०१९

ब्राह्मण उवाच

विश्वास-प्रस्तुतिः

इति श्रुत्वा तु तद्वाक्यं भिल्लानामहमद्भुतम्
अत्याश्चर्यमिदं मत्वा प्रहृष्टोऽभवमित्युत ॥ १ ॥

मूलम्

गङ्गासागरसंयोगे स्नात्वा पुण्यकलेवरः
शृङ्गमारुरुहे तत्र मणिमाणिक्यचित्रितम् ॥ २ ॥

तत्रापश्यं महाराज देवं देवादिवन्दितम्
नमस्कृत्वा कृतार्थोऽहं जातोन्नप्राशनेन च ॥ ३ ॥

चतुर्भुजत्वं सम्प्राप्तः शङ्खचक्रादिचिह्नितम्
पुरुषोत्तमदर्शनेन न पुनर्गर्भमाविशम् ॥ ४ ॥

राजंस्त्वमपि तत्राशु गच्छ नीलाभिधं गिरिम्
कृतार्थं कुरु चात्मानं गर्भदुःखविवर्जितम् ॥ ५ ॥

इत्याकर्ण्य वचस्तस्य वाडवाग्र्यस्य धीमतः
पप्रच्छ हृष्टगात्रस्तु तीर्थयात्राविधिं मुनिम् ॥ ६ ॥

राजोवाच
साधु विप्राग्र्य हे साधो त्वया प्रोक्तं ममानघ
पुरुषोत्तममाहात्म्यं शृण्वतां पापनाशनम् ॥ ७ ॥

ब्रूहि तत्तीर्थयात्रायां विधिं श्रुतिसमन्वितम्
विधिना केन सम्पूर्ण फलप्राप्तिर्नृणां भवेत् ॥ ८ ॥

शृणु राजन्प्रवक्ष्यामि तीर्थयात्राविधिं शुभम्
येन सम्प्राप्यते देवः सुरासुरनमस्कृतः ॥ ९ ॥

वलीपलितदेहो वा यौवनेनान्वितोऽपि वा
ज्ञात्वा मृत्युमनिस्तीर्यं हरिं शरणमाव्रजेत् ॥ १० ॥

तत्कीर्तने तच्छ्रवणे वन्दने तस्य पूजने
मतिरेव प्रकर्तव्या नान्यत्र वनितादिषु ॥ ११ ॥

सर्वं नश्वरमालोक्य क्षणस्थायि सुदुःखदम्
जन्ममृत्युजरातीतं भक्तिवल्लभमच्युतम् ॥ १२ ॥

क्रोधात्कामाद्भयाद्द्वेषाल्लोभाद्दम्भान्नरः पुनः
यथाकथञ्चिद्विभजन्न स दुःखं समश्नुते ॥ १३ ॥

स हरिर्जायते साधुसङ्गमात्पापवर्जितात्
येषां कृपातः पुरुषा भवन्त्यसुखवर्जिताः ॥ १४ ॥

ते साधवः शान्तरागाः कामलोभविवर्जिताः
ब्रुवन्ति यन्महाराज तत्संसारनिवर्तकम् ॥ १५ ॥

तीर्थेषु लभ्यते साधू रामचन्द्र परायणः
यद्दर्शनं नृणां पापराशिदाहाशुशुक्षणिः ॥ १६ ॥

तस्मात्तीर्थेषु गन्तव्यं नरैः संसारभीरुभिः
पुण्योदकेषु सततं साधुश्रेणिविराजिषु ॥ १७ ॥

तानि तीर्थानि विधिना दृष्टानि प्रहरन्त्यघम्
तं विधिं नृपशार्दूल कुरुष्व श्रुतिगोचरम् ॥ १८ ॥

विरागं जनयेत्पूर्वं कलत्रादि कुटुम्बके
असत्यभूतं तज्ज्ञात्वा हरिं तु मनसा स्मरेत् ॥ १९ ॥

क्रोशमात्रं ततो गत्वा रामरामेति च ब्रुवन्
तत्र तीर्थादिषु स्नात्वा क्षौरं कुर्याद्विधानवित् ॥ २० ॥

मनुष्याणां च पापानि तीर्थानि प्रति गच्छताम्
केशानाश्रित्य तिष्ठन्ति तस्माद्वपनमाचरेत् ॥ २१ ॥

ततो दण्डं तु निर्ग्रन्थिं कमण्डलुमथाजिनम्
बिभृयाल्लोभनिर्मुक्तस्तीर्थवेषधरो नरः ॥ २२ ॥

विधिना गच्छतां नॄणां फलावाप्तिर्विशेषतः
तस्मात्सर्वप्रयत्नेन तीर्थयात्राविधिं चरेत् ॥ २३ ॥

यस्य हस्तौ च पादौ च मनश्चैव सुसंहितम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ २४ ॥

हरेकृष्ण हरेकृष्ण भक्तवत्सल गोपते
शरण्य भगवन्विष्णो मां पाहि बहुसंसृतेः ॥ २५ ॥

इति ब्रुवन्रसनया मनसा च हरिं स्मरन्
पादचारी गतिं कुर्यात्तीर्थं प्रति महोदयः ॥ २६ ॥

यानेन गच्छन्पुरुषः समभागफलं लभेत्
उपानद्भ्यां चतुर्थांशं गोयाने गोवधादिकम् ॥ २७ ॥

व्यवहर्ता तृतीयांशं सेवयाष्टमभागभाक्
अनिच्छया व्रजंस्तत्र तीर्थमर्धफलं लभेत् ॥ २८ ॥

यथायथं प्रकर्तव्या तीर्थानामभियात्रिका
पापक्षयो भवत्येव विधिदृष्ट्या विशेषतः ॥ २९ ॥

तत्र साधून्नमस्कुर्यात्पादवन्दनसेवनैः
तद्द्वारा हरिभक्तिर्हि प्राप्यते पुरुषोत्तमे ॥ ३० ॥

इति तीर्थविधिः प्रोक्तः समासेन न विस्तरात्
एवं विधिं समाश्रित्य गच्छ त्वं पुरुषोत्तमम् ॥ ३१ ॥

तुभ्यं तुष्टो महाराज दास्यते भक्तिमच्युतः
यथा संसारनिर्वाहः क्षणादेव भविष्यति ॥ ३२ ॥

तीर्थयात्राविधिं श्रुत्वा सर्वपातकनाशनम्
मुच्यते सर्वपापेभ्य उग्रेभ्यः पुरुषर्षभ ॥ ३३ ॥

सुमतिरुवाच
इति वाक्यं समाकर्ण्य ववन्दे चरणौ महान्
तत्तीर्थदर्शनौत्सुक्य विह्वलीकृतमानसः ॥ ३४ ॥

आदिदेश निजामात्यं मन्त्रवित्तममुत्तमम्
तीर्थयात्रेच्छया सर्वान्सह नेतुं मनो दधत् ॥ ३५ ॥

मन्त्रिन्पौरजनान्सर्वानादिश त्वं ममाज्ञया
पुरुषोत्तमपादाब्जदर्शनप्रीतिहेतवे ॥ ३६ ॥

ये मदीये पुरे लोका ये च मद्वाक्यकारकाः
सर्वे निर्यान्तु मत्पुर्या मया सह नरोत्तमाः ॥ ३७ ॥

ये तु मद्वाक्यमुल्लङ्घ्य स्थास्यन्ति पुरुषा गृहे
ते दण्ड्या यमदण्डेन पापिनोऽधर्महेतवः ॥ ३८ ॥

किं तेन सुतवृन्देन बान्धवैः किं सुदुर्नयैः
यैर्नदृष्टः स्वचक्षुर्भ्यां पुण्यदः पुरुषोत्तमः ॥ ३९ ॥

सूकरीयूथवत्तेषां प्रसूतिर्विट्प्रभक्षिका
येषां पुत्राश्च पौत्रा वा हरिं न शरणं गताः ॥ ४० ॥

यो देवो नाममात्रेण सर्वान्पावयितुं क्षमः
तं नमस्कुरुत क्षिप्रं मदीयाः प्रकृतिव्रजाः ॥ ४१ ॥

इति वाक्यं मनोहारि भगवद्गुणगुम्फितम्
प्रजहर्ष महामात्य उत्तमः सत्यनामधृक् ॥ ४२ ॥

हस्तिनं वरमारोप्य पटहेन व्यघोषयत्
यदादिष्टं नृपेणेह तीर्थयात्रां समिच्छता ॥ ४३ ॥

गच्छन्तु त्वरिता लोका राज्ञा सह महागिरिम्
दृश्यतां पापसंहारी पुरुषोत्तमनामधृक् ॥ ४४ ॥

क्रियतां सर्वसंसारसागरो गोष्पदं पुनः
भूष्यतां शङ्खचक्रादिचिह्नैः स्वस्व तनुर्नरैः ॥ ४५ ॥

इत्यादिघोषयामास राज्ञादिष्टं यदद्भुतम्
सचिवो रघुनाथाङ्घ्रि ध्याननिर्वारितश्रमः ॥ ४६ ॥

तच्छ्रुत्वा ताः प्रजाः सर्वा आनन्दरससम्प्लुताः
मनो दधुः स्वनिस्तारे पुरुषोत्तमदर्शनात् ॥ ४७ ॥

निर्ययुर्ब्राह्मणास्तत्र शिष्यैः सह सुवेषिणः
आशिषं वरदानाढ्यां ददतो भूमिपं प्रति ॥ ४८ ॥

क्षत्त्रिया धन्विनो वीरा वैश्या वस्तुक्रयाञ्चिताः
शूद्राः संसारनिस्तारहर्षित स्वीयविग्रहाः ॥ ४९ ॥

रजकाश्चर्मकाः क्षौद्राः किराता भित्तिकारकाः
सूचीवृत्त्या च जीवन्तस्ताम्बूलक्रयकारकाः ॥ ५० ॥

तालवाद्यधरा ये च ये च रङ्गोपजीविनः
तैलविक्रयिणश्चैव वस्त्रविक्रयिणस्तथा ॥ ५१ ॥

सूता वदन्तः पौराणीं वार्तां हर्षसमन्विताः
मागधा बन्दिनस्तत्र निर्गता भूमिपाज्ञया ॥ ५२ ॥

भिषग्वृत्त्या च जीवन्तस्तथा पाशककोविदाः
पाकस्वादुरसाभिज्ञा हास्यवाक्यानुरञ्जकाः ॥ ५३ ॥

ऐन्द्रजालिकविद्याध्रास्तथा वार्तासुकोविदाः
प्रशंसन्तो महाराजं निर्ययुः पुरमध्यतः ॥ ५४ ॥

राजापि तत्र निर्वर्त्य प्रातःसन्ध्यादिकाः क्रियाः
ब्राह्मणं तापसश्रेष्ठमानिनाय सुनिर्मलम् ॥ ५५ ॥

तदाज्ञया महाराजो निर्जगाम पुराद्बहिः
लोकैरनुगतो राजा बभौ चन्द्र इवोडुभिः ॥ ५६ ॥

क्रोशमात्रं स गत्वाथ क्षौरं कृत्वा विधानतः
दण्डं कमण्डलुं बिभ्रन्मृगचर्म तथा शुभम् ॥ ५७ ॥

शुभवेषेण संयुक्तो हरिध्यानपरायणः
कामक्रोधादिरहितं मनो बिभ्रन्महायशाः ॥ ५८ ॥

तदा दुन्दुभयो भेर्य आनकाः पणवास्तथा
शङ्खवीणादिकाश्चैवाध्मातास्तद्वादकैर्मुहुः ॥ ५९ ॥

जय देवेश दुःखघ्न पुरुषोत्तमसञ्ज्ञित
दर्शयस्व तनुं मह्यं वदन्तो निर्ययुर्जनाः ॥ ६० ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
रत्नग्रीवस्य तीर्थप्रयाणन्नामैकोनविंशोऽध्यायः १९