शेष उवाच
विश्वास-प्रस्तुतिः
शत्रुघ्नस्तु क्रुधाविष्टो दन्तान्दन्तैर्विनिष्पिषन्
हस्तौ धुन्वंल्लेलिहानमधरं जिह्वया सकृत् ॥ १ ॥
मूलम्
शत्रुघ्नस्तु क्रुधाविष्टो दन्तान्दन्तैर्विनिष्पिषन्
हस्तौ धुन्वंल्लेलिहानमधरं जिह्वया सकृत् ॥ १ ॥
विश्वास-प्रस्तुतिः
पुनः पुनस्तान्पप्रच्छ केनाश्वो नीयते मम
प्रतापाग्र्यः केन जितः सर्वशूरशिरोमणिः ॥ २ ॥
मूलम्
पुनः पुनस्तान्पप्रच्छ केनाश्वो नीयते मम
प्रतापाग्र्यः केन जितः सर्वशूरशिरोमणिः ॥ २ ॥
विश्वास-प्रस्तुतिः
सेवकास्ते तदा प्रोचुर्दमनोनाम शत्रुहन्
सुबाहुजः प्रतापाग्र्यं जितवान्हयमाहरत् ॥ ३ ॥
मूलम्
सेवकास्ते तदा प्रोचुर्दमनोनाम शत्रुहन्
सुबाहुजः प्रतापाग्र्यं जितवान्हयमाहरत् ॥ ३ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा हयं नीतं दमनेन स्ववैरिणा
आजगाम स वेगेन यत्राभूद्रणमण्डलम् ॥ ४ ॥
मूलम्
इति श्रुत्वा हयं नीतं दमनेन स्ववैरिणा
आजगाम स वेगेन यत्राभूद्रणमण्डलम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
तत्रापश्यत्स शत्रुघ्नो गजान्दीर्णकपोलकान्
पर्वतानिव रक्तोदे मज्जमानान्मदोद्धतान् ॥ ५ ॥
मूलम्
तत्रापश्यत्स शत्रुघ्नो गजान्दीर्णकपोलकान्
पर्वतानिव रक्तोदे मज्जमानान्मदोद्धतान् ॥ ५ ॥
विश्वास-प्रस्तुतिः
हयास्तत्र निजारोहकर्तृभिः सहिताः क्षताः
मृता वीरेण ददृशे शत्रुघ्नेन सुकोपिना ॥ ६ ॥
मूलम्
हयास्तत्र निजारोहकर्तृभिः सहिताः क्षताः
मृता वीरेण ददृशे शत्रुघ्नेन सुकोपिना ॥ ६ ॥
विश्वास-प्रस्तुतिः
नरान्रथान्गजान्भग्नान्वीक्षमाणः स शत्रुहा
अतीव चुक्रुधे यद्वत्प्रलये प्रलयार्णवः ॥ ७ ॥
मूलम्
नरान्रथान्गजान्भग्नान्वीक्षमाणः स शत्रुहा
अतीव चुक्रुधे यद्वत्प्रलये प्रलयार्णवः ॥ ७ ॥
विश्वास-प्रस्तुतिः
पुरतो दमनं वीक्ष्य हयनेतारमुद्भटम्
प्रतापाग्र्यस्य जेतारं तृणीकृत्य निजं बलम् ॥ ८ ॥
मूलम्
पुरतो दमनं वीक्ष्य हयनेतारमुद्भटम्
प्रतापाग्र्यस्य जेतारं तृणीकृत्य निजं बलम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
तदा राजा प्रत्युवाच योधान्कोपाकुलेक्षणः
कोऽसौ दमन जेताऽत्र सर्वशस्त्रास्त्रधारकः ॥ ९ ॥
मूलम्
तदा राजा प्रत्युवाच योधान्कोपाकुलेक्षणः
कोऽसौ दमन जेताऽत्र सर्वशस्त्रास्त्रधारकः ॥ ९ ॥
विश्वास-प्रस्तुतिः
यो वै राजसुतं वीरं रणकर्मविशारदम्
जेष्यत्यस्त्रेण निर्भीतः सज्जीभूतो भवत्वयम् ॥ १० ॥
मूलम्
यो वै राजसुतं वीरं रणकर्मविशारदम्
जेष्यत्यस्त्रेण निर्भीतः सज्जीभूतो भवत्वयम् ॥ १० ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य पुष्कलः परवीरहा
दमनं जेतुमुद्युक्तो जगाद वचनं त्विदम् ॥ ११ ॥
मूलम्
इति वाक्यं समाकर्ण्य पुष्कलः परवीरहा
दमनं जेतुमुद्युक्तो जगाद वचनं त्विदम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
स्वामिन्क्वायं दमनकः क्व तेऽपरिमितं बलम्
जेष्येऽहं त्वत्प्रतापेन गच्छाम्येष महामते ॥ १२ ॥
मूलम्
स्वामिन्क्वायं दमनकः क्व तेऽपरिमितं बलम्
जेष्येऽहं त्वत्प्रतापेन गच्छाम्येष महामते ॥ १२ ॥
विश्वास-प्रस्तुतिः
सेवके मयि युद्धाय स्थिते कैर्नीयते हयः
रघुनाथप्रतापोऽयं सर्वं कृत्यं करिष्यति ॥ १३ ॥
मूलम्
सेवके मयि युद्धाय स्थिते कैर्नीयते हयः
रघुनाथप्रतापोऽयं सर्वं कृत्यं करिष्यति ॥ १३ ॥
विश्वास-प्रस्तुतिः
स्वामिञ्छृणु प्रतिज्ञां मे तव मोदप्रदायिनीम्
विजेष्ये दमनं युद्धे रणकर्मविचक्षणम् ॥ १४ ॥
मूलम्
स्वामिञ्छृणु प्रतिज्ञां मे तव मोदप्रदायिनीम्
विजेष्ये दमनं युद्धे रणकर्मविचक्षणम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
रामचन्द्रपदाम्भोजमध्वास्वादवियोगिनाम्
यदघं तु भवेत्तन्मे दमनं न जयेयदि ॥ १५ ॥
मूलम्
रामचन्द्रपदाम्भोजमध्वास्वादवियोगिनाम्
यदघं तु भवेत्तन्मे दमनं न जयेयदि ॥ १५ ॥
विश्वास-प्रस्तुतिः
पुत्रो यो मातृपादान्यत्तीर्थं मत्वा तया सह
विरुद्ध्येत्तत्तमो मह्यं न जयेदमनं यदि ॥ १६ ॥
मूलम्
पुत्रो यो मातृपादान्यत्तीर्थं मत्वा तया सह
विरुद्ध्येत्तत्तमो मह्यं न जयेदमनं यदि ॥ १६ ॥
विश्वास-प्रस्तुतिः
अद्य मद्बाणनिर्भिन्न महोरस्को नृपाङ्गजः
अलङ्करोतु प्रधने भूतलं शयनेन हि ॥ १७ ॥
मूलम्
अद्य मद्बाणनिर्भिन्न महोरस्को नृपाङ्गजः
अलङ्करोतु प्रधने भूतलं शयनेन हि ॥ १७ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति प्रतिज्ञामाकर्ण्य पुष्कलस्य रघूद्वहः
जहर्ष चित्ते तेजस्वी निदिदेश रणं प्रति ॥ १८ ॥
मूलम्
शेष उवाच
इति प्रतिज्ञामाकर्ण्य पुष्कलस्य रघूद्वहः
जहर्ष चित्ते तेजस्वी निदिदेश रणं प्रति ॥ १८ ॥
विश्वास-प्रस्तुतिः
आज्ञप्तोऽसौ ययौ सैन्यैर्बहुभिः परिवारितः
यत्रास्ते दमनो राजपुत्रः शूरकुलोद्भवः ॥ १९ ॥
मूलम्
आज्ञप्तोऽसौ ययौ सैन्यैर्बहुभिः परिवारितः
यत्रास्ते दमनो राजपुत्रः शूरकुलोद्भवः ॥ १९ ॥
विश्वास-प्रस्तुतिः
दमनोऽपि तमाज्ञाय ह्यागतं रणमण्डले
प्रत्युज्जगाम वीराग्र्यः स्वसैन्यपरिवारितः ॥ २० ॥
मूलम्
दमनोऽपि तमाज्ञाय ह्यागतं रणमण्डले
प्रत्युज्जगाम वीराग्र्यः स्वसैन्यपरिवारितः ॥ २० ॥
विश्वास-प्रस्तुतिः
अन्योन्यं तौ सम्मिलितौ रथस्थौ रथशोभिनौ
समरे शक्रदैत्यौ किं युद्धार्थं रणमागतौ ॥ २१ ॥
मूलम्
अन्योन्यं तौ सम्मिलितौ रथस्थौ रथशोभिनौ
समरे शक्रदैत्यौ किं युद्धार्थं रणमागतौ ॥ २१ ॥
विश्वास-प्रस्तुतिः
उवाच पुष्कलस्तं वै राजपुत्रं महाबलम्
राजपुत्र दमनक मां जानीहि समागतम् ॥ २२ ॥
मूलम्
उवाच पुष्कलस्तं वै राजपुत्रं महाबलम्
राजपुत्र दमनक मां जानीहि समागतम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
स प्रतिज्ञं तु युद्धाय भरतात्मजमुद्भटम्
पुष्कलेन स्वनाम्ना च लक्षितं विद्धिसत्तम ॥ २३ ॥
मूलम्
स प्रतिज्ञं तु युद्धाय भरतात्मजमुद्भटम्
पुष्कलेन स्वनाम्ना च लक्षितं विद्धिसत्तम ॥ २३ ॥
विश्वास-प्रस्तुतिः
रघुनाथपदाम्भोज नित्यसेवामधुव्रतम्
त्वां जेष्ये शस्त्रसङ्घेनसज्जीभव महामते ॥ २४ ॥
मूलम्
रघुनाथपदाम्भोज नित्यसेवामधुव्रतम्
त्वां जेष्ये शस्त्रसङ्घेनसज्जीभव महामते ॥ २४ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य दमनः परवीरहा
प्रत्युवाच हसन्वाग्मी निर्भयोद्दृष्टविक्रमः ॥ २५ ॥
मूलम्
इति वाक्यं समाकर्ण्य दमनः परवीरहा
प्रत्युवाच हसन्वाग्मी निर्भयोद्दृष्टविक्रमः ॥ २५ ॥
विश्वास-प्रस्तुतिः
सुबाहुपुत्रं दमनं पितृभक्ति हृताघकम्
विद्धि मामश्वनेतारं शत्रुघ्नस्य महीपतेः ॥ २६ ॥
मूलम्
सुबाहुपुत्रं दमनं पितृभक्ति हृताघकम्
विद्धि मामश्वनेतारं शत्रुघ्नस्य महीपतेः ॥ २६ ॥
विश्वास-प्रस्तुतिः
जयो दैवविसृष्टोऽयं यस्य चालङ्करिष्यति
स प्राप्नोति निरीक्षस्व बलं मे रणमूर्धनि ॥ २७ ॥
मूलम्
जयो दैवविसृष्टोऽयं यस्य चालङ्करिष्यति
स प्राप्नोति निरीक्षस्व बलं मे रणमूर्धनि ॥ २७ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा स शरं चापं विधायाकर्णपूरितम्
मुमोच बाणान्निशितान्वैरिप्राणापहारिणः ॥ २८ ॥
मूलम्
इत्युक्त्वा स शरं चापं विधायाकर्णपूरितम्
मुमोच बाणान्निशितान्वैरिप्राणापहारिणः ॥ २८ ॥
विश्वास-प्रस्तुतिः
ते बाणास्त्वाविलीभूताश्छादयामासुरम्बरम्
सूर्यभानुप्रभा यत्र बाणच्छायानिवारिता ॥ २९ ॥
मूलम्
ते बाणास्त्वाविलीभूताश्छादयामासुरम्बरम्
सूर्यभानुप्रभा यत्र बाणच्छायानिवारिता ॥ २९ ॥
विश्वास-प्रस्तुतिः
गजानां कटभित्त्योघे लग्ना सायकसन्ततिः
अलङ्करोति धातूनां रागा इव विचित्रिताः ॥ ३० ॥
मूलम्
गजानां कटभित्त्योघे लग्ना सायकसन्ततिः
अलङ्करोति धातूनां रागा इव विचित्रिताः ॥ ३० ॥
विश्वास-प्रस्तुतिः
पतितास्तत्र दृश्यन्ते नरा वाहा गजा रथाः
शरव्रातेन नृपतेः सुतेन परिताडिताः ॥ ३१ ॥
मूलम्
पतितास्तत्र दृश्यन्ते नरा वाहा गजा रथाः
शरव्रातेन नृपतेः सुतेन परिताडिताः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तद्विक्रान्तं समालोक्य पुष्कलः परवीरहा
शराणां छायया व्याप्तं रणमण्डलमीक्ष्य च ॥ ३२ ॥
मूलम्
तद्विक्रान्तं समालोक्य पुष्कलः परवीरहा
शराणां छायया व्याप्तं रणमण्डलमीक्ष्य च ॥ ३२ ॥
विश्वास-प्रस्तुतिः
शरासने समाधत्त बाणं वह्न्यभिमन्त्रितम्
आचम्य सम्यग्विधिवन्मोचयामास सायकम् ॥ ३३ ॥
मूलम्
शरासने समाधत्त बाणं वह्न्यभिमन्त्रितम्
आचम्य सम्यग्विधिवन्मोचयामास सायकम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ततोऽग्निप्रादुरभवत्तत्र सङ्ग्राममूर्धनि
ज्वालाभिर्विलिहन्व्योम प्रलयाग्निरिवोत्थितः ॥ ३४ ॥
मूलम्
ततोऽग्निप्रादुरभवत्तत्र सङ्ग्राममूर्धनि
ज्वालाभिर्विलिहन्व्योम प्रलयाग्निरिवोत्थितः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
ततोऽस्य सैन्यं निर्दग्धं त्रासं प्राप्तं रणाङ्गणे
पलायनपरं जातं वह्निज्वालाभिपीडितम् ॥ ३५ ॥
मूलम्
ततोऽस्य सैन्यं निर्दग्धं त्रासं प्राप्तं रणाङ्गणे
पलायनपरं जातं वह्निज्वालाभिपीडितम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
छत्राणि तु प्रदग्धानि चन्द्राकाराणि धन्विनाम्
दृश्यन्ते जातरूपाभ कान्तिधारीणि तत्र ह ॥ ३६ ॥
मूलम्
छत्राणि तु प्रदग्धानि चन्द्राकाराणि धन्विनाम्
दृश्यन्ते जातरूपाभ कान्तिधारीणि तत्र ह ॥ ३६ ॥
विश्वास-प्रस्तुतिः
हया दग्धाः पलायन्ते केसरेषु च वैरिणाम्
रथा अपि गता दाहं सुकूबरसमन्विताः ॥ ३७ ॥
मूलम्
हया दग्धाः पलायन्ते केसरेषु च वैरिणाम्
रथा अपि गता दाहं सुकूबरसमन्विताः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
मणिमाणिक्यरत्नानि वहन्तः करभास्ततः
पलायन्ते दहनभू ज्वालामालाभिपीडिताः ॥ ३८ ॥
मूलम्
मणिमाणिक्यरत्नानि वहन्तः करभास्ततः
पलायन्ते दहनभू ज्वालामालाभिपीडिताः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
कुत्रचिद्दन्तिनो नष्टाः कुत्रचिद्धयसादिनः
कुत्रचित्पत्तयो नष्टा वह्निदग्धकलेवराः ॥ ३९ ॥
मूलम्
कुत्रचिद्दन्तिनो नष्टाः कुत्रचिद्धयसादिनः
कुत्रचित्पत्तयो नष्टा वह्निदग्धकलेवराः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
शराः सर्वे नृपसुतप्रमुक्ताः प्रलयं गताः
आशुशुक्षणिकीलाभिर्भस्मीभूताः समन्ततः ॥ ४० ॥
मूलम्
शराः सर्वे नृपसुतप्रमुक्ताः प्रलयं गताः
आशुशुक्षणिकीलाभिर्भस्मीभूताः समन्ततः ॥ ४० ॥
विश्वास-प्रस्तुतिः
तदा स्वसैन्ये दग्धे च दमनो रोषपूरितः
सर्वास्त्रवित्तच्छान्त्यर्थं वारुणास्त्रमथा ददे ॥ ४१ ॥
मूलम्
तदा स्वसैन्ये दग्धे च दमनो रोषपूरितः
सर्वास्त्रवित्तच्छान्त्यर्थं वारुणास्त्रमथा ददे ॥ ४१ ॥
विश्वास-प्रस्तुतिः
वारुणं वह्निशान्त्यर्थं मुक्तं तेन महीभृता
आप्लावयद्बलं तस्य रथवाजिसमाकुलम् ॥ ४२ ॥
मूलम्
वारुणं वह्निशान्त्यर्थं मुक्तं तेन महीभृता
आप्लावयद्बलं तस्य रथवाजिसमाकुलम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
रथा विप्लावितास्तोये दृश्यन्ते परिपन्थिनाम्
गजाश्चापि परिप्लुष्टाः स्वीयाः शान्तिमुपागताः ॥ ४३ ॥
मूलम्
रथा विप्लावितास्तोये दृश्यन्ते परिपन्थिनाम्
गजाश्चापि परिप्लुष्टाः स्वीयाः शान्तिमुपागताः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
वह्निश्च शान्तिमगमदग्न्यस्त्र परिमोचितः
शान्तिमाप बलं स्वीयं वह्निज्वालाभिपीडितम् ॥ ४४ ॥
मूलम्
वह्निश्च शान्तिमगमदग्न्यस्त्र परिमोचितः
शान्तिमाप बलं स्वीयं वह्निज्वालाभिपीडितम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
कम्पिताः शीततोयेन सीत्कुर्वन्ति च वैरिणः
करकावृष्टिभिः क्षिप्ता वायुना च प्रपीडिताः ॥ ४५ ॥
मूलम्
कम्पिताः शीततोयेन सीत्कुर्वन्ति च वैरिणः
करकावृष्टिभिः क्षिप्ता वायुना च प्रपीडिताः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तदा स्वबलमालोक्य तोयपूरेण पीडितम्
कम्पितं क्षुभितं नष्टं वारुणेन विनिर्हृतम् ॥ ४६ ॥
मूलम्
तदा स्वबलमालोक्य तोयपूरेण पीडितम्
कम्पितं क्षुभितं नष्टं वारुणेन विनिर्हृतम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
तदातिकोपताम्राक्षः पुष्कलो भरतात्मजः
वायव्यास्त्रं समाधत्त धनुष्येकं महाशरम् ॥ ४७ ॥
मूलम्
तदातिकोपताम्राक्षः पुष्कलो भरतात्मजः
वायव्यास्त्रं समाधत्त धनुष्येकं महाशरम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
ततो वायुर्महानासीद्वायव्यास्त्रप्रचोदितः
नाशयामास वेगेन घनानीकमुपस्थितम् ॥ ४८ ॥
मूलम्
ततो वायुर्महानासीद्वायव्यास्त्रप्रचोदितः
नाशयामास वेगेन घनानीकमुपस्थितम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
वायुना स्फालिता नागाः परस्परसमाहताः
अश्वाश्च संहतान्योन्यं स्वस्वारोहसमन्विताः ॥ ४९ ॥
मूलम्
वायुना स्फालिता नागाः परस्परसमाहताः
अश्वाश्च संहतान्योन्यं स्वस्वारोहसमन्विताः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
नराः प्रभञ्जनोद्धूता मुक्तकेशा निरोजसः
पतन्तोऽत्र समीक्ष्यन्ते वेताला इव भूगताः ॥ ५० ॥
मूलम्
नराः प्रभञ्जनोद्धूता मुक्तकेशा निरोजसः
पतन्तोऽत्र समीक्ष्यन्ते वेताला इव भूगताः ॥ ५० ॥
विश्वास-प्रस्तुतिः
वायुना स्वबलं सर्वं परिभूतं विलोक्य सः
राजपुत्रः पर्वतास्त्रं धनुष्येवं समादधे ॥ ५१ ॥
मूलम्
वायुना स्वबलं सर्वं परिभूतं विलोक्य सः
राजपुत्रः पर्वतास्त्रं धनुष्येवं समादधे ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तदा तु पर्वताः पेतुर्मस्तकोपरि युध्यताम्
वायुः सञ्च्छादितस्तैस्तु न प्रचक्राम कुत्रचित् ॥ ५२ ॥
मूलम्
तदा तु पर्वताः पेतुर्मस्तकोपरि युध्यताम्
वायुः सञ्च्छादितस्तैस्तु न प्रचक्राम कुत्रचित् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
पुष्कलो वज्रसञ्ज्ञं तु समाधत्त शरासने
वज्रेण कृत्तास्ते सर्वे जाताश्च तिलशः क्षणात् ॥ ५३ ॥
मूलम्
पुष्कलो वज्रसञ्ज्ञं तु समाधत्त शरासने
वज्रेण कृत्तास्ते सर्वे जाताश्च तिलशः क्षणात् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
वज्रं नगान्रजः शेषान्कृत्वा बाणाभिमन्त्रितम्
राजपुत्रोरसि प्रोच्चैः पपात स्वनवद्भृशम् ॥ ५४ ॥
मूलम्
वज्रं नगान्रजः शेषान्कृत्वा बाणाभिमन्त्रितम्
राजपुत्रोरसि प्रोच्चैः पपात स्वनवद्भृशम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
सत्वाकुलितचेतस्को हृदि विद्धः क्षतो भृशम्
विव्यथे बलवान्वीरः कश्मलं परमाप सः ॥ ५५ ॥
मूलम्
सत्वाकुलितचेतस्को हृदि विद्धः क्षतो भृशम्
विव्यथे बलवान्वीरः कश्मलं परमाप सः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तं वै कश्मलितं दृष्ट्वा सारथिर्नयकोविदः
अपोवाह रणात्तस्मात्क्रोशमात्रं नरेन्द्रजम् ॥ ५६ ॥
मूलम्
तं वै कश्मलितं दृष्ट्वा सारथिर्नयकोविदः
अपोवाह रणात्तस्मात्क्रोशमात्रं नरेन्द्रजम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
ततो योधा राजसूनोः प्रणष्टाः प्रपलायिताः
गत्वा पुरीं समाचख्युः कश्मलस्थं नृपात्मजम् ॥ ५७ ॥
मूलम्
ततो योधा राजसूनोः प्रणष्टाः प्रपलायिताः
गत्वा पुरीं समाचख्युः कश्मलस्थं नृपात्मजम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
पुष्कलो जयमाप्यैवं रणमूर्धनि धर्मवित्
न प्रहर्तुं पुनः शक्तो रघुनाथवचः स्मरन् ॥ ५८ ॥
मूलम्
पुष्कलो जयमाप्यैवं रणमूर्धनि धर्मवित्
न प्रहर्तुं पुनः शक्तो रघुनाथवचः स्मरन् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
ततो दुन्दुभिनिर्घोषो जयशब्दो महानभूत्
साधुसाध्विति वाचश्च प्रावर्तन्त मनोहराः ॥ ५९ ॥
मूलम्
ततो दुन्दुभिनिर्घोषो जयशब्दो महानभूत्
साधुसाध्विति वाचश्च प्रावर्तन्त मनोहराः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
हर्षं प्राप स शत्रुघ्नो जयिनं वीक्ष्य पुष्कलम्
प्रशशंस सुमत्यादि मन्त्रिभिः परिवारितः ॥ ६० ॥
मूलम्
हर्षं प्राप स शत्रुघ्नो जयिनं वीक्ष्य पुष्कलम्
प्रशशंस सुमत्यादि मन्त्रिभिः परिवारितः ॥ ६० ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
पुष्कलविजयोनाम चतुर्विंशतितमोऽध्यायः २४