सुमतिरुवाच
विश्वास-प्रस्तुतिः
अथर्षिः स्वाश्रमं गत्वा मानव्या सह भार्यया
मुदं प्राप हताशेष पातको योगयुक्तया ॥ १ ॥
मूलम्
अथर्षिः स्वाश्रमं गत्वा मानव्या सह भार्यया
मुदं प्राप हताशेष पातको योगयुक्तया ॥ १ ॥
विश्वास-प्रस्तुतिः
सा मानवी तं वरमात्मनः पतिं
नेत्रेणहीनं जरसा गतौजसम्
सिषेव एनं हरिमेधसोत्तमं
निजेष्टदात्रीं कुलदेवतां यथा ॥ २ ॥
मूलम्
सा मानवी तं वरमात्मनः पतिं
नेत्रेणहीनं जरसा गतौजसम्
सिषेव एनं हरिमेधसोत्तमं
निजेष्टदात्रीं कुलदेवतां यथा ॥ २ ॥
विश्वास-प्रस्तुतिः
शूश्रूषती स्वं पतिमिङ्गितज्ञा
महानुभावं तपसां निधिं प्रियम्
परां मुदं प्राप सती मनोहरा
शची यथा शक्रनिषेवणोद्यता ॥ ३ ॥
मूलम्
शूश्रूषती स्वं पतिमिङ्गितज्ञा
महानुभावं तपसां निधिं प्रियम्
परां मुदं प्राप सती मनोहरा
शची यथा शक्रनिषेवणोद्यता ॥ ३ ॥
विश्वास-प्रस्तुतिः
चरणौ सेवते तन्वी सर्वलक्षणलक्षिता
राजपुत्री सुन्दराङ्गी फलमूलोदकाशना ॥ ४ ॥
मूलम्
चरणौ सेवते तन्वी सर्वलक्षणलक्षिता
राजपुत्री सुन्दराङ्गी फलमूलोदकाशना ॥ ४ ॥
विश्वास-प्रस्तुतिः
नित्यं तद्वाक्यकरणे तत्परा पूजने रता
कालक्षेपं प्रकुरुते सर्वभूतहिते रता ॥ ५ ॥
मूलम्
नित्यं तद्वाक्यकरणे तत्परा पूजने रता
कालक्षेपं प्रकुरुते सर्वभूतहिते रता ॥ ५ ॥
विश्वास-प्रस्तुतिः
विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम्
अप्रमत्तोद्यता नित्यं च्यवनं समतोषयत् ॥ ६ ॥
मूलम्
विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम्
अप्रमत्तोद्यता नित्यं च्यवनं समतोषयत् ॥ ६ ॥
विश्वास-प्रस्तुतिः
एवं तस्य प्रकुर्वाणा सेवां वाक्कायकर्मभिः
सहस्राब्दं महाराज सा च कामं मनस्यधात् ॥ ७ ॥
मूलम्
एवं तस्य प्रकुर्वाणा सेवां वाक्कायकर्मभिः
सहस्राब्दं महाराज सा च कामं मनस्यधात् ॥ ७ ॥
विश्वास-प्रस्तुतिः
कदाचिद्देवभिषजावागतावाश्रमे मुनेः
स्वागतेन सुसम्भाव्य तयोः पूजां चकार सा ॥ ८ ॥
मूलम्
कदाचिद्देवभिषजावागतावाश्रमे मुनेः
स्वागतेन सुसम्भाव्य तयोः पूजां चकार सा ॥ ८ ॥
विश्वास-प्रस्तुतिः
शर्यातिकन्याकृतपूजनार्घ-
पाद्यादिना तोषितचित्तवृत्ती
तावूचतुः स्नेहवशेन सुन्दरौ
वरं वृणुष्वेति मनोहराङ्गीम् ॥ ९ ॥
मूलम्
शर्यातिकन्याकृतपूजनार्घ-
पाद्यादिना तोषितचित्तवृत्ती
तावूचतुः स्नेहवशेन सुन्दरौ
वरं वृणुष्वेति मनोहराङ्गीम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
तुष्टौ तौ वीक्ष्य भिषजौ देवानां वरयाचने
मतिं चकार नृपतेः पुत्री मतिमतां वरा ॥ १० ॥
मूलम्
तुष्टौ तौ वीक्ष्य भिषजौ देवानां वरयाचने
मतिं चकार नृपतेः पुत्री मतिमतां वरा ॥ १० ॥
विश्वास-प्रस्तुतिः
पत्यभिप्रायमालक्ष्य वाचमूचे नृपात्मजा
दत्तं मे चक्षुषी पत्युर्यदि तुष्टौ युवां सुरौ ॥ ११ ॥
मूलम्
पत्यभिप्रायमालक्ष्य वाचमूचे नृपात्मजा
दत्तं मे चक्षुषी पत्युर्यदि तुष्टौ युवां सुरौ ॥ ११ ॥
विश्वास-प्रस्तुतिः
इत्येतद्वचनं श्रुत्वा सुकन्या या मनोहरम्
सतीत्वं च विलोक्येदमूचतुर्भिषजां वरौ ॥ १२ ॥
मूलम्
इत्येतद्वचनं श्रुत्वा सुकन्या या मनोहरम्
सतीत्वं च विलोक्येदमूचतुर्भिषजां वरौ ॥ १२ ॥
विश्वास-प्रस्तुतिः
त्वत्पतिर्यदि देवानां भागं यज्ञे दधात्यसौ
आवयोरधुना कुर्वश्चक्षुषोः स्फुटदर्शनम् ॥ १३ ॥
मूलम्
त्वत्पतिर्यदि देवानां भागं यज्ञे दधात्यसौ
आवयोरधुना कुर्वश्चक्षुषोः स्फुटदर्शनम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
च्यवनोऽप्योमिति प्राह भागदाने वरौजसोः
तदा हृष्टावश्विनौ तमूचतुस्तपतां वरम् ॥ १४ ॥
मूलम्
च्यवनोऽप्योमिति प्राह भागदाने वरौजसोः
तदा हृष्टावश्विनौ तमूचतुस्तपतां वरम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
निमज्जतां भवानस्मिन्ह्रदे सिद्धविनिर्मिते
इत्युक्तो जरयाग्रस्त देहो धमनिसन्ततः ॥ १५ ॥
मूलम्
निमज्जतां भवानस्मिन्ह्रदे सिद्धविनिर्मिते
इत्युक्तो जरयाग्रस्त देहो धमनिसन्ततः ॥ १५ ॥
विश्वास-प्रस्तुतिः
ह्रदं प्रवेशितोऽश्विभ्यां स्वयं चामज्जतां ह्रदे
पुरुषास्त्रय उत्तस्थुरपीच्या वनिताप्रियाः ॥ १६ ॥
मूलम्
ह्रदं प्रवेशितोऽश्विभ्यां स्वयं चामज्जतां ह्रदे
पुरुषास्त्रय उत्तस्थुरपीच्या वनिताप्रियाः ॥ १६ ॥
विश्वास-प्रस्तुतिः
रुक्मस्रजः कुण्डलिनस्तुल्यरूपाः सुवाससः
तान्निरीक्ष्य वरारोहा सुरूपान्सूर्यवर्चसः ॥ १७ ॥
मूलम्
रुक्मस्रजः कुण्डलिनस्तुल्यरूपाः सुवाससः
तान्निरीक्ष्य वरारोहा सुरूपान्सूर्यवर्चसः ॥ १७ ॥
विश्वास-प्रस्तुतिः
अजानती पतिं साध्वी ह्यश्विनौ शरणं ययौ
दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ ॥ १८ ॥
मूलम्
अजानती पतिं साध्वी ह्यश्विनौ शरणं ययौ
दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ ॥ १८ ॥
विश्वास-प्रस्तुतिः
ऋषिमामन्त्र्य ययतुर्विमानेन त्रिविष्टपम्
यक्ष्यमाणे क्रतौ स्वीयभागकार्याशयायुतौ ॥ १९ ॥
मूलम्
ऋषिमामन्त्र्य ययतुर्विमानेन त्रिविष्टपम्
यक्ष्यमाणे क्रतौ स्वीयभागकार्याशयायुतौ ॥ १९ ॥
विश्वास-प्रस्तुतिः
कालेन भूयसा क्षामां कर्शितां व्रतचर्यया
प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत् ॥ २० ॥
मूलम्
कालेन भूयसा क्षामां कर्शितां व्रतचर्यया
प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत् ॥ २० ॥
विश्वास-प्रस्तुतिः
तुष्टोऽहमद्य तव भामिनि मानदायाः
शुश्रूषया परमया हृदि चैकभक्त्या
यो देहिनामयमतीव सुहृत्स्वदेहो
नावेक्षितः समुचितः क्षपितुं मदर्थे ॥ २१ ॥
मूलम्
तुष्टोऽहमद्य तव भामिनि मानदायाः
शुश्रूषया परमया हृदि चैकभक्त्या
यो देहिनामयमतीव सुहृत्स्वदेहो
नावेक्षितः समुचितः क्षपितुं मदर्थे ॥ २१ ॥
विश्वास-प्रस्तुतिः
ये मे स्वधर्मनिरतस्य तपः समाधि-
विद्यात्मयोगविजिता भगवत्प्रसादाः
तानेव ते मदनुसेवनयाऽविरुद्धान्
दृष्टिं प्रपश्य वितराम्यभयानशोकान् ॥ २२ ॥
मूलम्
ये मे स्वधर्मनिरतस्य तपः समाधि-
विद्यात्मयोगविजिता भगवत्प्रसादाः
तानेव ते मदनुसेवनयाऽविरुद्धान्
दृष्टिं प्रपश्य वितराम्यभयानशोकान् ॥ २२ ॥
विश्वास-प्रस्तुतिः
अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ-
विस्रंसितार्थरचनाः किमुरुक्रमस्य
सिद्धासि भुङ्क्ष्व विभवान्निजधर्मदोहान्
दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः ॥ २३ ॥
मूलम्
अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ-
विस्रंसितार्थरचनाः किमुरुक्रमस्य
सिद्धासि भुङ्क्ष्व विभवान्निजधर्मदोहान्
दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः ॥ २३ ॥
विश्वास-प्रस्तुतिः
एवं ब्रुवाणमबलाखिलयोगमाया
विद्याविचक्षणमवेक्ष्य गताधिरासीत्
सम्प्रश्रयप्रणयविह्वलया गिरेषद्
व्रीडाविलोकविलसद्धसिताननाह ॥ २४ ॥
मूलम्
एवं ब्रुवाणमबलाखिलयोगमाया
विद्याविचक्षणमवेक्ष्य गताधिरासीत्
सम्प्रश्रयप्रणयविह्वलया गिरेषद्
व्रीडाविलोकविलसद्धसिताननाह ॥ २४ ॥
विश्वास-प्रस्तुतिः
सुकन्योवाच
राद्धं बत द्विजवृषैतदमोघयोग-
मायाधिपे त्वयि विभो तदवैमि भर्तः
यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो
भूयाद्गरीयसि गुणः प्रसवः सतीनाम् ॥ २५ ॥
मूलम्
सुकन्योवाच
राद्धं बत द्विजवृषैतदमोघयोग-
मायाधिपे त्वयि विभो तदवैमि भर्तः
यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो
भूयाद्गरीयसि गुणः प्रसवः सतीनाम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
तत्रेति कृत्यमुपशिक्ष्य यथोपदेशं
येनैष कर्शिततमोति रिरंसयात्मा
सिध्येत ते कृतमनोभव धर्षिताया
दीनस्तदीशभवनं सदृशं विचक्ष्व ॥ २६ ॥
मूलम्
तत्रेति कृत्यमुपशिक्ष्य यथोपदेशं
येनैष कर्शिततमोति रिरंसयात्मा
सिध्येत ते कृतमनोभव धर्षिताया
दीनस्तदीशभवनं सदृशं विचक्ष्व ॥ २६ ॥
विश्वास-प्रस्तुतिः
सुमतिरुवाच
प्रियायाः प्रियमन्विच्छंश्च्यवनो योगमास्थितः
विमानं कामगं राजंस्तर्ह्येवाविरचीकरत् ॥ २७ ॥
मूलम्
सुमतिरुवाच
प्रियायाः प्रियमन्विच्छंश्च्यवनो योगमास्थितः
विमानं कामगं राजंस्तर्ह्येवाविरचीकरत् ॥ २७ ॥
विश्वास-प्रस्तुतिः
सर्वकामदुघं रम्यं सर्वरत्नसमन्वितम्
सर्वार्थोपचयोदर्कं मणिस्तम्भैरुपस्कृतम् ॥ २८ ॥
मूलम्
सर्वकामदुघं रम्यं सर्वरत्नसमन्वितम्
सर्वार्थोपचयोदर्कं मणिस्तम्भैरुपस्कृतम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
दिव्योपस्तरणोपेतं सर्वकालसुखावहम्
पट्टिकाभिः पताकाभिर्विचित्राभिरलङ्कृतम् ॥ २९ ॥
मूलम्
दिव्योपस्तरणोपेतं सर्वकालसुखावहम्
पट्टिकाभिः पताकाभिर्विचित्राभिरलङ्कृतम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
स्रग्भिर्विचित्रमालाभिर्मञ्जुसिञ्जत्षडङ्घ्रिभिः
दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम् ॥ ३० ॥
मूलम्
स्रग्भिर्विचित्रमालाभिर्मञ्जुसिञ्जत्षडङ्घ्रिभिः
दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक्
कॢप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनादिभिः ॥ ३१ ॥
मूलम्
उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक्
कॢप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनादिभिः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तत्रतत्र विनिक्षिप्त नानाशिल्पोपशोभितम्
महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ॥ ३२ ॥
मूलम्
तत्रतत्र विनिक्षिप्त नानाशिल्पोपशोभितम्
महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटकम्
शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम् ॥ ३३ ॥
मूलम्
द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटकम्
शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः
जुष्टं विचित्रवैतानैर्मुक्ताहारावलम्बितैः ॥ ३४ ॥
मूलम्
चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः
जुष्टं विचित्रवैतानैर्मुक्ताहारावलम्बितैः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
हंसपारावतव्रातैस्तत्र तत्र निकूजितम्
कृत्रिमान्मन्यमानैस्तानधिरुह्याधिरुह्य च ॥ ३५ ॥
मूलम्
हंसपारावतव्रातैस्तत्र तत्र निकूजितम्
कृत्रिमान्मन्यमानैस्तानधिरुह्याधिरुह्य च ॥ ३५ ॥
विश्वास-प्रस्तुतिः
विहारस्थानविश्राम संवेश प्राङ्गणाजिरैः
यथोपजोषं रचितैर्विस्मापनमिवात्मनः ॥ ३६ ॥
मूलम्
विहारस्थानविश्राम संवेश प्राङ्गणाजिरैः
यथोपजोषं रचितैर्विस्मापनमिवात्मनः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
एवं गृहं प्रपश्यन्तीं नातिप्रीतेन चेतसा
सर्वभूताशयाभिज्ञः स्वयं प्रोवाच तां प्रति ॥ ३७ ॥
मूलम्
एवं गृहं प्रपश्यन्तीं नातिप्रीतेन चेतसा
सर्वभूताशयाभिज्ञः स्वयं प्रोवाच तां प्रति ॥ ३७ ॥
विश्वास-प्रस्तुतिः
निमज्ज्यास्मिन्ह्रदे भीरु विमानमिदमारुह
सुभ्रूर्भर्तुः समादाय वचः कुवलयेक्षणा ॥ ३८ ॥
मूलम्
निमज्ज्यास्मिन्ह्रदे भीरु विमानमिदमारुह
सुभ्रूर्भर्तुः समादाय वचः कुवलयेक्षणा ॥ ३८ ॥
विश्वास-प्रस्तुतिः
सरजो बिभ्रती वासो वेणीभूतांश्च मूर्द्धजान्
अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम् ॥ ३९ ॥
मूलम्
सरजो बिभ्रती वासो वेणीभूतांश्च मूर्द्धजान्
अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
आविवेश सरस्तत्र मुदा शिवजलाशयम्
सान्तःसरसि वेश्मस्थाः शतानि दशकन्यकाः ॥ ४० ॥
मूलम्
आविवेश सरस्तत्र मुदा शिवजलाशयम्
सान्तःसरसि वेश्मस्थाः शतानि दशकन्यकाः ॥ ४० ॥
विश्वास-प्रस्तुतिः
सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः
तां दृष्ट्वा शीघ्रमुत्थाय प्रोचुः प्राञ्जलयः स्त्रियः ॥ ४१ ॥
मूलम्
सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः
तां दृष्ट्वा शीघ्रमुत्थाय प्रोचुः प्राञ्जलयः स्त्रियः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम्
स्नानेन ता महार्हेण स्नापयित्वा मनस्विनीम् ॥ ४२ ॥
मूलम्
वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम्
स्नानेन ता महार्हेण स्नापयित्वा मनस्विनीम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
दुकूले निर्मले नूत्ने ददुरस्यै च मानद
भूषणानि परार्घ्यानि वरीयांसि द्युमन्ति च ॥ ४३ ॥
मूलम्
दुकूले निर्मले नूत्ने ददुरस्यै च मानद
भूषणानि परार्घ्यानि वरीयांसि द्युमन्ति च ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अन्नं सर्वगुणोपेतं पानं चैवामृतासवम्
अथादर्शे स्वमात्मानं स्रग्विणं विरजोम्बरम् ॥ ४४ ॥
मूलम्
अन्नं सर्वगुणोपेतं पानं चैवामृतासवम्
अथादर्शे स्वमात्मानं स्रग्विणं विरजोम्बरम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
ताभिः कृतस्वस्त्ययनं कन्याभिर्बहुमानितम्
हारेण च महार्हेण रुचकेन च भूषितम् ॥ ४५ ॥
मूलम्
ताभिः कृतस्वस्त्ययनं कन्याभिर्बहुमानितम्
हारेण च महार्हेण रुचकेन च भूषितम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
निष्कग्रीवं वलयिनं क्वणत्काञ्चननूपुरम्
श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया ॥ ४६ ॥
मूलम्
निष्कग्रीवं वलयिनं क्वणत्काञ्चननूपुरम्
श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया ॥ ४६ ॥
विश्वास-प्रस्तुतिः
सुभ्रुवा सुदता शुक्लस्निग्धापाङ्गेन चक्षुषा
पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम् ॥ ४७ ॥
मूलम्
सुभ्रुवा सुदता शुक्लस्निग्धापाङ्गेन चक्षुषा
पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
यदा सस्मार दयितमृषीणां वल्लभं पतिम्
तत्र चास्ते सहस्त्रीभिर्यत्रास्ते स मुनीश्वरः ॥ ४८ ॥
मूलम्
यदा सस्मार दयितमृषीणां वल्लभं पतिम्
तत्र चास्ते सहस्त्रीभिर्यत्रास्ते स मुनीश्वरः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा
निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ॥ ४९ ॥
मूलम्
भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा
निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ॥ ४९ ॥
विश्वास-प्रस्तुतिः
सतां कृत मलस्नानां विभ्राजन्तीमपूर्ववत्
आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् ॥ ५० ॥
मूलम्
सतां कृत मलस्नानां विभ्राजन्तीमपूर्ववत्
आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
विद्याधरी सहस्रेण सेव्यमानां सुवाससम्
जातभावो विमानं तदारोहयदमित्रहन् ॥ ५१ ॥
मूलम्
विद्याधरी सहस्रेण सेव्यमानां सुवाससम्
जातभावो विमानं तदारोहयदमित्रहन् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तस्मिन्नलुप्तमहिमा प्रिययानुषक्तो
विद्याधरीभिरुपचीर्णवपुर्विमाने
बभ्राज उत्कचकुमुद्गणवानपीच्य
स्ताराभिरावृत इवोडुपतिर्नभःस्थः ॥ ५२ ॥
मूलम्
तस्मिन्नलुप्तमहिमा प्रिययानुषक्तो
विद्याधरीभिरुपचीर्णवपुर्विमाने
बभ्राज उत्कचकुमुद्गणवानपीच्य
स्ताराभिरावृत इवोडुपतिर्नभःस्थः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तेनाष्टलोकपविहारकुलाचलेन्द्र -
द्रोणीष्वनङ्गसखमारुतसौभगासु
सिद्धैर्नुतोद्युधुनिपातशिवस्वनासु
रेमे चिरं धनदवल्ललनावरूथी ॥ ५३ ॥
मूलम्
तेनाष्टलोकपविहारकुलाचलेन्द्र -
द्रोणीष्वनङ्गसखमारुतसौभगासु
सिद्धैर्नुतोद्युधुनिपातशिवस्वनासु
रेमे चिरं धनदवल्ललनावरूथी ॥ ५३ ॥
विश्वास-प्रस्तुतिः
वैश्रम्भके सुरवने नन्दने पुष्पभद्रके
मानसे चैत्ररथ्ये च सरे मे रामया रतः ॥ ५४ ॥
मूलम्
वैश्रम्भके सुरवने नन्दने पुष्पभद्रके
मानसे चैत्ररथ्ये च सरे मे रामया रतः ॥ ५४ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
च्यवनस्य तपोभोगवर्णनं नाम पञ्चदशोऽध्यायः १५