सुमतिरुवाच
विश्वास-प्रस्तुतिः
एवं तया क्रीडमानः सर्वत्र धरणीतले
नाबुध्यत गतानब्दाञ्छतसङ्ख्या परीमितान् ॥ १ ॥
मूलम्
एवं तया क्रीडमानः सर्वत्र धरणीतले
नाबुध्यत गतानब्दाञ्छतसङ्ख्या परीमितान् ॥ १ ॥
विश्वास-प्रस्तुतिः
ततो ज्ञात्वाथव तद्विप्रः स्वकालपरिवर्तिनीम्
मनोरथैश्च सम्पूर्णां स्वस्यप्रियतमां वराम् ॥ २ ॥
मूलम्
ततो ज्ञात्वाथव तद्विप्रः स्वकालपरिवर्तिनीम्
मनोरथैश्च सम्पूर्णां स्वस्यप्रियतमां वराम् ॥ २ ॥
विश्वास-प्रस्तुतिः
न्यवर्तताश्रमं श्रेष्ठं पयोष्णीतीरसंस्थितम्
निर्वैरजं तु जनतासङ्कुलं मृगसेवितम् ॥ ३ ॥
मूलम्
न्यवर्तताश्रमं श्रेष्ठं पयोष्णीतीरसंस्थितम्
निर्वैरजं तु जनतासङ्कुलं मृगसेवितम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
तत्रावसत्स सुतपाः शिष्यैर्वेदसमन्वितैः
सेविताङ्घ्रियुगो नित्यं तताप परमं तपः ॥ ४ ॥
मूलम्
तत्रावसत्स सुतपाः शिष्यैर्वेदसमन्वितैः
सेविताङ्घ्रियुगो नित्यं तताप परमं तपः ॥ ४ ॥
विश्वास-प्रस्तुतिः
कदाचिदथ शर्यातिर्यष्टुमैच्छत देवताः
तदा च्यवनमानेतुं प्रेषयामास सेवकान् ॥ ५ ॥
मूलम्
कदाचिदथ शर्यातिर्यष्टुमैच्छत देवताः
तदा च्यवनमानेतुं प्रेषयामास सेवकान् ॥ ५ ॥
विश्वास-प्रस्तुतिः
तैराहूतो द्विजवरस्तत्रागच्छन्महातपाः
सुकन्यया धर्मपत्न्या स्वाचार परिनिष्ठया ॥ ६ ॥
मूलम्
तैराहूतो द्विजवरस्तत्रागच्छन्महातपाः
सुकन्यया धर्मपत्न्या स्वाचार परिनिष्ठया ॥ ६ ॥
विश्वास-प्रस्तुतिः
आगतं तं मुनिवरं पत्न्या पुत्र्या महायशाः
ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम् ॥ ७ ॥
मूलम्
आगतं तं मुनिवरं पत्न्या पुत्र्या महायशाः
ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
राजा दुहितरं प्राह कृतपादाभिवन्दनाम्
आशिषो न प्रयुञ्जानो नातिप्रीतमना इव ॥ ८ ॥
मूलम्
राजा दुहितरं प्राह कृतपादाभिवन्दनाम्
आशिषो न प्रयुञ्जानो नातिप्रीतमना इव ॥ ८ ॥
विश्वास-प्रस्तुतिः
चिकीर्षितं ते किमिदं पतिस्त्वया
प्रलम्भितो लोकनमस्कृतो मुनिः
त्वया जराग्रस्तमसम्मतं पतिं
विहाय जारं भजसेऽमुमध्वगम् ॥ ९ ॥
मूलम्
चिकीर्षितं ते किमिदं पतिस्त्वया
प्रलम्भितो लोकनमस्कृतो मुनिः
त्वया जराग्रस्तमसम्मतं पतिं
विहाय जारं भजसेऽमुमध्वगम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
कथं मतिस्तेऽवगतान्यथासतां कुलप्रसूतेः कुलदूषणं त्विदम्
बिभर्षि जारं यदपत्रपाकुलं पितुः स्वभर्तुश्च नयस्यधस्तमाम् ॥ १० ॥
मूलम्
कथं मतिस्तेऽवगतान्यथासतां कुलप्रसूतेः कुलदूषणं त्विदम्
बिभर्षि जारं यदपत्रपाकुलं पितुः स्वभर्तुश्च नयस्यधस्तमाम् ॥ १० ॥
विश्वास-प्रस्तुतिः
एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता
उवाच तात जामाता तवैष भृगुनन्दनः ॥ ११ ॥
मूलम्
एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता
उवाच तात जामाता तवैष भृगुनन्दनः ॥ ११ ॥
विश्वास-प्रस्तुतिः
शशंस पित्रे तत्सर्वं वयोरूपाभिलम्भनम्
विस्मितः परमप्रीतस्तनयां परिषस्वजे ॥ १२ ॥
मूलम्
शशंस पित्रे तत्सर्वं वयोरूपाभिलम्भनम्
विस्मितः परमप्रीतस्तनयां परिषस्वजे ॥ १२ ॥
विश्वास-प्रस्तुतिः
सोमेनायाजयद्वीरं ग्रहं सोमस्य चाग्रहीत्
असोमपोरप्यश्विनोश्च्यवनः स्वेन तेजसा ॥ १३ ॥
मूलम्
सोमेनायाजयद्वीरं ग्रहं सोमस्य चाग्रहीत्
असोमपोरप्यश्विनोश्च्यवनः स्वेन तेजसा ॥ १३ ॥
विश्वास-प्रस्तुतिः
ग्रहं तु ग्राहयामास तपोबलसमन्वितः
वज्रं गृहीत्वा शक्रस्तु हन्तुं ब्राह्मणसत्तमम् ॥ १४ ॥
मूलम्
ग्रहं तु ग्राहयामास तपोबलसमन्वितः
वज्रं गृहीत्वा शक्रस्तु हन्तुं ब्राह्मणसत्तमम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
अपङ्क्तिपावनौ देवौ कुर्वाणं पङ्क्तिगोचरौ
शक्रं वज्रधरं दृष्ट्वा मुनिः स्वहननोद्यतम् ॥ १५ ॥
मूलम्
अपङ्क्तिपावनौ देवौ कुर्वाणं पङ्क्तिगोचरौ
शक्रं वज्रधरं दृष्ट्वा मुनिः स्वहननोद्यतम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
हुङ्कारमकरोद्धीमान्स्तम्भयामास तद्भुजम्
इन्द्रः स्तब्धभुजस्तत्र दृष्टः सर्वैश्च मानवैः ॥ १६ ॥
मूलम्
हुङ्कारमकरोद्धीमान्स्तम्भयामास तद्भुजम्
इन्द्रः स्तब्धभुजस्तत्र दृष्टः सर्वैश्च मानवैः ॥ १६ ॥
विश्वास-प्रस्तुतिः
कोपेन श्वसमानोऽहिर्यथा मन्त्रनियन्त्रितः
तुष्टाव स मुनिं शक्रः स्तब्धबाहुस्तपोनिधिम् ॥ १७ ॥
मूलम्
कोपेन श्वसमानोऽहिर्यथा मन्त्रनियन्त्रितः
तुष्टाव स मुनिं शक्रः स्तब्धबाहुस्तपोनिधिम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
अश्विभ्यां भागदानं च कुर्वन्तं निर्भयान्तरम्
कथयामास भोः स्वामिन्दीयतामश्विनोर्बलि ॥ १८ ॥
मूलम्
अश्विभ्यां भागदानं च कुर्वन्तं निर्भयान्तरम्
कथयामास भोः स्वामिन्दीयतामश्विनोर्बलि ॥ १८ ॥
विश्वास-प्रस्तुतिः
मया न वार्यते तात क्षमस्वाघं महत्कृतम्
इत्युक्तः स मुनिः कोपं जहौ तूर्णं कृपानिधिः ॥ १९ ॥
मूलम्
मया न वार्यते तात क्षमस्वाघं महत्कृतम्
इत्युक्तः स मुनिः कोपं जहौ तूर्णं कृपानिधिः ॥ १९ ॥
विश्वास-प्रस्तुतिः
इन्द्रो मुक्तभुजोऽप्यासीत्तदानीं पुरुषर्षभ
एतद्वीक्ष्य जनाः सर्वे कौतुकाविष्टमानसाः ॥ २० ॥
मूलम्
इन्द्रो मुक्तभुजोऽप्यासीत्तदानीं पुरुषर्षभ
एतद्वीक्ष्य जनाः सर्वे कौतुकाविष्टमानसाः ॥ २० ॥
विश्वास-प्रस्तुतिः
शशंसुर्ब्राह्मणबलं ते तु देवादिदुर्ल्लभम्
ततो राजा बहुधनं ब्राह्मणेभ्योऽददन्महान् ॥ २१ ॥
मूलम्
शशंसुर्ब्राह्मणबलं ते तु देवादिदुर्ल्लभम्
ततो राजा बहुधनं ब्राह्मणेभ्योऽददन्महान् ॥ २१ ॥
विश्वास-प्रस्तुतिः
चक्रे चावभृथस्नानं यागान्ते शत्रुतापनः
त्वया पृष्टं यदाचक्ष्व च्यवनस्य महोदयम् ॥ २२ ॥
मूलम्
चक्रे चावभृथस्नानं यागान्ते शत्रुतापनः
त्वया पृष्टं यदाचक्ष्व च्यवनस्य महोदयम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
स मया कथितः सर्वस्तपोयोगसमन्वितः
नमस्कृत्वा तपोमूर्तिमिमं प्राप्य जयाशिषः ॥ २३ ॥
मूलम्
स मया कथितः सर्वस्तपोयोगसमन्वितः
नमस्कृत्वा तपोमूर्तिमिमं प्राप्य जयाशिषः ॥ २३ ॥
विश्वास-प्रस्तुतिः
प्रेषय त्वं सपत्नीकं रामयज्ञे मनोरमे
शेष उवाच
एवं तु कुर्वतोर्वार्तां हयः प्रापाश्रमं प्रति ॥ २४ ॥
मूलम्
प्रेषय त्वं सपत्नीकं रामयज्ञे मनोरमे
शेष उवाच
एवं तु कुर्वतोर्वार्तां हयः प्रापाश्रमं प्रति ॥ २४ ॥
विश्वास-प्रस्तुतिः
विदधद्वायुवेगेन पृथ्वीं खुरविलक्षिताम्
दूर्वाङ्कुरान्मुखाग्रेण चरंस्तत्र महाश्रमे ॥ २५ ॥
मूलम्
विदधद्वायुवेगेन पृथ्वीं खुरविलक्षिताम्
दूर्वाङ्कुरान्मुखाग्रेण चरंस्तत्र महाश्रमे ॥ २५ ॥
विश्वास-प्रस्तुतिः
मुनयो यावदादाय दर्भान्स्नातुं गता नदीम्
शत्रुघ्नः शत्रुसेनायास्तापनः शूरसम्मतः ॥ २६ ॥
मूलम्
मुनयो यावदादाय दर्भान्स्नातुं गता नदीम्
शत्रुघ्नः शत्रुसेनायास्तापनः शूरसम्मतः ॥ २६ ॥
विश्वास-प्रस्तुतिः
तावत्प्राप मुनेर्वासं च्यवनस्यातिशोभितम्
गत्वा तदाश्रमे वीरो ददर्श च्यवनं मुनिम् ॥ २७ ॥
मूलम्
तावत्प्राप मुनेर्वासं च्यवनस्यातिशोभितम्
गत्वा तदाश्रमे वीरो ददर्श च्यवनं मुनिम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
सुकन्यायाः समीपस्थं तपोमूर्तिमिवस्थितम्
ववन्दे चरणौ तस्य स्वाभिधां समुदाहरन् ॥ २८ ॥
मूलम्
सुकन्यायाः समीपस्थं तपोमूर्तिमिवस्थितम्
ववन्दे चरणौ तस्य स्वाभिधां समुदाहरन् ॥ २८ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नोहं रघुपतेर्भ्राता वाहस्य पालकः ॥ २९ ॥
मूलम्
शत्रुघ्नोहं रघुपतेर्भ्राता वाहस्य पालकः ॥ २९ ॥
विश्वास-प्रस्तुतिः
नमस्करोमि युष्मभ्यं महापापोपशान्तये
इति वाक्यं समाकर्ण्य जगाद मुनिसत्तमः ॥ ३० ॥
मूलम्
नमस्करोमि युष्मभ्यं महापापोपशान्तये
इति वाक्यं समाकर्ण्य जगाद मुनिसत्तमः ॥ ३० ॥
विश्वास-प्रस्तुतिः
शत्रुघ्न तव कल्याणं भूयान्नरवरर्षभ
यज्ञं पालयमानस्य कीर्तिस्ते विपुला भवेत् ॥ ३१ ॥
मूलम्
शत्रुघ्न तव कल्याणं भूयान्नरवरर्षभ
यज्ञं पालयमानस्य कीर्तिस्ते विपुला भवेत् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
चित्रं पश्यत भो विप्रा रामोऽपि मखकारकः
यन्नामस्मरणादीनि कुर्वन्ति पापनाशनम् ॥ ३२ ॥
मूलम्
चित्रं पश्यत भो विप्रा रामोऽपि मखकारकः
यन्नामस्मरणादीनि कुर्वन्ति पापनाशनम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
महापातकसंयुक्ताः परदाररता नराः
यन्नामस्मरणोद्युक्ता मुक्ता यान्ति परां गतिम् ॥ ३३ ॥
मूलम्
महापातकसंयुक्ताः परदाररता नराः
यन्नामस्मरणोद्युक्ता मुक्ता यान्ति परां गतिम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
पादपद्मसमुत्थेन रेणुना ग्रावमूर्तिभृत्
तत्क्षणाद्गौतमार्धाङ्गी जाता मोहनरूपधृक् ॥ ३४ ॥
मूलम्
पादपद्मसमुत्थेन रेणुना ग्रावमूर्तिभृत्
तत्क्षणाद्गौतमार्धाङ्गी जाता मोहनरूपधृक् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
मामकीयस्य रूपस्य ध्यानेन प्रेमनिर्भरा
सर्वपातकराशिं सा दग्ध्वा प्राप्ता सुरूपताम् ॥ ३५ ॥
मूलम्
मामकीयस्य रूपस्य ध्यानेन प्रेमनिर्भरा
सर्वपातकराशिं सा दग्ध्वा प्राप्ता सुरूपताम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
दैत्या यस्य मनोहारिरूपं प्रधनमण्डले
पश्यन्तः प्रापुरेतस्य रूपं विकृतिवर्जितम् ॥ ३६ ॥
मूलम्
दैत्या यस्य मनोहारिरूपं प्रधनमण्डले
पश्यन्तः प्रापुरेतस्य रूपं विकृतिवर्जितम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
योगिनो ध्याननिष्ठा ये यं ध्यात्वा योगमास्थिताः
संसारभयनिर्मुक्ताः प्रयाताः परमं पदम् ॥ ३७ ॥
मूलम्
योगिनो ध्याननिष्ठा ये यं ध्यात्वा योगमास्थिताः
संसारभयनिर्मुक्ताः प्रयाताः परमं पदम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
धन्योऽहमद्य रामस्य मुखं द्रक्ष्यामि शोभनम्
पयोजदलनेत्रान्तं सुनसं सुभ्रुसून्नतम् ॥ ३८ ॥
मूलम्
धन्योऽहमद्य रामस्य मुखं द्रक्ष्यामि शोभनम्
पयोजदलनेत्रान्तं सुनसं सुभ्रुसून्नतम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
सा जिह्वा रघुनाथस्य नामकीर्तनमादरात्
करोति विपरीता या फणिनो रसना समा ॥ ३९ ॥
मूलम्
सा जिह्वा रघुनाथस्य नामकीर्तनमादरात्
करोति विपरीता या फणिनो रसना समा ॥ ३९ ॥
विश्वास-प्रस्तुतिः
अद्य प्राप्तं तपःपुण्यमद्य पूर्णा मनोरथाः
यद्द्रक्ष्ये रामचन्द्रस्य मुखं ब्रह्मादिदुर्ल्लभम् ॥ ४० ॥
मूलम्
अद्य प्राप्तं तपःपुण्यमद्य पूर्णा मनोरथाः
यद्द्रक्ष्ये रामचन्द्रस्य मुखं ब्रह्मादिदुर्ल्लभम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
तत्पादरेणुना स्वाङ्गं पवित्रं विदधाम्यहम्
विचित्रतरवार्ताभिः पावये रसनां स्वकाम् ॥ ४१ ॥
मूलम्
तत्पादरेणुना स्वाङ्गं पवित्रं विदधाम्यहम्
विचित्रतरवार्ताभिः पावये रसनां स्वकाम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
इत्यादि रामचरणस्मरणप्रबुद्ध-
प्रेमव्रजप्रसृतगद्गदवागुदश्रुः
श्रीरामचन्द्र रघुपुङ्गवधर्ममूर्ते
भक्तानुकम्पकसमुद्धर संसृतेर्माम् ॥ ४२ ॥
मूलम्
इत्यादि रामचरणस्मरणप्रबुद्ध-
प्रेमव्रजप्रसृतगद्गदवागुदश्रुः
श्रीरामचन्द्र रघुपुङ्गवधर्ममूर्ते
भक्तानुकम्पकसमुद्धर संसृतेर्माम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
जल्पन्नश्रुकलापूर्णो मुनीनां पुरतस्तदा
नाज्ञासीत्तत्र पारक्यं निजं ध्यानेन संस्थितः ॥ ४३ ॥
मूलम्
जल्पन्नश्रुकलापूर्णो मुनीनां पुरतस्तदा
नाज्ञासीत्तत्र पारक्यं निजं ध्यानेन संस्थितः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नस्तं मुनिं प्राह स्वामिन्नो मखसत्तमः
क्रियतां भवता पादरजसा सुपवित्रितः ॥ ४४ ॥
मूलम्
शत्रुघ्नस्तं मुनिं प्राह स्वामिन्नो मखसत्तमः
क्रियतां भवता पादरजसा सुपवित्रितः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
महद्भाग्यं रघुपतेर्यद्युष्मन्मानसान्तरे
तिष्ठत्यसौ महाबाहुः सर्वलोकसुपूजितः ॥ ४५ ॥
मूलम्
महद्भाग्यं रघुपतेर्यद्युष्मन्मानसान्तरे
तिष्ठत्यसौ महाबाहुः सर्वलोकसुपूजितः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
इत्युक्तः सपरीवारः सर्वाग्निपरिसंवृतः
जगाम च्यवनस्तत्र प्रमोदह्रदसम्प्लुतः ॥ ४६ ॥
मूलम्
इत्युक्तः सपरीवारः सर्वाग्निपरिसंवृतः
जगाम च्यवनस्तत्र प्रमोदह्रदसम्प्लुतः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
हनूमांस्तं पदायान्तं रामभक्तमवेक्ष्य ह
शत्रुघ्नं निजगादासौ वचो विनयसंयुतः ॥ ४७ ॥
मूलम्
हनूमांस्तं पदायान्तं रामभक्तमवेक्ष्य ह
शत्रुघ्नं निजगादासौ वचो विनयसंयुतः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
स्वामिन्कथयसि त्वं चेन्महापुरुषसुन्दरम्
रामभक्तं मुनिवरं नयामि स्वपुरीमहम् ॥ ४८ ॥
मूलम्
स्वामिन्कथयसि त्वं चेन्महापुरुषसुन्दरम्
रामभक्तं मुनिवरं नयामि स्वपुरीमहम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा महद्वाक्यं कपिवीरस्य शत्रुहा
आदिदेश हनूमन्तं गच्छ प्रापयतं मुनिम् ॥ ४९ ॥
मूलम्
इति श्रुत्वा महद्वाक्यं कपिवीरस्य शत्रुहा
आदिदेश हनूमन्तं गच्छ प्रापयतं मुनिम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
हनूमांस्तं मुनिं स्वीये पृष्ठ आरोप्य वेगवान्
सकुटुम्बं निनायाशु वायुः ख इव सर्वगः ॥ ५० ॥
मूलम्
हनूमांस्तं मुनिं स्वीये पृष्ठ आरोप्य वेगवान्
सकुटुम्बं निनायाशु वायुः ख इव सर्वगः ॥ ५० ॥
विश्वास-प्रस्तुतिः
आगतं तं मुनिं दृष्ट्वा रामो मतिमतां वरः
अर्घ्यपाद्यादिकं चक्रे प्रीतः प्रणयविह्वलः ॥ ५१ ॥
मूलम्
आगतं तं मुनिं दृष्ट्वा रामो मतिमतां वरः
अर्घ्यपाद्यादिकं चक्रे प्रीतः प्रणयविह्वलः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
धन्योऽस्मि मुनिवर्यस्य दर्शनेन तवाधुना
पवित्रितो मखो मह्यं सर्वसम्भारसम्भृतः ॥ ५२ ॥
मूलम्
धन्योऽस्मि मुनिवर्यस्य दर्शनेन तवाधुना
पवित्रितो मखो मह्यं सर्वसम्भारसम्भृतः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य च्यवनो मुनिसत्तमः
उवाच प्रेमनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतः ॥ ५३ ॥
मूलम्
इति वाक्यं समाकर्ण्य च्यवनो मुनिसत्तमः
उवाच प्रेमनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
स्वामिन्ब्रह्मण्यदेवस्य तव वाडवपूजनम्
युक्तमेव महाराज धर्ममार्गं प्ररक्षितुः ॥ ५४ ॥
मूलम्
स्वामिन्ब्रह्मण्यदेवस्य तव वाडवपूजनम्
युक्तमेव महाराज धर्ममार्गं प्ररक्षितुः ॥ ५४ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
च्यवनाश्रमे हयगमनोनाम षोडशोऽध्यायः १६