शेष उवाच
विश्वास-प्रस्तुतिः
ते तु तातवचः श्रुत्वा हर्षिताः सम्प्रहारिणः
तथेत्यूचुर्महाराजं रामदर्शनलालसम् ॥ १ ॥
मूलम्
ते तु तातवचः श्रुत्वा हर्षिताः सम्प्रहारिणः
तथेत्यूचुर्महाराजं रामदर्शनलालसम् ॥ १ ॥
विश्वास-प्रस्तुतिः
पुत्रा ऊचुः
राजन्भवत्पदाम्भोजान्नान्यं जानीमहे वयम्
यत्तव स्वान्ततो जातं तद्भवत्वद्य वेगतः ॥ २ ॥
मूलम्
पुत्रा ऊचुः
राजन्भवत्पदाम्भोजान्नान्यं जानीमहे वयम्
यत्तव स्वान्ततो जातं तद्भवत्वद्य वेगतः ॥ २ ॥
विश्वास-प्रस्तुतिः
अश्वोऽयं नीयतां तत्र सितचामरभूषितः
रत्नमालातिशोभाढ्यश्चन्दनादिकचर्चितः ॥ ३ ॥
मूलम्
अश्वोऽयं नीयतां तत्र सितचामरभूषितः
रत्नमालातिशोभाढ्यश्चन्दनादिकचर्चितः ॥ ३ ॥
विश्वास-प्रस्तुतिः
राज्यमाज्ञाफलं स्वामिन्कोशा बहुसमृद्धयः
वासांसि सुमहार्हाणि सूक्ष्माणि सुगुणानि च ॥ ४ ॥
मूलम्
राज्यमाज्ञाफलं स्वामिन्कोशा बहुसमृद्धयः
वासांसि सुमहार्हाणि सूक्ष्माणि सुगुणानि च ॥ ४ ॥
विश्वास-प्रस्तुतिः
चन्दनं चन्द्रकं चैव वाजिनः सुमनोहराः
हस्तिनस्तु मदोद्धूता रथाः काञ्चनकूबराः ॥ ५ ॥
मूलम्
चन्दनं चन्द्रकं चैव वाजिनः सुमनोहराः
हस्तिनस्तु मदोद्धूता रथाः काञ्चनकूबराः ॥ ५ ॥
विश्वास-प्रस्तुतिः
विचित्रतरवर्णादि नानाभूषणभूषिताः
दास्यः शतसहस्रं च दासाश्च सुमनोरमाः ॥ ६ ॥
मूलम्
विचित्रतरवर्णादि नानाभूषणभूषिताः
दास्यः शतसहस्रं च दासाश्च सुमनोरमाः ॥ ६ ॥
विश्वास-प्रस्तुतिः
मणयः सूर्यसङ्काशा रत्नानि विविधानि च
मुक्ताफलानि शुभ्राणि गजकुम्भभवानि च ॥ ७ ॥
मूलम्
मणयः सूर्यसङ्काशा रत्नानि विविधानि च
मुक्ताफलानि शुभ्राणि गजकुम्भभवानि च ॥ ७ ॥
विश्वास-प्रस्तुतिः
विद्रुमाः शतसाहस्रा यद्यद्वस्तुमहोदयम्
तत्सर्वं रामचन्द्राय देहि राजन्महामते ॥ ८ ॥
मूलम्
विद्रुमाः शतसाहस्रा यद्यद्वस्तुमहोदयम्
तत्सर्वं रामचन्द्राय देहि राजन्महामते ॥ ८ ॥
विश्वास-प्रस्तुतिः
सुतानस्मान्किङ्करान्नः सर्वानर्पय भूपते
कथं न कुरुषेराजंस्तदधीनं नृपासनम् ॥ ९ ॥
मूलम्
सुतानस्मान्किङ्करान्नः सर्वानर्पय भूपते
कथं न कुरुषेराजंस्तदधीनं नृपासनम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति पुत्रवचः श्रुत्वा हर्षितोऽभून्महीपतिः
उवाच च सुतान्वीरान्स्ववाक्यकरणोद्यतान् ॥ १० ॥
मूलम्
शेष उवाच
इति पुत्रवचः श्रुत्वा हर्षितोऽभून्महीपतिः
उवाच च सुतान्वीरान्स्ववाक्यकरणोद्यतान् ॥ १० ॥
विश्वास-प्रस्तुतिः
राजोवाच
आनयन्तु हयं सर्वे सन्नद्धाः शस्त्रपाणयः
नानारथपरीवारास्ततो यास्ये नृपं प्रति ॥ ११ ॥
मूलम्
राजोवाच
आनयन्तु हयं सर्वे सन्नद्धाः शस्त्रपाणयः
नानारथपरीवारास्ततो यास्ये नृपं प्रति ॥ ११ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति राज्ञोवचः श्रुत्वा विचित्रो दमनस्तथा
सुकेतुः समरे शूरा जग्मुस्तस्याज्ञयोद्यताः ॥ १२ ॥
मूलम्
शेष उवाच
इति राज्ञोवचः श्रुत्वा विचित्रो दमनस्तथा
सुकेतुः समरे शूरा जग्मुस्तस्याज्ञयोद्यताः ॥ १२ ॥
विश्वास-प्रस्तुतिः
ते गत्वाथ पुरीं शूरा वाजिनं सुमनोरमम्
सितचामरसंयुक्तं स्वर्णपत्राद्यलङ्कृतम् ॥ १३ ॥
मूलम्
ते गत्वाथ पुरीं शूरा वाजिनं सुमनोरमम्
सितचामरसंयुक्तं स्वर्णपत्राद्यलङ्कृतम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
रत्नमालाविभूषाढ्यं चित्रपत्रेणशोभितम्
विचित्रमणिभूषाढ्यं मुक्ताजालस्वलङ्कृतम् ॥ १४ ॥
मूलम्
रत्नमालाविभूषाढ्यं चित्रपत्रेणशोभितम्
विचित्रमणिभूषाढ्यं मुक्ताजालस्वलङ्कृतम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
रज्ज्वा धृतं महावीरैः पूर्वतः पृष्ठतो भटैः
महाशस्त्रास्त्रसंयुक्तैः सर्वशोभासमन्वितैः ॥ १५ ॥
मूलम्
रज्ज्वा धृतं महावीरैः पूर्वतः पृष्ठतो भटैः
महाशस्त्रास्त्रसंयुक्तैः सर्वशोभासमन्वितैः ॥ १५ ॥
विश्वास-प्रस्तुतिः
सितातपत्रमस्योच्चैर्भाति मूर्धनि वाजिनः
सुचामरद्वयं यस्य ध्रियते पुरतो मुहुः ॥ १६ ॥
मूलम्
सितातपत्रमस्योच्चैर्भाति मूर्धनि वाजिनः
सुचामरद्वयं यस्य ध्रियते पुरतो मुहुः ॥ १६ ॥
विश्वास-प्रस्तुतिः
कृष्णागर्वादिधूपैश्च धूपितं वायुवेगिनम्
राज्ञः पुरो निनायाश्वं हयमेधस्य सत्क्रतोः ॥ १७ ॥
मूलम्
कृष्णागर्वादिधूपैश्च धूपितं वायुवेगिनम्
राज्ञः पुरो निनायाश्वं हयमेधस्य सत्क्रतोः ॥ १७ ॥
विश्वास-प्रस्तुतिः
तमानीतं हयं दृष्ट्वा रत्नमालाविभूषितम्
मनोजवं कामरूपं जहर्ष मतिमान्नृपः ॥ १८ ॥
मूलम्
तमानीतं हयं दृष्ट्वा रत्नमालाविभूषितम्
मनोजवं कामरूपं जहर्ष मतिमान्नृपः ॥ १८ ॥
विश्वास-प्रस्तुतिः
जगाम पद्भ्यां शत्रुघ्नं राजचिह्नाद्यलङ्कृतः
स्वपुत्रपौत्रैः संयुक्तो राजा परमधार्मिकः ॥ १९ ॥
मूलम्
जगाम पद्भ्यां शत्रुघ्नं राजचिह्नाद्यलङ्कृतः
स्वपुत्रपौत्रैः संयुक्तो राजा परमधार्मिकः ॥ १९ ॥
विश्वास-प्रस्तुतिः
ययौ कर्तुं धनानां स सद्व्ययं चलगामिनाम्
एतद्विनश्वरं मत्वा दुःखदं सक्तचेतसाम् ॥ २० ॥
मूलम्
ययौ कर्तुं धनानां स सद्व्ययं चलगामिनाम्
एतद्विनश्वरं मत्वा दुःखदं सक्तचेतसाम् ॥ २० ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नं स ददर्शाथ सितच्छत्रेण शोभितम्
चामरैर्वीज्यमानञ्च सेवकैः पुरतः स्थितैः ॥ २१ ॥
मूलम्
शत्रुघ्नं स ददर्शाथ सितच्छत्रेण शोभितम्
चामरैर्वीज्यमानञ्च सेवकैः पुरतः स्थितैः ॥ २१ ॥
विश्वास-प्रस्तुतिः
सुमतिं परिपृच्छन्तं रामचन्द्रकथानकम्
भयवार्ताविनिर्मुक्तं वीरशोभास्वलङ्कृतम् ॥ २२ ॥
मूलम्
सुमतिं परिपृच्छन्तं रामचन्द्रकथानकम्
भयवार्ताविनिर्मुक्तं वीरशोभास्वलङ्कृतम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
वीरैः कोटिभिराकीर्णं वाजिपालनकाङ्क्षिभिः
वानराणां सहस्रैश्च समन्तात्परिवारितम् ॥ २३ ॥
मूलम्
वीरैः कोटिभिराकीर्णं वाजिपालनकाङ्क्षिभिः
वानराणां सहस्रैश्च समन्तात्परिवारितम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा शत्रुघ्नचरणौ प्रणनाम सपुत्रकः
धन्योऽहमिति संहृष्टो वदन्रामैकमानसः ॥ २४ ॥
मूलम्
दृष्ट्वा शत्रुघ्नचरणौ प्रणनाम सपुत्रकः
धन्योऽहमिति संहृष्टो वदन्रामैकमानसः ॥ २४ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नस्तं प्रणयिनं दृष्ट्वा राजानमुद्भटम्
उत्थायासनतः सर्वैर्भटैर्दोर्भ्यां स सस्वजे ॥ २५ ॥
मूलम्
शत्रुघ्नस्तं प्रणयिनं दृष्ट्वा राजानमुद्भटम्
उत्थायासनतः सर्वैर्भटैर्दोर्भ्यां स सस्वजे ॥ २५ ॥
विश्वास-प्रस्तुतिः
दृढं सम्पूज्य राजा तं शत्रुघ्नं परवीरहा
उवाच हर्षमापन्नो गद्गदस्वरया गिरा ॥ २६ ॥
मूलम्
दृढं सम्पूज्य राजा तं शत्रुघ्नं परवीरहा
उवाच हर्षमापन्नो गद्गदस्वरया गिरा ॥ २६ ॥
विश्वास-प्रस्तुतिः
सुबाहुरुवाच
अद्य धन्योस्मि ससुतः सकुटुम्बः सवाहनः
यद्युष्मच्चरणौ द्रक्ष्ये नृपकोटिभिरीडितौ ॥ २७ ॥
मूलम्
सुबाहुरुवाच
अद्य धन्योस्मि ससुतः सकुटुम्बः सवाहनः
यद्युष्मच्चरणौ द्रक्ष्ये नृपकोटिभिरीडितौ ॥ २७ ॥
विश्वास-प्रस्तुतिः
अज्ञानिना सुतेनायं गृहीतो वाजिनां वरः
दमनेनानयं त्वस्य क्षमस्व करुणानिधे ॥ २८ ॥
मूलम्
अज्ञानिना सुतेनायं गृहीतो वाजिनां वरः
दमनेनानयं त्वस्य क्षमस्व करुणानिधे ॥ २८ ॥
विश्वास-प्रस्तुतिः
न जानाति रघूत्तंसं सर्वदेवाधिदैवतम्
लीलया विश्वस्रष्टारं हन्तारमपि पालकम् ॥ २९ ॥
मूलम्
न जानाति रघूत्तंसं सर्वदेवाधिदैवतम्
लीलया विश्वस्रष्टारं हन्तारमपि पालकम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
इदं राज्यं समृद्धाङ्गं समृद्धबलवाहनम्
इमे कोशा धनैः पूर्णा इमे पुत्रा इमे वयम् ॥ ३० ॥
मूलम्
इदं राज्यं समृद्धाङ्गं समृद्धबलवाहनम्
इमे कोशा धनैः पूर्णा इमे पुत्रा इमे वयम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
सर्वे वयं रामनाथास्त्वदाज्ञा प्रतिपालकाः
गृहाण सर्वं सफलं न मेऽस्ति क्वचिदुन्मतम् ॥ ३१ ॥
मूलम्
सर्वे वयं रामनाथास्त्वदाज्ञा प्रतिपालकाः
गृहाण सर्वं सफलं न मेऽस्ति क्वचिदुन्मतम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
क्वासौ हनूमान्रामस्य चरणाम्भोजषट्पदः
यत्प्रसादादहं प्राप्स्ये राजराजस्य दर्शनम् ॥ ३२ ॥
मूलम्
क्वासौ हनूमान्रामस्य चरणाम्भोजषट्पदः
यत्प्रसादादहं प्राप्स्ये राजराजस्य दर्शनम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
साधूनां सङ्गमे किं किं प्राप्यते न महीतले
यत्प्रसादादहं मूढो ब्रह्मशापमतीतरम् ॥ ३३ ॥
मूलम्
साधूनां सङ्गमे किं किं प्राप्यते न महीतले
यत्प्रसादादहं मूढो ब्रह्मशापमतीतरम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा त्वद्य महाराजं पद्मपत्रनिभेक्षणम्
प्राप्स्यामि जन्मनः सर्वं फलं दुर्लभमत्र च ॥ ३४ ॥
मूलम्
दृष्ट्वा त्वद्य महाराजं पद्मपत्रनिभेक्षणम्
प्राप्स्यामि जन्मनः सर्वं फलं दुर्लभमत्र च ॥ ३४ ॥
विश्वास-प्रस्तुतिः
मम तावद्गतं चायुर्बहुरामवियोगिनः
स्वल्पमुर्वरितं तत्र कथं द्रक्ष्ये रघूत्तमम् ॥ ३५ ॥
मूलम्
मम तावद्गतं चायुर्बहुरामवियोगिनः
स्वल्पमुर्वरितं तत्र कथं द्रक्ष्ये रघूत्तमम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
मह्यं दर्शयतं रामं यज्ञकर्मविचक्षणम्
यदङ्घ्रिरजसापूता शिलाभूता मुनिप्रिया ॥ ३६ ॥
मूलम्
मह्यं दर्शयतं रामं यज्ञकर्मविचक्षणम्
यदङ्घ्रिरजसापूता शिलाभूता मुनिप्रिया ॥ ३६ ॥
विश्वास-प्रस्तुतिः
काकः परं पदं प्राप्तो यद्बाणस्पर्शनात्खगः
अनेके यस्य वक्त्राब्जं वीक्ष्य सङ्ख्ये पदं गताः ॥ ३७ ॥
मूलम्
काकः परं पदं प्राप्तो यद्बाणस्पर्शनात्खगः
अनेके यस्य वक्त्राब्जं वीक्ष्य सङ्ख्ये पदं गताः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
ये त्वस्य रघुनाथस्य नाम गृह्णन्ति सादराः
ते यान्ति परमं स्थानं योगिभिर्यद्विचिन्त्यते ॥ ३८ ॥
मूलम्
ये त्वस्य रघुनाथस्य नाम गृह्णन्ति सादराः
ते यान्ति परमं स्थानं योगिभिर्यद्विचिन्त्यते ॥ ३८ ॥
विश्वास-प्रस्तुतिः
धन्यायोध्याभवा लोका ये राममुखपञ्जम्
स्वलोचनपुटैः पीत्वा सुखं यान्ति महोदयम् ॥ ३९ ॥
मूलम्
धन्यायोध्याभवा लोका ये राममुखपञ्जम्
स्वलोचनपुटैः पीत्वा सुखं यान्ति महोदयम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
इति सम्भाष्य नृपतिं वाहं राज्यं धनानि च
सर्वं समर्प्य चावोचत्किङ्करोस्मि महीपते ॥ ४० ॥
मूलम्
इति सम्भाष्य नृपतिं वाहं राज्यं धनानि च
सर्वं समर्प्य चावोचत्किङ्करोस्मि महीपते ॥ ४० ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य राज्ञः परपुरञ्जयः
प्रत्युवाचेति तं भूपं वाग्मी वाक्यविशारदः ॥ ४१ ॥
मूलम्
इति वाक्यं समाकर्ण्य राज्ञः परपुरञ्जयः
प्रत्युवाचेति तं भूपं वाग्मी वाक्यविशारदः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्न उवाच
कथं राजन्निदं ब्रूषे त्वं वृद्धो मम पूजितः
सर्वं त्वदीयं त्वद्राज्यं दमनो विदधात्वयम् ॥ ४२ ॥
मूलम्
शत्रुघ्न उवाच
कथं राजन्निदं ब्रूषे त्वं वृद्धो मम पूजितः
सर्वं त्वदीयं त्वद्राज्यं दमनो विदधात्वयम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
क्षत्त्रियाणामिदं कृत्यं यत्सङ्ग्रामविधायकम्
सर्वं राज्यं धनं चेदं प्रतियातु ममाज्ञया ॥ ४३ ॥
मूलम्
क्षत्त्रियाणामिदं कृत्यं यत्सङ्ग्रामविधायकम्
सर्वं राज्यं धनं चेदं प्रतियातु ममाज्ञया ॥ ४३ ॥
विश्वास-प्रस्तुतिः
यथा मे रघुनाथस्तु पूज्यो वाङ्मनसा सदा
तथा त्वमपि मत्पूज्यो भविष्यसि महीपते ॥ ४४ ॥
मूलम्
यथा मे रघुनाथस्तु पूज्यो वाङ्मनसा सदा
तथा त्वमपि मत्पूज्यो भविष्यसि महीपते ॥ ४४ ॥
विश्वास-प्रस्तुतिः
भवान्सज्जो भवत्वद्य हयस्यानुगमं प्रति
सन्नद्धः कवची खड्गी गजाश्वरथसंयुतः ॥ ४५ ॥
मूलम्
भवान्सज्जो भवत्वद्य हयस्यानुगमं प्रति
सन्नद्धः कवची खड्गी गजाश्वरथसंयुतः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतिः
पुत्रं राज्येऽभिषेच्यैव शत्रुघ्नेन सुपूजितः ॥ ४६ ॥
मूलम्
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतिः
पुत्रं राज्येऽभिषेच्यैव शत्रुघ्नेन सुपूजितः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
महारथैः परिवृतो निजं पुत्रं रणाङ्गणे
पुष्कलेन हतं भूपः संस्कृत्य विधिपूर्वकम् ॥ ४७ ॥
मूलम्
महारथैः परिवृतो निजं पुत्रं रणाङ्गणे
पुष्कलेन हतं भूपः संस्कृत्य विधिपूर्वकम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
क्षणं शुशोच तत्त्वज्ञो लोकदृष्ट्या महारथः
ज्ञानेनानाशयच्छोकं रघुनाथमनुस्मरन् ॥ ४८ ॥
मूलम्
क्षणं शुशोच तत्त्वज्ञो लोकदृष्ट्या महारथः
ज्ञानेनानाशयच्छोकं रघुनाथमनुस्मरन् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
सज्जीभूतो रथे तिष्ठन्महासैन्यसमावृतः
आजगाम स शत्रुघ्नं महारथिपुरस्कृतः ॥ ४९ ॥
मूलम्
सज्जीभूतो रथे तिष्ठन्महासैन्यसमावृतः
आजगाम स शत्रुघ्नं महारथिपुरस्कृतः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
राजा तमागतं दृष्ट्वा सर्वसैन्यसमन्वितम्
गन्तुं चकार धिषणां हयवर्यस्य पालने ॥ ५० ॥
मूलम्
राजा तमागतं दृष्ट्वा सर्वसैन्यसमन्वितम्
गन्तुं चकार धिषणां हयवर्यस्य पालने ॥ ५० ॥
विश्वास-प्रस्तुतिः
सोऽश्वो विमोचितस्तेन भाले पत्रेण चिह्नितः
वामावर्तं भ्रमन्प्रायात्पौर्वाञ्जनपदान्बहून् ॥ ५१ ॥
मूलम्
सोऽश्वो विमोचितस्तेन भाले पत्रेण चिह्नितः
वामावर्तं भ्रमन्प्रायात्पौर्वाञ्जनपदान्बहून् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तत्रतत्रत्य भूपालैर्महाशूराभिपूजितैः
प्रणतिः क्रियते तस्य न कोपि तमगृह्णत ॥ ५२ ॥
मूलम्
तत्रतत्रत्य भूपालैर्महाशूराभिपूजितैः
प्रणतिः क्रियते तस्य न कोपि तमगृह्णत ॥ ५२ ॥
विश्वास-प्रस्तुतिः
केचिद्वासांसि चित्राणि केचिद्राज्यं स्वकं महत्
केचिद्धनं जनं केचिदानीय प्रणमन्ति तम् ॥ ५३ ॥
मूलम्
केचिद्वासांसि चित्राणि केचिद्राज्यं स्वकं महत्
केचिद्धनं जनं केचिदानीय प्रणमन्ति तम् ॥ ५३ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नस्य
सुबाहुना सह निर्याणन्नाम एकोनत्रिंशत्तमोऽध्यायः २९