सुमतिरुवाच
विश्वास-प्रस्तुतिः
अथ प्रयाते भूपाले सर्वलोकसमन्विते
महाभागैर्वैष्णवैश्च गायकैः कृष्णकीर्तनम् ॥ १ ॥
मूलम्
अथ प्रयाते भूपाले सर्वलोकसमन्विते
महाभागैर्वैष्णवैश्च गायकैः कृष्णकीर्तनम् ॥ १ ॥
विश्वास-प्रस्तुतिः
शुश्रावासौ महाराजो मार्गे गोविन्दकीर्तनम्
जय माधव भक्तानां शरण्य पुरुषोत्तम ॥ २ ॥
मूलम्
शुश्रावासौ महाराजो मार्गे गोविन्दकीर्तनम्
जय माधव भक्तानां शरण्य पुरुषोत्तम ॥ २ ॥
विश्वास-प्रस्तुतिः
मार्गे तीर्थान्यनेकानि कुर्वन्पश्यन्महोदयम्
तापसब्राह्मणात्तेषां महिमानमथा शृणोत् ॥ ३ ॥
मूलम्
मार्गे तीर्थान्यनेकानि कुर्वन्पश्यन्महोदयम्
तापसब्राह्मणात्तेषां महिमानमथा शृणोत् ॥ ३ ॥
विश्वास-प्रस्तुतिः
विचित्रविष्णुवार्ताभिर्विनोदितमना नृपः
मार्गेमार्गे महाविष्णुं गापयामास गायकान् ॥ ४ ॥
मूलम्
विचित्रविष्णुवार्ताभिर्विनोदितमना नृपः
मार्गेमार्गे महाविष्णुं गापयामास गायकान् ॥ ४ ॥
विश्वास-प्रस्तुतिः
दीनान्धकृपणानां च पङ्गूनां वासनोचितम्
दानं ददौ महाराजो बुद्धिमान्विजितेन्द्रियः ॥ ५ ॥
मूलम्
दीनान्धकृपणानां च पङ्गूनां वासनोचितम्
दानं ददौ महाराजो बुद्धिमान्विजितेन्द्रियः ॥ ५ ॥
विश्वास-प्रस्तुतिः
अनेकतीर्थविरजमात्मानं भव्यतां गतम्
कुर्वन्ययौ स्वीयलोकैर्हरिध्यानपरायणः ॥ ६ ॥
मूलम्
अनेकतीर्थविरजमात्मानं भव्यतां गतम्
कुर्वन्ययौ स्वीयलोकैर्हरिध्यानपरायणः ॥ ६ ॥
विश्वास-प्रस्तुतिः
नृपो गच्छन्ददर्शाग्रे नदीं पापप्रणाशिनीम्
चक्राङ्कितग्रावयुतां मुनिमानस निर्मलाम् ॥ ७ ॥
मूलम्
नृपो गच्छन्ददर्शाग्रे नदीं पापप्रणाशिनीम्
चक्राङ्कितग्रावयुतां मुनिमानस निर्मलाम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
अनेकमुनिवृन्दानां बहुश्रेणिविराजिताम्
सारसादिपतत्रीणां कूजितैरुपशोभिताम् ॥ ८ ॥
मूलम्
अनेकमुनिवृन्दानां बहुश्रेणिविराजिताम्
सारसादिपतत्रीणां कूजितैरुपशोभिताम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा पप्रच्छ विप्राग्र्यं तापसं धर्मकोविदम्
अनेकतीर्थमाहात्म्य विशेषज्ञानजृम्भितम् ॥ ९ ॥
मूलम्
दृष्ट्वा पप्रच्छ विप्राग्र्यं तापसं धर्मकोविदम्
अनेकतीर्थमाहात्म्य विशेषज्ञानजृम्भितम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
स्वामिन्केयं नदी पुण्या मुनिवृन्दनिषेविता
करोति मम चित्तस्य प्रमोदभरनिर्भरम् ॥ १० ॥
मूलम्
स्वामिन्केयं नदी पुण्या मुनिवृन्दनिषेविता
करोति मम चित्तस्य प्रमोदभरनिर्भरम् ॥ १० ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा वचस्तस्य राजराजस्य धीमतः
वक्तुं प्रचक्रमे विद्वांस्तीर्थमाहात्म्यमुत्तमम् ॥ ११ ॥
मूलम्
इति श्रुत्वा वचस्तस्य राजराजस्य धीमतः
वक्तुं प्रचक्रमे विद्वांस्तीर्थमाहात्म्यमुत्तमम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच
गण्डकीयं नदी राजन्सुरासुरनिषेविता
पुण्योदकपरीवाह हतपातकसञ्चया ॥ १२ ॥
मूलम्
ब्राह्मण उवाच
गण्डकीयं नदी राजन्सुरासुरनिषेविता
पुण्योदकपरीवाह हतपातकसञ्चया ॥ १२ ॥
विश्वास-प्रस्तुतिः
दर्शनान्मानसं पापं स्पर्शनात्कर्मजं दहेत्
वाचिकं स्वीय तोयस्य पानतः पापसञ्चयम् ॥ १३ ॥
मूलम्
दर्शनान्मानसं पापं स्पर्शनात्कर्मजं दहेत्
वाचिकं स्वीय तोयस्य पानतः पापसञ्चयम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
पुरा दृष्ट्वा प्रजानाथः प्रजाः सर्वा विपावनीः
स्वगण्डविप्रुषोनेक पापघ्नीं सृष्टवानिमाम् ॥ १४ ॥
मूलम्
पुरा दृष्ट्वा प्रजानाथः प्रजाः सर्वा विपावनीः
स्वगण्डविप्रुषोनेक पापघ्नीं सृष्टवानिमाम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
एनां नदीं ये पुण्योदां स्पृशन्ति सुतरङ्गिणीम्
ते गर्भभाजो नैव स्युरपि पापकृतो नराः ॥ १५ ॥
मूलम्
एनां नदीं ये पुण्योदां स्पृशन्ति सुतरङ्गिणीम्
ते गर्भभाजो नैव स्युरपि पापकृतो नराः ॥ १५ ॥
विश्वास-प्रस्तुतिः
अस्यां भवा ये चाश्मानश्चक्रचिह्नैरलङ्कृताः
ते साक्षाद्भगवन्तो हि स्वस्वरूपधराः पराः ॥ १६ ॥
मूलम्
अस्यां भवा ये चाश्मानश्चक्रचिह्नैरलङ्कृताः
ते साक्षाद्भगवन्तो हि स्वस्वरूपधराः पराः ॥ १६ ॥
विश्वास-प्रस्तुतिः
शिलां सम्पूजयेद्यस्तु नित्यं चक्रयुतां नरः
न जातु स जनन्या वै जठरं समुपाविशेत् ॥ १७ ॥
मूलम्
शिलां सम्पूजयेद्यस्तु नित्यं चक्रयुतां नरः
न जातु स जनन्या वै जठरं समुपाविशेत् ॥ १७ ॥
विश्वास-प्रस्तुतिः
पूजयेद्यो नरो धीमाञ्छालग्रामशिलां वराम्
तेनाचारवता भाव्यं दम्भलोभवियोगिना ॥ १८ ॥
मूलम्
पूजयेद्यो नरो धीमाञ्छालग्रामशिलां वराम्
तेनाचारवता भाव्यं दम्भलोभवियोगिना ॥ १८ ॥
विश्वास-प्रस्तुतिः
परदार परद्रव्यविमुखेन नरेण हि
पूजनीयः प्रयत्नेन शालग्रामः सचक्रकः ॥ १९ ॥
मूलम्
परदार परद्रव्यविमुखेन नरेण हि
पूजनीयः प्रयत्नेन शालग्रामः सचक्रकः ॥ १९ ॥
विश्वास-प्रस्तुतिः
द्वारवत्यां भवं चक्रं शिला वै गण्डकीभवा
पुंसां क्षणाद्धरत्येव पापं जन्मशतार्जितम् ॥ २० ॥
मूलम्
द्वारवत्यां भवं चक्रं शिला वै गण्डकीभवा
पुंसां क्षणाद्धरत्येव पापं जन्मशतार्जितम् ॥ २० ॥
विश्वास-प्रस्तुतिः
अपि पापसहस्राणां कर्ता तावन्नरो भवेत्
शालग्रामशिलातोयं पीत्वा पूतो भवेत्क्षणात् ॥ २१ ॥
मूलम्
अपि पापसहस्राणां कर्ता तावन्नरो भवेत्
शालग्रामशिलातोयं पीत्वा पूतो भवेत्क्षणात् ॥ २१ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वेदपथि स्थितः
शालग्रामं पूजयित्वा गृहस्थो मोक्षमाप्नुयात् ॥ २२ ॥
मूलम्
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वेदपथि स्थितः
शालग्रामं पूजयित्वा गृहस्थो मोक्षमाप्नुयात् ॥ २२ ॥
विश्वास-प्रस्तुतिः
न जातु चित्स्त्रिया कार्यं शालग्रामस्य पूजनम्
भर्तृहीनाथ सुभगा स्वर्गलोकहितैषिणी ॥ २३ ॥
मूलम्
न जातु चित्स्त्रिया कार्यं शालग्रामस्य पूजनम्
भर्तृहीनाथ सुभगा स्वर्गलोकहितैषिणी ॥ २३ ॥
विश्वास-प्रस्तुतिः
मोहात्स्पृष्ट्वापि महिला जन्मशीलगुणान्विता
हित्वा पुण्यसमूहं सा सत्वरं नरकं व्रजेत् ॥ २४ ॥
मूलम्
मोहात्स्पृष्ट्वापि महिला जन्मशीलगुणान्विता
हित्वा पुण्यसमूहं सा सत्वरं नरकं व्रजेत् ॥ २४ ॥
विश्वास-प्रस्तुतिः
स्त्रीपाणिमुक्तपुष्पाणि शालग्रामशिलोपरि
पवेरधिकपातानि वदन्ति ब्राह्मणोत्तमाः ॥ २५ ॥
मूलम्
स्त्रीपाणिमुक्तपुष्पाणि शालग्रामशिलोपरि
पवेरधिकपातानि वदन्ति ब्राह्मणोत्तमाः ॥ २५ ॥
विश्वास-प्रस्तुतिः
चन्दनं विषसङ्काशं कुसुमं वज्रसन्निभम्
नैवेद्यं कालकूटाभं भवेद्भगवतः कृतम् ॥ २६ ॥
मूलम्
चन्दनं विषसङ्काशं कुसुमं वज्रसन्निभम्
नैवेद्यं कालकूटाभं भवेद्भगवतः कृतम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
तस्मात्सर्वात्मना त्याज्यं स्त्रिया स्पर्शः शिलोपरि
कुर्वती याति नरकं यावदिन्द्राश्चतुर्दश ॥ २७ ॥
मूलम्
तस्मात्सर्वात्मना त्याज्यं स्त्रिया स्पर्शः शिलोपरि
कुर्वती याति नरकं यावदिन्द्राश्चतुर्दश ॥ २७ ॥
विश्वास-प्रस्तुतिः
अपि पापसमाचारो ब्रह्महत्यायुतोऽपि वा
शालग्रामशिलातोयं पीत्वा याति परां गतिम् ॥ २८ ॥
मूलम्
अपि पापसमाचारो ब्रह्महत्यायुतोऽपि वा
शालग्रामशिलातोयं पीत्वा याति परां गतिम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
तुलसीचन्दनं वारि शङ्खो घण्टाथ चक्रकम्
शिला ताम्रस्य पात्रं तु विष्णोर्नामपदामृतम् ॥ २९ ॥
मूलम्
तुलसीचन्दनं वारि शङ्खो घण्टाथ चक्रकम्
शिला ताम्रस्य पात्रं तु विष्णोर्नामपदामृतम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
पदामृतं तु नवभिः पापराशिप्रदाहकम्
वदन्ति मुनयः शान्ताः सर्वशास्त्रार्थकोविदाः ॥ ३० ॥
मूलम्
पदामृतं तु नवभिः पापराशिप्रदाहकम्
वदन्ति मुनयः शान्ताः सर्वशास्त्रार्थकोविदाः ॥ ३० ॥
विश्वास-प्रस्तुतिः
सर्वतीर्थपरिस्नानात्सर्वक्रतुसमर्चनात्
पुण्यं भवति यद्राजन्बिन्दौ बिन्दौ तदद्भुतम् ॥ ३१ ॥
मूलम्
सर्वतीर्थपरिस्नानात्सर्वक्रतुसमर्चनात्
पुण्यं भवति यद्राजन्बिन्दौ बिन्दौ तदद्भुतम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
शालग्रामशिला यत्र पूज्यते पुरुषोत्तमैः
तत्र योजनमात्रं तु तीर्थकोटिसमन्वितम् ॥ ३२ ॥
मूलम्
शालग्रामशिला यत्र पूज्यते पुरुषोत्तमैः
तत्र योजनमात्रं तु तीर्थकोटिसमन्वितम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
शालग्रामाः समाः पूज्याः समेषु द्वितयं नहि
विषमा एव सम्पूज्या विषमेषु त्रयं नहि ॥ ३३ ॥
मूलम्
शालग्रामाः समाः पूज्याः समेषु द्वितयं नहि
विषमा एव सम्पूज्या विषमेषु त्रयं नहि ॥ ३३ ॥
विश्वास-प्रस्तुतिः
द्वारावती भवं चक्रं तथा वै गण्डकीभवम्
उभयोः सङ्गमो यत्र तत्र गङ्गा समुद्रगा ॥ ३४ ॥
मूलम्
द्वारावती भवं चक्रं तथा वै गण्डकीभवम्
उभयोः सङ्गमो यत्र तत्र गङ्गा समुद्रगा ॥ ३४ ॥
विश्वास-प्रस्तुतिः
रूक्षाः कुर्वन्ति पुरुषा नायुः श्रीबलवर्जितान्
तस्मात्स्निग्धा मनोहारि रूपिण्यो ददति श्रियम् ॥ ३५ ॥
मूलम्
रूक्षाः कुर्वन्ति पुरुषा नायुः श्रीबलवर्जितान्
तस्मात्स्निग्धा मनोहारि रूपिण्यो ददति श्रियम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
आयुष्कामो नरो यस्तु धनकामो हि यः पुमान्
पूजयन्सर्वमाप्नोति पारलौकिकमैहिकम् ॥ ३६ ॥
मूलम्
आयुष्कामो नरो यस्तु धनकामो हि यः पुमान्
पूजयन्सर्वमाप्नोति पारलौकिकमैहिकम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
प्राणान्तकाले पुंसस्तु भवेद्भाग्यवतो नृप
वाचि नाम हरेः पुण्यं शिला हृदि तदन्तिके ॥ ३७ ॥
मूलम्
प्राणान्तकाले पुंसस्तु भवेद्भाग्यवतो नृप
वाचि नाम हरेः पुण्यं शिला हृदि तदन्तिके ॥ ३७ ॥
विश्वास-प्रस्तुतिः
गच्छत्सु प्राणमार्गेषु यस्य विश्रम्भतोऽपि चेत्
शालग्रामशिला स्फूर्तिस्तस्य मुक्तिर्न संशयः ॥ ३८ ॥
मूलम्
गच्छत्सु प्राणमार्गेषु यस्य विश्रम्भतोऽपि चेत्
शालग्रामशिला स्फूर्तिस्तस्य मुक्तिर्न संशयः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
पुरा भगवता प्रोक्तमम्बरीषाय धीमते
ब्राह्मणा न्यासिनः स्निग्धाः शालग्रामशिलास्तथा ॥ ३९ ॥
मूलम्
पुरा भगवता प्रोक्तमम्बरीषाय धीमते
ब्राह्मणा न्यासिनः स्निग्धाः शालग्रामशिलास्तथा ॥ ३९ ॥
विश्वास-प्रस्तुतिः
स्वरूपत्रितयं मह्यमेतद्धि क्षितिमण्डले
पापिनां पापनिर्हारं कर्तुं धृतमुदं च ता ॥ ४० ॥
मूलम्
स्वरूपत्रितयं मह्यमेतद्धि क्षितिमण्डले
पापिनां पापनिर्हारं कर्तुं धृतमुदं च ता ॥ ४० ॥
विश्वास-प्रस्तुतिः
निन्दन्ति पापिनो ये वा शालग्रामशिलां सकृत्
कुम्भीपाके पचन्त्याशु यावदाभूतसम्प्लवम् ॥ ४१ ॥
मूलम्
निन्दन्ति पापिनो ये वा शालग्रामशिलां सकृत्
कुम्भीपाके पचन्त्याशु यावदाभूतसम्प्लवम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
पूजां समुद्यतं कर्तुं यो वारयति मूढधीः
तस्य मातापिताबन्धुवर्गा नरकभागिनः ॥ ४२ ॥
मूलम्
पूजां समुद्यतं कर्तुं यो वारयति मूढधीः
तस्य मातापिताबन्धुवर्गा नरकभागिनः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
यो वा कथयति प्रेष्ठं शालग्रामार्चनं कुरु
सकृतार्थो नयत्याशु वैकुण्ठं स्वस्य पूर्वजान् ॥ ४३ ॥
मूलम्
यो वा कथयति प्रेष्ठं शालग्रामार्चनं कुरु
सकृतार्थो नयत्याशु वैकुण्ठं स्वस्य पूर्वजान् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
मुनयो वीतरागाश्च कामक्रोधविवर्जिताः ॥ ४४ ॥
मूलम्
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
मुनयो वीतरागाश्च कामक्रोधविवर्जिताः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
पुरा कीकटसञ्ज्ञे वै देशे धर्मविवर्जिते
आसीत्पुल्कसजातीयो नरः शबरसञ्ज्ञितः ॥ ४५ ॥
मूलम्
पुरा कीकटसञ्ज्ञे वै देशे धर्मविवर्जिते
आसीत्पुल्कसजातीयो नरः शबरसञ्ज्ञितः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
नित्यं जन्तुवधोद्युक्तः शरासनधरो मुहुः
तीर्थं प्रति यियासूनां बलाद्धरति जीवितम् ॥ ४६ ॥
मूलम्
नित्यं जन्तुवधोद्युक्तः शरासनधरो मुहुः
तीर्थं प्रति यियासूनां बलाद्धरति जीवितम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
अनेकप्राणिहत्याकृत्परस्वे निरतः सदा
सदा रागादिसंयुक्तः कामक्रोधादिसंयुतः ॥ ४७ ॥
मूलम्
अनेकप्राणिहत्याकृत्परस्वे निरतः सदा
सदा रागादिसंयुक्तः कामक्रोधादिसंयुतः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
विचरत्यनिशं भीमे वने प्राणिवधङ्करः
विषसंसक्तबाणाग्र रूढचापगुणोद्धुरः ॥ ४८ ॥
मूलम्
विचरत्यनिशं भीमे वने प्राणिवधङ्करः
विषसंसक्तबाणाग्र रूढचापगुणोद्धुरः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
सैकदा पर्यटन्व्याधः प्राणिमात्रभयङ्करः
कालं प्राप्तं न जानाति समीपेऽप्युग्रमानसः ॥ ४९ ॥
मूलम्
सैकदा पर्यटन्व्याधः प्राणिमात्रभयङ्करः
कालं प्राप्तं न जानाति समीपेऽप्युग्रमानसः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
यमदूतास्तु सम्प्राप्ताः पाशमुद्गरपाणयः
ताम्रकेशा दीर्घनखा लम्बदंष्ट्रा भयानकाः ॥ ५० ॥
मूलम्
यमदूतास्तु सम्प्राप्ताः पाशमुद्गरपाणयः
ताम्रकेशा दीर्घनखा लम्बदंष्ट्रा भयानकाः ॥ ५० ॥
विश्वास-प्रस्तुतिः
श्यामा लोहस्यनिगडान्बिभ्रतो मोहकारकाः
बध्नन्तु पापिनं ह्येनं प्राणिमात्रभयङ्करम् ॥ ५१ ॥
मूलम्
श्यामा लोहस्यनिगडान्बिभ्रतो मोहकारकाः
बध्नन्तु पापिनं ह्येनं प्राणिमात्रभयङ्करम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
कदाचिन्मनसा नायं प्राणिमात्रोपकारकः
परदार परद्रव्य परद्रोहपरायणः ॥ ५२ ॥
मूलम्
कदाचिन्मनसा नायं प्राणिमात्रोपकारकः
परदार परद्रव्य परद्रोहपरायणः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
एतस्य जिह्वां महतीमहं निष्कासयाम्यतः
एको वदति चैतस्य चक्षुरुत्पाटयाम्यहम् ॥ ५३ ॥
मूलम्
एतस्य जिह्वां महतीमहं निष्कासयाम्यतः
एको वदति चैतस्य चक्षुरुत्पाटयाम्यहम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
एको वदति चैतस्य करौ कृन्तामि पापिनः
अन्यो वदत्यहं कर्णौ कर्तयामि दुरात्मनः ॥ ५४ ॥
मूलम्
एको वदति चैतस्य करौ कृन्तामि पापिनः
अन्यो वदत्यहं कर्णौ कर्तयामि दुरात्मनः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
एवं वदन्तः सुभृशं दन्तैर्दन्तनिपीडकाः
आगत्य तं दुरात्मानं सायुधास्तस्थुरुन्मदाः ॥ ५५ ॥
मूलम्
एवं वदन्तः सुभृशं दन्तैर्दन्तनिपीडकाः
आगत्य तं दुरात्मानं सायुधास्तस्थुरुन्मदाः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
एको दूतस्तदा सर्परूपं धृत्वादशत्पदे
स दष्टमात्रः सहसा गतासुः पर्यजायत ॥ ५६ ॥
मूलम्
एको दूतस्तदा सर्परूपं धृत्वादशत्पदे
स दष्टमात्रः सहसा गतासुः पर्यजायत ॥ ५६ ॥
विश्वास-प्रस्तुतिः
तदा तं लोहपाशेन बद्ध्वा ते यमकिङ्कराः
कशाभिस्ताडयामासुर्मुद्गरैः प्राहरन्क्रुधा ॥ ५७ ॥
मूलम्
तदा तं लोहपाशेन बद्ध्वा ते यमकिङ्कराः
कशाभिस्ताडयामासुर्मुद्गरैः प्राहरन्क्रुधा ॥ ५७ ॥
विश्वास-प्रस्तुतिः
अहो दुष्ट दुरात्मंस्त्वं कदाचिन्नाचरः शुभम्
मनसापि यतस्त्वां वै क्षेप्स्यामो रौरवेषु च ॥ ५८ ॥
मूलम्
अहो दुष्ट दुरात्मंस्त्वं कदाचिन्नाचरः शुभम्
मनसापि यतस्त्वां वै क्षेप्स्यामो रौरवेषु च ॥ ५८ ॥
विश्वास-प्रस्तुतिः
त्वङ्मांसं वायसा रौद्रा भक्षयिष्यन्ति वै क्रुधा
आजन्मतस्तु भवता न कृतं हरिसेवनम् ॥ ५९ ॥
मूलम्
त्वङ्मांसं वायसा रौद्रा भक्षयिष्यन्ति वै क्रुधा
आजन्मतस्तु भवता न कृतं हरिसेवनम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
त्वया कलत्रपुत्राद्या द्रोहं कृत्वा सुपोषिताः
न कदाचित्स्मृतो देवः पापहारी जनार्दनः ॥ ६० ॥
मूलम्
त्वया कलत्रपुत्राद्या द्रोहं कृत्वा सुपोषिताः
न कदाचित्स्मृतो देवः पापहारी जनार्दनः ॥ ६० ॥
विश्वास-प्रस्तुतिः
तस्मात्त्वां लोहशङ्कौ वा कुम्भीपाके च रौरवे
धर्मराजाज्ञया सर्वे नेष्यामो बहुताडनैः ॥ ६१ ॥
मूलम्
तस्मात्त्वां लोहशङ्कौ वा कुम्भीपाके च रौरवे
धर्मराजाज्ञया सर्वे नेष्यामो बहुताडनैः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा यदानेतुं समैच्छन्यमकिङ्कराः
तावत्प्राप्तो महाविष्णुचरणाब्जपरायणः ॥ ६२ ॥
मूलम्
एवमुक्त्वा यदानेतुं समैच्छन्यमकिङ्कराः
तावत्प्राप्तो महाविष्णुचरणाब्जपरायणः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
यमदूतास्तदा दृष्टा वैष्णवेन महात्मना
पाशमुद्गरदण्डादिदुष्टायुधधरा गणाः ॥ ६३ ॥
मूलम्
यमदूतास्तदा दृष्टा वैष्णवेन महात्मना
पाशमुद्गरदण्डादिदुष्टायुधधरा गणाः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
पुल्कसं लोहनिगडैर्बद्ध्वा यातुं समुद्यताः
बन्ध बन्ध ग्रसच्छिन्धि भिन्धि भिन्धीति वादिनः ॥ ६४ ॥
मूलम्
पुल्कसं लोहनिगडैर्बद्ध्वा यातुं समुद्यताः
बन्ध बन्ध ग्रसच्छिन्धि भिन्धि भिन्धीति वादिनः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
तदा कृपालुस्तं प्रेक्ष्य पद्मनाभपरायणः
अत्यन्तकृपयायुक्तं चेतस्तत्र तदाकरोत् ॥ ६५ ॥
मूलम्
तदा कृपालुस्तं प्रेक्ष्य पद्मनाभपरायणः
अत्यन्तकृपयायुक्तं चेतस्तत्र तदाकरोत् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
असौ महादुष्ट पीडां मा यातु मम सन्निधौ
मोचयाम्यहमद्यैव यमदूतेभ्य एव च ॥ ६६ ॥
मूलम्
असौ महादुष्ट पीडां मा यातु मम सन्निधौ
मोचयाम्यहमद्यैव यमदूतेभ्य एव च ॥ ६६ ॥
विश्वास-प्रस्तुतिः
इति कृत्वा मतिं तस्मिन्कृपायुक्तो मुनीश्वरः
शालग्रामशिलां हस्ते गृहीत्वास्य गतोंऽतिके ॥ ६७ ॥
मूलम्
इति कृत्वा मतिं तस्मिन्कृपायुक्तो मुनीश्वरः
शालग्रामशिलां हस्ते गृहीत्वास्य गतोंऽतिके ॥ ६७ ॥
विश्वास-प्रस्तुतिः
तस्य पादोदकं पुण्यं तुलसीदलमिश्रितम्
मुखे विनिक्षिपन्कर्णे रामनाम जजाप ह ॥ ६८ ॥
मूलम्
तस्य पादोदकं पुण्यं तुलसीदलमिश्रितम्
मुखे विनिक्षिपन्कर्णे रामनाम जजाप ह ॥ ६८ ॥
विश्वास-प्रस्तुतिः
तुलसीं मस्तके तस्य धारयामास वैष्णवः
शिलां हृदि महाविष्णोर्धृत्वा प्राह स वैष्णवः ॥ ६९ ॥
मूलम्
तुलसीं मस्तके तस्य धारयामास वैष्णवः
शिलां हृदि महाविष्णोर्धृत्वा प्राह स वैष्णवः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
गच्छन्तु यमदूता वै यातनासु परायणाः
शालग्रामशिलास्पर्शो दहतात्पातकं महत् ॥ ७० ॥
मूलम्
गच्छन्तु यमदूता वै यातनासु परायणाः
शालग्रामशिलास्पर्शो दहतात्पातकं महत् ॥ ७० ॥
विश्वास-प्रस्तुतिः
इत्युक्तवति तस्मिन्वै गणा विष्णोर्महाद्भुताः
आययुस्तस्य सविधे शिलास्पर्शाद्गतांहसः ॥ ७१ ॥
मूलम्
इत्युक्तवति तस्मिन्वै गणा विष्णोर्महाद्भुताः
आययुस्तस्य सविधे शिलास्पर्शाद्गतांहसः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
पीतवस्त्राः शङ्खचक्रगदापद्मविराजिताः
आगत्य मोचयामासुर्लोहपाशाद्दुरासदात् ॥ ७२ ॥
मूलम्
पीतवस्त्राः शङ्खचक्रगदापद्मविराजिताः
आगत्य मोचयामासुर्लोहपाशाद्दुरासदात् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
मोचयित्वा महापापकारकं पुल्कसं नरम्
ऊचुः किमर्थं बद्धोऽयं वैष्णवः पूज्यदेहभृत् ॥ ७३ ॥
मूलम्
मोचयित्वा महापापकारकं पुल्कसं नरम्
ऊचुः किमर्थं बद्धोऽयं वैष्णवः पूज्यदेहभृत् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
कस्याज्ञाकारका यूयं यदधर्मप्रकारकाः
मुञ्चन्तु वैष्णवं त्वेनं किमर्थं विधृतो ह्ययम् ॥ ७४ ॥
मूलम्
कस्याज्ञाकारका यूयं यदधर्मप्रकारकाः
मुञ्चन्तु वैष्णवं त्वेनं किमर्थं विधृतो ह्ययम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य जगदुर्यमकिङ्कराः
धर्मराजाज्ञया प्राप्ता नेतुं पापिनमुद्यताः ॥ ७५ ॥
मूलम्
इति वाक्यं समाकर्ण्य जगदुर्यमकिङ्कराः
धर्मराजाज्ञया प्राप्ता नेतुं पापिनमुद्यताः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
नासौ कदाचिन्मनसा प्राणिमात्रोपकारकः
प्राणिहत्या महापापकारी दुष्टशरीरभृत् ॥ ७६ ॥
मूलम्
नासौ कदाचिन्मनसा प्राणिमात्रोपकारकः
प्राणिहत्या महापापकारी दुष्टशरीरभृत् ॥ ७६ ॥
विश्वास-प्रस्तुतिः
नॄन्बहूंस्तीर्थयात्रायां गच्छतोऽसौ व्यलुण्ठयत्
परदाररतो नित्यं सर्वपापाधिकारकः ॥ ७७ ॥
मूलम्
नॄन्बहूंस्तीर्थयात्रायां गच्छतोऽसौ व्यलुण्ठयत्
परदाररतो नित्यं सर्वपापाधिकारकः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
तस्मान्नेतुं वयं प्राप्ताः पापिनं पुल्कसं नरम्
भवद्भिर्मोचितः कस्मादकस्मादागतैर्भटैः ॥ ७८ ॥
मूलम्
तस्मान्नेतुं वयं प्राप्ताः पापिनं पुल्कसं नरम्
भवद्भिर्मोचितः कस्मादकस्मादागतैर्भटैः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
विष्णुदूता ऊचुः
ब्रह्महत्यादिकं पापं प्राणिकोटिवधोद्भवम्
शालग्रामशिलास्पर्शः सर्वं दहति तत्क्षणात् ॥ ७९ ॥
मूलम्
विष्णुदूता ऊचुः
ब्रह्महत्यादिकं पापं प्राणिकोटिवधोद्भवम्
शालग्रामशिलास्पर्शः सर्वं दहति तत्क्षणात् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
रामेति नाम यच्छ्रोत्रे विश्रम्भादागतं यदि
करोति पापसन्दाहं तूलं वह्निकणो यथा ॥ ८० ॥
मूलम्
रामेति नाम यच्छ्रोत्रे विश्रम्भादागतं यदि
करोति पापसन्दाहं तूलं वह्निकणो यथा ॥ ८० ॥
विश्वास-प्रस्तुतिः
तुलसी मस्तके यस्य शिला हृदि मनोहरा
मुखे कर्णेऽथवा राम नाम मुक्तस्तदैव सः ॥ ८१ ॥
मूलम्
तुलसी मस्तके यस्य शिला हृदि मनोहरा
मुखे कर्णेऽथवा राम नाम मुक्तस्तदैव सः ॥ ८१ ॥
विश्वास-प्रस्तुतिः
तस्मादनेन तुलसी मस्तके विधृता पुरा
श्रावितं रामनामाशु शिला हृदि सुधारिता ॥ ८२ ॥
मूलम्
तस्मादनेन तुलसी मस्तके विधृता पुरा
श्रावितं रामनामाशु शिला हृदि सुधारिता ॥ ८२ ॥
विश्वास-प्रस्तुतिः
तस्मात्पापसमूहोऽस्य दग्धः पुण्यकलेवरः
यास्यते परमं स्थानं पापिनां यत्सुदुर्ल्लभम् ॥ ८३ ॥
मूलम्
तस्मात्पापसमूहोऽस्य दग्धः पुण्यकलेवरः
यास्यते परमं स्थानं पापिनां यत्सुदुर्ल्लभम् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
वर्षायुतं तत्र भुक्त्वा भोगान्सर्वमनोहरान्
भारते जन्म सम्प्राप्य समाराध्य जगद्गुरुम् ॥ ८४ ॥
मूलम्
वर्षायुतं तत्र भुक्त्वा भोगान्सर्वमनोहरान्
भारते जन्म सम्प्राप्य समाराध्य जगद्गुरुम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
प्राप्स्यते परमं स्थानं सुरासुरसुदुर्ल्लभम्
न ज्ञातो महिमा सम्यक्छिलायाः परमेष्ठिनः ॥ ८५ ॥
मूलम्
प्राप्स्यते परमं स्थानं सुरासुरसुदुर्ल्लभम्
न ज्ञातो महिमा सम्यक्छिलायाः परमेष्ठिनः ॥ ८५ ॥
विश्वास-प्रस्तुतिः
दृष्टा स्पृष्टार्चिता वापि सर्वपापहरा क्षणात्
इत्युक्त्वा विरताः सर्वे महाविष्णोर्गणा मुदा ॥ ८६ ॥
मूलम्
दृष्टा स्पृष्टार्चिता वापि सर्वपापहरा क्षणात्
इत्युक्त्वा विरताः सर्वे महाविष्णोर्गणा मुदा ॥ ८६ ॥
विश्वास-प्रस्तुतिः
याम्यास्ते किङ्करा राज्ञे कथयामासुरद्भुतम्
वैष्णवो हर्षमापेदे रघुनाथपरायणः ॥ ८७ ॥
मूलम्
याम्यास्ते किङ्करा राज्ञे कथयामासुरद्भुतम्
वैष्णवो हर्षमापेदे रघुनाथपरायणः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
मुक्तोऽसौ यमपाशाच्च गमिष्यति परं पदम्
तदाजगाम विमलं किङ्किणीजालमण्डितम् ॥ ८८ ॥
मूलम्
मुक्तोऽसौ यमपाशाच्च गमिष्यति परं पदम्
तदाजगाम विमलं किङ्किणीजालमण्डितम् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
विमानं देवलोकात्तु मनोहारि महाद्भुतम्
तत्रारुह्य गतः स्वर्गं महापुण्यैर्निषेवितम् ॥ ८९ ॥
मूलम्
विमानं देवलोकात्तु मनोहारि महाद्भुतम्
तत्रारुह्य गतः स्वर्गं महापुण्यैर्निषेवितम् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
भोगान्भुक्त्वा स विपुलानाजगाम महीतलम्
काश्यां जन्म समासाद्य शुचिवाडवसत्कुले ॥ ९० ॥
मूलम्
भोगान्भुक्त्वा स विपुलानाजगाम महीतलम्
काश्यां जन्म समासाद्य शुचिवाडवसत्कुले ॥ ९० ॥
विश्वास-प्रस्तुतिः
आराध्य जगतामीशं गतवान्परमं पदम्
स पापी साधुसङ्गत्या शालग्रामशिलां स्पृशन् ॥ ९१ ॥
मूलम्
आराध्य जगतामीशं गतवान्परमं पदम्
स पापी साधुसङ्गत्या शालग्रामशिलां स्पृशन् ॥ ९१ ॥
विश्वास-प्रस्तुतिः
महापीडाविनिर्मुक्तो गतवान्परमं पदम्
मया तेऽभिहितं राजन्गण्डकीचरितं महत् ॥ ९२ ॥
मूलम्
महापीडाविनिर्मुक्तो गतवान्परमं पदम्
मया तेऽभिहितं राजन्गण्डकीचरितं महत् ॥ ९२ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा विमुच्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥ ९३ ॥
मूलम्
श्रुत्वा विमुच्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥ ९३ ॥
इति श्रीपद्मपुराणे पातालखण्डे रामाश्वमेधे शेषवात्स्यायनसंवादे
गण्डकीमाहात्म्यन्नाम विंशोऽध्यायः २०