शेष उवाच
विश्वास-प्रस्तुतिः
क्षणं स्थित्वा तृणान्यत्त्वा ययौ वाजी मनोजवः
वीरश्रेणीवृतः पत्रं भाले धृत्वा सचामरः ॥ १ ॥
मूलम्
क्षणं स्थित्वा तृणान्यत्त्वा ययौ वाजी मनोजवः
वीरश्रेणीवृतः पत्रं भाले धृत्वा सचामरः ॥ १ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नेन सुवीरेण लक्ष्मीनिधि नृपेण च
पुष्कलेनोग्रवाहेन प्रतापाग्र्येण रक्षितः ॥ २ ॥
मूलम्
शत्रुघ्नेन सुवीरेण लक्ष्मीनिधि नृपेण च
पुष्कलेनोग्रवाहेन प्रतापाग्र्येण रक्षितः ॥ २ ॥
विश्वास-प्रस्तुतिः
ययौ पुरीं स चक्राङ्कां सुबाहुपरिरक्षिताम्
अनेकवीरकोटीभी रक्षितोऽनुगतः प्रभो ॥ ३ ॥
मूलम्
ययौ पुरीं स चक्राङ्कां सुबाहुपरिरक्षिताम्
अनेकवीरकोटीभी रक्षितोऽनुगतः प्रभो ॥ ३ ॥
विश्वास-प्रस्तुतिः
तदा पुत्रोस्य दमनो मृगयामास्थितो महान्
ददर्शाश्वं भालपत्रं चन्दनादिकचर्चितम् ॥ ४ ॥
मूलम्
तदा पुत्रोस्य दमनो मृगयामास्थितो महान्
ददर्शाश्वं भालपत्रं चन्दनादिकचर्चितम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
विलोक्य सेवकं प्राह कस्याश्वो मेऽक्षिगोचरः
भाले पत्रं धृतं किं नु चामरं किन्तु शोभनम् ॥ ५ ॥
मूलम्
विलोक्य सेवकं प्राह कस्याश्वो मेऽक्षिगोचरः
भाले पत्रं धृतं किं नु चामरं किन्तु शोभनम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
इति राज्ञोवचः श्रुत्वा सेवकः प्रययौ ततः
यत्रासौ वर्तते वाजी भालपत्रः सुशोभनः ॥ ६ ॥
मूलम्
इति राज्ञोवचः श्रुत्वा सेवकः प्रययौ ततः
यत्रासौ वर्तते वाजी भालपत्रः सुशोभनः ॥ ६ ॥
विश्वास-प्रस्तुतिः
गृहीत्वा तं केशसङ्घे रत्नमालाविभूषितम्
निनाय चाग्रे भूपस्य सुबाहुकुलधारिणः ॥ ७ ॥
मूलम्
गृहीत्वा तं केशसङ्घे रत्नमालाविभूषितम्
निनाय चाग्रे भूपस्य सुबाहुकुलधारिणः ॥ ७ ॥
विश्वास-प्रस्तुतिः
स पत्रं वाचयामास सुन्दराक्षरशोभितम्
अयोध्याधिपतिश्चासीद्राजा दशरथो बली ॥ ८ ॥
मूलम्
स पत्रं वाचयामास सुन्दराक्षरशोभितम्
अयोध्याधिपतिश्चासीद्राजा दशरथो बली ॥ ८ ॥
विश्वास-प्रस्तुतिः
तस्यात्मजो रामभद्रः सर्वशूरशिरोमणिः
नान्योस्ति तत्समः पृथ्व्यां धनुर्धरणविक्रमः ॥ ९ ॥
मूलम्
तस्यात्मजो रामभद्रः सर्वशूरशिरोमणिः
नान्योस्ति तत्समः पृथ्व्यां धनुर्धरणविक्रमः ॥ ९ ॥
विश्वास-प्रस्तुतिः
तेनासौ मोचितो वाजी चन्दनादिकचर्चितः
तं पालयति धर्मात्मा शत्रुघ्नः परवीरहा ॥ १० ॥
मूलम्
तेनासौ मोचितो वाजी चन्दनादिकचर्चितः
तं पालयति धर्मात्मा शत्रुघ्नः परवीरहा ॥ १० ॥
विश्वास-प्रस्तुतिः
ये च शूरा वयं वीरा धनुर्हस्ता इमे वयम्
ते गृह्णन्तु बलाद्वाहं रत्नमालाविभूषितम् ॥ ११ ॥
मूलम्
ये च शूरा वयं वीरा धनुर्हस्ता इमे वयम्
ते गृह्णन्तु बलाद्वाहं रत्नमालाविभूषितम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
तं च मोक्ष्यति शत्रुघ्नः सर्ववीरशिरोमणिः
अन्यथा पादयोस्तस्य प्रणतिं यान्तु धन्विनः ॥ १२ ॥
मूलम्
तं च मोक्ष्यति शत्रुघ्नः सर्ववीरशिरोमणिः
अन्यथा पादयोस्तस्य प्रणतिं यान्तु धन्विनः ॥ १२ ॥
विश्वास-प्रस्तुतिः
इत्यभिप्रायमालोक्य जगाद नृपनन्दनः
राम एव धनुर्धारी न वयं क्षत्त्रियाः स्मृताः ॥ १३ ॥
मूलम्
इत्यभिप्रायमालोक्य जगाद नृपनन्दनः
राम एव धनुर्धारी न वयं क्षत्त्रियाः स्मृताः ॥ १३ ॥
विश्वास-प्रस्तुतिः
ताते मेऽवस्थिते पृथ्व्यां कोऽयं गर्वो महान्भुवि
प्राप्नोतु गर्वस्य फलं मम निर्मुक्तसायकैः ॥ १४ ॥
मूलम्
ताते मेऽवस्थिते पृथ्व्यां कोऽयं गर्वो महान्भुवि
प्राप्नोतु गर्वस्य फलं मम निर्मुक्तसायकैः ॥ १४ ॥
विश्वास-प्रस्तुतिः
अद्य मे निशिता बाणाः शत्रुघ्नं किंशुकं यथा
पुष्पितं विदधत्वद्धा क्षतावृतशरीरकम् ॥ १५ ॥
मूलम्
अद्य मे निशिता बाणाः शत्रुघ्नं किंशुकं यथा
पुष्पितं विदधत्वद्धा क्षतावृतशरीरकम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
दारयन्तु कपोलांश्च सायका मम दन्तिनाम्
अश्वान्पश्यन्तु शतशो रुधिरौघपरिप्लुतान् ॥ १६ ॥
मूलम्
दारयन्तु कपोलांश्च सायका मम दन्तिनाम्
अश्वान्पश्यन्तु शतशो रुधिरौघपरिप्लुतान् ॥ १६ ॥
विश्वास-प्रस्तुतिः
पिबन्तु योगिनीसङ्घा रुधिराणि नृमस्तकैः
शिवा भवन्तु सन्तुष्टा मद्वैरिक्रव्यभक्षणैः ॥ १७ ॥
मूलम्
पिबन्तु योगिनीसङ्घा रुधिराणि नृमस्तकैः
शिवा भवन्तु सन्तुष्टा मद्वैरिक्रव्यभक्षणैः ॥ १७ ॥
विश्वास-प्रस्तुतिः
पश्यन्तु सुभटास्तस्य मम बाहुबलं महत्
कोदण्डदण्डनिर्मुक्ताः शरकोटीर्विमुञ्चतः ॥ १८ ॥
मूलम्
पश्यन्तु सुभटास्तस्य मम बाहुबलं महत्
कोदण्डदण्डनिर्मुक्ताः शरकोटीर्विमुञ्चतः ॥ १८ ॥
विश्वास-प्रस्तुतिः
इत्थमुक्त्वा महीपस्य तनुजो दमनाभिधः
स्वपुरं प्रेषयित्वा तं प्रहृष्टोऽभवदुद्भटः ॥ १९ ॥
मूलम्
इत्थमुक्त्वा महीपस्य तनुजो दमनाभिधः
स्वपुरं प्रेषयित्वा तं प्रहृष्टोऽभवदुद्भटः ॥ १९ ॥
विश्वास-प्रस्तुतिः
सेनापतिमुवाचेदं सज्जीकुरु महामते
सेनां परिमितां मह्यं वैरिवृन्दनिवारणे ॥ २० ॥
मूलम्
सेनापतिमुवाचेदं सज्जीकुरु महामते
सेनां परिमितां मह्यं वैरिवृन्दनिवारणे ॥ २० ॥
विश्वास-प्रस्तुतिः
सज्जां सेनां विधायाशु सम्मुखो रणमण्डले
स्थितवान्या वदत्युग्रस्तावत्प्राप्ता हयानुगाः ॥ २१ ॥
मूलम्
सज्जां सेनां विधायाशु सम्मुखो रणमण्डले
स्थितवान्या वदत्युग्रस्तावत्प्राप्ता हयानुगाः ॥ २१ ॥
विश्वास-प्रस्तुतिः
क्वासौ हयो महाराज्ञो भालपत्रेण चिह्नितः
पप्रच्छुस्ते तु चान्योन्यमतिव्याकुलिता मुहुः ॥ २२ ॥
मूलम्
क्वासौ हयो महाराज्ञो भालपत्रेण चिह्नितः
पप्रच्छुस्ते तु चान्योन्यमतिव्याकुलिता मुहुः ॥ २२ ॥
विश्वास-प्रस्तुतिः
तावद्ददर्श पुरतः प्रतापाग्र्यः परन्तपः
सज्जीभूतं तु कटकं वीरशब्दनिनादितम् ॥ २३ ॥
मूलम्
तावद्ददर्श पुरतः प्रतापाग्र्यः परन्तपः
सज्जीभूतं तु कटकं वीरशब्दनिनादितम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
तत्रावदञ्जनाः केचिन्नीतोऽश्वोऽनेन भूपते
अन्यथा सम्मुखस्तिष्ठेत्कथं वीरो बलानुगः ॥ २४ ॥
मूलम्
तत्रावदञ्जनाः केचिन्नीतोऽश्वोऽनेन भूपते
अन्यथा सम्मुखस्तिष्ठेत्कथं वीरो बलानुगः ॥ २४ ॥
विश्वास-प्रस्तुतिः
इत्याकर्ण्य प्रतापाग्र्यः प्रेषयामास सेवकम्
स गत्वा तत्र पप्रच्छ कुत्राश्वो रामभूपतेः ॥ २५ ॥
मूलम्
इत्याकर्ण्य प्रतापाग्र्यः प्रेषयामास सेवकम्
स गत्वा तत्र पप्रच्छ कुत्राश्वो रामभूपतेः ॥ २५ ॥
विश्वास-प्रस्तुतिः
केन नीतः कुतो नीतो रामं जानाति नो कुधीः
यं शक्रप्रमुखा देवा बलिमादाय सन्नताः ॥ २६ ॥
मूलम्
केन नीतः कुतो नीतो रामं जानाति नो कुधीः
यं शक्रप्रमुखा देवा बलिमादाय सन्नताः ॥ २६ ॥
विश्वास-प्रस्तुतिः
तस्य वै धर्मराजस्य कुपितं तु बलं महत्
सर्वथा हि ग्रसिष्येत प्रणतिं चेन्न यास्यति ॥ २७ ॥
मूलम्
तस्य वै धर्मराजस्य कुपितं तु बलं महत्
सर्वथा हि ग्रसिष्येत प्रणतिं चेन्न यास्यति ॥ २७ ॥
विश्वास-प्रस्तुतिः
इत्थमुक्तं समाकर्ण्य तदा राजसुतो बली
तं वै धिक्कारयामास वाग्जालेन सुदुर्मनाः ॥ २८ ॥
मूलम्
इत्थमुक्तं समाकर्ण्य तदा राजसुतो बली
तं वै धिक्कारयामास वाग्जालेन सुदुर्मनाः ॥ २८ ॥
विश्वास-प्रस्तुतिः
मयानीतो यज्ञहयः पत्रचिह्नाद्यलङ्कृतः
ये शूरास्ते तु मां जित्वा मोचयन्तु बलादिह ॥ २९ ॥
मूलम्
मयानीतो यज्ञहयः पत्रचिह्नाद्यलङ्कृतः
ये शूरास्ते तु मां जित्वा मोचयन्तु बलादिह ॥ २९ ॥
विश्वास-प्रस्तुतिः
सेवकस्तद्वचः श्रुत्वा रोषपूर्णो हसन्ययौ
राज्ञे निवेदयामास यथावदुपवर्णितम् ॥ ३० ॥
मूलम्
सेवकस्तद्वचः श्रुत्वा रोषपूर्णो हसन्ययौ
राज्ञे निवेदयामास यथावदुपवर्णितम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा रोषताम्राक्षः प्रतापाग्र्यो महाबलः
ययौ योद्धुं राजपुत्रं महावीरपुरस्कृतम् ॥ ३१ ॥
मूलम्
तच्छ्रुत्वा रोषताम्राक्षः प्रतापाग्र्यो महाबलः
ययौ योद्धुं राजपुत्रं महावीरपुरस्कृतम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
रथेन कनकाङ्गेन चतुर्वाजिसुशोभिना
सुकूबरेण सर्वास्त्रपूरितेन ययौ बली ॥ ३२ ॥
मूलम्
रथेन कनकाङ्गेन चतुर्वाजिसुशोभिना
सुकूबरेण सर्वास्त्रपूरितेन ययौ बली ॥ ३२ ॥
विश्वास-प्रस्तुतिः
धनुष्टङ्कारयामास महाबलसमन्वितः
पुनःपुनर्जहासोच्चैः कोपादुद्गमिताश्रुकः ॥ ३३ ॥
मूलम्
धनुष्टङ्कारयामास महाबलसमन्वितः
पुनःपुनर्जहासोच्चैः कोपादुद्गमिताश्रुकः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अश्ववाहा गजारूढाः खड्गोल्लसितपाणयः
अन्वयुस्ते प्रतापाग्र्यं रोषपूर्णाकुलेक्षणम् ॥ ३४ ॥
मूलम्
अश्ववाहा गजारूढाः खड्गोल्लसितपाणयः
अन्वयुस्ते प्रतापाग्र्यं रोषपूर्णाकुलेक्षणम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
हस्तिनः पत्तयश्चैव कोटिशः प्रधनोद्यताः
चिरकालमभीप्सन्तो रणं वीरेणकारितम् ॥ ३५ ॥
मूलम्
हस्तिनः पत्तयश्चैव कोटिशः प्रधनोद्यताः
चिरकालमभीप्सन्तो रणं वीरेणकारितम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
तदोद्यतं समाज्ञाय रिपुसैन्यं नृपात्मजः
प्रत्युज्जगाम वीराग्र्यो महाबलपरीवृतः ॥ ३६ ॥
मूलम्
तदोद्यतं समाज्ञाय रिपुसैन्यं नृपात्मजः
प्रत्युज्जगाम वीराग्र्यो महाबलपरीवृतः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
सन्नद्धः कवची खड्गी शरासनधरो युवा
लीलयैव ययौ योद्धुं मृगराड्गजतामिव ॥ ३७ ॥
मूलम्
सन्नद्धः कवची खड्गी शरासनधरो युवा
लीलयैव ययौ योद्धुं मृगराड्गजतामिव ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तदा योधाः प्रकुपिताः परस्परवधैषिणः
छिन्धि भिन्धीति भाषन्तो रणकार्यविशारदाः ॥ ३८ ॥
मूलम्
तदा योधाः प्रकुपिताः परस्परवधैषिणः
छिन्धि भिन्धीति भाषन्तो रणकार्यविशारदाः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
पत्तयः पत्तिसङ्घेन गजारूढाश्च सादिभिः
रथारूढा रथस्थैश्च वाहारूढाश्वसंस्थितैः ॥ ३९ ॥
मूलम्
पत्तयः पत्तिसङ्घेन गजारूढाश्च सादिभिः
रथारूढा रथस्थैश्च वाहारूढाश्वसंस्थितैः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
गजा भिन्ना द्विधा जाता हयाश्च द्विदलीकृताः
अनेकनरमस्तिष्कैर्मेदिनीपूरिता ह्यभूत् ॥ ४० ॥
मूलम्
गजा भिन्ना द्विधा जाता हयाश्च द्विदलीकृताः
अनेकनरमस्तिष्कैर्मेदिनीपूरिता ह्यभूत् ॥ ४० ॥
विश्वास-प्रस्तुतिः
तदा प्रकुपितो राजा प्रतापाग्र्यो महाबलः
स्वसैन्यकदनोद्युक्तं राजपुत्रं समीक्ष्य च ॥ ४१ ॥
मूलम्
तदा प्रकुपितो राजा प्रतापाग्र्यो महाबलः
स्वसैन्यकदनोद्युक्तं राजपुत्रं समीक्ष्य च ॥ ४१ ॥
विश्वास-प्रस्तुतिः
उवाच सारथिं तत्र प्रापयाश्वान्यतो मम
सैन्यस्य कदनासक्तो राजपुत्रो महारथः ॥ ४२ ॥
मूलम्
उवाच सारथिं तत्र प्रापयाश्वान्यतो मम
सैन्यस्य कदनासक्तो राजपुत्रो महारथः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
अथ वीरशिरोरत्न नमिताङ्घ्रिर्नृपात्मजः
ययौ सम्मुखमेवास्य प्रतापाग्र्यस्य वीर्यवान् ॥ ४३ ॥
मूलम्
अथ वीरशिरोरत्न नमिताङ्घ्रिर्नृपात्मजः
ययौ सम्मुखमेवास्य प्रतापाग्र्यस्य वीर्यवान् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
सारथिः प्रापयामास प्रतापाग्र्यस्य वाजिनः
यत्रासौ दमनो वीरः सर्वशूरशिरोमणिः ॥ ४४ ॥
मूलम्
सारथिः प्रापयामास प्रतापाग्र्यस्य वाजिनः
यत्रासौ दमनो वीरः सर्वशूरशिरोमणिः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
गत्वा तमाह्वयामास राजपुत्रं रणोद्यतम्
रथे पुरटनिर्णिक्ते तिष्ठन्कोदण्डदण्डभृत् ॥ ४५ ॥
मूलम्
गत्वा तमाह्वयामास राजपुत्रं रणोद्यतम्
रथे पुरटनिर्णिक्ते तिष्ठन्कोदण्डदण्डभृत् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
रे राजपुत्र क शिशो त्वया बद्धोऽश्वसत्तमः
न ज्ञातोसि महाराजः सर्ववीरेन्द्र सेवितः ॥ ४६ ॥
मूलम्
रे राजपुत्र क शिशो त्वया बद्धोऽश्वसत्तमः
न ज्ञातोसि महाराजः सर्ववीरेन्द्र सेवितः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
यस्य प्रतापं दैत्येन्द्रो न शक्तः सोढुमद्भुतम्
तस्य त्वं वाजिनं नीत्वा गतोऽसि पुटभेदनम् ॥ ४७ ॥
मूलम्
यस्य प्रतापं दैत्येन्द्रो न शक्तः सोढुमद्भुतम्
तस्य त्वं वाजिनं नीत्वा गतोऽसि पुटभेदनम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
मां जानीहि पुरः प्राप्तं कालरूपं तु वैरिणम्
मुञ्चाश्वमर्भ गच्छाशु बालक्रीडनकं कुरु ॥ ४८ ॥
मूलम्
मां जानीहि पुरः प्राप्तं कालरूपं तु वैरिणम्
मुञ्चाश्वमर्भ गच्छाशु बालक्रीडनकं कुरु ॥ ४८ ॥
विश्वास-प्रस्तुतिः
कस्यात्मजस्त्वं कुत्रत्यः कथं नोऽदीर्घदर्शिना
धृतोऽश्वस्त्वथ सञ्जाता घृणा मम शिशो त्वयि ॥ ४९ ॥
मूलम्
कस्यात्मजस्त्वं कुत्रत्यः कथं नोऽदीर्घदर्शिना
धृतोऽश्वस्त्वथ सञ्जाता घृणा मम शिशो त्वयि ॥ ४९ ॥
विश्वास-प्रस्तुतिः
इत्थमाकर्ण्य दमनः स्मितं चक्रे महामनाः
उवाच च प्रतापाग्र्यं तृणीकुर्वंश्च तद्बलम् ॥ ५० ॥
मूलम्
इत्थमाकर्ण्य दमनः स्मितं चक्रे महामनाः
उवाच च प्रतापाग्र्यं तृणीकुर्वंश्च तद्बलम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
दमन उवाच
मया बद्धो बलादश्वो नीतः स्वपुटभेदनम्
नार्पयिष्येऽद्य सप्राणः कुरु युद्धं महाबल ॥ ५१ ॥
मूलम्
दमन उवाच
मया बद्धो बलादश्वो नीतः स्वपुटभेदनम्
नार्पयिष्येऽद्य सप्राणः कुरु युद्धं महाबल ॥ ५१ ॥
विश्वास-प्रस्तुतिः
त्वया यदुक्तं बालस्त्वं गत्वा क्रीडनकं कुरु
तन्मे पश्य महाराज क्रीडनं रणमूर्धनि ॥ ५२ ॥
मूलम्
त्वया यदुक्तं बालस्त्वं गत्वा क्रीडनकं कुरु
तन्मे पश्य महाराज क्रीडनं रणमूर्धनि ॥ ५२ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इत्युक्त्वा सगुणं चापं विधाय सुभुजां गजः
शराणां शतमाधत्त प्रतापाग्र्यस्य वक्षसि ॥ ५३ ॥
मूलम्
शेष उवाच
इत्युक्त्वा सगुणं चापं विधाय सुभुजां गजः
शराणां शतमाधत्त प्रतापाग्र्यस्य वक्षसि ॥ ५३ ॥
विश्वास-प्रस्तुतिः
सन्धाय बाणशतकं शङ्खं दध्मौ प्रतापवान्
तेन शङ्खनिनादेन कातराणां भयं ह्यभूत् ॥ ५४ ॥
मूलम्
सन्धाय बाणशतकं शङ्खं दध्मौ प्रतापवान्
तेन शङ्खनिनादेन कातराणां भयं ह्यभूत् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
ताडयामास हृदये बाणानां शतकेन सः
प्रतापाग्र्यः प्रचिच्छेद लघुहस्तः सुपर्वणः ॥ ५५ ॥
मूलम्
ताडयामास हृदये बाणानां शतकेन सः
प्रतापाग्र्यः प्रचिच्छेद लघुहस्तः सुपर्वणः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
स बाणच्छेदनं दृष्ट्वा कुपितो व्यसृजच्छरान्
कङ्कपक्षान्वितांस्तीक्ष्णभल्लान्राजात्मजो बली ॥ ५६ ॥
मूलम्
स बाणच्छेदनं दृष्ट्वा कुपितो व्यसृजच्छरान्
कङ्कपक्षान्वितांस्तीक्ष्णभल्लान्राजात्मजो बली ॥ ५६ ॥
विश्वास-प्रस्तुतिः
आकाशे भुवि मध्ये च बाणा ददृशिरेऽञ्चिताः
स्वनामचिह्नितास्तीक्ष्णधारापातसुशोभिताः ॥ ५७ ॥
मूलम्
आकाशे भुवि मध्ये च बाणा ददृशिरेऽञ्चिताः
स्वनामचिह्नितास्तीक्ष्णधारापातसुशोभिताः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
शरास्तद्बाहु हृदये लग्ना वह्निकणान्बहून्
सृजन्तः कुर्वते सैन्यदाहनं तदभून्महत् ॥ ५८ ॥
मूलम्
शरास्तद्बाहु हृदये लग्ना वह्निकणान्बहून्
सृजन्तः कुर्वते सैन्यदाहनं तदभून्महत् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
प्रतापाग्र्यः प्रकुपितस्तिष्ठतिष्ठेति च ब्रुवन्
शरेण दशसङ्ख्येन ताडयामास मूर्धनि ॥ ५९ ॥
मूलम्
प्रतापाग्र्यः प्रकुपितस्तिष्ठतिष्ठेति च ब्रुवन्
शरेण दशसङ्ख्येन ताडयामास मूर्धनि ॥ ५९ ॥
विश्वास-प्रस्तुतिः
ते बाणा राजपुत्रस्य ललाटे परिनिष्ठिताः
विराजन्ते स्म च मुने दशशाखास्तरोरिव ॥ ६० ॥
मूलम्
ते बाणा राजपुत्रस्य ललाटे परिनिष्ठिताः
विराजन्ते स्म च मुने दशशाखास्तरोरिव ॥ ६० ॥
विश्वास-प्रस्तुतिः
तेन बाणप्रहारेण विव्यथेन महामनाः
यष्टिकाप्रहतो यद्वत्कुञ्जरः सप्तवर्षकः ॥ ६१ ॥
मूलम्
तेन बाणप्रहारेण विव्यथेन महामनाः
यष्टिकाप्रहतो यद्वत्कुञ्जरः सप्तवर्षकः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
बाणान्धनुषि सन्धाय मुमोच त्रिशताञ्छुभान्
सुवर्णपुङ्खरचितान्महाकालानलोपमान् ॥ ६२ ॥
मूलम्
बाणान्धनुषि सन्धाय मुमोच त्रिशताञ्छुभान्
सुवर्णपुङ्खरचितान्महाकालानलोपमान् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
ते बाणास्तु प्रतापाग्र्य वक्षो भित्त्वा गता ह्यधः
शोणिताक्ता यथा रामचन्द्र भक्ति पराङ्मुखाः ॥ ६३ ॥
मूलम्
ते बाणास्तु प्रतापाग्र्य वक्षो भित्त्वा गता ह्यधः
शोणिताक्ता यथा रामचन्द्र भक्ति पराङ्मुखाः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
प्रतापाग्र्यः प्रकुपितः शरान्मुञ्चन्सहस्रशः
अकरोद्विरथं सूनुं सुबाहोस्तत्क्षणाद्द्रुतम् ॥ ६४ ॥
मूलम्
प्रतापाग्र्यः प्रकुपितः शरान्मुञ्चन्सहस्रशः
अकरोद्विरथं सूनुं सुबाहोस्तत्क्षणाद्द्रुतम् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
चतुर्भिश्च तुरो वाहान्द्वाभ्यां ध्वजमशातयत्
एकेन सारथेः कायाच्छिरो मह्यामपातयत् ॥ ६५ ॥
मूलम्
चतुर्भिश्च तुरो वाहान्द्वाभ्यां ध्वजमशातयत्
एकेन सारथेः कायाच्छिरो मह्यामपातयत् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
चतुर्भिस्ताडयामास तं सूनुं नृपतेः पुनः
तत्क्षणाच्चापमेकेन गुणयुक्तं तु चिच्छिदे ॥ ६६ ॥
मूलम्
चतुर्भिस्ताडयामास तं सूनुं नृपतेः पुनः
तत्क्षणाच्चापमेकेन गुणयुक्तं तु चिच्छिदे ॥ ६६ ॥
विश्वास-प्रस्तुतिः
सोऽन्यरथं समारुह्य हयरत्नसुशोभितम्
धनुः करे समादाय सज्यं चक्रे महामनाः ॥ ६७ ॥
मूलम्
सोऽन्यरथं समारुह्य हयरत्नसुशोभितम्
धनुः करे समादाय सज्यं चक्रे महामनाः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
प्रत्युवाच प्रतापाग्र्यं त्वया विक्रान्तमद्भुतम्
पश्येदानीं पराक्रान्तिं धनुषो मम सद्भट ॥ ६८ ॥
मूलम्
प्रत्युवाच प्रतापाग्र्यं त्वया विक्रान्तमद्भुतम्
पश्येदानीं पराक्रान्तिं धनुषो मम सद्भट ॥ ६८ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा तु दमनो बाणान्दश समाददे
चतुर्भिश्चतुरो वाहान्निनाय यमसादनम् ॥ ६९ ॥
मूलम्
एवमुक्त्वा तु दमनो बाणान्दश समाददे
चतुर्भिश्चतुरो वाहान्निनाय यमसादनम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
चतुर्भिस्तिलशः कृत्तो रथश्चक्रसमन्वितः
एकेन हृदि विव्याध बाणेनैकेन सारथिम् ॥ ७० ॥
मूलम्
चतुर्भिस्तिलशः कृत्तो रथश्चक्रसमन्वितः
एकेन हृदि विव्याध बाणेनैकेन सारथिम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
जगर्ज शङ्खमापूर्य शङ्खशब्दसमन्वितः
तत्कर्म पूजयामास साधु वीर महाबल ॥ ७१ ॥
मूलम्
जगर्ज शङ्खमापूर्य शङ्खशब्दसमन्वितः
तत्कर्म पूजयामास साधु वीर महाबल ॥ ७१ ॥
विश्वास-प्रस्तुतिः
इति विक्रान्तमालोक्य प्रतापाग्र्यो रुषान्वितः
अन्यं रथं समास्थाय ययौ योद्धुं नृपात्मजम् ॥ ७२ ॥
मूलम्
इति विक्रान्तमालोक्य प्रतापाग्र्यो रुषान्वितः
अन्यं रथं समास्थाय ययौ योद्धुं नृपात्मजम् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
उवाच वीर पश्य त्वं मम विक्रान्तमद्भुतम्
इत्युक्त्वाशु मुमोचौघाञ्छराणां शितपर्वणाम् ॥ ७३ ॥
मूलम्
उवाच वीर पश्य त्वं मम विक्रान्तमद्भुतम्
इत्युक्त्वाशु मुमोचौघाञ्छराणां शितपर्वणाम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
शराः सर्वत्र दृश्यन्ते कुञ्जरेषु हयेषु च
परब्रह्मेव सर्वत्र व्याप्ताश्चान्तरगोचराः ॥ ७४ ॥
मूलम्
शराः सर्वत्र दृश्यन्ते कुञ्जरेषु हयेषु च
परब्रह्मेव सर्वत्र व्याप्ताश्चान्तरगोचराः ॥ ७४ ॥
विश्वास-प्रस्तुतिः
तं राजपुत्रं शितबाणकोटिभि -
र्व्याप्तं विधायाशु जगर्ज विक्रमी
संहर्षयन्स्वीयगणान्परान्महान्
कुर्वन्हृदा शून्यतमान्गतासुकान् ॥ ७५ ॥
मूलम्
तं राजपुत्रं शितबाणकोटिभि -
र्व्याप्तं विधायाशु जगर्ज विक्रमी
संहर्षयन्स्वीयगणान्परान्महान्
कुर्वन्हृदा शून्यतमान्गतासुकान् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
स राजपुत्रः शितसायकव्रजैः
सम्पूर्णमात्मानमवेक्ष्य रोषितः
जग्राह शस्त्राणि दुरन्तविक्रमो
धनुश्च धुन्वन्भुजदण्डयोर्महान् ॥ ७६ ॥
मूलम्
स राजपुत्रः शितसायकव्रजैः
सम्पूर्णमात्मानमवेक्ष्य रोषितः
जग्राह शस्त्राणि दुरन्तविक्रमो
धनुश्च धुन्वन्भुजदण्डयोर्महान् ॥ ७६ ॥
विश्वास-प्रस्तुतिः
चकर्त सर्वाण्यस्त्राणि शस्त्राणि च महाबलः
रोषताम्रेक्षणो मुञ्चञ्छरान्वैरिविदारिणः ॥ ७७ ॥
मूलम्
चकर्त सर्वाण्यस्त्राणि शस्त्राणि च महाबलः
रोषताम्रेक्षणो मुञ्चञ्छरान्वैरिविदारिणः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
तच्छस्त्रजालं निर्धूय राजपुत्रो जगाद तम्
क्षमस्वैकं प्रहारं मे यदि शूरोसि मारिष ॥ ७८ ॥
मूलम्
तच्छस्त्रजालं निर्धूय राजपुत्रो जगाद तम्
क्षमस्वैकं प्रहारं मे यदि शूरोसि मारिष ॥ ७८ ॥
विश्वास-प्रस्तुतिः
यद्यनेन भवन्तं वै रथाच्चेत्पातयामि न
प्रतिज्ञां शृणु मे वीर मम गर्वेण निर्मिताम् ॥ ७९ ॥
मूलम्
यद्यनेन भवन्तं वै रथाच्चेत्पातयामि न
प्रतिज्ञां शृणु मे वीर मम गर्वेण निर्मिताम् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
वेदं निन्दन्ति ये मत्ता हेतुवादविचक्षणाः
तेषां पापं ममैवास्तु नरकार्णवमज्जकम् ॥ ८० ॥
मूलम्
वेदं निन्दन्ति ये मत्ता हेतुवादविचक्षणाः
तेषां पापं ममैवास्तु नरकार्णवमज्जकम् ॥ ८० ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा बाणमासाद्य कोदण्डे कालसन्निभम्
ज्वालामालाकुलं तीक्ष्णं निषङ्गादुद्धृतं वरम् ॥ ८१ ॥
मूलम्
इत्युक्त्वा बाणमासाद्य कोदण्डे कालसन्निभम्
ज्वालामालाकुलं तीक्ष्णं निषङ्गादुद्धृतं वरम् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
स मुक्तो नृपवर्येण हृदि लक्ष्यीकृतः शरः
जगाम तरसा तं वै कालानलसमप्रभः ॥ ८२ ॥
मूलम्
स मुक्तो नृपवर्येण हृदि लक्ष्यीकृतः शरः
जगाम तरसा तं वै कालानलसमप्रभः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
प्रतापाग्र्यः शरं दृष्ट्वा स्वपातनसमुद्यतम्
बाणान्धनुष्यथाधत्त शरच्छेदायवै शितान् ॥ ८३ ॥
मूलम्
प्रतापाग्र्यः शरं दृष्ट्वा स्वपातनसमुद्यतम्
बाणान्धनुष्यथाधत्त शरच्छेदायवै शितान् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
स बाणः सर्वबाणांस्तांश्छिन्दन्मध्यत एव हि
जगाम वै प्रतापाग्र्यहृदयं धैर्यसंयुतम् ॥ ८४ ॥
मूलम्
स बाणः सर्वबाणांस्तांश्छिन्दन्मध्यत एव हि
जगाम वै प्रतापाग्र्यहृदयं धैर्यसंयुतम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
संलग्नो हृदि नालीकः प्रविवेश तदन्तरम्
राजाकृतप्रहारस्तु पपात धरणीतले ॥ ८५ ॥
मूलम्
संलग्नो हृदि नालीकः प्रविवेश तदन्तरम्
राजाकृतप्रहारस्तु पपात धरणीतले ॥ ८५ ॥
विश्वास-प्रस्तुतिः
मूर्च्छितं चेतनाहीनं रथोपस्थाद्गतं भुवि
सारथिस्तं समादायापोवाह रणमण्डलात् ॥ ८६ ॥
मूलम्
मूर्च्छितं चेतनाहीनं रथोपस्थाद्गतं भुवि
सारथिस्तं समादायापोवाह रणमण्डलात् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
हाहाकारोमहानासीद्बलं भग्नं गतं ततः
यत्र शत्रुघ्ननामासौ वीरकोटिपरीवृतः ॥ ८७ ॥
मूलम्
हाहाकारोमहानासीद्बलं भग्नं गतं ततः
यत्र शत्रुघ्ननामासौ वीरकोटिपरीवृतः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
राजात्मजो जयं प्राप्य प्रतापाग्र्यं विजित्य सः
प्रतीक्षां तु चकारास्य शत्रुघ्नस्य च भूपतेः ॥ ८८ ॥
मूलम्
राजात्मजो जयं प्राप्य प्रतापाग्र्यं विजित्य सः
प्रतीक्षां तु चकारास्य शत्रुघ्नस्य च भूपतेः ॥ ८८ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
राजपुत्रयुद्धकथनन्नाम त्रयोविंशोऽध्यायः २३