शेष उवाच
विश्वास-प्रस्तुतिः
अथ तेजःपुरं प्राप्तस्तुरगः पत्रशोभितः
यस्यां पालयते राजा प्रजाः सत्येन सत्यवान् ॥ १ ॥
मूलम्

अथ कोटिपरीवारो रघुनाथानुजस्ततः
हयानुगो ययौ तस्य पुरतः पुरधर्षणः ॥ २ ॥
मूलम्
अथ कोटिपरीवारो रघुनाथानुजस्ततः
हयानुगो ययौ तस्य पुरतः पुरधर्षणः ॥ २ ॥
विश्वास-प्रस्तुतिः
तद्दृष्ट्वा नगरं रम्यं चित्रप्राकारशोभितम्
काञ्चनैः कलशैस्तत्र परितः प्रतिभासितम् ॥ ३ ॥

देवायतनसाहस्रैः सर्वतश्च विराजितम्
यतीनां तु मठास्तत्र शोभन्ते यतिपूरिताः ॥ ४ ॥

वहत्यत्र महादेवी शिखिलोचनमूर्धगा
हंसकारण्डवाकीर्णामुनिवृन्दनिषेविता ॥ ५ ॥

ब्राह्मणानां प्रत्यगारमग्निहोत्रभवः पुनः
धूमस्तत्र पुनात्यङ्ग पातकाप्लुतमानसान् ॥ ६ ॥

उवाच सुमतिं राजा शत्रुघ्नः शत्रुतापनः
तत्पुरप्रेक्षणोद्भूतहर्षविस्मितमानसः ॥ ७ ॥

शत्रुघ्न उवाच
मन्त्रिन्कथय कस्येदं पुरं मे दृष्टिगोचरम्
करोति मानसाह्लादं धर्मेण प्रतिपालितम् ॥ ८ ॥

इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतेः
उवाच सुमतिः सर्वं यथातथमनुद्धतम् ॥ ९ ॥

सुमतिरुवाच
शृणुष्वावहितः स्वामिन्वैष्णवस्य कथाः शुभाः
याः श्रुत्वा मुच्यते पापाद्ब्रह्महत्यासमादपि ॥ १० ॥

जीवन्मुक्तो वरीवर्ति रामाङ्घ्र्यम्बुजषट्पदः
सत्यवान्यज्ञयज्ञाङ्ग ज्ञाता कर्ताऽविता महान् ॥ ११ ॥

धेनुं प्रसाद्य बहुभिर्व्रतैर्यं प्राप तत्पिता
ऋतम्भराख्यो जगति ख्यातः परमधार्मिकः ॥ १२ ॥

गौः प्रसन्ना ददौ पुत्रमनेकगुणसंस्कृतम्
सत्यवन्तं सुशोभाढ्यं तं जानीहि नृपोत्तमम् ॥ १३ ॥
मूलम्
गौः प्रसन्ना ददौ पुत्रमनेकगुणसंस्कृतम्
सत्यवन्तं सुशोभाढ्यं तं जानीहि नृपोत्तमम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्न उवाच
को वा ऋतम्भरो राजा किमर्थं धेनुपूजनम्
कथं प्राप्तः सुतस्तस्य वैष्णवो विष्णुसेवकः ॥ १४ ॥

सर्वमेतत्समाचक्ष्व वैष्णवस्य कथानकम्
श्रुतं हरति जन्तूनां महापातकपर्वतम् ॥ १५ ॥

इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महार्थकम्
कथयामास विशदं तदुत्पत्तिकथानकम् ॥ १६ ॥

ऋतम्भरो नरपतिरनपत्यः पुराऽभवत्
कलत्राणि बहून्यस्य न पुत्रं प्राप तेषु वै ॥ १७ ॥

तदा जाबालिनामानं मुनिं दैवादुपागतम्
प्रपच्छ कुशलोद्युक्तः सपुत्रोत्पत्तिकारणम् ॥ १८ ॥

ऋतम्भर उवाच
स्वामिन्वन्ध्यस्य मे ब्रूहि पुत्रोत्पत्तिकरं वचः
यत्कृत्वा जायतेऽपत्यं मम वंशधरं वरम् ॥ १९ ॥

तज्ज्ञात्वा भवतो भव्यं प्रकुर्यां निश्चितं वचः
दानं व्रतं वा तीर्थं वा मखं वा मुनिसत्तम ॥ २० ॥

इति राज्ञोवचः श्रुत्वा जगाद मुनिसत्तमः
सुतोत्पत्तिकरं वाक्यं प्रणतस्य सुतार्थिनः ॥ २१ ॥

अपत्यप्राप्तिकामस्य सन्त्युपायास्त्रयः प्रभो
विष्णोः प्रसादो गोश्चापि शिवस्याप्यथवा पुनः ॥ २२ ॥

तस्मात्त्वं कुरु वै पूजां धेनोर्देवतनोर्नृप
यस्याः पुच्छे मुखे शृङ्गे पृष्ठे देवाः प्रतिष्ठिताः ॥ २३ ॥

सा तुष्टा दास्यति क्षिप्रं वाञ्छितं धर्मसंयुतम्
एवं विदित्वा गोपूजां विधेहि त्वमृतम्भर ॥ २४ ॥

यो वै नित्यं पूजयति गां गेहे यवसादिभिः
तस्य देवाश्च पितरो नित्यं तृप्ता भवन्ति हि ॥ २५ ॥

यो वै गवाह्निकं दद्यान्नियमेन शुभव्रतः
तेन सत्येन तस्य स्युः सर्वे पूर्णा मनोरथाः ॥ २६ ॥

तृषिता गौर्गृहे बद्धा गेहे कन्या रजस्वला
देवता च सनिर्माल्या हन्ति पुण्यं पुराकृतम् ॥ २७ ॥

यो वै गां प्रतिषिद्ध्येत चरन्तीं स्वं तृणं नरः
तस्य पूर्वे च पितरः कम्पन्ते पतनोन्मुखाः ॥ २८ ॥

यो वै यष्ट्या ताडयति धेनुं मर्त्यो विमूढधीः
धर्मराजस्य नगरं स याति करवर्जितः ॥ २९ ॥

यो वै दंशान्वारयति तस्य पूर्वे ह्यधोगताः
नृत्यन्ति मत्सुतो ह्यस्मांस्तारयिष्यति भाग्यवान् ॥ ३० ॥

अत्रैवोदाहरन्तीममितिहासं पुरातनम्
जनकस्य पुरावृत्तं धर्मराजपुरेऽद्भुतम् ॥ ३१ ॥

एकदा जनको राजा योगेनासून्समत्यजत्
तदा विमानं सम्प्राप्तं किङ्किणीजालभूषितम् ॥ ३२ ॥

तदारुह्य गतो राजा सेवकैरूढदेहवान्
मार्गे जगाम धर्मस्य संयमिन्याः पुरोंऽतिके ॥ ३३ ॥

तदा नरककोटीषु पीड्यन्ते पापकारिणः
जनकस्याङ्गपवनं प्राप्य सौख्यं प्रपेदिरे ॥ ३४ ॥

निरये दाहजापीडा जातैषां सुखकारिणी
महादुःखं तदा नष्टं जनकस्याङ्गवायुना ॥ ३५ ॥

तदा तं निर्गतं दृष्ट्वा जन्तवः पापपीडिताः
अत्यन्तं चुक्रुशुर्भीतास्तद्वियोगमनिच्छवः ॥ ३६ ॥

ऊचुस्ते करुणां वाचं मा गच्छ सुकृतिन्नितः
त्वदङ्गवायुसंस्पर्शात्सुखिनः स्यामपीडिताः ॥ ३७ ॥

इति वाक्यं समाकर्ण्य राजा परमधार्मिकः
मानसे चिन्तयामास करुणापूरपूरितः ॥ ३८ ॥
मूलम्
इति वाक्यं समाकर्ण्य राजा परमधार्मिकः
मानसे चिन्तयामास करुणापूरपूरितः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
चेन्मत्तः प्राणिनां सौख्यं भवेदिह तदा पुनः
अत्रैव च पुरे स्थास्ये स्वर्ग एष मनोरमः ॥ ३९ ॥

एवं कृत्वा नृपस्तस्थौ तत्रैव निरयाग्रतः
विदधत्प्राणिनां सौख्यमनुकम्पितमानसः ॥ ४० ॥

तत्र धर्मस्तु सम्प्राप्तो निरयद्वारि दुःखदे
कारयन्यातनास्तीव्रा नानापातककारिणाम् ॥ ४१ ॥

तदा ददर्श राजानं जनकं द्वारिसंस्थितम्
विमानेन महापुण्यकारिणं दययायुतम् ॥ ४२ ॥
मूलम्
तदा ददर्श राजानं जनकं द्वारिसंस्थितम्
विमानेन महापुण्यकारिणं दययायुतम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तमुवाच प्रेतपतिर्जनकं सहसन्गिरा
राजन्कुतस्त्वं सम्प्राप्तः सर्वधर्मशिरोमणिः ॥ ४३ ॥

एतत्स्थानं पातकिनां दुष्टानां प्राणघातिनाम्
नायान्ति पुरुषा भूप त्वादृशाः पुण्यकारिणः ॥ ४४ ॥

अत्रायान्ति नरास्ते वै ये परद्रोहतत्पराः
परापवादनिरताः परद्रव्यपरायणाः ॥ ४५ ॥

यो वै कलत्रं धर्मिष्ठं निजसेवापरायणम्
अपराधादृते जह्यात्सनरोऽत्र समाव्रजेत् ॥ ४६ ॥

मित्रं वञ्चयते यस्तु धनलोभेन लोभितः
आगत्यात्र नरः पीडां मत्तः प्राप्नोति दारुणाम् ॥ ४७ ॥

यो रामं मनसा वाचा कर्मणा दम्भतोऽपि वा
द्वेषाद्वाचोपहासाद्वा न स्मरत्येव मूढधीः ॥ ४८ ॥

तं बध्नामि पुनस्त्वेषु निक्षिप्य श्रपयामि च
यैः स्मृतो न रमानाथो नरकक्लेशवारकः ॥ ४९ ॥

तावत्पापं मनुष्याणामङ्गेषु नृप तिष्ठति
यावद्रामं न रसना गृणाति कलि दुर्मतेः ॥ ५० ॥

महापापकरा राजन्ये भवन्ति महामते
तानानयन्ति मद्भृत्यास्त्वादृशान्द्रष्टुमक्षमाः ॥ ५१ ॥

तस्माद्गच्छ महाराज भुङ्क्ष्व भोगाननेकशः
विमानवरमारुह्य भुङ्क्ष्व पुण्यमुपार्जितम् ॥ ५२ ॥

इति वाक्यं समाकर्ण्यध र्मराजस्य तत्पतेः
उवाच धर्मराजानं करुणापूरपूरितः ॥ ५३ ॥
मूलम्
इति वाक्यं समाकर्ण्यध र्मराजस्य तत्पतेः
उवाच धर्मराजानं करुणापूरपूरितः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
जनक उवाच
अहं गच्छामि नो नाथ जीवानामनुकम्पया
मदङ्गवायुना ह्येते सुखं प्राप्ताः स्म संस्थिताः ॥ ५४ ॥

एतान्मुञ्चसि चेद्राजन्सर्वान्वै निरयस्थितान्
ततो गच्छामि सुखितः स्वर्गं पुण्यजनाश्रितम् ॥ ५५ ॥

जाबालिरुवाच
इति वाक्यमथाश्रुत्य जनकं प्रत्युवाच सः
प्रत्येकं निर्दिशञ्जीवान्निरयस्थाननेकशः ॥ ५६ ॥

धर्म उवाच
अयं मित्र कलत्रं वै विश्वस्तमनुजग्मिवान्
तस्मादेनं लोहशङ्कौ वर्षायुतमपीपचम् ॥ ५७ ॥

पश्चादेनं सूकराणां योनौ निक्षिप्य दोषिणम्
मानुषेष्ववतार्योऽयं षण्ढचिह्नेन चिह्नितः ॥ ५८ ॥

अनेन परदाराश्च बलादालिगिता मुहुः
तस्मादयं पच्यतेऽत्र रौरवे शतहायनम् ॥ ५९ ॥

अयं तु परकीयं स्वं मुषित्वा बुभुजे कुधीः
तस्मादस्य करौ छित्त्वा पचेयं पूयशोणिते ॥ ६० ॥

अयं सायन्तने प्राप्तमतिथिं क्षुधयार्दितम्
वाण्यापि नाकरोत्तस्य पूजनं स्वागतं न च ॥ ६१ ॥

तस्मादयं पातनीयस्तामिस्रेन्धनपूरिते
भ्रमरैः पीडितो यातु यातनां शतहायनम् ॥ ६२ ॥

अयं तावत्परस्योच्चैर्निन्दां कुर्वन्नलज्जितः
अयमप्यशृणोत्कर्णौ प्रेरयन्बहुशस्तु ताम् ॥ ६३ ॥

तस्मादिमावन्धकूपे पतितौ दुःखदुःखितौ
अयं मित्रध्रुगुद्विग्नः पच्यते रौरवे भृशम् ॥ ६४ ॥

तस्मादेतान्पापभोगान्कारयित्वा विमोचये
त्वं गच्छ नरशार्दूल पुण्यराशिविधायकः ॥ ६५ ॥

एवं स निर्दिशञ्जीवांस्तूष्णीमासाघकारिणः
प्रोवाच रामभक्तोऽसौ करुणापूरितेक्षणः ॥ ६६ ॥

कथं निरयनिर्मुक्तिर्जीवानां दुःखिनां भवेत्
तदाशु कथय त्वं वै यत्कृत्वा सुखमाप्नुयुः ॥ ६७ ॥

नैभिराराधितो विष्णुर्नैभिस्तस्य कथाः श्रुताः
कथं निरयनिर्मुक्तिर्भवेद्वै पापकारिणाम् ॥ ६८ ॥

यदि त्वं मोचयस्येतान्महापापकरानपि
तर्ह्यर्पय महाराज पुण्यं तत्कथयामि यत् ॥ ६९ ॥

एकदा प्रातरुत्थाय शुद्धभावेन चेतसा
ध्यातः श्रीरघुनाथोऽसौ महापापहराभिधः ॥ ७० ॥

रामरामेति यच्चोक्तं त्वया शुद्धेन चेतसा
तत्पुण्यमर्पयैतेभ्यो येन स्यान्निरयाच्च्युतिः ॥ ७१ ॥

एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य धीमतः
पुण्यं ददौ महाराज आजन्मसमुपार्जितम् ॥ ७२ ॥

यदा जन्मकृतैः पुण्यै रघुनाथार्चनोद्भवैः
एतेषां निरयान्मुक्तिर्भवत्वत्र मनोरमा ॥ ७३ ॥

एवं कथयतस्तस्य जीवा निरयसंस्थिताः
तत्क्षणान्निरयान्मुक्ता जाता दिव्यवपुर्धराः ॥ ७४ ॥

ऊचुस्ते जनकं राजंस्त्वत्प्रसादाद्वयं क्षणात्
दुःखदान्निरयान्मुक्ता यास्यामः परमं पदम् ॥ ७५ ॥

तान्दृष्ट्वा सूर्यसङ्काशान्नरान्निरयनिःसृतान्
तुतोष चित्ते सुभृशं सर्वभूतदयापरः ॥ ७६ ॥

ते सर्वे प्रययुर्लोकं दिवं देवैरलङ्कृतम्
जनकं तु प्रशंसन्तो महाराजं दयानिधिम् ॥ ७७ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदाख्याने जनकेन नरकस्थप्राणिमोचनन्नाम त्रिंशोऽध्यायः ३०