सुमतिरुवाच
विश्वास-प्रस्तुतिः
अथ सर्वं दिनं नीत्वा हरिस्मरणकीर्तनैः
रात्रौ सुष्वाप गङ्गाया रोधस्युरुफलप्रदे ॥ १ ॥
मूलम्

ददर्श स्वप्नमध्ये तु स स्वात्मानं चतुर्भुजम्
शङ्खचक्रगदापद्मशार्ङ्गकोदण्डधारिणम् ॥ २ ॥

नृत्यन्तं पुरुषोत्तमस्य पुरतः शर्वादि देवैः सह
श्रीमद्भिः स्वतनूयुतैररिगदाम्बूत्थाब्जहेत्यादिभिः
विष्वक्सेनवरैर्गणैः सुतनुभिः श्रीशंसदोपासितं
दृष्ट्वा विस्मयमाप लोकविषयं हर्षं तथात्यद्भुतम् ॥ ३ ॥

ददतं मनसोऽभीष्टं पुरुषोत्तमसञ्ज्ञितम्
आत्मानं च कृपापात्रममन्यत महामतिः ॥ ४ ॥
मूलम्
ददतं मनसोऽभीष्टं पुरुषोत्तमसञ्ज्ञितम्
आत्मानं च कृपापात्रममन्यत महामतिः ॥ ४ ॥
विश्वास-प्रस्तुतिः
इत्येवं स्वप्नविषये ददर्श नृपसत्तमः
प्रातः प्रबुद्धो विप्राय जगाद स्वप्नमीक्षितम् ॥ ५ ॥

तच्छ्रुत्वा वाडवो धीमान्कथयामास विस्मितः
राजंस्त्वयासौ दृष्टो यः पुरुषोत्तमसञ्ज्ञितः ॥ ६ ॥

दास्यते शङ्खचक्रादिचिह्नितां स्वतनुं हरिः
इति श्रुत्वा तु तद्वाक्यं रत्नग्रीवो महामनाः ॥ ७ ॥

दापयामास दानानि दीनानां मानसोचितम्
स्नात्वा गङ्गाब्धिसंयोगे तर्पयित्वा पितॄन्सुरान् ॥ ८ ॥

गायन्हरिगुणग्रामं प्रत्यैक्षत च दर्शनम्
ततो मध्याह्नसमये दिविदुन्दुभयो मुहुः ॥ ९ ॥

जघ्नुः सुरकराघात बहुशब्दसुशब्दिताः
अकस्मात्पुष्पवृष्टिश्च बभूव नृपमस्तके ॥ १० ॥

धन्योसि नृपवर्यस्त्वं नीलं पश्याक्षिगोचरम् ॥ ११ ॥

शृणोतीति यदा वाक्यं नृपो देवप्रणोदितम्
तदा स सूर्यकोटीनामधिकान्ति धरोद्भुतः ॥ १२ ॥

राज्ञोऽक्षिगोचरो जातो नीलनामा महागिरिः
राजतैः कानकैः शृङ्गैः समन्तात्परिराजितः ॥ १३ ॥

किमग्निः प्रज्वलत्येष द्वितीयः किमु भास्करः
किमयं वैद्युतः पुञ्जो ह्यकस्मात्स्थिरकान्तिधृक् ॥ १४ ॥

तापस ब्राह्मणो दृष्ट्वा नीलप्रस्थं सुशोभितम्
राज्ञे निवेदयामास एष पुण्यो महागिरिः ॥ १५ ॥

तच्छ्रुत्वा नृपतिश्रेष्ठः शिरसा प्रणनाम ह
धन्योऽस्मि कृतकृत्योऽस्मि नीलो मे दृष्टिगोचरः ॥ १६ ॥

अमात्यो राजपत्नी च करम्बस्तन्तुवायकः
नीलदर्शनसंहृष्टा बभूवुः पुरुषर्षभ ॥ १७ ॥

पञ्चैते विजये काले नीलपर्वतमारुहन्
महादुन्दुभिनिर्घोषाञ्च्छृण्वन्तो ह्यमरैः कृतान् ॥ १८ ॥

तस्योपरितने शृङ्गे चित्रपादपराजिते
ददर्श हाटकाबद्धं देवालयमनुत्तमम् ॥ १९ ॥
मूलम्
तस्योपरितने शृङ्गे चित्रपादपराजिते
ददर्श हाटकाबद्धं देवालयमनुत्तमम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
ब्रह्मागत्य सदा पूजां करोति परमेष्ठिनः
नैवेद्यं कुरुते यत्र हरिसन्तोषकारकम् ॥ २० ॥

दृष्ट्वाथ तत्र विमलं देवायतनमुत्तमम्
प्रविवेश परीवारैः पञ्चभिः सह संवृतः ॥ २१ ॥

तत्र दृष्ट्वा जातरूपे महामणिविचित्रिते
सिंहासने विराजन्तं चतुर्भुजमनोहरम् ॥ २२ ॥

चण्ड प्रचण्ड विजय जयादिभिरुपासितम्
प्रणनाम सपत्नीको राजा सेवकसंयुतः ॥ २३ ॥
मूलम्
चण्ड प्रचण्ड विजय जयादिभिरुपासितम्
प्रणनाम सपत्नीको राजा सेवकसंयुतः ॥ २३ ॥
विश्वास-प्रस्तुतिः
प्रणम्य परमात्मानं महाराजः सुरोत्तमम्
स्नापयामास विधिवद्वेदोक्तैः स्नानमन्त्रकैः ॥ २४ ॥

अर्घ्यपाद्यादिकं चक्रे प्रीतेन मनसा नृपः
चन्दनेन विलिप्यैनं सुवस्त्रे विनिवेद्य च ॥ २५ ॥

धूपमारार्तिकं कृत्वा सर्वस्वादुमनोहरम्
नैवेद्यं भगवन्मूर्त्यै न्यवेदयदथो नृपः ॥ २६ ॥

प्रणम्य च स्तुतिं चक्रे तापसब्राह्मणेन च
यथामतिगुणग्रामगुम्फितस्तोत्रसञ्चयैः ॥ २७ ॥

राजोवाच
एकस्त्वं पुरुषः साक्षाद्भगवान्प्रकृतेः परः
कार्यकारणतो भिन्नो महत्तत्त्वादिपूजितः ॥ २८ ॥

त्वन्नाभिकमलाज्जज्ञे ब्रह्मा सृष्टिविचक्षणः
तथा संहारकर्ता च रुद्रस्त्वन्नेत्रसम्भवः ॥ २९ ॥

त्वयाज्ञप्तः करोत्यस्य विश्वस्य परिचेष्टितम्
त्वत्तो जातं पुराणाद्यज्जगत्स्थास्नु चरिष्णु च ॥ ३० ॥

चेतनाशक्तिमाविश्य त्वमेनं चेतयस्यहो
तव जन्म तु नास्त्येव नान्तस्तव जगत्पते
वृद्धिक्षयपरीणामास्त्वयि सन्त्येव नो विभो ॥ ३१ ॥

तथापि भक्तरक्षार्थं धर्मस्थापनहेतवे
करोषि जन्मकर्माणि ह्यनुरूपगुणानि च ॥ ३२ ॥

त्वया मात्स्यं वपुर्धृत्वा शङ्खस्तु निहतोसुरः
वेदाः सुरक्षिता ब्रह्मन्महापुरुषपूर्वज ॥ ३३ ॥

शेषो न वेत्ति महि ते भारत्यपि महेश्वरी
किमुतान्ये महाविष्णो मादृशास्तु कुबुद्धयः ॥ ३४ ॥

मनसा त्वां न चाप्नोति वागियं परमेश्वरी
तस्मादहं कथं त्वां वै स्तोतुं स्यामीश्वरः प्रभो ॥ ३५ ॥

इति स्तुत्वा स शिरसा प्रणाममकरोन्मुहुः
गद्गदस्वरसंयुक्तो रोमहर्षाङ्किताङ्गकः ॥ ३६ ॥

इति स्तुत्या प्रहृष्टात्मा भगवान्पुरुषोत्तमः
उवाच वचनं सत्यं राजानं प्रति सार्थकम् ॥ ३७ ॥

श्रीभगवानुवाच
तव स्तुत्या प्रहर्षोऽभून्मम राजन्महामते
जानीहि त्वं महाराज मां च प्रकृतितः परम् ॥ ३८ ॥

नैवेद्यभक्षणं त्वं हि शीघ्रं कुरु मनोहरम्
चतुर्भुजत्वमाप्तः सन्गन्तासि परमं पदम् ॥ ३९ ॥

त्वत्कृत्स्तुतिरत्नेन यो मां स्तोष्यति मानवः
तस्यापि दर्शनं दास्ये भुक्तिमुक्तिवरप्रदम् ॥ ४० ॥

इत्येवं वचनं राजा श्रुत्वा भगवतोदितम्
नैवेद्यभक्षणं चक्रे चतुर्भिः सह सेवकैः ॥ ४१ ॥

ततो विमानं सम्प्राप्तं किङ्किणीजालमण्डितम्
अप्सरोवृन्दसंसेव्यं सर्वभोगसमन्वितम् ॥ ४२ ॥

पुरुषोत्तमसञ्ज्ञं च पश्यन्राजा स धार्मिकः
ववन्दे चरणौ तस्य कृपापात्रकृतात्मकः ॥ ४३ ॥

तदाज्ञया विमाने स आरुह्य महिलायुतः
जगाम पश्यतस्तस्य दिवि वैकुण्ठमद्भुतम् ॥ ४४ ॥

मन्त्री धर्मपरो राज्ञः सर्वधर्मविदुत्तमः
ययौ साकं विमानेन ललनावृन्दसेवितः ॥ ४५ ॥

तापसब्राह्मणस्तत्र सर्वतीर्थावगाहकः
चतुर्भुजत्वं सम्प्राप्तो ययौ देवैर्विमानिभिः ॥ ४६ ॥

करम्बोऽपि महाराज गानपुण्येन दर्शनम्
प्राप्तो ययौ सुरावासं सर्वदेवादिदुर्ल्लभम् ॥ ४७ ॥

सर्वे प्रचलिता विष्णुलोकं परममद्भुतम्
चतुर्भुजाः शङ्खचक्रगदापाथोजधारिणः ॥ ४८ ॥

सर्वे मेघश्रियः शुद्धा लसदम्भोजपाणयः
हारकेयूरकटकैर्भूषिताङ्गा ययुर्दिवम् ॥ ४९ ॥

तद्विमानावलीर्दृष्ट्वा लोकैः प्रकृतिभिस्तदा
दुन्दुभीनां तु निर्घोषस्तैः कृतः कर्णगोचरः ॥ ५० ॥

तदैको ब्राह्मणो ह्यासीद्विष्णुपादाब्जवल्लभः
गतस्तद्विरहाकृष्टचेता जातश्चतुर्भुजः ॥ ५१ ॥

तच्चित्रं वीक्ष्य लोकास्ते प्रशंसन्तो महोदयम्
गङ्गासागरसंयोगे स्नात्वाऽगुस्तं पुरं प्रति ॥ ५२ ॥

अहो भाग्यं भूमिपते रत्नग्रीवस्य सन्मतेः
जगामानेन देहेन तद्विष्णोः परमं पदम् ॥ ५३ ॥

राजन्नसौ नीलगिरिः पुरुषोत्तमसत्कृतः
यं वीक्ष्यैव व्रजन्त्यद्धा वैकुण्ठं परमायनम् ॥ ५४ ॥

एतन्नीलस्य माहात्म्यं यः शृणोति स भाग्यवान्
यः श्रावयति लोकान्वै तौ गच्छेतां परं पदम् ॥ ५५ ॥

एतच्छ्रुत्वा तु दुःस्वप्नो नश्यति स्मृतिमात्रतः
प्रान्ते संसारनिस्तारं ददाति पुरुषोत्तमः ॥ ५६ ॥

योऽसौ नीलाधिवासी च स रामः पुरुषोत्तमः
सीतासाक्षान्महालक्ष्मीः सर्वकारणकारणम् ॥ ५७ ॥

हयमेधं चरित्वा स लोकान्वै पावयिष्यति
यन्नामब्रह्महत्यायाः प्रायश्चित्ते प्रदिश्यते ॥ ५८ ॥

इदानीं त्वद्धयः प्राप्तो नीलेपर्वतसत्तमे
पुरुषोत्तमदेवं त्वं नमस्कुरु महामते ॥ ५९ ॥

तत्र निष्पापिनो भूत्वा यास्यामः परमं पदम्
यस्य प्रसादाद्बहवो निस्तीर्णा भवसागरात् ॥ ६० ॥

एवं प्रवदतस्तस्य प्राप्तोऽश्वो नीलपर्वतम्
वायुवेगेन पृथिवीं कुर्वन्सङ्क्षुण्णमण्डलाम् ॥ ६१ ॥

तदा राजापि तत्पृष्ठचारी नीलाभिधं गिरिम्
प्राप्तो गङ्गाब्धिसंयोगे स्नात्वागात्पुरुषोत्तमम् ॥ ६२ ॥

स्तुत्वा नत्वा च देवेशं सुरासुरनमस्कृतम्
जातं कृतार्थमात्मानममन्यत स शत्रुहा ॥ ६३ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
नीलगिरिमहिमवर्णनन्नाम द्वाविंशोऽध्यायः २२