शेष उवाच
विश्वास-प्रस्तुतिः
अथ पुत्रं समालोक्य पतितं व्यसुमुद्धतम्
विललाप भृशं राजा सुतदुःखेन दुःखितः ॥ १ ॥
मूलम्

मूर्ध्नि सन्ताडयामास पाणिभ्यामतिदुःखितः
कम्पमानो भृशं चाश्रूण्यमुञ्चन्नयनाब्जयोः ॥ २ ॥

गृहीत्वा पतितं वक्त्रं चन्द्रबिम्बमनोरमम्
पुष्कलेषु क्षतासृग्भिः क्लिन्नं कुण्डलशोभितम् ॥ ३ ॥

कुटिलभ्रूयुगं श्रेष्ठं सन्दष्टाधरपल्लवम्
स चुम्बन्मुखपद्मेन विलपन्निदमब्रवीत् ॥ ४ ॥

हा पुत्र वीर कथमुत्सुकचेतसं मां
किं नेक्षसे विशदनेत्रयुगेन शूर
किं मद्विनोदकथयारहितस्त्वमेव
रोषोदधिप्लुतमनाः किल लक्ष्यसे च ॥ ५ ॥
मूलम्
हा पुत्र वीर कथमुत्सुकचेतसं मां
किं नेक्षसे विशदनेत्रयुगेन शूर
किं मद्विनोदकथयारहितस्त्वमेव
रोषोदधिप्लुतमनाः किल लक्ष्यसे च ॥ ५ ॥
विश्वास-प्रस्तुतिः
वद पुत्र कथं मां त्वं प्रब्रूषे न हसन्पुनः
अमृतैर्मधुरास्वादैर्विनोदयसि पुत्रक ॥ ६ ॥

शत्रुघ्नाश्वं गृहाण त्वं सितचामरशोभितम्
स्वर्णपत्रेण शोभाढ्यं त्यज निद्रां महामते ॥ ७ ॥

एष प्रतापविशदः प्रतापाग्र्यः परन्तपः
धनुर्बिभ्रत्पुरो भाति पुष्कलः परवीरहा ॥ ८ ॥

एनं वारय सत्तीक्ष्णैर्बाणैः कोदण्डनिर्गतैः
कथं त्वं रणमध्ये वै शेते वीरविमोहितः ॥ ९ ॥

हस्तिनः पत्तयश्चैव रथारूढा भयार्दिताः
शरणं त्वां समायान्ति तानीक्षस्व महामते ॥ १० ॥

पुत्र त्वया विना सोढुं कथं शक्तो रणाङ्गणे
शत्रुघ्नसायकांस्तीक्ष्णांश्चण्डकोदण्डनिर्गतान् ॥ ११ ॥

अतो मां तु त्वया हीनं को वा पालयितुं क्षमः
यदि त्यक्ष्यसि निद्रा त्वं जयायाहं क्षमस्तदा ॥ १२ ॥

इत्थं विलप्य सुभृशं तताड हृदयं स्वकम्
बहुशः पाणिना राजा पुत्रदुःखेन दुःखितः ॥ १३ ॥

तदा विचित्र दमनौ स्व स्व स्यन्दनसंस्थितौ
पितुश्चरणयोर्नत्वा ऊचतुः समयोचितम् ॥ १४ ॥

राजन्नस्मासु जीवत्सु किं दुःखं हृदि तद्वद
वीराणां प्रधने मृत्युर्वाञ्च्छितो जायते महान् ॥ १५ ॥

धन्योऽयं बत चित्राङ्गो यो वीर भुवि शोभते
सकिरीटस्तु सन्दष्टदन्तच्छदयुगः प्रभुः ॥ १६ ॥

कथयाशु किमद्यैव कुर्वस्ते कार्यमीप्सितम्
शत्रुघ्नवाहिनीं सर्वां हन्व आवामनाथिनीम् ॥ १७ ॥

अद्यैव पुष्कलं भ्रातुर्वधकारिणमाहवे
पातयावो रथाच्छित्त्वा शिरोमुकुटमण्डितम् ॥ १८ ॥

त्यज शोकं सुदुःखार्तः कथं भासि महामते
आज्ञापयावां मानार्ह कुरु युद्धे मतिं तथा ॥ १९ ॥

इति वाक्यं समाकर्ण्य पुत्रयोर्वीरमानिनोः
शोकं त्यक्त्वा महाराजो युद्धाय मतिमादधात् ॥ २० ॥

तावपि प्रतियोद्धारं वाञ्च्छन्तौ रणदुर्मदौ
जग्मतुः कटके शत्रोरनन्तभटपूरिते ॥ २१ ॥

रिपुतापेन दमनो नीलरत्नेन चेतरः
युयुधाते रणे वीरौ प्रावृषीव बलाहकौ ॥ २२ ॥

राजा कनकसन्नद्धे रथे मणिविचित्रिते
रत्नकूबरशोभाढ्ये तिष्ठंश्चापधरो बली ॥ २३ ॥

ययौ योद्धुं तु शत्रुघ्नं वीरकोटभिरावृतम्
तृणीकुर्वन्महावीरान्धनुर्विद्याविशारदान् ॥ २४ ॥

तं योद्धुमागतं दृष्ट्वा सुबाहुं रोषपूरितम्
पुत्रनाशेन कुर्वन्तं सर्वसैन्यवधादिकम् ॥ २५ ॥

शत्रुघ्नपार्श्वसञ्चारी हनूमांस्तमुपाद्रवत्
नखायुधो महानादं कुर्वन्मेघ इवाहवे ॥ २६ ॥

सुबाहुस्तं हनूमन्तमागच्छन्तं महारवम्
उवाच प्रहसन्वाक्यं रोषपूरितलोचनः ॥ २७ ॥
मूलम्
सुबाहुस्तं हनूमन्तमागच्छन्तं महारवम्
उवाच प्रहसन्वाक्यं रोषपूरितलोचनः ॥ २७ ॥
विश्वास-प्रस्तुतिः
क्व गतः पुष्कलो हत्वा मत्पुत्रं रणमण्डले
पातयाम्यद्य तस्याशु शिरो ज्वलितकुण्डलम् ॥ २८ ॥

क्व शत्रुघ्नो वाहपालः क्व च रामः कुतो भटाः
प्राणहन्तारमायान्तं पश्यन्तु प्रधने तु माम् ॥ २९ ॥

इति तद्वाक्यमाकर्ण्य हनूमान्निजगाद तम्
शत्रुघ्नो लवणच्छेत्ता वर्तते सैन्यपालकः ॥ ३० ॥

स कथं प्रधने युध्येत्सेवकेऽग्रे स्थिते नृप
मां विजित्य रणे तं च त्वं गन्तासि नरर्षभ ॥ ३१ ॥

इत्युक्तवन्तं तरसा विव्याध दशसायकैः
हृदि वानरमत्युग्रं पर्वताग्र्यमिवस्थितम् ॥ ३२ ॥

सबाणानागतांस्तांश्च गृहीत्वा करसम्पुटे
चूर्णयामास तिलशः शितान्वैरिविदारणान् ॥ ३३ ॥

चूर्णयित्वा शरांस्तांस्तु निनदन्घनगर्जितैः
पुच्छेनावेष्ट्य तस्योच्चै रथं निन्ये महाबलः ॥ ३४ ॥

तदा तं नृपवर्योऽसावाकाशे स्थित एव सः
लाङ्गूलं ताडयामास शिताग्रैः सायकैर्मुहुः ॥ ३५ ॥

स ताडितस्तु पुच्छाग्रे शरैः सन्नतपर्वभिः
मुमोच तद्रथं दिव्यं कनकेन विचित्रितम् ॥ ३६ ॥

स मुक्तस्तेन तरसा शरैस्तीक्ष्णैर्जघान तम्
हनूमन्तं कपिवरं रोषसम्पूरितेक्षणः ॥ ३७ ॥

हनूमान्बाणविच्छिन्नः सर्वत्ररुधिराप्लुतः
महारोषं समाधत्त नृपोपरि कपीश्वरः ॥ ३८ ॥

गृहीत्वा तस्य दंष्ट्राभी रथं हयसमन्वितम्
चूर्णयामस वेगेन तदद्भुतमिवाभवत् ॥ ३९ ॥

स्वरथं भज्यमानं तु दृष्ट्वा राजा त्वरन्बली
अन्यं रथं समास्थाय युयुधे तं महाबलम् ॥ ४० ॥

पुच्छे मुखेऽथोरसि च भुजे चरणयोर्नृपः
जघान शरसन्धानकोविदः परमास्त्रवित् ॥ ४१ ॥

तदा क्रुद्धः कपिवरस्ताडयामास वक्षसि
पादेनोत्प्लुत्य वेगेन राज्ञः सुभटशोभिनः ॥ ४२ ॥

स पदा प्रहतो भूमौ पपात किल मूर्च्छितः
मुखाद्वमन्नसृक्चोष्णं श्वासपूरप्रवेपितः ॥ ४३ ॥

तदा प्रकुपितोऽत्यन्तं हनूमान्प्रधनाङ्गणे
अश्वान्वीरान्गजांश्चापि चूर्णयामास वेगतः ॥ ४४ ॥

तदा सुकेतुस्तद्भ्राता तथा लक्ष्मीनिधिर्नृपः
उभावपि सुसन्नद्धौ युद्धाय समुपस्थितौ ॥ ४५ ॥

राजानं मूर्च्छितं दृष्ट्वा प्रपलाय्य गता नराः
इतस्ततो बाणसङ्घैः क्षताः पुष्कलवर्षितैः ॥ ४६ ॥

तद्भज्यमानं स्वबलं वीक्ष्य राजात्मजो बली
दमनः स्तम्भयामास सेतुर्वार्धिमिवोच्चलम् ॥ ४७ ॥

तदा तु मूर्च्छितो राजा स्वप्नमेकं ददर्श ह
रणमध्ये कपिवरप्रपदाघातताडितः ॥ ४८ ॥

रामचन्द्रस्त्वयोध्यायां सरयूतीरमण्डपे
ब्राह्मणैर्याज्ञिकश्रेष्ठैर्बहुभिः परिवारितः ॥ ४९ ॥

तत्र ब्रह्मादयो देवास्तत्र ब्रह्माण्डकोटयः
कृतप्राञ्जलयस्तं वै स्तुवन्ति स्तुतिभिर्मुहुः ॥ ५० ॥

रामं श्यामं सुनयनं मृगशृङ्गपरिग्रहम्
गायन्ति नारदाद्याश्च वीणोल्लसितपाणयः ॥ ५१ ॥

नृत्यन्त्यप्सरसस्तत्र घृताची मेनकादयः
वेदा मूर्तिधरा भूत्वा उपतिष्ठन्ति राघवम् ॥ ५२ ॥

यच्च किञ्चिद्वस्तुजातं सर्वशोभासमन्वितम्
तस्य दातारमखिलं भक्तानां भोगदायकम् ॥ ५३ ॥

इत्येवमादिसम्पश्यञ्जाग्रत्सञ्ज्ञामवाप सः
ब्रह्मशापहतज्ञानः किं दृष्टमिति वै वदन् ॥ ५४ ॥

उत्थाय प्रययौ पद्भ्यां शत्रुघ्नचरणं प्रति
भृत्यकोटिपरीवारो रथकोटिपरीवृतः ॥ ५५ ॥

सुकेतुं तु समाहूय विचित्रं दमनं तथा
युद्धं कर्तुं समुद्युक्तान्वारयामास धर्मवित् ॥ ५६ ॥

उवाच तान्महाराजो धर्मात्मा धर्मसंयुतः
भ्रातःपुत्रौ शृणुत मे वाक्यं धर्मसमन्वितम् ॥ ५७ ॥

मा युद्धं कुरुत क्षिप्रमनयस्तु महानभूत्
यद्रामचन्द्रवाहं त्वमगृह्णाद्दमनोर्ज्जितम् ॥ ५८ ॥

एष रामः परम्ब्रह्म कार्यकारणतः परम्
चराचरजगत्स्वामी न मानुषवपुर्धरः ॥ ५९ ॥
मूलम्
एष रामः परम्ब्रह्म कार्यकारणतः परम्
चराचरजगत्स्वामी न मानुषवपुर्धरः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
एतद्धि ब्रह्मविज्ञानमधुना ज्ञातवानहम्
पुरासिताङ्गशापेन हृतज्ञानधनोऽनघाः ॥ ६० ॥

अहं पुरा तीर्थयात्रां गतस्तत्त्वविवित्सया
तत्रानेके मया दृष्टा मुनयो धर्मवित्तमाः ॥ ६१ ॥

असिताङ्गं मुनिमहं गतवाञ्ज्ञातुमिच्छया
तदा प्रोवाच मां विप्रः कृपां कृत्वा ममोपरि ॥ ६२ ॥

योऽसावयोध्याधिपतिः स परब्रह्मशब्दितः
तस्य या जानकी देवी साक्षात्सा चिन्मयी स्मृता ॥ ६३ ॥

एनं तु योगिनः साक्षादुपासते यमादिभिः
दुस्तरा पारसंसारवारिधिं सन्तितीर्षवः ॥ ६४ ॥

स्मृतमात्रो महापापहारी स गरुडध्वजः
य एनं सेवते विद्वान्स संसारं तरिष्यति ॥ ६५ ॥

तदाहमहसं विप्रं कोऽयं रामस्तु मानुषः
केयं सा जानकी देवी हर्षशोकसमाकुला ॥ ६६ ॥

अजन्मनः कथं जन्म अकर्तुः कृत्यमत्र किम्
जन्मदुःखजरातीतं कथयस्व मुने मम ॥ ६७ ॥
मूलम्
अजन्मनः कथं जन्म अकर्तुः कृत्यमत्र किम्
जन्मदुःखजरातीतं कथयस्व मुने मम ॥ ६७ ॥
विश्वास-प्रस्तुतिः
इत्युक्तवन्तं मां क्रुद्धः शशाप स मुनीश्वरः
अज्ञात्वा तत्स्वरूपं त्वं प्रतिब्रूषे ममाधम ॥ ६८ ॥

एनं निन्दसि रामं त्वं मानुषोऽयमिदं हसन्
तस्मात्त्वं तत्त्वसम्मूढो भविष्यस्युदरम्भरिः ॥ ६९ ॥

तदाहं तस्य चरणावगृह्णं सदया युतः
दृष्ट्वा मे विनयं मां तु प्रावोचत्करुणानिधिः ॥ ७० ॥

त्वं रामस्य मखे विघ्नं करिष्यसि यदा नृप
तदा हनूमानङ्घ्रिं त्वां ताडयिष्यति वेगतः ॥ ७१ ॥

तदा त्वं ज्ञास्यसे राजन्नान्यथा स्वमनीषया
पुराहमुक्तस्तेनैवं तद्दृष्टमधुना मया ॥ ७२ ॥

यदा मां हनुमान्क्रुद्धस्ताडयामास वक्षसि
तदाऽदर्शं रमानाथं पूर्णब्रह्मस्वरूपिणम् ॥ ७३ ॥

तस्मादश्वं तु शोभाढ्यमानयन्तु महाबलाः
धनानि चैव वासांसि राज्यं चेदं समर्पये ॥ ७४ ॥

रामं दृष्ट्वा कृतार्थः स्यामहं यज्ञेति पुण्यदे
आनयन्तु हयं मह्यं रोचते तु तदर्पणम् ॥ ७५ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
सुबाहुपराजयोनाम अष्टाविंशतितमोऽध्यायः२८