०१७

शेष उवाच

विश्वास-प्रस्तुतिः

शत्रुघ्नश्च्यवनस्याथ दृष्ट्वाऽचिन्त्यं तपोबलम्
प्रशशंस तपो ब्राह्मं सर्वलोकैकवन्दितम् ॥ १ ॥

मूलम्

शत्रुघ्नश्च्यवनस्याथ दृष्ट्वाऽचिन्त्यं तपोबलम्
प्रशशंस तपो ब्राह्मं सर्वलोकैकवन्दितम् ॥ १ ॥

विश्वास-प्रस्तुतिः

अहो पश्यत योगस्य सिद्धिं ब्राह्मणसत्तमे
यः क्षणादेव दुष्प्रापं तद्विमानमचीकरत् ॥ २ ॥

मूलम्

अहो पश्यत योगस्य सिद्धिं ब्राह्मणसत्तमे
यः क्षणादेव दुष्प्रापं तद्विमानमचीकरत् ॥ २ ॥

विश्वास-प्रस्तुतिः

क्व भोगसिद्धिर्महती मुनीनाममलात्मनाम्
क्व तपोबलहीनानां भोगेच्छा मनुजात्मनाम् ॥ ३ ॥

मूलम्

क्व भोगसिद्धिर्महती मुनीनाममलात्मनाम्
क्व तपोबलहीनानां भोगेच्छा मनुजात्मनाम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

इति स्वगतमाशंसञ्छत्रुघ्नश्च्यवनाश्रमे
क्षणं स्थित्वा जलं पीत्वा सुखसम्भोगमाप्तवान् ॥ ४ ॥

मूलम्

इति स्वगतमाशंसञ्छत्रुघ्नश्च्यवनाश्रमे
क्षणं स्थित्वा जलं पीत्वा सुखसम्भोगमाप्तवान् ॥ ४ ॥

विश्वास-प्रस्तुतिः

हयस्तस्याः पयोष्ण्याख्या नद्याः पुण्यजलात्मनः
पयः पीत्वा ययौ मार्गे वायुवेगगतिर्महान् ॥ ५ ॥

मूलम्

हयस्तस्याः पयोष्ण्याख्या नद्याः पुण्यजलात्मनः
पयः पीत्वा ययौ मार्गे वायुवेगगतिर्महान् ॥ ५ ॥

विश्वास-प्रस्तुतिः

योधास्तन्निर्गमं दृष्ट्वा पृष्ठतोऽनुययुस्तदा
हस्तिभिः पत्तिभिः केचिद्रथैः केचन वाजिभिः ॥ ६ ॥

मूलम्

योधास्तन्निर्गमं दृष्ट्वा पृष्ठतोऽनुययुस्तदा
हस्तिभिः पत्तिभिः केचिद्रथैः केचन वाजिभिः ॥ ६ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नोऽमात्यवर्येण सुमत्याख्येन संयुतः
पृष्ठतोऽनुजगामाशु रथेन हयशोभिना ॥ ७ ॥

मूलम्

शत्रुघ्नोऽमात्यवर्येण सुमत्याख्येन संयुतः
पृष्ठतोऽनुजगामाशु रथेन हयशोभिना ॥ ७ ॥

विश्वास-प्रस्तुतिः

गच्छन्वाजीपुरं प्राप्तो विमलाख्यस्य भूपतेः
रत्नातटाख्यं च जनैर्हृष्टपुष्टैः समाकुलम् ॥ ८ ॥

मूलम्

गच्छन्वाजीपुरं प्राप्तो विमलाख्यस्य भूपतेः
रत्नातटाख्यं च जनैर्हृष्टपुष्टैः समाकुलम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

स सेवकादुपश्रुत्य रघुनाथ हयोत्तमम्
पुरोन्तिके हि सम्प्राप्तं सर्वयोधसमन्वितम् ॥ ९ ॥

मूलम्

स सेवकादुपश्रुत्य रघुनाथ हयोत्तमम्
पुरोन्तिके हि सम्प्राप्तं सर्वयोधसमन्वितम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

तदा गजानां सप्तत्या चन्द्रवर्णसमानया
अश्वानामयुतैः सार्धं रथानां काञ्चनत्विषाम् ॥ १० ॥

मूलम्

तदा गजानां सप्तत्या चन्द्रवर्णसमानया
अश्वानामयुतैः सार्धं रथानां काञ्चनत्विषाम् ॥ १० ॥

विश्वास-प्रस्तुतिः

सहस्रेण च संयुक्तः शत्रुघ्नं प्रति जग्मिवान्
शत्रुघ्नं स नमस्कृत्य सर्वान्प्राप्तान्महारथान् ॥ ११ ॥

मूलम्

सहस्रेण च संयुक्तः शत्रुघ्नं प्रति जग्मिवान्
शत्रुघ्नं स नमस्कृत्य सर्वान्प्राप्तान्महारथान् ॥ ११ ॥

विश्वास-प्रस्तुतिः

वसुकोशं धनं सर्वं राज्यं तस्मै निवेद्य च
किं करोमीति राजा तं जगाद पुरतः स्थितः ॥ १२ ॥

मूलम्

वसुकोशं धनं सर्वं राज्यं तस्मै निवेद्य च
किं करोमीति राजा तं जगाद पुरतः स्थितः ॥ १२ ॥

विश्वास-प्रस्तुतिः

राजापि तं स्वीयपदे प्रणम्रं
दोर्भ्यां दृढं सम्परिषस्वजे महान्
जगाम साकं तनये स्वराज्यं
निक्षिप्य सर्वं बहुधन्विभिर्वृतः ॥ १३ ॥

मूलम्

राजापि तं स्वीयपदे प्रणम्रं
दोर्भ्यां दृढं सम्परिषस्वजे महान्
जगाम साकं तनये स्वराज्यं
निक्षिप्य सर्वं बहुधन्विभिर्वृतः ॥ १३ ॥

विश्वास-प्रस्तुतिः

रामचन्द्राभिधां श्रुत्वा सर्वश्रुतिमनोहराम्
सर्वे प्रणम्य तं वाहं ददुर्वसुमहाधनम् ॥ १४ ॥

मूलम्

रामचन्द्राभिधां श्रुत्वा सर्वश्रुतिमनोहराम्
सर्वे प्रणम्य तं वाहं ददुर्वसुमहाधनम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

राजानं पूजयित्वा तु शत्रुघ्नः परया मुदा
सेनया सहितोऽगच्छद्वाजिनः पृष्ठतस्तदा ॥ १५ ॥

मूलम्

राजानं पूजयित्वा तु शत्रुघ्नः परया मुदा
सेनया सहितोऽगच्छद्वाजिनः पृष्ठतस्तदा ॥ १५ ॥

विश्वास-प्रस्तुतिः

एवं स गच्छंस्तन्मार्गे पर्वताग्र्यं ददर्श ह
स्फाटिकैः कानकै रौप्यै राजितं प्रस्थराजिभिः ॥ १६ ॥

मूलम्

एवं स गच्छंस्तन्मार्गे पर्वताग्र्यं ददर्श ह
स्फाटिकैः कानकै रौप्यै राजितं प्रस्थराजिभिः ॥ १६ ॥

विश्वास-प्रस्तुतिः

जलनिर्झरसंह्रादं नानाधातुकभूतलम्
गैरिकादिकसद्धातु लाक्षारङ्गविराजितम् ॥ १७ ॥

मूलम्

जलनिर्झरसंह्रादं नानाधातुकभूतलम्
गैरिकादिकसद्धातु लाक्षारङ्गविराजितम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

यत्र सिद्धाङ्गनाः सिद्धैः सङ्क्रीडन्त्यकुतोभयाः
गन्धर्वाप्सरसो नागा यत्र क्रीडन्ति लीलया ॥ १८ ॥

मूलम्

यत्र सिद्धाङ्गनाः सिद्धैः सङ्क्रीडन्त्यकुतोभयाः
गन्धर्वाप्सरसो नागा यत्र क्रीडन्ति लीलया ॥ १८ ॥

विश्वास-प्रस्तुतिः

गङ्गातरङ्गसंस्पर्श शीतवायुनिषेवितम्
वीणारणद्धंसशुकक्वणसुन्दरशोभितम् ॥ १९ ॥

मूलम्

गङ्गातरङ्गसंस्पर्श शीतवायुनिषेवितम्
वीणारणद्धंसशुकक्वणसुन्दरशोभितम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

पर्वतं वीक्ष्य शत्रुघ्न उवाच सुमतिं त्विदम्
तद्दर्शनसमुद्भूत विस्मयाविष्टमानसः ॥ २० ॥

मूलम्

पर्वतं वीक्ष्य शत्रुघ्न उवाच सुमतिं त्विदम्
तद्दर्शनसमुद्भूत विस्मयाविष्टमानसः ॥ २० ॥

विश्वास-प्रस्तुतिः

कोऽयं महागिरिवरो विस्मापयति मे मनः
महारजतसत्प्रस्थो मार्गे राजति मेऽद्भुतः ॥ २१ ॥

मूलम्

कोऽयं महागिरिवरो विस्मापयति मे मनः
महारजतसत्प्रस्थो मार्गे राजति मेऽद्भुतः ॥ २१ ॥

विश्वास-प्रस्तुतिः

अत्र किं देवतावासो देवानां क्रीडनस्थलम्
यदेतन्मनसः क्षोभं करोति श्रीसमुच्चयैः ॥ २२ ॥

मूलम्

अत्र किं देवतावासो देवानां क्रीडनस्थलम्
यदेतन्मनसः क्षोभं करोति श्रीसमुच्चयैः ॥ २२ ॥

विश्वास-प्रस्तुतिः

इति वाक्यं समाकर्ण्य जगाद सुमतिस्तदा
वक्ष्यमाणगुणागार रामचन्द्र पदाब्जधीः ॥ २३ ॥

मूलम्

इति वाक्यं समाकर्ण्य जगाद सुमतिस्तदा
वक्ष्यमाणगुणागार रामचन्द्र पदाब्जधीः ॥ २३ ॥

विश्वास-प्रस्तुतिः

नीलोऽयं पर्वतो राजन्पुरतो भाति भूमिप
मनोहरैर्महाशृङ्गैः स्फाटिकाग्रैः समन्ततः ॥ २४ ॥

मूलम्

नीलोऽयं पर्वतो राजन्पुरतो भाति भूमिप
मनोहरैर्महाशृङ्गैः स्फाटिकाग्रैः समन्ततः ॥ २४ ॥

विश्वास-प्रस्तुतिः

एनं पश्यन्ति नो पापाः परदाररता नराः
विष्णोर्गुणगणान्ये वै न मन्यन्ते नराधमाः ॥ २५ ॥

मूलम्

एनं पश्यन्ति नो पापाः परदाररता नराः
विष्णोर्गुणगणान्ये वै न मन्यन्ते नराधमाः ॥ २५ ॥

विश्वास-प्रस्तुतिः

श्रुतिस्मृतिसमुत्थं ये धर्मं सद्भिः सुसाधितम्
न मन्यन्ते स्वबुद्धिस्थ हेतुवादविचारणाः ॥ २६ ॥

मूलम्

श्रुतिस्मृतिसमुत्थं ये धर्मं सद्भिः सुसाधितम्
न मन्यन्ते स्वबुद्धिस्थ हेतुवादविचारणाः ॥ २६ ॥

विश्वास-प्रस्तुतिः

नीलीविक्रयकर्तारो लाक्षाविक्रयकारकाः
यो ब्राह्मणो घृतादीनि विक्रीणाति सुरापकः ॥ २७ ॥

मूलम्

नीलीविक्रयकर्तारो लाक्षाविक्रयकारकाः
यो ब्राह्मणो घृतादीनि विक्रीणाति सुरापकः ॥ २७ ॥

विश्वास-प्रस्तुतिः

कन्यां रूपेण सम्पन्नां न दद्यात्कुलशीलिने
विक्रीणाति द्रव्यलोभात्पिता पापेन मोहितः ॥ २८ ॥

मूलम्

कन्यां रूपेण सम्पन्नां न दद्यात्कुलशीलिने
विक्रीणाति द्रव्यलोभात्पिता पापेन मोहितः ॥ २८ ॥

विश्वास-प्रस्तुतिः

पत्नीं दूषयते यस्तु कुलशीलवतीं नरः
स्वयमेवात्ति मधुरं बन्धुभ्यो न ददाति यः ॥ २९ ॥

मूलम्

पत्नीं दूषयते यस्तु कुलशीलवतीं नरः
स्वयमेवात्ति मधुरं बन्धुभ्यो न ददाति यः ॥ २९ ॥

विश्वास-प्रस्तुतिः

भोजने ब्राह्मणार्थे च पाकभेदं करोति यः
कृसरं पायसं वापि नार्थिनं दापयेत्कुधीः ॥ ३० ॥

मूलम्

भोजने ब्राह्मणार्थे च पाकभेदं करोति यः
कृसरं पायसं वापि नार्थिनं दापयेत्कुधीः ॥ ३० ॥

विश्वास-प्रस्तुतिः

अतिथीनवमन्यन्ते सूर्यतापादितापितान्
अन्तरिक्षभुजो ये च ये च विश्वासघातकाः ॥ ३१ ॥

मूलम्

अतिथीनवमन्यन्ते सूर्यतापादितापितान्
अन्तरिक्षभुजो ये च ये च विश्वासघातकाः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

न पश्यन्ति महाराज रघुनाथ पराङ्मुखाः
असौ पुण्यो गिरिवरः पुरुषोत्तम शोभितः ॥ ३२ ॥

मूलम्

न पश्यन्ति महाराज रघुनाथ पराङ्मुखाः
असौ पुण्यो गिरिवरः पुरुषोत्तम शोभितः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

पवित्रयति सर्वान्नो दर्शनेन मनोहरः
अत्र तिष्ठति देवानां मुकुटैरर्चिताङ्घ्रिकः ॥ ३३ ॥

मूलम्

पवित्रयति सर्वान्नो दर्शनेन मनोहरः
अत्र तिष्ठति देवानां मुकुटैरर्चिताङ्घ्रिकः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

पुण्यवद्भिर्दर्शनार्हः पुण्यदः पुरुषोत्तमः
श्रुतयो नेतिनेतीति ब्रुवाणा न विदन्ति यम् ॥ ३४ ॥

मूलम्

पुण्यवद्भिर्दर्शनार्हः पुण्यदः पुरुषोत्तमः
श्रुतयो नेतिनेतीति ब्रुवाणा न विदन्ति यम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

यत्पादरज इन्द्रादिदेवैर्मृग्यं सुदुर्ल्लभम्
वेदान्तादिभिरन्यूनैर्वाक्यैर्विदन्ति यं बुधाः ॥ ३५ ॥

मूलम्

यत्पादरज इन्द्रादिदेवैर्मृग्यं सुदुर्ल्लभम्
वेदान्तादिभिरन्यूनैर्वाक्यैर्विदन्ति यं बुधाः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

सोऽत्र श्रीमान्नीलशैले वसते पुरुषोत्तमः
आरुह्य तं नमस्कृत्य सम्पूज्य सुकृतादिना ॥ ३६ ॥

मूलम्

सोऽत्र श्रीमान्नीलशैले वसते पुरुषोत्तमः
आरुह्य तं नमस्कृत्य सम्पूज्य सुकृतादिना ॥ ३६ ॥

विश्वास-प्रस्तुतिः

नैवेद्यं भक्षयित्वा वै भूप भूयाच्चतुर्भुजः
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ ३७ ॥

मूलम्

नैवेद्यं भक्षयित्वा वै भूप भूयाच्चतुर्भुजः
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तं शृणुष्व महाराज सर्वाश्चर्यसमन्वितम्
रत्नग्रीवस्य नृपतेर्यद्वृत्तं सकुटुम्बिनः ॥ ३८ ॥

मूलम्

तं शृणुष्व महाराज सर्वाश्चर्यसमन्वितम्
रत्नग्रीवस्य नृपतेर्यद्वृत्तं सकुटुम्बिनः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

चतुर्भुजादिकं प्राप्तं देवदानवदुर्लभम्
आसीत्काञ्ची महाराज पुरी लोकेषु विश्रुता ॥ ३९ ॥

मूलम्

चतुर्भुजादिकं प्राप्तं देवदानवदुर्लभम्
आसीत्काञ्ची महाराज पुरी लोकेषु विश्रुता ॥ ३९ ॥

विश्वास-प्रस्तुतिः

महाजनपरीवारसमृद्धबलवाहना
यस्यां वसन्ति विप्राग्र्याः षट्कर्मनिरता भृशम् ॥ ४० ॥

मूलम्

महाजनपरीवारसमृद्धबलवाहना
यस्यां वसन्ति विप्राग्र्याः षट्कर्मनिरता भृशम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

सर्वभूतहिते युक्ता रामभक्तिषु लालसाः
क्षत्रिया रणकर्तारः सङ्ग्रामेऽप्यपलायिनः ॥ ४१ ॥

मूलम्

सर्वभूतहिते युक्ता रामभक्तिषु लालसाः
क्षत्रिया रणकर्तारः सङ्ग्रामेऽप्यपलायिनः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

परदार परद्रव्य परद्रोहपराङ्मुखाः
वैश्याः कुसीदकृष्यादिवाणिज्यशुभवृत्तयः ॥ ४२ ॥

मूलम्

परदार परद्रव्य परद्रोहपराङ्मुखाः
वैश्याः कुसीदकृष्यादिवाणिज्यशुभवृत्तयः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

कुर्वन्ति रघुनाथस्य पदाम्भोजे रतिं सदा
शूद्रा ब्राह्मणसेवाभिर्गतरात्रिदिनान्तराः ॥ ४३ ॥

मूलम्

कुर्वन्ति रघुनाथस्य पदाम्भोजे रतिं सदा
शूद्रा ब्राह्मणसेवाभिर्गतरात्रिदिनान्तराः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

कुर्वन्ति कथनं रामरामेति रसनाग्रतः
प्राकृताः केऽपि नो पापं कुर्वन्ति मनसात्र वै ॥ ४४ ॥

मूलम्

कुर्वन्ति कथनं रामरामेति रसनाग्रतः
प्राकृताः केऽपि नो पापं कुर्वन्ति मनसात्र वै ॥ ४४ ॥

विश्वास-प्रस्तुतिः

दानं दया दमः सत्यं तत्र तिष्ठन्ति नित्यशः
वदते न पराबाधं वाक्यं कोऽपि नरोऽनघः ॥ ४५ ॥

मूलम्

दानं दया दमः सत्यं तत्र तिष्ठन्ति नित्यशः
वदते न पराबाधं वाक्यं कोऽपि नरोऽनघः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

न पारक्ये धने लोभं कुर्वन्ति न हि पातकम्
एवं प्रजा महाराज रत्नग्रीवेण पाल्यते ॥ ४६ ॥

मूलम्

न पारक्ये धने लोभं कुर्वन्ति न हि पातकम्
एवं प्रजा महाराज रत्नग्रीवेण पाल्यते ॥ ४६ ॥

विश्वास-प्रस्तुतिः

षष्ठांशं तत्र गृह्णाति नान्यं लोभविवर्जितः
एवं पालयमानस्य प्रजाधर्मेण भूपतेः ॥ ४७ ॥

मूलम्

षष्ठांशं तत्र गृह्णाति नान्यं लोभविवर्जितः
एवं पालयमानस्य प्रजाधर्मेण भूपतेः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

गतानि बहुवर्षाणि सर्वभोगविलासिनः
विशालाक्षीं महाराज एकदा ह्यूचिवानिदम् ॥ ४८ ॥

मूलम्

गतानि बहुवर्षाणि सर्वभोगविलासिनः
विशालाक्षीं महाराज एकदा ह्यूचिवानिदम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

पतिव्रतां धर्मपत्नीं पतिव्रतपरायणाम्
पुत्रा जाता विशालाक्षि प्रजारक्षा धुरन्धराः ॥ ४९ ॥

मूलम्

पतिव्रतां धर्मपत्नीं पतिव्रतपरायणाम्
पुत्रा जाता विशालाक्षि प्रजारक्षा धुरन्धराः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

परीवारो महान्मह्यं वर्तते विगतज्वरः
हस्तिनो मम शैलाभा वाजिनः पवनोपमाः ॥ ५० ॥

मूलम्

परीवारो महान्मह्यं वर्तते विगतज्वरः
हस्तिनो मम शैलाभा वाजिनः पवनोपमाः ॥ ५० ॥

विश्वास-प्रस्तुतिः

रथाश्च सुहयैर्युक्ता वर्तन्ते मम नित्यशः
महाविष्णुप्रसादेन किञ्चिन्न्यूनं ममास्ति न ॥ ५१ ॥

मूलम्

रथाश्च सुहयैर्युक्ता वर्तन्ते मम नित्यशः
महाविष्णुप्रसादेन किञ्चिन्न्यूनं ममास्ति न ॥ ५१ ॥

विश्वास-प्रस्तुतिः

एवं मनोरथस्त्वेकस्तिष्ठते मानसे मम
परं तीर्थं मया नाद्य कृतं परमशोभने ॥ ५२ ॥

मूलम्

एवं मनोरथस्त्वेकस्तिष्ठते मानसे मम
परं तीर्थं मया नाद्य कृतं परमशोभने ॥ ५२ ॥

विश्वास-प्रस्तुतिः

गर्भवासविरामाय क्षमं गोविन्दशोभितम्
वृद्धो जातोऽस्म्यहं तावद्वलीपलितदेहवान् ॥ ५३ ॥

मूलम्

गर्भवासविरामाय क्षमं गोविन्दशोभितम्
वृद्धो जातोऽस्म्यहं तावद्वलीपलितदेहवान् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

करिष्यामि मनोहारि तीर्थसेवनमादृतः
यो नरो जन्मपर्यन्तं स्वोदरस्य प्रपूरकः ॥ ५४ ॥

मूलम्

करिष्यामि मनोहारि तीर्थसेवनमादृतः
यो नरो जन्मपर्यन्तं स्वोदरस्य प्रपूरकः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

न करोति हरेः पूजां स नरो गोवृषः स्मृतः
तस्माद्गच्छामि भो भद्रे तीर्थयात्रां प्रति प्रिये ॥ ५५ ॥

मूलम्

न करोति हरेः पूजां स नरो गोवृषः स्मृतः
तस्माद्गच्छामि भो भद्रे तीर्थयात्रां प्रति प्रिये ॥ ५५ ॥

विश्वास-प्रस्तुतिः

सकुटुम्बः सुते न्यस्य धुरं राज्यस्य निर्भृताम्
इति व्यवस्य सन्ध्यायां हरिं ध्यायन्निशान्तरे ॥ ५६ ॥

मूलम्

सकुटुम्बः सुते न्यस्य धुरं राज्यस्य निर्भृताम्
इति व्यवस्य सन्ध्यायां हरिं ध्यायन्निशान्तरे ॥ ५६ ॥

विश्वास-प्रस्तुतिः

अद्राक्षीत्स्वप्नमप्येकं ब्राह्मणं तापसं वरम्
प्रातरुत्थाय राजासौ कृत्वा सन्ध्यादिकाः क्रियाः ॥ ५७ ॥

मूलम्

अद्राक्षीत्स्वप्नमप्येकं ब्राह्मणं तापसं वरम्
प्रातरुत्थाय राजासौ कृत्वा सन्ध्यादिकाः क्रियाः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

सभां मन्त्रिजनैः सार्द्धं सुखमासेदिवान्महान्
तावद्विप्रं ददर्शाथ तापसं कृशदेहिनम् ॥ ५८ ॥

मूलम्

सभां मन्त्रिजनैः सार्द्धं सुखमासेदिवान्महान्
तावद्विप्रं ददर्शाथ तापसं कृशदेहिनम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

जटावल्कलकौपीनधारिणं दण्डपाणिनम्
अनेकतीर्थसेवाभिः कृतपुण्यकलेवरम् ॥ ५९ ॥

मूलम्

जटावल्कलकौपीनधारिणं दण्डपाणिनम्
अनेकतीर्थसेवाभिः कृतपुण्यकलेवरम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

राजा तं वीक्ष्य शिरसा प्रणनाम महाभुजः
अर्घ्यपाद्यादिकं चक्रे प्रहृष्टात्मा महीपतिः ॥ ६० ॥

मूलम्

राजा तं वीक्ष्य शिरसा प्रणनाम महाभुजः
अर्घ्यपाद्यादिकं चक्रे प्रहृष्टात्मा महीपतिः ॥ ६० ॥

विश्वास-प्रस्तुतिः

सुखोपविष्टं विश्रान्तं पप्रच्छ विदितं द्विजम्
स्वामिंस्त्वद्दर्शनान्मेऽद्य गतं देहस्य पातकम् ॥ ६१ ॥

मूलम्

सुखोपविष्टं विश्रान्तं पप्रच्छ विदितं द्विजम्
स्वामिंस्त्वद्दर्शनान्मेऽद्य गतं देहस्य पातकम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

महान्तः कृपणान्पातुं यान्ति तद्गेहमादरात्
तस्मात्कथय भो विप्र वृद्धस्य मम सम्प्रति ॥ ६२ ॥

मूलम्

महान्तः कृपणान्पातुं यान्ति तद्गेहमादरात्
तस्मात्कथय भो विप्र वृद्धस्य मम सम्प्रति ॥ ६२ ॥

विश्वास-प्रस्तुतिः

को देवो गर्भनाशाय किं तीर्थं च क्षमं भवेत्
यूयं सर्वगताः श्रेष्ठाः समाधिध्यानतत्पराः ॥ ६३ ॥

मूलम्

को देवो गर्भनाशाय किं तीर्थं च क्षमं भवेत्
यूयं सर्वगताः श्रेष्ठाः समाधिध्यानतत्पराः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

सर्वतीर्थावगाहेन कृतपुण्यात्मनोऽमलाः
यथावच्छृण्वते मह्यं श्रद्दधानाय विस्तरात् ॥ ६४ ॥

मूलम्

सर्वतीर्थावगाहेन कृतपुण्यात्मनोऽमलाः
यथावच्छृण्वते मह्यं श्रद्दधानाय विस्तरात् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

कथयस्व प्रसादेन सर्वतीर्थविचक्षण
ब्राह्मण उवाच
शृणु राजेन्द्र वक्ष्यामि यत्पृष्टं तीर्थसेवनम् ॥ ६५ ॥

मूलम्

कथयस्व प्रसादेन सर्वतीर्थविचक्षण
ब्राह्मण उवाच
शृणु राजेन्द्र वक्ष्यामि यत्पृष्टं तीर्थसेवनम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

कस्य देवस्य कृपया गर्भनिर्वारणं भवेत्
सेव्यः श्रीरामचन्द्रोऽसौ संसारज्वरनाशकः ॥ ६६ ॥

मूलम्

कस्य देवस्य कृपया गर्भनिर्वारणं भवेत्
सेव्यः श्रीरामचन्द्रोऽसौ संसारज्वरनाशकः ॥ ६६ ॥

विश्वास-प्रस्तुतिः

पूज्यः स एव भगवान्पुरुषोत्तमसञ्ज्ञकः
नाना पुर्यो मया दृष्टाः सर्वपापक्षयङ्कराः ॥ ६७ ॥

मूलम्

पूज्यः स एव भगवान्पुरुषोत्तमसञ्ज्ञकः
नाना पुर्यो मया दृष्टाः सर्वपापक्षयङ्कराः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

अयोध्या सरयूस्तापी तथा द्वारं हरेः परम्
अवन्ती विमला काञ्ची रेवा सागरगामिनी ॥ ६८ ॥

मूलम्

अयोध्या सरयूस्तापी तथा द्वारं हरेः परम्
अवन्ती विमला काञ्ची रेवा सागरगामिनी ॥ ६८ ॥

विश्वास-प्रस्तुतिः

गोकर्णं हाटकाख्यं च हत्याकोटिविनाशनम्
मल्लिकाख्यो महाशैलो मोक्षदः पश्यतां नृणाम् ॥ ६९ ॥

मूलम्

गोकर्णं हाटकाख्यं च हत्याकोटिविनाशनम्
मल्लिकाख्यो महाशैलो मोक्षदः पश्यतां नृणाम् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

यत्राङ्गेषु नृणां तोयं श्यामं वा निर्मलं भवेत्
पातकस्यापहारीदं मया दृष्टं तु तीर्थकम् ॥ ७० ॥

मूलम्

यत्राङ्गेषु नृणां तोयं श्यामं वा निर्मलं भवेत्
पातकस्यापहारीदं मया दृष्टं तु तीर्थकम् ॥ ७० ॥

विश्वास-प्रस्तुतिः

मया द्वारवती दृष्टा सुरासुर निषेविता
गोमती यत्र वहति साक्षाद्ब्रह्मजला शुभा ॥ ७१ ॥

मूलम्

मया द्वारवती दृष्टा सुरासुर निषेविता
गोमती यत्र वहति साक्षाद्ब्रह्मजला शुभा ॥ ७१ ॥

विश्वास-प्रस्तुतिः

यत्र स्वापो लयः प्रोक्तो मृतिर्मोक्ष इति श्रुतिः
यस्यां संवसतां नॄणां न कलि प्रभवेत्क्वचित् ॥ ७२ ॥

मूलम्

यत्र स्वापो लयः प्रोक्तो मृतिर्मोक्ष इति श्रुतिः
यस्यां संवसतां नॄणां न कलि प्रभवेत्क्वचित् ॥ ७२ ॥

विश्वास-प्रस्तुतिः

चक्राङ्का यत्र पाषाणा मानवा अपि चक्रिणः
पशवः कीटपक्ष्याद्याः सर्वे चक्रशरीरिणः ॥ ७३ ॥

मूलम्

चक्राङ्का यत्र पाषाणा मानवा अपि चक्रिणः
पशवः कीटपक्ष्याद्याः सर्वे चक्रशरीरिणः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

त्रिविक्रमो वसेद्यस्यां सर्वलोकैकपालकः
सा पुरी तु महापुण्यैर्मया दृग्गोचरीकृता ॥ ७४ ॥

मूलम्

त्रिविक्रमो वसेद्यस्यां सर्वलोकैकपालकः
सा पुरी तु महापुण्यैर्मया दृग्गोचरीकृता ॥ ७४ ॥

विश्वास-प्रस्तुतिः

कुरुक्षेत्रं मया दृष्टं सर्वहत्यापनोदनम्
स्यमन्तपञ्चकं यत्र महापातकनाशनम् ॥ ७५ ॥

मूलम्

कुरुक्षेत्रं मया दृष्टं सर्वहत्यापनोदनम्
स्यमन्तपञ्चकं यत्र महापातकनाशनम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

वाराणसी मया दृष्टा विश्वनाथकृतालया
यत्रोपदिशते मन्त्रं तारकं ब्रह्मसञ्ज्ञितम् ॥ ७६ ॥

मूलम्

वाराणसी मया दृष्टा विश्वनाथकृतालया
यत्रोपदिशते मन्त्रं तारकं ब्रह्मसञ्ज्ञितम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

यस्यां मृताः कीटपतङ्गभृङ्गाः
पश्वादयो वा सुरयोनयो वा
स्वकर्मसम्भोगसुखं विहाय
गच्छन्ति कैलासमतीतदुःखाः ॥ ७७ ॥

मूलम्

यस्यां मृताः कीटपतङ्गभृङ्गाः
पश्वादयो वा सुरयोनयो वा
स्वकर्मसम्भोगसुखं विहाय
गच्छन्ति कैलासमतीतदुःखाः ॥ ७७ ॥

विश्वास-प्रस्तुतिः

मणिकर्णिर्यत्र तीर्थं यस्यामुत्तरवाहिनी
करोति संसृतेर्बन्धच्छेदं पापकृतामपि ॥ ७८ ॥

मूलम्

मणिकर्णिर्यत्र तीर्थं यस्यामुत्तरवाहिनी
करोति संसृतेर्बन्धच्छेदं पापकृतामपि ॥ ७८ ॥

विश्वास-प्रस्तुतिः

कपर्दिनः कुण्डलिनः सर्पभूषाधरावराः
गजचर्मपरीधाना वसन्ति गतदुःखकाः ॥ ७९ ॥

मूलम्

कपर्दिनः कुण्डलिनः सर्पभूषाधरावराः
गजचर्मपरीधाना वसन्ति गतदुःखकाः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

कालभैरवनामात्र करोति यमशासनम्
न करोति नृणां वार्तां यमो दण्डधरः प्रभुः ॥ ८० ॥

मूलम्

कालभैरवनामात्र करोति यमशासनम्
न करोति नृणां वार्तां यमो दण्डधरः प्रभुः ॥ ८० ॥

विश्वास-प्रस्तुतिः

एतादृशी मया दृष्टा काशी विश्वेश्वराङ्किता
अनेकान्यपि तीर्थानि मया दृष्टानि भूमिप ॥ ८१ ॥

मूलम्

एतादृशी मया दृष्टा काशी विश्वेश्वराङ्किता
अनेकान्यपि तीर्थानि मया दृष्टानि भूमिप ॥ ८१ ॥

परमेकं महच्चित्रं यद्दृष्टं नीलपर्वते
पुरुषोत्तमसान्निध्ये तन्न क्वाप्यक्षिगोचरम् ८२