्चिद्ब्रवीम्यहम्
शृणुष्व नरशार्दूल गदितं मम सादरः ॥ ४५ ॥

मूलम्

तव मय्यस्ति चेच्छ्रद्धा तदा किञ्चिद्ब्रवीम्यहम्
शृणुष्व नरशार्दूल गदितं मम सादरः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

भज श्रीरघुनाथं त्वं कर्मणा मनसा गिरा
नैष्कापट्येन लोकेशं तोषयस्व महामते ॥ ४६ ॥

मूलम्

भज श्रीरघुनाथं त्वं कर्मणा मनसा गिरा
नैष्कापट्येन लोकेशं तोषयस्व महामते ॥ ४६ ॥

विश्वास-प्रस्तुतिः

स तुष्टो दास्यते सर्वं त्वद्धृदिस्थं मनोरथम्
अज्ञानकृत गोहत्यापापनाशं करिष्यति ॥ ४७ ॥

मूलम्

स तुष्टो दास्यते सर्वं त्वद्धृदिस्थं मनोरथम्
अज्ञानकृत गोहत्यापापनाशं करिष्यति ॥ ४७ ॥

विश्वास-प्रस्तुतिः

रामं स्मरंस्त्वं धर्मात्मन्धेनुं पालय सत्तम
दत्त्वा द्विजाय कनकं पापनिष्कृतिमाप्स्यसि ॥ ४८ ॥

मूलम्

रामं स्मरंस्त्वं धर्मात्मन्धेनुं पालय सत्तम
दत्त्वा द्विजाय कनकं पापनिष्कृतिमाप्स्यसि ॥ ४८ ॥

विश्वास-प्रस्तुतिः

सुमतिरुवाच
एतच्छ्रुत्वा तु तद्वाक्यमृतम्भरनृपस्तदा
विधाय रामस्मरणं पूतात्मा व्रतमाचरत् ॥ ४९ ॥

मूलम्

सुमतिरुवाच
एतच्छ्रुत्वा तु तद्वाक्यमृतम्भरनृपस्तदा
विधाय रामस्मरणं पूतात्मा व्रतमाचरत् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

पूर्ववत्पालयन्धेनुं जगाम विपिनं महत्
रामनामस्मरन्नित्यं सर्वभूतहिते रतः ॥ ५० ॥

मूलम्

पूर्ववत्पालयन्धेनुं जगाम विपिनं महत्
रामनामस्मरन्नित्यं सर्वभूतहिते रतः ॥ ५० ॥

विश्वास-प्रस्तुतिः

तस्मै तुष्टा तु सुरभिः प्रोवाच परितोषिता
राजन्वरय मत्तो वै वरं हृत्स्थं मनोरथम् ॥ ५१ ॥

मूलम्

तस्मै तुष्टा तु सुरभिः प्रोवाच परितोषिता
राजन्वरय मत्तो वै वरं हृत्स्थं मनोरथम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

तदा प्रोवाच वै राजा पुत्रं देहि मनोरमम्
रामभक्तं पितृरतं स्वधर्मप्रतिपालकम् ॥ ५२ ॥

मूलम्

तदा प्रोवाच वै राजा पुत्रं देहि मनोरमम्
रामभक्तं पितृरतं स्वधर्मप्रतिपालकम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

तुष्टा दत्त्वा वरं सापि तस्मै राज्ञे सुतार्थिने
जगामादर्शनं देवी कामधेनुः कृपावती ॥ ५३ ॥

मूलम्

तुष्टा दत्त्वा वरं सापि तस्मै राज्ञे सुतार्थिने
जगामादर्शनं देवी कामधेनुः कृपावती ॥ ५३ ॥

विश्वास-प्रस्तुतिः

स काले प्राप्तवान्पुत्रं वैष्णवं रामसेवकम्
सत्यवत्सञ्ज्ञयायुक्तमकरोत्तत्र तत्पिता ॥ ५४ ॥

मूलम्

स काले प्राप्तवान्पुत्रं वैष्णवं रामसेवकम्
सत्यवत्सञ्ज्ञयायुक्तमकरोत्तत्र तत्पिता ॥ ५४ ॥

विश्वास-प्रस्तुतिः

सत्यवन्तं सुतं लब्ध्वा पितृभक्तिपरं महान्
परमं हर्षमापेदे शक्रतुल्यपराक्रमम् ॥ ५५ ॥

मूलम्

सत्यवन्तं सुतं लब्ध्वा पितृभक्तिपरं महान्
परमं हर्षमापेदे शक्रतुल्यपराक्रमम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

स राजा धार्मिकं पुत्रं प्राप्य हर्षेणनिर्भरः
राज्यं तस्मिन्महन्न्यस्य जगाम तपसे वनम् ॥ ५६ ॥

मूलम्

स राजा धार्मिकं पुत्रं प्राप्य हर्षेणनिर्भरः
राज्यं तस्मिन्महन्न्यस्य जगाम तपसे वनम् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

तत्राराध्य हृषीकेशं भक्तियुक्तेन चेतसा
निर्धूतपापः सतनुरगाद्धरिपदं नृपः ॥ ५७ ॥

मूलम्

तत्राराध्य हृषीकेशं भक्तियुक्तेन चेतसा
निर्धूतपापः सतनुरगाद्धरिपदं नृपः ॥ ५७ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदा-
ख्याने धेनुव्रतवर्णनन्नाम एकत्रिंशोऽध्यायः ३१