०२७

शेष उवाच

विश्वास-प्रस्तुतिः

चित्राङ्गः क्रौञ्चकण्ठस्थो रथस्थो वीरशोभितः
गाहयामास तत्सैन्यं वाराह इव वारिधिम् ॥ १ ॥

मूलम्

चित्राङ्गः क्रौञ्चकण्ठस्थो रथस्थो वीरशोभितः
गाहयामास तत्सैन्यं वाराह इव वारिधिम् ॥ १ ॥

विश्वास-प्रस्तुतिः

धनुर्विस्फार्य सुदृढं मेघनादनिनादितम्
मुमोच बाणान्निशितान्वैरिकोटिविदाहकान् ॥ २ ॥

मूलम्

धनुर्विस्फार्य सुदृढं मेघनादनिनादितम्
मुमोच बाणान्निशितान्वैरिकोटिविदाहकान् ॥ २ ॥

विश्वास-प्रस्तुतिः

तद्बाणभिन्नसर्वाङ्गाः शेरते सुभटा भृशम्
सकिरीटतनुत्राणाः सन्दष्टदशनच्छदाः ॥ ३ ॥

मूलम्

तद्बाणभिन्नसर्वाङ्गाः शेरते सुभटा भृशम्
सकिरीटतनुत्राणाः सन्दष्टदशनच्छदाः ॥ ३ ॥

विश्वास-प्रस्तुतिः

एवं प्रवृत्ते सङ्ग्रामे ययौ योद्धुं स पुष्कलः
मणिचित्रितमादाय चापं वैरिप्रतापनम् ॥ ४ ॥

मूलम्

एवं प्रवृत्ते सङ्ग्रामे ययौ योद्धुं स पुष्कलः
मणिचित्रितमादाय चापं वैरिप्रतापनम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

तयोः सङ्गतयोरूपं दृश्यतेऽतिमनोहरम्
पुरा तारकसङ्ग्रामे स्कन्दतारकयोर्यथा ॥ ५ ॥

मूलम्

तयोः सङ्गतयोरूपं दृश्यतेऽतिमनोहरम्
पुरा तारकसङ्ग्रामे स्कन्दतारकयोर्यथा ॥ ५ ॥

विश्वास-प्रस्तुतिः

विस्फारयन्धनुः शीघ्रं सव्यसाची तु पुष्कलः
ताडयामास तं क्षिप्रं शरैः सन्नतपर्वभिः ॥ ६ ॥

मूलम्

विस्फारयन्धनुः शीघ्रं सव्यसाची तु पुष्कलः
ताडयामास तं क्षिप्रं शरैः सन्नतपर्वभिः ॥ ६ ॥

विश्वास-प्रस्तुतिः

चित्राङ्गोऽपि रुषाक्रान्तः शरासन इषूञ्छितान्
दधद्व्यमुञ्चद्बहुशो रणमण्डलमूर्धनि ॥ ७ ॥

मूलम्

चित्राङ्गोऽपि रुषाक्रान्तः शरासन इषूञ्छितान्
दधद्व्यमुञ्चद्बहुशो रणमण्डलमूर्धनि ॥ ७ ॥

विश्वास-प्रस्तुतिः

नादानं न च सन्धानं न मोचनमथापि वा
दृष्टं तावेव सन्दृष्टौ कुण्डलीकृतचापिनौ ॥ ८ ॥

मूलम्

नादानं न च सन्धानं न मोचनमथापि वा
दृष्टं तावेव सन्दृष्टौ कुण्डलीकृतचापिनौ ॥ ८ ॥

विश्वास-प्रस्तुतिः

तदासौ पुष्कलः क्रुद्धः शराणां शतकेन तम्
विव्याध वक्षःस्थलके महायोद्धारमुद्भटम् ॥ ९ ॥

मूलम्

तदासौ पुष्कलः क्रुद्धः शराणां शतकेन तम्
विव्याध वक्षःस्थलके महायोद्धारमुद्भटम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

चित्राङ्गस्ताञ्शरान्सर्वांश्चिच्छेद तिलशः क्षणात्
ताडयामास चाङ्गेषु पुष्कलं शितसायकैः ॥ १० ॥

मूलम्

चित्राङ्गस्ताञ्शरान्सर्वांश्चिच्छेद तिलशः क्षणात्
ताडयामास चाङ्गेषु पुष्कलं शितसायकैः ॥ १० ॥

विश्वास-प्रस्तुतिः

पुष्कलस्तद्रथं दिव्यं भ्रामकास्त्रेण शोभिना
नभसि भ्रामयामास तदद्भुतमिवाभवत् ॥ ११ ॥

मूलम्

पुष्कलस्तद्रथं दिव्यं भ्रामकास्त्रेण शोभिना
नभसि भ्रामयामास तदद्भुतमिवाभवत् ॥ ११ ॥

विश्वास-प्रस्तुतिः

भ्रान्त्वा मुहूर्तमात्रं तु सरथो हयसंयुतः
स्थितिर्लेभेतिकष्टेन सन्धृतो रणमण्डले ॥ १२ ॥

मूलम्

भ्रान्त्वा मुहूर्तमात्रं तु सरथो हयसंयुतः
स्थितिर्लेभेतिकष्टेन सन्धृतो रणमण्डले ॥ १२ ॥

विश्वास-प्रस्तुतिः

स चास्य विक्रमं दृष्ट्वा चित्राङ्गः कुपितो भृशम्
उवाच पुष्कलं धीमान्सर्वास्त्रेषु विशारदः ॥ १३ ॥

मूलम्

स चास्य विक्रमं दृष्ट्वा चित्राङ्गः कुपितो भृशम्
उवाच पुष्कलं धीमान्सर्वास्त्रेषु विशारदः ॥ १३ ॥

विश्वास-प्रस्तुतिः

चित्राङ्ग उवाच
त्वया साधुकृतं कर्म सुभटैर्युधिसम्मतम्
मद्रथो वाजिसंयुक्तो भ्रामितो नभसि क्षणम् ॥ १४ ॥

मूलम्

चित्राङ्ग उवाच
त्वया साधुकृतं कर्म सुभटैर्युधिसम्मतम्
मद्रथो वाजिसंयुक्तो भ्रामितो नभसि क्षणम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

पराक्रमं समीक्षस्व ममापि सुभटेरितम्
आकाशचारी तु भवान्भवत्वमरपूजितः ॥ १५ ॥

मूलम्

पराक्रमं समीक्षस्व ममापि सुभटेरितम्
आकाशचारी तु भवान्भवत्वमरपूजितः ॥ १५ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा स मुमोचास्त्रं रणे परमदारुणम्
धनुषा परमास्त्रज्ञः सर्वधर्मविदुत्तमः ॥ १६ ॥

मूलम्

इत्युक्त्वा स मुमोचास्त्रं रणे परमदारुणम्
धनुषा परमास्त्रज्ञः सर्वधर्मविदुत्तमः ॥ १६ ॥

विश्वास-प्रस्तुतिः

तेन बाणेन संविद्धः खे बभ्राम पतङ्गवत्
सरथः सहयः सङ्ख्ये सध्वजश्च ससारथिः ॥ १७ ॥

मूलम्

तेन बाणेन संविद्धः खे बभ्राम पतङ्गवत्
सरथः सहयः सङ्ख्ये सध्वजश्च ससारथिः ॥ १७ ॥

विश्वास-प्रस्तुतिः

भ्रान्त्वा सरथवर्यस्तु नभसि त्वरयान्वितः
यावत्स्थितिं न लभते तावन्मुक्तोऽपरः शरः ॥ १८ ॥

मूलम्

भ्रान्त्वा सरथवर्यस्तु नभसि त्वरयान्वितः
यावत्स्थितिं न लभते तावन्मुक्तोऽपरः शरः ॥ १८ ॥

विश्वास-प्रस्तुतिः

पुनश्च परिबभ्राम रथः सूतसमन्वितः
तत्कर्मवीक्ष्य पुत्रस्य राज्ञो विस्मयमाप सः ॥ १९ ॥

मूलम्

पुनश्च परिबभ्राम रथः सूतसमन्वितः
तत्कर्मवीक्ष्य पुत्रस्य राज्ञो विस्मयमाप सः ॥ १९ ॥

विश्वास-प्रस्तुतिः

कथञ्चित्स्थितिमप्याप पुष्कलः परवीरहा
रथं जघान बाणैश्च ससूतहयमस्य च ॥ २० ॥

मूलम्

कथञ्चित्स्थितिमप्याप पुष्कलः परवीरहा
रथं जघान बाणैश्च ससूतहयमस्य च ॥ २० ॥

विश्वास-प्रस्तुतिः

सभग्नस्यन्दनो वीरः पुनरन्यं समाश्रितः
सोऽपि भग्नः शरैराशु पुष्कलेन रणाङ्गणे ॥ २१ ॥

मूलम्

सभग्नस्यन्दनो वीरः पुनरन्यं समाश्रितः
सोऽपि भग्नः शरैराशु पुष्कलेन रणाङ्गणे ॥ २१ ॥

विश्वास-प्रस्तुतिः

पुनरन्यं समास्थाय यावदायाति सम्मुखम्
तावद्बभञ्ज निशितैः सायकैस्तद्रथं पुनः ॥ २२ ॥

मूलम्

पुनरन्यं समास्थाय यावदायाति सम्मुखम्
तावद्बभञ्ज निशितैः सायकैस्तद्रथं पुनः ॥ २२ ॥

विश्वास-प्रस्तुतिः

एवं दश रथा भग्ना नृपतेरात्मजस्य हि
पुष्कलेन तु वीरेण महासंयुगशालिना ॥ २३ ॥

मूलम्

एवं दश रथा भग्ना नृपतेरात्मजस्य हि
पुष्कलेन तु वीरेण महासंयुगशालिना ॥ २३ ॥

विश्वास-प्रस्तुतिः

तदा चित्राङ्गकः सङ्ख्ये रथे स्थित्वा विचित्रिते
आजगाम ह वेगेन पुष्कलं प्रति योधितुम् ॥ २४ ॥

मूलम्

तदा चित्राङ्गकः सङ्ख्ये रथे स्थित्वा विचित्रिते
आजगाम ह वेगेन पुष्कलं प्रति योधितुम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

पुष्कलं पञ्चभिर्बाणैस्ताडयामास संयुगे
तैर्बाणैर्निहतोऽत्यतं विव्यथे भरतात्मजः ॥ २५ ॥

मूलम्

पुष्कलं पञ्चभिर्बाणैस्ताडयामास संयुगे
तैर्बाणैर्निहतोऽत्यतं विव्यथे भरतात्मजः ॥ २५ ॥

विश्वास-प्रस्तुतिः

सक्रुद्धश्चापमुद्यम्य बाणान्दश शितान्महान्
मुमोच हृदये तस्य स्वर्णपुङ्खसुशोभितान् ॥ २६ ॥

मूलम्

सक्रुद्धश्चापमुद्यम्य बाणान्दश शितान्महान्
मुमोच हृदये तस्य स्वर्णपुङ्खसुशोभितान् ॥ २६ ॥

विश्वास-प्रस्तुतिः

ते बाणाः पपुरेतस्य रुधिरं बहुदारुणाः
पीत्वा पेतुः क्षितौ कूटसाक्षिणः पूर्वजा इव ॥ २७ ॥

मूलम्

ते बाणाः पपुरेतस्य रुधिरं बहुदारुणाः
पीत्वा पेतुः क्षितौ कूटसाक्षिणः पूर्वजा इव ॥ २७ ॥

विश्वास-प्रस्तुतिः

तदा चित्राङ्गकः क्रुद्धो भल्लान्पञ्च समाददे
मुमोच भाले पुत्रस्य भरतस्य महौजसः ॥ २८ ॥

मूलम्

तदा चित्राङ्गकः क्रुद्धो भल्लान्पञ्च समाददे
मुमोच भाले पुत्रस्य भरतस्य महौजसः ॥ २८ ॥

विश्वास-प्रस्तुतिः

तैर्भल्लैराहतः क्रुद्धः शरासनवरे शरम्
दधत्प्रतिज्ञामकरोच्चित्राङ्गनिधनं प्रति ॥ २९ ॥

मूलम्

तैर्भल्लैराहतः क्रुद्धः शरासनवरे शरम्
दधत्प्रतिज्ञामकरोच्चित्राङ्गनिधनं प्रति ॥ २९ ॥

विश्वास-प्रस्तुतिः

शृणु वीर मम क्षिप्रं प्रतिज्ञां त्वद्वधाश्रिताम्
तज्ज्ञात्वा सावधानेन योद्धव्यं च त्वयात्र हि ॥ ३० ॥

मूलम्

शृणु वीर मम क्षिप्रं प्रतिज्ञां त्वद्वधाश्रिताम्
तज्ज्ञात्वा सावधानेन योद्धव्यं च त्वयात्र हि ॥ ३० ॥

विश्वास-प्रस्तुतिः

बाणेनानेन चेत्त्वां वै न कुर्यां प्राणवर्जितम्
सतीं सन्दूष्य वनितां शीलाचारसुशोभिताम् ॥ ३१ ॥

मूलम्

बाणेनानेन चेत्त्वां वै न कुर्यां प्राणवर्जितम्
सतीं सन्दूष्य वनितां शीलाचारसुशोभिताम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

यो लोकः प्राप्यते लोकैर्यमस्य वशवर्तिभिः
स लोको मम वै भूयात्सत्यं मम प्रतिश्रुतम् ॥ ३२ ॥

मूलम्

यो लोकः प्राप्यते लोकैर्यमस्य वशवर्तिभिः
स लोको मम वै भूयात्सत्यं मम प्रतिश्रुतम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

इति श्रेष्ठं वचः श्रुत्वा जहास परवीरहा
उवाच मतिमान्वीरः पुष्कलं वचनं शुभम् ॥ ३३ ॥

मूलम्

इति श्रेष्ठं वचः श्रुत्वा जहास परवीरहा
उवाच मतिमान्वीरः पुष्कलं वचनं शुभम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

मृत्युर्वै प्राणिनां भाव्यः सर्वत्रैव च सर्वदा
तस्मान्मे निधने दुःखं नास्ति शूरशिरोमणे ॥ ३४ ॥

मूलम्

मृत्युर्वै प्राणिनां भाव्यः सर्वत्रैव च सर्वदा
तस्मान्मे निधने दुःखं नास्ति शूरशिरोमणे ॥ ३४ ॥

विश्वास-प्रस्तुतिः

प्रतिज्ञा या कृता वीर त्वया वीरत्वशालिना
सा सत्यैव पुनर्मेऽद्य श्रूयतां व्याहृतं महत् ॥ ३५ ॥

मूलम्

प्रतिज्ञा या कृता वीर त्वया वीरत्वशालिना
सा सत्यैव पुनर्मेऽद्य श्रूयतां व्याहृतं महत् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

त्वद्बाणं मद्वधोद्युक्तं न च्छिन्द्यां यदि चेदहम्
तदा प्रतिज्ञां शृणु मे सर्ववीराभिमानिनः ॥ ३६ ॥

मूलम्

त्वद्बाणं मद्वधोद्युक्तं न च्छिन्द्यां यदि चेदहम्
तदा प्रतिज्ञां शृणु मे सर्ववीराभिमानिनः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तीर्थं जिगमिषोर्यो वै कुर्यात्स्वान्तविखण्डनम्
एकादशीव्रतादन्यज्जानाति व्रतमुच्चकैः ॥ ३७ ॥

मूलम्

तीर्थं जिगमिषोर्यो वै कुर्यात्स्वान्तविखण्डनम्
एकादशीव्रतादन्यज्जानाति व्रतमुच्चकैः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तस्य पापं ममैवास्तु प्रतिज्ञापरिघातिनः
इति वाक्यमुदीर्यैव तूष्णीम्भूतो धनुर्दधे ॥ ३८ ॥

मूलम्

तस्य पापं ममैवास्तु प्रतिज्ञापरिघातिनः
इति वाक्यमुदीर्यैव तूष्णीम्भूतो धनुर्दधे ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तदानेन निषङ्गात्स्वादुद्धृत्य सायकं वरम्
कथयामास विशदं वाक्यं शत्रुवधावहम् ॥ ३९ ॥

मूलम्

तदानेन निषङ्गात्स्वादुद्धृत्य सायकं वरम्
कथयामास विशदं वाक्यं शत्रुवधावहम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

पुष्कल उवाच
यदि रामाङ्घ्रियुगुलं निष्कापट्येन चेतसा
उपासितं मया तर्हि मम वाक्यमृतं भवेत् ॥ ४० ॥

मूलम्

पुष्कल उवाच
यदि रामाङ्घ्रियुगुलं निष्कापट्येन चेतसा
उपासितं मया तर्हि मम वाक्यमृतं भवेत् ॥ ४० ॥

विश्वास-प्रस्तुतिः

यदि स्वमहिलां भुक्त्वा नान्यां जानामिचेतसा
तेन सत्येन मे वाक्यं सत्यं भवतु सङ्गरे ॥ ४१ ॥

मूलम्

यदि स्वमहिलां भुक्त्वा नान्यां जानामिचेतसा
तेन सत्येन मे वाक्यं सत्यं भवतु सङ्गरे ॥ ४१ ॥

विश्वास-प्रस्तुतिः

इति वाक्यमुदीर्याशु बाणं धनुषि सन्धितम्
कालानलोपमं वीरशिरश्छेदनमाक्षिपत् ॥ ४२ ॥

मूलम्

इति वाक्यमुदीर्याशु बाणं धनुषि सन्धितम्
कालानलोपमं वीरशिरश्छेदनमाक्षिपत् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तं बाणं मुक्तमालोक्य स तु राजसुतो बली
बाणं शरासने धत्त तीक्ष्णं कालानलोपमम् ॥ ४३ ॥

मूलम्

तं बाणं मुक्तमालोक्य स तु राजसुतो बली
बाणं शरासने धत्त तीक्ष्णं कालानलोपमम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

तेन बाणेन सञ्छिन्नो बाणः स्ववधउद्यतः
हाहाकारो महानासीच्छिन्ने तस्मिञ्छरे तदा ॥ ४४ ॥

मूलम्

तेन बाणेन सञ्छिन्नो बाणः स्ववधउद्यतः
हाहाकारो महानासीच्छिन्ने तस्मिञ्छरे तदा ॥ ४४ ॥

विश्वास-प्रस्तुतिः

परार्धं पतितं भूमौ पूर्वार्धं फलसंयुतम्
शिरोधरां चकर्ताशु पद्मनालमिव क्षणात् ॥ ४५ ॥

मूलम्

परार्धं पतितं भूमौ पूर्वार्धं फलसंयुतम्
शिरोधरां चकर्ताशु पद्मनालमिव क्षणात् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

तदा भूमौ पतन्तं तु दृष्ट्वा तत्तस्यसैनिकाः
हाहाकृत्वा भृशं सर्वे पलायनपरागताः ॥ ४६ ॥

मूलम्

तदा भूमौ पतन्तं तु दृष्ट्वा तत्तस्यसैनिकाः
हाहाकृत्वा भृशं सर्वे पलायनपरागताः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

पृथ्व्यां तन्मस्तकं श्रेष्ठं सकिरीटं सकुण्डलम्
शुशुभेऽतीव पतितं चन्द्रबिम्बं दिवो यथा ॥ ४७ ॥

मूलम्

पृथ्व्यां तन्मस्तकं श्रेष्ठं सकिरीटं सकुण्डलम्
शुशुभेऽतीव पतितं चन्द्रबिम्बं दिवो यथा ॥ ४७ ॥

विश्वास-प्रस्तुतिः

तं वीक्ष्य पतितं वीरः पुष्कलो भरतात्मजः
व्यगाहत व्यूहमिमं सर्ववीरैकशोभितम् ॥ ४८ ॥

मूलम्

तं वीक्ष्य पतितं वीरः पुष्कलो भरतात्मजः
व्यगाहत व्यूहमिमं सर्ववीरैकशोभितम् ॥ ४८ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
चित्राङ्गवधोनाम सप्तविंशतितमोऽध्यायः २७