सुमतिरुवाच
विश्वास-प्रस्तुतिः
एतन्माहात्म्यमतुलं गण्डक्याः कर्णगोचरम्
कृत्वा कृतार्थमात्मानममन्यत नृपोत्तमः ॥ १ ॥
मूलम्

स्नात्वा तीर्थे पितॄन्सर्वान्सन्तर्प्य जहृषे महान्
शालग्रामशिलापूजां कुर्वन्वाडववाक्यतः ॥ २ ॥

चतुर्विंशच्छिलास्तत्र गृहीत्वा स नृपोत्तमः
पूजयामास प्रेम्णा च चन्दनाद्युपचारकैः ॥ ३ ॥

तत्र दानानि दत्त्वा च दीनान्धेभ्यो विशेषतः
गन्तुं प्रचक्रमे राजा पुरुषोत्तममन्दिरम् ॥ ४ ॥

एवं क्रमेण सम्प्राप्तो गङ्गासागरसङ्गमम्
कृत्वाक्षिगोचरं तं च ब्राह्मणं पृष्टवान्मुदा ॥ ५ ॥

स्वामिन्वद कियद्दूरे नीलाख्यः पर्वतो महान्
पुरुषोत्तमसंवासः सुरासुरनमस्कृतः ॥ ६ ॥

तदा श्रुत्वा महद्वाक्यं रत्नग्रीवस्य भूपतेः
उवाच विस्मयाविष्टो राजानं प्रति सादरम् ॥ ७ ॥

राजन्नेतत्स्थलं नीलपर्वतस्य नमस्कृतम्
किमर्थं दृश्यते नैव महापुण्यफलप्रदम् ॥ ८ ॥

पुनःपुनरुवाचेदं स्थलं नीलस्य भूभृतः
कथं न दृश्यते राजन्पुरुषोत्तमवासभृत् ॥ ९ ॥

अत्र स्नातं मया सम्यगत्र भिल्लाक्षिगोचराः
अनेनैव पथा राजन्नारूढं पर्वतोपरि ॥ १० ॥

इति तद्वाक्यमाकर्ण्य विव्यथे मानसे नृपः
नीलभूधरदर्शाय कुर्वन्नुत्कण्ठितं मनः ॥ ११ ॥

उवाच तत्कथं विप्र दृश्येत पुरुषोत्तमः
कथं वा दृश्यते नीलस्तदुपायं वदस्व नः ॥ १२ ॥

तदा वाक्यं समाकर्ण्य रत्नग्रीवस्य भूपतेः
तापसो ब्राह्मणो वाक्यमुवाच नृप विस्मितः ॥ १३ ॥

गङ्गासागरसंयोगे स्नात्वास्माभिर्महीपते
स्थातव्यं तावदेवात्र यावन्नीलो न दृश्यते ॥ १४ ॥

गीयते पापहा देवः पुरुषोत्तमसञ्ज्ञितः
करिष्यते कृपामाशु भक्तवत्सलनामधृक् ॥ १५ ॥

त्यजत्यसौ न वै भक्तान्देवदेवशिरोमणिः
अनेके रक्षिता भक्तास्तद्गायस्व महामते ॥ १६ ॥

इति वाक्यं समाकर्ण्य राजा व्यथितचेतसा
स्नात्वा गङ्गाब्धिसंयोगे ततोनशनमादधात् ॥ १७ ॥

करिष्यति कृपां यर्हि दर्शने पुरुषोत्तमः
पूजां कृत्वाशनं कुर्यामन्यथानशनं व्रतम् ॥ १८ ॥

इति कृत्वा स नियमं गङ्गासागररोधसि
गायन्हरिगुणग्राममुपवासमथाचरत् ॥ १९ ॥
मूलम्
इति कृत्वा स नियमं गङ्गासागररोधसि
गायन्हरिगुणग्राममुपवासमथाचरत् ॥ १९ ॥
विश्वास-प्रस्तुतिः
राजोवाच
जय दीनदयाकरप्रभो जय दुःखापह मङ्गलाह्वय
जय भक्तजनार्तिनाशन कृतवर्ष्मञ्जयदुष्टघातक ॥ २० ॥

अम्बरीषमथ वीक्ष्य दुःखितं विप्रशापहतसर्वमङ्गलम्
धारयन्निजकरे सुदर्शनं संररक्ष जठराधिवासतः ॥ २१ ॥

दैत्यराज पितृकारितव्यथः शूलपाशजलवह्निपातनैः
श्रीनृसिंहतनुधारिणा त्वया रक्षितः सपदि पश्यतः पितुः ॥ २२ ॥

ग्राहवक्त्रपतिताङ्घ्रिमुद्भटं वारणेन्द्रमतिदुःखपीडितम्
वीक्ष्य साधुकरुणार्द्रमानसस्त्वं गरुत्मति कृतारुहक्रियः ॥ २३ ॥

त्यक्तपक्षिपतिरात्तचक्रको वेगकम्पयुतमालिकाम्बरः
गीयसे सुभिरमुष्य न क्रतो मोचकः सपदि तद्विनाशकः ॥ २४ ॥

यत्रयत्र तव सेवकार्दनं तत्र तत्र बत देहधारिणा
पाल्यते च भवता निजः प्रभो पापहारिचरितैर्मनोहरैः ॥ २५ ॥

दीननाथ सुरमौलिहीरकाघृष्टपादतल भक्तवल्लभ
पापकोटिपरिदाहक प्रभो दर्शयस्व निजदर्शनं मम ॥ २६ ॥

पापकृद्यदि जनोयमागतो मानसे तव तथा हि दर्शय
तावका वयमघौघनाशनं विस्मृतं नहि सुरासुरार्चित ॥ २७ ॥

ये वदन्ति तव नाम निर्मलं ते तरन्ति सकलाघसागरम्
संस्मृतिर्यदि कृता तदा मया प्राप्यतां सकलदुःखवारक ॥ २८ ॥

एवं गायन्गुणान्रात्रौ दिवा वापि महीपतिः
क्षणमात्रं न विश्रान्तो निद्रामाप न वै सुखम् ॥ २९ ॥

गायन्गच्छन्गृणंस्तिष्ठन्वदत्येतदहर्निशम्
दर्शयस्व कृपानाथ स्वतनुं पुरुषोत्तम ॥ ३० ॥

एवं राज्ञः पञ्चदिनं गतं गङ्गाब्धिसङ्गमे
तदा कृपाब्धिः कृपया चिन्तयामास गोपतिः ॥ ३१ ॥

असौ राजा मदीयेन गानेन विगताघकः
पश्य तान्मामकीं प्रेष्ठां सुरासुरनमस्कृताम् ॥ ३२ ॥

इति सञ्चिन्त्य भगवान्कृपापूरितमानसः
सन्न्यासिवेषमास्थाय ययौ राज्ञोंऽतिकं विभुः ॥ ३३ ॥

तत्र गत्वा महाराज त्रिदण्डियतिवेषधृक्
भक्तानुकम्पया प्राप्तो वीक्षितस्तापसेन हि ॥ ३४ ॥

ॐनमो विष्णवेत्युक्त्वा नमश्चक्रे नृपोत्तमः
अर्घ्यपाद्यासनैः पूजां चकार हरिमानसः ॥ ३५ ॥

उवाच भाग्यमतुलं यद्भवानक्षिगोचरः
अतः परं दास्यते मे गोविन्दो निजदर्शनम् ॥ ३६ ॥

इति श्रुत्वा तु तद्वाक्यं सन्न्यासी निजगाद तम्
राजञ्छृणुष्व कथितं मम वाक्यविनिःसृतम् ॥ ३७ ॥

अहं ज्ञानेन जानामि भूतं भव्यं भवच्च यत्
तस्मादहं ब्रुवे किञ्चिच्छृणुष्वैकाग्रमानसः ॥ ३८ ॥

श्वो मध्याह्ने हरिर्दाता दर्शनं ब्रह्मदुर्ल्लभम्
पञ्चभिः स्वजनैः साकं यास्यसे परमं पदम् ॥ ३९ ॥

त्वममात्यश्च महिला तव तापस वाडवः
पुरे तव करम्बाख्यः साधुश्च तं तु वायकः ॥ ४० ॥

एतैः पञ्चभिरेतस्मिन्नीले पर्वतसत्तमे
यास्यसे ब्रह्मदेवेन्द्र वन्दितं सुरपूजितम् ॥ ४१ ॥

इत्युक्त्वाऽदृश्यतां प्राप्तो यतिः क्वापि न दृश्यते
तदाकर्ण्य नृपो हर्षं प्राप चाशु सविस्मयम् ॥ ४२ ॥

स्वामिन्कोऽसौ समागत्य सन्न्यासी मां यदूचिवान्
न दृश्यते पुनः कुत्र गतोऽसौ चित्तहर्षदः ॥ ४३ ॥

तापस उवाच
राजंस्तव महाप्रेम्णा कृष्टचित्तः समभ्यगात्
पुरुषोत्तमनामायं सर्वपापप्रणाशनः ॥ ४४ ॥

श्वोमध्याह्ने तव पुरो भविष्यति महान्गिरिः
तमारुह्य हरिं दृष्ट्वा कृतार्थस्त्वं भविष्यसि ॥ ४५ ॥

इतिवाक्यसुधापूर नाशितस्वान्त सञ्ज्वरः
हर्षं यमाप स नृपो ब्रह्मापि न हि वेत्ति तम् ॥ ४६ ॥

तदा दुन्दुभयो नेदुर्वीणापणवगोमुखाः
महानन्दस्तदा ह्यासीद्राजराजस्य चेतसि ॥ ४७ ॥

गायन्हरिं क्षणं तिष्ठन्हसञ्जल्पन्ब्रुवन्नमन्
आनन्दं प्राप सुघनं सर्वसन्तापनाशनम् ॥ ४८ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
सन्न्यासिदर्शनन्नाम एकविंशोऽध्यायः २१