शेष उवाच
विश्वास-प्रस्तुतिः
अथ वीक्ष्य भटान्निजान्नृपो रुधिरौघेण परिप्लुताङ्गकान्
सुखमाप न वै शुशोच तान्परिपप्रच्छ सुतस्य चेष्टितम् ॥ १ ॥
मूलम्

गदताखिलकर्म तस्य वै स कथं चाहरदश्ववर्यकम्
कथयन्तु पुनः कियद्बलं बत वीराः कति योद्धुमागताः ॥ २ ॥

अथ शत्रुबलोन्मुखः कथं मम वीरो दमनो रणं व्यधात्
विजयं च विधाय दुर्जयं किल वीरं बत कोऽप्यशातयत् ॥ ३ ॥

इत्याकर्ण्य वचो राज्ञः प्रत्यूचुस्तेऽस्य सेवकाः
क्षतजेन परिक्लिन्न गात्रवस्त्रादिधारिणः ॥ ४ ॥

राजन्नश्वं समालोक्य पत्रचिह्नाद्यलङ्कृतम्
ग्राहयामास गर्वेण तृणीकृत्य रघूत्तमम् ॥ ५ ॥

ततो हयानुगः प्राप्तः स्वल्पसैन्यसमावृतः
तेन साकमभूद्युद्धं तुमुलं रोमहर्षणम् ॥ ६ ॥

तं मूर्च्छितं ततः कृत्वा तव पुत्रः स्वसायकैः
यावत्तिष्ठत्यथायातः शत्रुघ्नः स्वबलैर्वृतः ॥ ७ ॥

ततो युद्धं महदभूच्छस्त्रास्त्रपरिबृंहितम्
बहुशो जयमापेदे तव पुत्रो महाबलः ॥ ८ ॥

इदानीं तेन मुक्त्वास्त्रं शत्रुघ्नभ्रातृसूनुना
मूर्च्छितः प्रधने राजन्कृतो वीरः सुतस्तव ॥ ९ ॥

इति वाक्यं समाकर्ण्य रोषशोकसमन्वितः
स्थगिताङ्ग इवासीत्स समुद्र इव पर्वणि ॥ १० ॥

उवाच सेनाधिपतिं रोषप्रस्फुरिताधरः
दन्तैर्दताँल्लिहन्नोष्ठं जिह्वया शोककर्शितः ॥ ११ ॥

सेनापते कुरुष्वारान्मम सेनां तु सज्जिताम्
योत्स्ये रामस्य सुभटैर्ममपुत्रोपघातकैः ॥ १२ ॥

अद्याहं मम पुत्रस्य दुःखदं निशितैः शरैः
पातयिष्ये यदि ह्येनं रक्षितापि महेश्वरः ॥ १३ ॥

सेनापतिरिदं वाक्यं प्रोक्तं सुभुजभूपतेः
निशम्य च तथा कृत्वा सज्जीभूतो भवत्स्वयम् ॥ १४ ॥

राज्ञे निवेदयामास ससज्जां चतुरङ्गिणीम्
सेनां कालबलप्रख्यां हतदुर्जनकोटिकाम् ॥ १५ ॥

श्रुत्वा सेनापतेर्वाक्यं सुबाहुः परवीरहा
निर्जगाम ततो यत्र शत्रुघ्नः स्वसुतार्दनः ॥ १६ ॥

कुञ्जरैश्च मदोन्मत्तैर्हयैश्चापि मनोजवैः
रथैश्च सर्वशस्त्रास्त्रपूरितै रिपुजेतृभिः ॥ १७ ॥

भूश्चकम्पे तदा तत्र सैन्यभारेण भूरिणा
सम्मर्दः सुमहानासीत्तत्र सैन्ये विसर्पति ॥ १८ ॥

राजानं निर्गतं दृष्ट्वा रथेन कनकाङ्गिना
शत्रुघ्नबलमुद्युक्तं सर्ववैरिप्रहारकम् ॥ १९ ॥

सुकेतुस्तस्य वै भ्राता गदायुद्धविशारदः
रथेनाश्वा जगामायं सर्वशस्त्रास्त्रपूरितः ॥ २० ॥

चित्राङ्गस्तु सुतो राज्ञः सर्वयुद्धविचक्षणः
जगाम स्वरथेनाशु शत्रुघ्नबलमुन्मदम् ॥ २१ ॥

तस्यानुजो विचित्राख्यो विचित्ररणकोविदः
ययौ रथेन हैमेन भ्रातृदुःखेन पीडितः ॥ २२ ॥

अन्ये शूरा महेष्वासाः सर्वशस्त्रास्त्रकोविदाः
ययुर्नृपसमादिष्टाः प्रधनं वीरपूरितम् ॥ २३ ॥

राजा सुबाहुः संरोषादागतः प्रधनाङ्गणे
विलोकयामास सुतं मूर्च्छितं शरपीडितम् ॥ २४ ॥

रथोपस्थस्थितं मूढं स्वसुतं दमनाभिधम्
वीक्ष्य दुःखं मुहुः प्राप वीजयामास पल्लवैः ॥ २५ ॥

जलेन सिक्तः संस्पृष्टो राज्ञा कोमलपाणिना
सञ्ज्ञामाप शनैर्वीरो दमनः परमास्त्रवित् ॥ २६ ॥

उत्थितः क्व धनुर्मेऽस्ति क्व पुष्कल इतो गतः
संसज्य समरं त्यक्त्वा मद्बाणव्रणपीडितः ॥ २७ ॥

इति वाक्यं समाकर्ण्य सुबाहुः पुत्रभाषितम्
परमं हर्षमापेदे परिरभ्य सुतं स्वकम् ॥ २८ ॥

दमनो वीक्ष्य जनकं नृपं नम्रशिरोधरः
पपात पादयोर्भक्त्या क्षतदेहोऽस्त्रराजिभिः ॥ २९ ॥

स्वसुतं रथसंस्थं तु विधाय नृपतिः पुनः
जगाद सेनाधिपतिं रणकर्मविशारदः ॥ ३० ॥
मूलम्
स्वसुतं रथसंस्थं तु विधाय नृपतिः पुनः
जगाद सेनाधिपतिं रणकर्मविशारदः ॥ ३० ॥
विश्वास-प्रस्तुतिः
व्यूहं रचय सङ्ग्रामे क्रौञ्चाख्यं रिपुदुर्जयम्
यमाविश्य जये सैन्यं शत्रुघ्नस्य महीपतेः ॥ ३१ ॥

तद्वाक्यमाकर्ण्य सुबाहुभूपतेः
क्रौञ्चाख्यसद्व्यूहविशेषमादधात्
यन्नो विशन्ते सहसा रिपोर्गणा
महाबलाः शस्त्रसमूहधारिणः ॥ ३२ ॥
मूलम्
तद्वाक्यमाकर्ण्य सुबाहुभूपतेः
क्रौञ्चाख्यसद्व्यूहविशेषमादधात्
यन्नो विशन्ते सहसा रिपोर्गणा
महाबलाः शस्त्रसमूहधारिणः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
मुखे सुकेतुस्तस्यासीद्गले चित्राङ्गसञ्ज्ञकः
पक्षयो राजपुत्रौ द्वौ पुच्छे राजा प्रतिष्ठितः ॥ ३३ ॥

मध्ये सैन्यं महत्तस्य चतुरङ्गैस्तु शोभितम्
कृत्वा न्यवेदयद्राज्ञे क्रौञ्चव्यूहं विचित्रितम् ॥ ३४ ॥

राजा दृष्ट्वा सुसन्नद्धं क्रौञ्चव्यूहं सुनिर्मितम्
रणाय स्वमतिं चक्रे शत्रुघ्नकटके स्थितैः ॥ ३५ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
सुबाहुसैन्यसमागमोनाम पञ्चविंशोऽध्यायः २५