ब्राह्मण उवाच
विश्वास-प्रस्तुतिः
राजंस्त्वं शृणु यद्वृत्तं नीले पर्वतसत्तमे
यच्छ्रद्दधानाः पुरुषा यान्ति ब्रह्म सनातनम् ॥ १ ॥
मूलम्

मया पर्यटता तत्र गतं नीलाभिधे गिरौ
गङ्गासागरतोयेन क्षालितप्राङ्गणे मुहुः ॥ २ ॥

तत्र भिल्ला मया दृष्टाः पर्वताग्रे धनुर्भृतः
चतुर्भुजा मूलफलैर्भक्ष्यैर्निर्वाहितक्लमाः ॥ ३ ॥

तदा मे मनसि क्षिप्रं संशयः सुमहानभूत्
चतुर्भुजाः किमेते वै धनुर्बाणधरा नराः ॥ ४ ॥

वैकुण्ठवासिनां रूपं दृश्यते विजितात्मनाम्
कथमेतैरुपालब्धं ब्रह्माद्यैरपि दुर्ल्लभम् ॥ ५ ॥

शङ्खचक्रगदाशार्ङ्गपद्मोल्लसितपाणयः
वनमालापरीताङ्गा विष्णुभक्ता इवान्तिके ॥ ६ ॥

संशयाविष्टचित्तेन मया पृष्टं तदा नृप
यूयं के बत युष्माभिर्लब्धं चातुर्भुजं कथम् ॥ ७ ॥

तदा तैर्बहु हास्यं तु कृत्वा मां प्रतिभाषितम्
ब्राह्मणोऽयं न जानाति पिण्डमाहात्म्यमद्भुतम् ॥ ८ ॥

इति श्रुत्वाऽवदं चाहं कः पिण्डः कस्य दीयते
तन्मम ब्रूत धर्मिष्ठाश्चतुर्भुजशरीरिणः ॥ ९ ॥

तदा मद्वाक्यमाकर्ण्य कथितं तैर्महात्मभिः
सर्वं तत्र तु यद्वृत्तं चतुर्भुजभवादिकम् ॥ १० ॥

किराता ऊचुः
शृणु ब्राह्मण वृत्तान्तमस्माकं पृथुकः शिशुः
नित्यं जम्बूफलादीनि भक्षयन्क्रीडया चरन् ॥ ११ ॥

एकदा रममाणस्तु गिरिशृङ्गं मनोरमम्
समारुरोह शिशुभिः समन्तात्परिवारितः ॥ १२ ॥

तदा तत्र ददर्शाहं देवायतनमद्भुतम्
गारुत्मतादिमणिभिः खचितं स्वर्णभित्तिकम् ॥ १३ ॥

स्वकान्त्यातिमिरश्रेणीं दारयद्रविवद्भृशम्
दृष्ट्वा विस्मयमापेदे किमिदं कस्य वै गृहम् ॥ १४ ॥

गत्वा विलोकयामीति किमिदं महतां पदम्
इति सञ्चिन्त्य गेहान्तर्जगाम बहुभाग्यतः ॥ १५ ॥

ददर्श तत्र देवेशं सुरासुरनमस्कृतम्
किरीटहारकेयूरग्रैवेयाद्यैर्विराजितम् ॥ १६ ॥

मनोहरावतंसौ च धारयन्तं सुनिर्मलौ
पादपद्मे तुलसिका गन्धमत्तषडङ्घ्रिके ॥ १७ ॥

शङ्खचक्रगदाशार्ङ्ग पद्माद्यैर्मूर्तिसंयुतैः
उपासिताङ्घ्रिं श्रीमूर्तिं नारदाद्यैः सुसेवितम् ॥ १८ ॥

केचिद्गायन्ति नृत्यन्ति हसन्ति परमाद्भुतम्
प्रीणयन्ति महाराजं सर्वलोकैकवन्दितम् ॥ १९ ॥

हरिं वीक्ष्य मदीयोर्भस्तत्र सञ्जग्मिवान्मुने
देवास्तत्र विधायोच्चैः पूजां धूपादिसंयताम् ॥ २० ॥

नैवेद्यं श्रीप्रियस्यार्थे कृत्वा नीराजनं ततः
जग्मुः स्वं स्वं गृहं राजन्कृपां पश्यन्त आदरात् ॥ २१ ॥

महाभाग्यवशात्तेन प्राप्तं नैवेद्यसिक्थकम्
पतितं ब्रह्मदेवाद्यैर्दुर्ल्लभं सुरमानुषैः ॥ २२ ॥

तद्भक्षणं च कृत्वाथो श्रीमूर्तिमवलोक्य च
चतुर्भुजत्वमाप्तं वै पृथुकेन सुशोभिना ॥ २३ ॥

तदास्माभिर्गृहं प्राप्तो बालको वीक्षितो मुहुः
चतुर्भुजत्वं सम्प्राप्तः शङ्खचक्रादिधारकः ॥ २४ ॥

अस्माभिः पृष्टमेतस्य किमेतज्जातमद्भुतम्
तदा प्रोवाच नः सर्वान्बालकः परमाद्भुतम् ॥ २५ ॥

शिखराग्रे गतः पूर्वं तत्र दृष्टः सुरेश्वरः
तत्र नैवेद्यसिक्थं तु मया प्राप्तं मनोहरम् ॥ २६ ॥

तस्य भक्षणमात्रेण कारणेन तु साम्प्रतम्
चतुर्भुजत्वं सम्प्राप्तो विस्मयेन समन्वितः ॥ २७ ॥

तच्छ्रुत्वा तु वचस्तस्य सद्यः सम्प्राप्तविस्मयैः
अस्माभिरप्यसौ दृष्टो देवः परमदुर्ल्लभः ॥ २८ ॥

अन्नादिकं तत्र भुक्तं सर्वस्वादसमन्वितम्
वयं चतुर्भुजा जाता देवस्य कृपया पुनः
गत्वा त्वमपि देवस्य दर्शनं कुरु सत्तम ॥ २९ ॥

भुक्त्वा तत्रान्नसिक्थं तु भव विप्र चतुर्भुजः
त्वया पृष्टं यदाश्चर्यं तदुक्तं वाडवर्षभ ॥ ३० ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
ब्राह्मणोपदेशोनामाष्टादशोऽध्यायः १८