०२६

शेष उवाच

विश्वास-प्रस्तुतिः

शत्रुघ्नस्तद्बलं दृष्ट्वा भीषणाकृतिमेघवत्
हस्त्यश्वरथपादातैर्बहुभिः परिवारितम् ॥ १ ॥

मूलम्

शत्रुघ्नस्तद्बलं दृष्ट्वा भीषणाकृतिमेघवत्
हस्त्यश्वरथपादातैर्बहुभिः परिवारितम् ॥ १ ॥

विश्वास-प्रस्तुतिः

सुमतिं प्रत्युवाचेदं वचोगम्भीरशब्दयुक्
नानावाक्यविचारज्ञैः पण्डितैः परिसेवितः ॥ २ ॥

मूलम्

सुमतिं प्रत्युवाचेदं वचोगम्भीरशब्दयुक्
नानावाक्यविचारज्ञैः पण्डितैः परिसेवितः ॥ २ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्न उवाच
सुमते कस्य नगरं प्राप्तो मे हयसत्तमः
बलमेतन्निरीक्षेहं पयोदधितरङ्गवत् ॥ ३ ॥

मूलम्

शत्रुघ्न उवाच
सुमते कस्य नगरं प्राप्तो मे हयसत्तमः
बलमेतन्निरीक्षेहं पयोदधितरङ्गवत् ॥ ३ ॥

विश्वास-प्रस्तुतिः

कस्यैतद्बलमुद्धर्षं चतुरङ्गसमन्वितम्
पुरतो भाति युद्धाय समुपस्थितमादरात् ॥ ४ ॥

मूलम्

कस्यैतद्बलमुद्धर्षं चतुरङ्गसमन्वितम्
पुरतो भाति युद्धाय समुपस्थितमादरात् ॥ ४ ॥

विश्वास-प्रस्तुतिः

एतत्सर्वं समाचक्ष्व यथावत्पृच्छतो मम
यज्ज्ञात्वा युद्धसंस्थायै निर्दिशामि स्वकान्भटान् ॥ ५ ॥

मूलम्

एतत्सर्वं समाचक्ष्व यथावत्पृच्छतो मम
यज्ज्ञात्वा युद्धसंस्थायै निर्दिशामि स्वकान्भटान् ॥ ५ ॥

विश्वास-प्रस्तुतिः

इति वाक्यं समाकर्ण्य सुमतिः शुभबुद्धिमान्
उवाच वचनं प्रीतः शत्रुघ्नं वैरितापनम् ॥ ६ ॥

मूलम्

इति वाक्यं समाकर्ण्य सुमतिः शुभबुद्धिमान्
उवाच वचनं प्रीतः शत्रुघ्नं वैरितापनम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

सुमतिरुवाच
चक्राङ्का नगरी राजन्वर्तते सविधे शुभा
यस्यां सन्ति नराः पापरहिता विष्णुभक्तितः ॥ ७ ॥

मूलम्

सुमतिरुवाच
चक्राङ्का नगरी राजन्वर्तते सविधे शुभा
यस्यां सन्ति नराः पापरहिता विष्णुभक्तितः ॥ ७ ॥

विश्वास-प्रस्तुतिः

तस्याः पुर्याः पतिरयं सुबाहुर्धर्मवित्तमः
तवायं पुरतो भाति पुत्रपौत्रसमावृतः ॥ ८ ॥

मूलम्

तस्याः पुर्याः पतिरयं सुबाहुर्धर्मवित्तमः
तवायं पुरतो भाति पुत्रपौत्रसमावृतः ॥ ८ ॥

विश्वास-प्रस्तुतिः

स्वदारनिरतो नित्यं परदारपराङ्मुखः
विष्णोः कथास्य कर्णस्थाना परार्थप्रकाशिनी ॥ ९ ॥

मूलम्

स्वदारनिरतो नित्यं परदारपराङ्मुखः
विष्णोः कथास्य कर्णस्थाना परार्थप्रकाशिनी ॥ ९ ॥

विश्वास-प्रस्तुतिः

परस्वं न समादत्ते षष्ठांशादधिकं नृपः
ब्राह्मणा विष्णुभक्त्यैव पूज्यन्ते तेन धर्मिणा ॥ १० ॥

मूलम्

परस्वं न समादत्ते षष्ठांशादधिकं नृपः
ब्राह्मणा विष्णुभक्त्यैव पूज्यन्ते तेन धर्मिणा ॥ १० ॥

विश्वास-प्रस्तुतिः

नित्यं सेवारतो विष्णुपादपद्ममधुव्रतः
एष स्वधर्मनिरतः परधर्मपराङ्मुखः ॥ ११ ॥

मूलम्

नित्यं सेवारतो विष्णुपादपद्ममधुव्रतः
एष स्वधर्मनिरतः परधर्मपराङ्मुखः ॥ ११ ॥

विश्वास-प्रस्तुतिः

एतस्य बलतुल्यं हि न वीराणां बलं क्वचित्
पुत्रस्य पतनं श्रुत्वा रोषशोकसमाकुलः ॥ १२ ॥

मूलम्

एतस्य बलतुल्यं हि न वीराणां बलं क्वचित्
पुत्रस्य पतनं श्रुत्वा रोषशोकसमाकुलः ॥ १२ ॥

विश्वास-प्रस्तुतिः

चतुरङ्गसमेतोऽयं युद्धाय समुपस्थितः
तवापि वीरा बहवो लक्ष्मीनिधिमुखा अमून् ॥ १३ ॥

मूलम्

चतुरङ्गसमेतोऽयं युद्धाय समुपस्थितः
तवापि वीरा बहवो लक्ष्मीनिधिमुखा अमून् ॥ १३ ॥

विश्वास-प्रस्तुतिः

जेष्यन्ति शस्त्रसङ्घेन निर्दिशाशु परं हि तान्
शत्रुघ्नस्तद्वचः श्रुत्वा प्रोवाच स्वभटान्वरान् ॥ १४ ॥

मूलम्

जेष्यन्ति शस्त्रसङ्घेन निर्दिशाशु परं हि तान्
शत्रुघ्नस्तद्वचः श्रुत्वा प्रोवाच स्वभटान्वरान् ॥ १४ ॥

विश्वास-प्रस्तुतिः

रणप्राप्तिभवोद्धर्षपूरपूरितमानसान्
क्रौञ्चव्यूहोऽद्य रचितः सुबाहुपरिसैनिकैः ॥ १५ ॥

मूलम्

रणप्राप्तिभवोद्धर्षपूरपूरितमानसान्
क्रौञ्चव्यूहोऽद्य रचितः सुबाहुपरिसैनिकैः ॥ १५ ॥

विश्वास-प्रस्तुतिः

मुखपक्षस्थिता योधास्तान्को भेत्स्यति शस्त्रवित्
यस्य भेदे निजा शक्तिर्यो वीर विजयोद्यतः ॥ १६ ॥

मूलम्

मुखपक्षस्थिता योधास्तान्को भेत्स्यति शस्त्रवित्
यस्य भेदे निजा शक्तिर्यो वीर विजयोद्यतः ॥ १६ ॥

विश्वास-प्रस्तुतिः

स गृह्णातु मदीयाद्धि पाणिपद्माच्च वीटकम्
तदा लक्ष्मीनिधिर्वीरो जग्राह क्रौञ्चभेदने ॥ १७ ॥

मूलम्

स गृह्णातु मदीयाद्धि पाणिपद्माच्च वीटकम्
तदा लक्ष्मीनिधिर्वीरो जग्राह क्रौञ्चभेदने ॥ १७ ॥

विश्वास-प्रस्तुतिः

सर्वशस्त्रास्त्रविद्वीरैर्बहुभिः परिवारितः
उवाच वचनं राजन्यास्येऽहं क्रौञ्चभेदने ॥ १८ ॥

मूलम्

सर्वशस्त्रास्त्रविद्वीरैर्बहुभिः परिवारितः
उवाच वचनं राजन्यास्येऽहं क्रौञ्चभेदने ॥ १८ ॥

विश्वास-प्रस्तुतिः

भार्गवः पूर्वमेवासीत्क्रौञ्चभेत्ता तथा ह्यहम्
तथान्यं वीरमावोचत्कोऽस्य सार्धं गमिष्यति ॥ १९ ॥

मूलम्

भार्गवः पूर्वमेवासीत्क्रौञ्चभेत्ता तथा ह्यहम्
तथान्यं वीरमावोचत्कोऽस्य सार्धं गमिष्यति ॥ १९ ॥

विश्वास-प्रस्तुतिः

पुष्कलः पृष्ठतस्तस्य यातुं चक्रे मतिं ततः
रिपुतापो नीलरत्न उग्राश्वो वीरमर्दनः ॥ २० ॥

मूलम्

पुष्कलः पृष्ठतस्तस्य यातुं चक्रे मतिं ततः
रिपुतापो नीलरत्न उग्राश्वो वीरमर्दनः ॥ २० ॥

विश्वास-प्रस्तुतिः

सर्वे शत्रुघ्नसन्देशाद्ययुस्तत्क्रौञ्चभेदने
शत्रुघ्नोऽपि रथस्थश्च सर्वायुधधरः परः ॥ २१ ॥

मूलम्

सर्वे शत्रुघ्नसन्देशाद्ययुस्तत्क्रौञ्चभेदने
शत्रुघ्नोऽपि रथस्थश्च सर्वायुधधरः परः ॥ २१ ॥

विश्वास-प्रस्तुतिः

पृष्ठतोऽस्य परीयाय बहुभिः सैनिकैर्वृतः
तदा प्रचलितौ दृष्टावन्योन्यबलवारिधी ॥ २२ ॥

मूलम्

पृष्ठतोऽस्य परीयाय बहुभिः सैनिकैर्वृतः
तदा प्रचलितौ दृष्टावन्योन्यबलवारिधी ॥ २२ ॥

विश्वास-प्रस्तुतिः

प्रलयं कर्तुमुद्युक्तौ जगतः सुतरङ्गिणौ
तदा भेर्यः समाजघ्नुरुभयोः सेनयोर्दृढाः ॥ २३ ॥

मूलम्

प्रलयं कर्तुमुद्युक्तौ जगतः सुतरङ्गिणौ
तदा भेर्यः समाजघ्नुरुभयोः सेनयोर्दृढाः ॥ २३ ॥

विश्वास-प्रस्तुतिः

रणभेर्यः शङ्खनादाः श्रूयन्ते तत्र तत्र ह
हेषन्ते वाजिनस्तत्र गर्जन्ति द्विरदा भृशम् ॥ २४ ॥

मूलम्

रणभेर्यः शङ्खनादाः श्रूयन्ते तत्र तत्र ह
हेषन्ते वाजिनस्तत्र गर्जन्ति द्विरदा भृशम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

हुं हुं कुर्वन्ति वीराग्र्या नदन्ति रथनेमयः
तत्र प्रकुपिताः शूराः सुबाहुबलदर्पिताः ॥ २५ ॥

मूलम्

हुं हुं कुर्वन्ति वीराग्र्या नदन्ति रथनेमयः
तत्र प्रकुपिताः शूराः सुबाहुबलदर्पिताः ॥ २५ ॥

विश्वास-प्रस्तुतिः

छिन्धि भिन्धीति भाषन्तो दृश्यन्ते बहवो रणे
एवम्भूते रणोद्युक्ते सैन्ये शत्रुघ्नवैरिणोः ॥ २६ ॥

मूलम्

छिन्धि भिन्धीति भाषन्तो दृश्यन्ते बहवो रणे
एवम्भूते रणोद्युक्ते सैन्ये शत्रुघ्नवैरिणोः ॥ २६ ॥

विश्वास-प्रस्तुतिः

मुखसंस्थं सुकेतुं तं लक्ष्मीनिधिरुवाच ह
लक्ष्मीनिधिरुवाच
जनकस्य सुतं विद्धि लक्ष्मीनिधिरिति स्मृतम् ॥ २७ ॥

मूलम्

मुखसंस्थं सुकेतुं तं लक्ष्मीनिधिरुवाच ह
लक्ष्मीनिधिरुवाच
जनकस्य सुतं विद्धि लक्ष्मीनिधिरिति स्मृतम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

सर्वशस्त्रास्त्रकुशलं सर्वयुद्धविशारदम्
मुञ्चाश्वं रामचन्द्रस्य सर्वदानवदंशितुः ॥ २८ ॥

मूलम्

सर्वशस्त्रास्त्रकुशलं सर्वयुद्धविशारदम्
मुञ्चाश्वं रामचन्द्रस्य सर्वदानवदंशितुः ॥ २८ ॥

विश्वास-प्रस्तुतिः

नोचेन्मद्बाणनिर्भिन्नो यास्यसे यमसादनम्
इति ब्रुवन्तं वीराग्र्यं सुकेतुः सहसा त्वरन् ॥ २९ ॥

मूलम्

नोचेन्मद्बाणनिर्भिन्नो यास्यसे यमसादनम्
इति ब्रुवन्तं वीराग्र्यं सुकेतुः सहसा त्वरन् ॥ २९ ॥

विश्वास-प्रस्तुतिः

सज्यं चापं विधायाशु बाणान्मुञ्चन्स्थिरोऽभवत्
ते बाणाः शितपर्वाणः स्वर्णपुङ्खाः समन्ततः ॥ ३० ॥

मूलम्

सज्यं चापं विधायाशु बाणान्मुञ्चन्स्थिरोऽभवत्
ते बाणाः शितपर्वाणः स्वर्णपुङ्खाः समन्ततः ॥ ३० ॥

विश्वास-प्रस्तुतिः

दृश्यन्ते व्यापिनस्तत्र रणमध्ये सुदुर्भराः
तद्बाणजालं तरसा निहत्य
लक्ष्मीनिधिश्चापमथा ततज्यम्
विधाय तस्योरसि बाणषट्कं
मुमोच तीक्ष्णं शितपर्वशोभितम् ॥ ३१ ॥

मूलम्

दृश्यन्ते व्यापिनस्तत्र रणमध्ये सुदुर्भराः
तद्बाणजालं तरसा निहत्य
लक्ष्मीनिधिश्चापमथा ततज्यम्
विधाय तस्योरसि बाणषट्कं
मुमोच तीक्ष्णं शितपर्वशोभितम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तद्बाणाः सुभुजभ्रातुर्हृदयं संविदार्य च
गतास्ते भुवि दृश्यन्ते रुधिराक्ता मलीमसाः ॥ ३२ ॥

मूलम्

तद्बाणाः सुभुजभ्रातुर्हृदयं संविदार्य च
गतास्ते भुवि दृश्यन्ते रुधिराक्ता मलीमसाः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

तद्बाणभिन्नहृदयः सुकेतुः कोपपूरितः
जघानशरविंशत्या तीक्ष्णया नतपर्वया ॥ ३३ ॥

मूलम्

तद्बाणभिन्नहृदयः सुकेतुः कोपपूरितः
जघानशरविंशत्या तीक्ष्णया नतपर्वया ॥ ३३ ॥

विश्वास-प्रस्तुतिः

उभौ बाणविभिन्नाङ्गावुभौ क्षतजविप्लुतौ
सैनिकैः परिदृश्यन्ते किंशुकाविव पुष्पितौ ॥ ३४ ॥

मूलम्

उभौ बाणविभिन्नाङ्गावुभौ क्षतजविप्लुतौ
सैनिकैः परिदृश्यन्ते किंशुकाविव पुष्पितौ ॥ ३४ ॥

विश्वास-प्रस्तुतिः

मुञ्चन्तौ बाणकोटीश्च सन्दधन्तौ त्वरा शरान्
न केनापि विलक्ष्येते लघुहस्तौ महाबलौ ॥ ३५ ॥

मूलम्

मुञ्चन्तौ बाणकोटीश्च सन्दधन्तौ त्वरा शरान्
न केनापि विलक्ष्येते लघुहस्तौ महाबलौ ॥ ३५ ॥

विश्वास-प्रस्तुतिः

कुण्डलीकृत सच्चापौ वर्षन्तौ बाणधारया
नवाम्बुदाविव दिवि शक्रनिर्देशकारिणौ ॥ ३६ ॥

मूलम्

कुण्डलीकृत सच्चापौ वर्षन्तौ बाणधारया
नवाम्बुदाविव दिवि शक्रनिर्देशकारिणौ ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तयोर्बाणा गजान्वाहान्नराञ्छूरान्विमस्तकान्
कुर्वन्तः केवलं दृष्टा न च सन्धानमोक्षयोः ॥ ३७ ॥

मूलम्

तयोर्बाणा गजान्वाहान्नराञ्छूरान्विमस्तकान्
कुर्वन्तः केवलं दृष्टा न च सन्धानमोक्षयोः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

पृथिवी सुभटैः पूर्णा सकिरीटैः सकुण्डलैः
धनुर्बाणकरै रोषसन्दष्टाधरयुग्मकैः ॥ ३८ ॥

मूलम्

पृथिवी सुभटैः पूर्णा सकिरीटैः सकुण्डलैः
धनुर्बाणकरै रोषसन्दष्टाधरयुग्मकैः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तयोः प्रयुद्ध्यतोर्दर्पात्सर्वशस्त्रास्त्रवेदिनोः
युद्धं समभवद्घोरं देवविस्मापनं महत् ॥ ३९ ॥

मूलम्

तयोः प्रयुद्ध्यतोर्दर्पात्सर्वशस्त्रास्त्रवेदिनोः
युद्धं समभवद्घोरं देवविस्मापनं महत् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

सम्मर्दोऽभवदत्यन्तं वीरकोटिविदारणः
न केनचित्क्वचिद्दृष्टं शरजालान्तरेंऽबरम् ॥ ४० ॥

मूलम्

सम्मर्दोऽभवदत्यन्तं वीरकोटिविदारणः
न केनचित्क्वचिद्दृष्टं शरजालान्तरेंऽबरम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

तस्मिंस्तु समये लक्ष्मीनिधिर्वीरोऽरिमर्दनः
बाणांश्चापे समाधत्त वसुसङ्ख्यान्दृढाञ्छितान् ॥ ४१ ॥

मूलम्

तस्मिंस्तु समये लक्ष्मीनिधिर्वीरोऽरिमर्दनः
बाणांश्चापे समाधत्त वसुसङ्ख्यान्दृढाञ्छितान् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

चतुर्भिस्तुरगान्वीरः सुकेतोरनयत्क्षयम्
एकेन ध्वजमत्युग्रं चिच्छेद तरसा हसन् ॥ ४२ ॥

मूलम्

चतुर्भिस्तुरगान्वीरः सुकेतोरनयत्क्षयम्
एकेन ध्वजमत्युग्रं चिच्छेद तरसा हसन् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

एकेन सारथेः कायाच्छिरोभूमावपातयत्
एकेन चापं सगुणमच्छिनद्रोषपूरितः ॥ ४३ ॥

मूलम्

एकेन सारथेः कायाच्छिरोभूमावपातयत्
एकेन चापं सगुणमच्छिनद्रोषपूरितः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

एकेन हृदि विव्याध सुकेतोर्वेगवान्नृपः
तत्कर्माद्भुतमुद्वीक्ष्य वीरा विस्मयमाययुः ॥ ४४ ॥

मूलम्

एकेन हृदि विव्याध सुकेतोर्वेगवान्नृपः
तत्कर्माद्भुतमुद्वीक्ष्य वीरा विस्मयमाययुः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः
महतीं स गदां धृत्वा योद्घुकामोऽभ्युपेयिवान् ॥ ४५ ॥

मूलम्

सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः
महतीं स गदां धृत्वा योद्घुकामोऽभ्युपेयिवान् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

तमायान्तं समालक्ष्य गदायुद्धविशारदम्
महत्या गदया युक्तं रथादवततार सः ॥ ४६ ॥

मूलम्

तमायान्तं समालक्ष्य गदायुद्धविशारदम्
महत्या गदया युक्तं रथादवततार सः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

गदामादाय महतीं सर्वायसविनिर्मिताम्
जातरूपविचित्राङ्गीं सर्वशोभापुरस्कृताम् ॥ ४७ ॥

मूलम्

गदामादाय महतीं सर्वायसविनिर्मिताम्
जातरूपविचित्राङ्गीं सर्वशोभापुरस्कृताम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

लक्ष्मीनिधिर्भृशं क्रुद्धः सुकेतोर्वक्षसि त्वरन्
ताडयामास हृदये गदां वज्राग्निसन्निभाम् ॥ ४८ ॥

मूलम्

लक्ष्मीनिधिर्भृशं क्रुद्धः सुकेतोर्वक्षसि त्वरन्
ताडयामास हृदये गदां वज्राग्निसन्निभाम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

गदया ताडितो वीरो नाकम्पत महामुने
मदोन्मत्तो यथा दन्ती बालेन स्रग्भिराहतः ॥ ४९ ॥

मूलम्

गदया ताडितो वीरो नाकम्पत महामुने
मदोन्मत्तो यथा दन्ती बालेन स्रग्भिराहतः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

उवाच तं स वीराग्र्यो नृपं लक्ष्मीनिधिं तदा
सहस्वैकं प्रहारं मे यदि शूरः परन्तप ॥ ५० ॥

मूलम्

उवाच तं स वीराग्र्यो नृपं लक्ष्मीनिधिं तदा
सहस्वैकं प्रहारं मे यदि शूरः परन्तप ॥ ५० ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा ताडयामास ललाटे गदया भृशम्
गदया ताडितो भालेऽसृग्वमन्कुपितो भृशम् ॥ ५१ ॥

मूलम्

इत्युक्त्वा ताडयामास ललाटे गदया भृशम्
गदया ताडितो भालेऽसृग्वमन्कुपितो भृशम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

मूर्ध्नि तं ताडयामास गदया कालरूपया
सुकेतुरपि तं स्कन्धे ताडयामास धर्मवित् ॥ ५२ ॥

मूलम्

मूर्ध्नि तं ताडयामास गदया कालरूपया
सुकेतुरपि तं स्कन्धे ताडयामास धर्मवित् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

एवं भृशं प्रकुपितौ गदायुद्धविशारदौ
गदायुद्धं प्रकुर्वाणौ परस्परजयैषिणौ ॥ ५३ ॥

मूलम्

एवं भृशं प्रकुपितौ गदायुद्धविशारदौ
गदायुद्धं प्रकुर्वाणौ परस्परजयैषिणौ ॥ ५३ ॥

विश्वास-प्रस्तुतिः

अन्योन्याघातविमतौ परस्परवधोद्यतौ
न कोपि तत्र हीयेत न को जीयेत संयुगे ॥ ५४ ॥

मूलम्

अन्योन्याघातविमतौ परस्परवधोद्यतौ
न कोपि तत्र हीयेत न को जीयेत संयुगे ॥ ५४ ॥

विश्वास-प्रस्तुतिः

मूर्ध्नि भाले तथा स्कन्धे हृदि गात्रेषु सर्वतः
रुधिरौघ परिक्लिन्नौ महाबलपराक्रमौ ॥ ५५ ॥

मूलम्

मूर्ध्नि भाले तथा स्कन्धे हृदि गात्रेषु सर्वतः
रुधिरौघ परिक्लिन्नौ महाबलपराक्रमौ ॥ ५५ ॥

विश्वास-प्रस्तुतिः

तदा लक्ष्मीनिधिः क्रुद्धो गदामुद्यम्य वेगवान्
जगाम प्रबलं हन्तुं हृदि राजानुजं बली ॥ ५६ ॥

मूलम्

तदा लक्ष्मीनिधिः क्रुद्धो गदामुद्यम्य वेगवान्
जगाम प्रबलं हन्तुं हृदि राजानुजं बली ॥ ५६ ॥

विश्वास-प्रस्तुतिः

तमायान्तमथालोक्य स्वगदां महतीं दधत्
ययौ तं तरसा हन्तुं राजभ्राता बलाद्बलम् ॥ ५७ ॥

मूलम्

तमायान्तमथालोक्य स्वगदां महतीं दधत्
ययौ तं तरसा हन्तुं राजभ्राता बलाद्बलम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

गदां तेन विनिक्षिप्तां स्वकरे धृतवानयम्
तयैव गदया तस्य हृदि जघ्ने महाबलः ॥ ५८ ॥

मूलम्

गदां तेन विनिक्षिप्तां स्वकरे धृतवानयम्
तयैव गदया तस्य हृदि जघ्ने महाबलः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

स्वगदां तेन वै नीतां दृष्ट्वा लक्ष्मीनिधिर्नृपः
बाहुयुद्धेन तं योद्धुमियेष बलवत्तमम् ॥ ५९ ॥

मूलम्

स्वगदां तेन वै नीतां दृष्ट्वा लक्ष्मीनिधिर्नृपः
बाहुयुद्धेन तं योद्धुमियेष बलवत्तमम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

तदा राजानुजः क्रुद्धो बाहुभ्यामुपगृह्य तम्
युयुधे सर्वयुद्धस्य ज्ञातावीरेषु सत्तमः ॥ ६० ॥

मूलम्

तदा राजानुजः क्रुद्धो बाहुभ्यामुपगृह्य तम्
युयुधे सर्वयुद्धस्य ज्ञातावीरेषु सत्तमः ॥ ६० ॥

विश्वास-प्रस्तुतिः

तदा लक्ष्मीनिधिस्तस्य हृदि जघ्ने स्वमुष्टिना
तदा सोपि शिरस्येनं मुष्टिमुद्यम्य चाहनत् ॥ ६१ ॥

मूलम्

तदा लक्ष्मीनिधिस्तस्य हृदि जघ्ने स्वमुष्टिना
तदा सोपि शिरस्येनं मुष्टिमुद्यम्य चाहनत् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

मुष्टिभिर्वज्रसङ्काशैस्तलस्फोटैश्च दारुणैः
अन्योन्यं जघ्नतुः क्रुद्धौ सन्दष्टाधरपल्लवौ ॥ ६२ ॥

मूलम्

मुष्टिभिर्वज्रसङ्काशैस्तलस्फोटैश्च दारुणैः
अन्योन्यं जघ्नतुः क्रुद्धौ सन्दष्टाधरपल्लवौ ॥ ६२ ॥

विश्वास-प्रस्तुतिः

मुष्टी मुष्टि दन्ता दन्ति कचा कचि नखा नखि
उभयोरभवद्युद्धं तुमुलं रोमहर्षणम् ॥ ६३ ॥

मूलम्

मुष्टी मुष्टि दन्ता दन्ति कचा कचि नखा नखि
उभयोरभवद्युद्धं तुमुलं रोमहर्षणम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

तदा प्रकुपितो भ्राता नृपतेश्च रणे नृपम्
गृहीत्वा भ्रामयित्वाथ पातयामास भूतले ॥ ६४ ॥

मूलम्

तदा प्रकुपितो भ्राता नृपतेश्च रणे नृपम्
गृहीत्वा भ्रामयित्वाथ पातयामास भूतले ॥ ६४ ॥

विश्वास-प्रस्तुतिः

लक्ष्मीनिधिः करे गृह्य तं नृपानुजमुच्चकैः
भ्रामयित्वा शतगुणं गजोपस्थे जघान तम् ॥ ६५ ॥

मूलम्

लक्ष्मीनिधिः करे गृह्य तं नृपानुजमुच्चकैः
भ्रामयित्वा शतगुणं गजोपस्थे जघान तम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

स तदा पतितो भूमौ सञ्ज्ञां प्राप्य क्षणादनु
तथैव भ्रामयामास व्योम्नि वेगेन विक्रमी ॥ ६६ ॥

मूलम्

स तदा पतितो भूमौ सञ्ज्ञां प्राप्य क्षणादनु
तथैव भ्रामयामास व्योम्नि वेगेन विक्रमी ॥ ६६ ॥

विश्वास-प्रस्तुतिः

एवं प्रयुध्यमानौ तौ बाहुयुद्धं गतौ पुनः
पादे पादं करे पाणिं हृदि हृद्वदने मुखम् ॥ ६७ ॥

मूलम्

एवं प्रयुध्यमानौ तौ बाहुयुद्धं गतौ पुनः
पादे पादं करे पाणिं हृदि हृद्वदने मुखम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

एवं परस्परं श्लिष्टौ परस्परवधैषिणौ
उभावपि पराक्रान्तावुभावपि मुमूर्च्छतुः ॥ ६८ ॥

मूलम्

एवं परस्परं श्लिष्टौ परस्परवधैषिणौ
उभावपि पराक्रान्तावुभावपि मुमूर्च्छतुः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

तद्दृष्ट्वा विस्मयं प्राप्ताः प्रशशंसुः सहस्रशः
धन्यो लक्ष्मीनिधिर्भूपो धन्यो राजानुजो बली ॥ ६९ ॥

मूलम्

तद्दृष्ट्वा विस्मयं प्राप्ताः प्रशशंसुः सहस्रशः
धन्यो लक्ष्मीनिधिर्भूपो धन्यो राजानुजो बली ॥ ६९ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
गदायुद्धन्नाम षड्विंशतितमोऽध्यायः २६