०१४

शेष उवाच

विश्वास-प्रस्तुतिः

अथ स्वागतसन्तुष्टं शत्रुघ्नं प्राह भूमिपः
रघुनाथकथां श्रेष्ठां शुश्रूषुः पुरुषर्षभः ॥ १ ॥

मूलम्

अथ स्वागतसन्तुष्टं शत्रुघ्नं प्राह भूमिपः
रघुनाथकथां श्रेष्ठां शुश्रूषुः पुरुषर्षभः ॥ १ ॥

विश्वास-प्रस्तुतिः

सुमद उवाच
कच्चिदास्ते सुखं रामः सर्वलोकशिरोमणिः
भक्तरक्षावतारोऽयं ममानुग्रहकारकः ॥ २ ॥

मूलम्

सुमद उवाच
कच्चिदास्ते सुखं रामः सर्वलोकशिरोमणिः
भक्तरक्षावतारोऽयं ममानुग्रहकारकः ॥ २ ॥

विश्वास-प्रस्तुतिः

धन्या लोका इमे पुर्यां रघुनाथमुखाम्बुजम्
ये पिबन्त्यनिशं चाक्षिपुटकैः परिमोदिताः ॥ ३ ॥

मूलम्

धन्या लोका इमे पुर्यां रघुनाथमुखाम्बुजम्
ये पिबन्त्यनिशं चाक्षिपुटकैः परिमोदिताः ॥ ३ ॥

विश्वास-प्रस्तुतिः

अर्थजातं मदीयं च नितरां पुरुषर्षभ
कृतार्थं कुलभूम्यादि वस्तुजातं महामते ॥ ४ ॥

मूलम्

अर्थजातं मदीयं च नितरां पुरुषर्षभ
कृतार्थं कुलभूम्यादि वस्तुजातं महामते ॥ ४ ॥

विश्वास-प्रस्तुतिः

कामाक्षया प्रसादो मे कृतः पूर्वं दयार्द्रया
रघुनाथमुखाम्भोजं द्रक्ष्येद्य सकुटुम्बकः ॥ ५ ॥

मूलम्

कामाक्षया प्रसादो मे कृतः पूर्वं दयार्द्रया
रघुनाथमुखाम्भोजं द्रक्ष्येद्य सकुटुम्बकः ॥ ५ ॥

विश्वास-प्रस्तुतिः

इत्युक्तवति वीरे तु सुमदे पार्थिवोत्तमे
सर्वं तत्कथयामास रघुनाथगुणोदयम् ॥ ६ ॥

मूलम्

इत्युक्तवति वीरे तु सुमदे पार्थिवोत्तमे
सर्वं तत्कथयामास रघुनाथगुणोदयम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

त्रिरात्रं तत्र संस्थित्य रघुनाथानुजः परम्
गन्तुं चकार धिषणां राज्ञा सह महामतिः ॥ ७ ॥

मूलम्

त्रिरात्रं तत्र संस्थित्य रघुनाथानुजः परम्
गन्तुं चकार धिषणां राज्ञा सह महामतिः ॥ ७ ॥

विश्वास-प्रस्तुतिः

तज्ज्ञात्वा सुमदः शीघ्रं पुत्रं राज्येऽभ्यषेचयत्
शत्रुघ्नेन महाराज्ञा पुष्कलेनानुमोदितः ॥ ८ ॥

मूलम्

तज्ज्ञात्वा सुमदः शीघ्रं पुत्रं राज्येऽभ्यषेचयत्
शत्रुघ्नेन महाराज्ञा पुष्कलेनानुमोदितः ॥ ८ ॥

विश्वास-प्रस्तुतिः

वासांसि बहुरत्नानि धनानि विविधानि च
शत्रुघ्नसेवकेभ्योऽसौ प्रादात्तत्र महामतिः ॥ ९ ॥

मूलम्

वासांसि बहुरत्नानि धनानि विविधानि च
शत्रुघ्नसेवकेभ्योऽसौ प्रादात्तत्र महामतिः ॥ ९ ॥

विश्वास-प्रस्तुतिः

ततो गमनमारेभे मन्त्रिभिर्बहुवित्तमैः
पत्तिभिर्वाजिभिर्नागैः सदश्वैरथ कोटिभिः ॥ १० ॥

मूलम्

ततो गमनमारेभे मन्त्रिभिर्बहुवित्तमैः
पत्तिभिर्वाजिभिर्नागैः सदश्वैरथ कोटिभिः ॥ १० ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नः सहितस्तेन सुमदेन धनुर्भृता
जगाम मार्गे विहसन्रघुनाथप्रतापभृत् ॥ ११ ॥

मूलम्

शत्रुघ्नः सहितस्तेन सुमदेन धनुर्भृता
जगाम मार्गे विहसन्रघुनाथप्रतापभृत् ॥ ११ ॥

विश्वास-प्रस्तुतिः

पयोष्णीतीरमासाद्य जगाम स हयोत्तमः
पृष्ठतोऽनुययुः सर्वे योधा वै हयरक्षिणः ॥ १२ ॥

मूलम्

पयोष्णीतीरमासाद्य जगाम स हयोत्तमः
पृष्ठतोऽनुययुः सर्वे योधा वै हयरक्षिणः ॥ १२ ॥

विश्वास-प्रस्तुतिः

आश्रमान्विविधान्पश्यन्नृषीणां सुतपोभृताम्
तत्रतत्र विशृण्वानो रघुनाथगुणोदयम् ॥ १३ ॥

मूलम्

आश्रमान्विविधान्पश्यन्नृषीणां सुतपोभृताम्
तत्रतत्र विशृण्वानो रघुनाथगुणोदयम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

एष धीमान्हरिर्याति हरिणा परिरक्षितः
हरिभिर्हरिभक्तैश्च हरिवर्यानुगैर्मुहुः ॥ १४ ॥

मूलम्

एष धीमान्हरिर्याति हरिणा परिरक्षितः
हरिभिर्हरिभक्तैश्च हरिवर्यानुगैर्मुहुः ॥ १४ ॥

विश्वास-प्रस्तुतिः

इति शृण्वञ्छुभा वाचो मुनीनां परितः प्रभुः
तुतोष भक्त्युत्कलितचित्तवृत्तिभृतां महान् ॥ १५ ॥

मूलम्

इति शृण्वञ्छुभा वाचो मुनीनां परितः प्रभुः
तुतोष भक्त्युत्कलितचित्तवृत्तिभृतां महान् ॥ १५ ॥

विश्वास-प्रस्तुतिः

ददर्श चाश्रमं शुद्धं जनजन्तुसमाकुलम्
वेदध्वनिहताशेषा मङ्गलं शृण्वतां नृणाम् ॥ १६ ॥

मूलम्

ददर्श चाश्रमं शुद्धं जनजन्तुसमाकुलम्
वेदध्वनिहताशेषा मङ्गलं शृण्वतां नृणाम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

अग्निहोत्रहविर्धूम पवित्रितनभोखिलम्
मुनिवर्यकृतानेक यागयूपसुशोभितम् ॥ १७ ॥

मूलम्

अग्निहोत्रहविर्धूम पवित्रितनभोखिलम्
मुनिवर्यकृतानेक यागयूपसुशोभितम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

यत्र गावस्तु हरिणा पाल्यन्ते पालनोचिताः
मूषका न खनन्त्यस्मिन्बिडालस्य भयाद्बिलम् ॥ १८ ॥

मूलम्

यत्र गावस्तु हरिणा पाल्यन्ते पालनोचिताः
मूषका न खनन्त्यस्मिन्बिडालस्य भयाद्बिलम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

मयूरैर्नकुलैः सार्द्धं क्रीडन्ति फणिनोनिशम्
गजैः सिंहैर्नित्यमत्र स्थीयते मित्रतां गतैः ॥ १९ ॥

मूलम्

मयूरैर्नकुलैः सार्द्धं क्रीडन्ति फणिनोनिशम्
गजैः सिंहैर्नित्यमत्र स्थीयते मित्रतां गतैः ॥ १९ ॥

विश्वास-प्रस्तुतिः

एणास्तत्रत्य नीवारभक्षणेषु कृतादराः
न भयं कुर्वते कालाद्रक्षिता मुनिवृन्दकैः ॥ २० ॥

मूलम्

एणास्तत्रत्य नीवारभक्षणेषु कृतादराः
न भयं कुर्वते कालाद्रक्षिता मुनिवृन्दकैः ॥ २० ॥

विश्वास-प्रस्तुतिः

गावः कुम्भसमोधस्का नन्दिनी समविग्रहाः
कुर्वन्ति चरणोत्थेन रजसेलां पवित्रिताम् ॥ २१ ॥

मूलम्

गावः कुम्भसमोधस्का नन्दिनी समविग्रहाः
कुर्वन्ति चरणोत्थेन रजसेलां पवित्रिताम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

मुनिवर्याः समित्पाणि पद्मैर्धर्मक्रियोचिताम्
दृष्ट्वा पप्रच्छसुमतिं सर्वज्ञं राम मन्त्रिणम् ॥ २२ ॥

मूलम्

मुनिवर्याः समित्पाणि पद्मैर्धर्मक्रियोचिताम्
दृष्ट्वा पप्रच्छसुमतिं सर्वज्ञं राम मन्त्रिणम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्न उवाच
सुमते कस्य संस्थानं मुनेर्भाति पुरोगतम्
निर्वैरिजन्तु संसेव्यं मुनिवृन्दसमाकुलम् ॥ २३ ॥

मूलम्

शत्रुघ्न उवाच
सुमते कस्य संस्थानं मुनेर्भाति पुरोगतम्
निर्वैरिजन्तु संसेव्यं मुनिवृन्दसमाकुलम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

श्रोष्यामि मुनिवार्तां च विदधामि पवित्रताम्
निजं वपुस्तदीयाभिर्वार्ताभिर्वर्णनादिभिः ॥ २४ ॥

मूलम्

श्रोष्यामि मुनिवार्तां च विदधामि पवित्रताम्
निजं वपुस्तदीयाभिर्वार्ताभिर्वर्णनादिभिः ॥ २४ ॥

विश्वास-प्रस्तुतिः

इति श्रुत्वा महद्वाक्यं शत्रुघ्नस्य महात्मनः
कथयामास सचिवो रघुनाथस्य धीमतः ॥ २५ ॥

मूलम्

इति श्रुत्वा महद्वाक्यं शत्रुघ्नस्य महात्मनः
कथयामास सचिवो रघुनाथस्य धीमतः ॥ २५ ॥

विश्वास-प्रस्तुतिः

सुमतिरुवाच
च्यवनस्याश्रमं विद्धि महातापसशोभितम्
निर्वैरिजन्तुसङ्कीर्णं मुनिपत्नीभिरावृतम् ॥ २६ ॥

मूलम्

सुमतिरुवाच
च्यवनस्याश्रमं विद्धि महातापसशोभितम्
निर्वैरिजन्तुसङ्कीर्णं मुनिपत्नीभिरावृतम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

योऽसौ महामुनिः स्वर्गवैद्ययोर्भागमादधात्
स्वायम्भुवमहायज्ञे शक्रमानविभेदनः ॥ २७ ॥

मूलम्

योऽसौ महामुनिः स्वर्गवैद्ययोर्भागमादधात्
स्वायम्भुवमहायज्ञे शक्रमानविभेदनः ॥ २७ ॥

विश्वास-प्रस्तुतिः

महामुनेः प्रभावोऽयं न केनापि समाप्यते
तपोबलसमृद्धस्य वेदमूर्तिधरस्य ह ॥ २८ ॥

मूलम्

महामुनेः प्रभावोऽयं न केनापि समाप्यते
तपोबलसमृद्धस्य वेदमूर्तिधरस्य ह ॥ २८ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा रामानुजो वार्तां च्यवनस्य महामुनेः
सर्वं पप्रच्छ सुमतिं शक्रमानादिभञ्जनम् ॥ २९ ॥

मूलम्

श्रुत्वा रामानुजो वार्तां च्यवनस्य महामुनेः
सर्वं पप्रच्छ सुमतिं शक्रमानादिभञ्जनम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्न उवाच
कदासौ दस्रयोर्भागं चकार सुरपङ्क्तिषु
किं कृतं देवराजेन स्वायम्भुव महामखे ॥ ३० ॥

मूलम्

शत्रुघ्न उवाच
कदासौ दस्रयोर्भागं चकार सुरपङ्क्तिषु
किं कृतं देवराजेन स्वायम्भुव महामखे ॥ ३० ॥

विश्वास-प्रस्तुतिः

सुमतिरुवाच
ब्रह्मवंशेऽतिविख्यातो मुनिर्भृगुरिति श्रुतः
कदाचिद्गतवान्सायं समिदाहरणं प्रति ॥ ३१ ॥

मूलम्

सुमतिरुवाच
ब्रह्मवंशेऽतिविख्यातो मुनिर्भृगुरिति श्रुतः
कदाचिद्गतवान्सायं समिदाहरणं प्रति ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तदा मखविनाशाय दमनो राक्षसो बली
आगत्योच्चैर्जगादेदं महाभयकरं वचः ॥ ३२ ॥

मूलम्

तदा मखविनाशाय दमनो राक्षसो बली
आगत्योच्चैर्जगादेदं महाभयकरं वचः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

कुत्रास्ति मुनिबन्धुः स कुत्र तन्महिलानघा
पुनः पुनरुवाचेदं वचो रोषसमाकुलः ॥ ३३ ॥

मूलम्

कुत्रास्ति मुनिबन्धुः स कुत्र तन्महिलानघा
पुनः पुनरुवाचेदं वचो रोषसमाकुलः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तदाहुतवहो ज्ञात्वा राक्षसाद्भयमागतम्
दर्शयामास तज्जायामन्तर्वत्नीमनिन्दिताम् ॥ ३४ ॥

मूलम्

तदाहुतवहो ज्ञात्वा राक्षसाद्भयमागतम्
दर्शयामास तज्जायामन्तर्वत्नीमनिन्दिताम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

जहार राक्षसस्तां तु रुदन्तीं कुररीमिव
भृगो रक्षपते रक्ष रक्ष नाथ तपोनिधे ॥ ३५ ॥

मूलम्

जहार राक्षसस्तां तु रुदन्तीं कुररीमिव
भृगो रक्षपते रक्ष रक्ष नाथ तपोनिधे ॥ ३५ ॥

विश्वास-प्रस्तुतिः

एवं वदन्तीमार्तां तां गृहीत्वा निरगाद्बहिः
दुष्टो वाक्यप्रहारेण बोधयन्स भृगोः सतीम् ॥ ३६ ॥

मूलम्

एवं वदन्तीमार्तां तां गृहीत्वा निरगाद्बहिः
दुष्टो वाक्यप्रहारेण बोधयन्स भृगोः सतीम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

ततो महाभयत्रस्तो गर्भश्चोदरमध्यतः
पपात प्रज्वलन्नेत्रो वैश्वानर इवाङ्गजः ॥ ३७ ॥

मूलम्

ततो महाभयत्रस्तो गर्भश्चोदरमध्यतः
पपात प्रज्वलन्नेत्रो वैश्वानर इवाङ्गजः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तेनोक्तं मा व्रजाशु त्वं भस्मी भव सुदुर्मते
न हि साध्वी परामर्शं कृत्वा श्रेयोऽधियास्यसि ॥ ३८ ॥

मूलम्

तेनोक्तं मा व्रजाशु त्वं भस्मी भव सुदुर्मते
न हि साध्वी परामर्शं कृत्वा श्रेयोऽधियास्यसि ॥ ३८ ॥

विश्वास-प्रस्तुतिः

इत्युक्तः स पपाताशु भस्मीभूतकलेवरः
माता तदार्भकं नीत्वा जगामाश्रममुन्मनाः ॥ ३९ ॥

मूलम्

इत्युक्तः स पपाताशु भस्मीभूतकलेवरः
माता तदार्भकं नीत्वा जगामाश्रममुन्मनाः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

भृगुर्वह्निकृतं सर्वं ज्ञात्वा कोपसमाकुलः
शशाप सर्वभक्षस्त्वं भव दुष्टारिसूचक ॥ ४० ॥

मूलम्

भृगुर्वह्निकृतं सर्वं ज्ञात्वा कोपसमाकुलः
शशाप सर्वभक्षस्त्वं भव दुष्टारिसूचक ॥ ४० ॥

विश्वास-प्रस्तुतिः

तदा शप्तोऽतिदुःखार्तो जग्राहाङ्घ्र्याशुशुक्षणिः
कुरु मेऽनुग्रहं स्वामिन्कृपार्णव महामते ॥ ४१ ॥

मूलम्

तदा शप्तोऽतिदुःखार्तो जग्राहाङ्घ्र्याशुशुक्षणिः
कुरु मेऽनुग्रहं स्वामिन्कृपार्णव महामते ॥ ४१ ॥

विश्वास-प्रस्तुतिः

मयानृतं वचोभीत्या कथितं न गुरुद्रुहा
तस्मान्ममोपरि कृपां कुरु धर्मशिरोमणे ॥ ४२ ॥

मूलम्

मयानृतं वचोभीत्या कथितं न गुरुद्रुहा
तस्मान्ममोपरि कृपां कुरु धर्मशिरोमणे ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तदानुग्रहमाधाच्च सर्वभक्षो भवाञ्छुचिः
इत्युक्तवान्हुतभुजं दयार्द्रो मुनितापसः ॥ ४३ ॥

मूलम्

तदानुग्रहमाधाच्च सर्वभक्षो भवाञ्छुचिः
इत्युक्तवान्हुतभुजं दयार्द्रो मुनितापसः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

गर्भाच्च्युतस्य पुत्रस्य जातकर्मादिकं शुचिः
चकार विधिवद्विप्रो दर्भपाणिः सुमङ्गलः ॥ ४४ ॥

मूलम्

गर्भाच्च्युतस्य पुत्रस्य जातकर्मादिकं शुचिः
चकार विधिवद्विप्रो दर्भपाणिः सुमङ्गलः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

च्यवनाच्च्यवनं प्राहुः पुत्रं सर्वे तपस्विनः
शनैःशनैः स ववृधे शुक्ले प्रतिपदिन्दुवत् ॥ ४५ ॥

मूलम्

च्यवनाच्च्यवनं प्राहुः पुत्रं सर्वे तपस्विनः
शनैःशनैः स ववृधे शुक्ले प्रतिपदिन्दुवत् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

स जगाम तपः कर्तुं रेवां लोकैकपावनीम्
शिष्यैः परिवृतः सर्वैस्तपोबलसमन्वितैः ॥ ४६ ॥

मूलम्

स जगाम तपः कर्तुं रेवां लोकैकपावनीम्
शिष्यैः परिवृतः सर्वैस्तपोबलसमन्वितैः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

गत्वा तत्र तपस्तेपे वर्षाणामयुतं महान्
अंसयोः किंशुकौ जातौ वल्मीकोपरिशोभितौ ॥ ४७ ॥

मूलम्

गत्वा तत्र तपस्तेपे वर्षाणामयुतं महान्
अंसयोः किंशुकौ जातौ वल्मीकोपरिशोभितौ ॥ ४७ ॥

विश्वास-प्रस्तुतिः

मृगा आगत्य तस्याङ्गे कण्डूं विदधुरुत्सुकाः
न किञ्चित्स हि जानाति दुर्वारतपसावृतः ॥ ४८ ॥

मूलम्

मृगा आगत्य तस्याङ्गे कण्डूं विदधुरुत्सुकाः
न किञ्चित्स हि जानाति दुर्वारतपसावृतः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

कदाचिन्मनुरुद्युक्तस्तीर्थयात्रां प्रति प्रभुः
सकुटुम्बो ययौ रेवां महाबलसमावृतः ॥ ४९ ॥

मूलम्

कदाचिन्मनुरुद्युक्तस्तीर्थयात्रां प्रति प्रभुः
सकुटुम्बो ययौ रेवां महाबलसमावृतः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा महानद्यां सन्तर्प्य पितृदेवताः
दानानि ब्राह्मणेभ्यश्च प्रादाद्विष्णुप्रतुष्टये ॥ ५० ॥

मूलम्

तत्र स्नात्वा महानद्यां सन्तर्प्य पितृदेवताः
दानानि ब्राह्मणेभ्यश्च प्रादाद्विष्णुप्रतुष्टये ॥ ५० ॥

विश्वास-प्रस्तुतिः

तत्कन्या विचरन्ती सा वनमध्ये इतस्ततः
सखीभिः सहिता रम्या तप्तहाटकभूषणा ॥ ५१ ॥

मूलम्

तत्कन्या विचरन्ती सा वनमध्ये इतस्ततः
सखीभिः सहिता रम्या तप्तहाटकभूषणा ॥ ५१ ॥

विश्वास-प्रस्तुतिः

तत्र दृष्ट्वाथ वल्मीकं महातरुसुशोभितम्
निमेषोन्मेषरहितं तेजः किञ्चिद्ददर्श सा ॥ ५२ ॥

मूलम्

तत्र दृष्ट्वाथ वल्मीकं महातरुसुशोभितम्
निमेषोन्मेषरहितं तेजः किञ्चिद्ददर्श सा ॥ ५२ ॥

विश्वास-प्रस्तुतिः

गत्वा तत्र शलाकाभिरतुदद्रुधिरं स्रवत्
दृष्ट्वा राज्ञाङ्गजा खेदं प्राप्तवत्यतिदुःखिता ॥ ५३ ॥

मूलम्

गत्वा तत्र शलाकाभिरतुदद्रुधिरं स्रवत्
दृष्ट्वा राज्ञाङ्गजा खेदं प्राप्तवत्यतिदुःखिता ॥ ५३ ॥

विश्वास-प्रस्तुतिः

न जनन्यै तथा पित्रे शशंसाघेन विप्लुता
स्वयमेवात्मनात्मानं सा शुशोच भयातुरा ॥ ५४ ॥

मूलम्

न जनन्यै तथा पित्रे शशंसाघेन विप्लुता
स्वयमेवात्मनात्मानं सा शुशोच भयातुरा ॥ ५४ ॥

विश्वास-प्रस्तुतिः

तदा भूश्चलिता राजन्दिवश्चोल्का पपात ह
धूम्रा दिशो भवन्सर्वाः सूर्यश्च परिवेषितः ॥ ५५ ॥

मूलम्

तदा भूश्चलिता राजन्दिवश्चोल्का पपात ह
धूम्रा दिशो भवन्सर्वाः सूर्यश्च परिवेषितः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

तदा राज्ञो हया नष्टा हस्तिनो बहवो मृताः
धनं नष्टं रत्नयुतं कलहोभून्मिथस्तदा ॥ ५६ ॥

मूलम्

तदा राज्ञो हया नष्टा हस्तिनो बहवो मृताः
धनं नष्टं रत्नयुतं कलहोभून्मिथस्तदा ॥ ५६ ॥

विश्वास-प्रस्तुतिः

तदालोक्य नृपो भीतः किञ्चिदुद्विग्नमानसः
जनानपृच्छत्केनापि मुनये त्वपराधितम् ॥ ५७ ॥

मूलम्

तदालोक्य नृपो भीतः किञ्चिदुद्विग्नमानसः
जनानपृच्छत्केनापि मुनये त्वपराधितम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

पारम्पर्येण तज्ज्ञात्वा स्वपुत्र्याः परिचेष्टितम्
ययौ सुदुःखितस्तत्र समृद्धबलवाहनः ॥ ५८ ॥

मूलम्

पारम्पर्येण तज्ज्ञात्वा स्वपुत्र्याः परिचेष्टितम्
ययौ सुदुःखितस्तत्र समृद्धबलवाहनः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

तं वै तपोनिधिं वीक्ष्य महता तपसायुतम्
स्तुत्वा प्रसादयामास मुनिवर्य दयां कुरु ॥ ५९ ॥

मूलम्

तं वै तपोनिधिं वीक्ष्य महता तपसायुतम्
स्तुत्वा प्रसादयामास मुनिवर्य दयां कुरु ॥ ५९ ॥

विश्वास-प्रस्तुतिः

तस्मै तुष्टो जगादायं मुनिवर्यो महातपाः
तवात्मजाकृतं सर्वमुत्पाताद्यमवेहि तत् ॥ ६० ॥

मूलम्

तस्मै तुष्टो जगादायं मुनिवर्यो महातपाः
तवात्मजाकृतं सर्वमुत्पाताद्यमवेहि तत् ॥ ६० ॥

विश्वास-प्रस्तुतिः

तव पुत्र्या महाराज चक्षुर्विस्फोटनं कृतम्
बहुसुस्राव रुधिरं जानती त्वामुवाच न ॥ ६१ ॥

मूलम्

तव पुत्र्या महाराज चक्षुर्विस्फोटनं कृतम्
बहुसुस्राव रुधिरं जानती त्वामुवाच न ॥ ६१ ॥

विश्वास-प्रस्तुतिः

तस्मादियं महाभूप मह्यं देया यथाविधि
ततश्चोत्पातशमनं भविष्यति न संशयः ॥ ६२ ॥

मूलम्

तस्मादियं महाभूप मह्यं देया यथाविधि
ततश्चोत्पातशमनं भविष्यति न संशयः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा दुःखितो राजा प्रज्ञाचाक्षुष आत्मजाम्
ददौ कुलवयोरूप शीललक्षणसंयुताम् ॥ ६३ ॥

मूलम्

तच्छ्रुत्वा दुःखितो राजा प्रज्ञाचाक्षुष आत्मजाम्
ददौ कुलवयोरूप शीललक्षणसंयुताम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

दत्ता यदा नृपेणेयं कन्या कमललोचना
तदोत्पाताः शमं याताः सर्वे मुनिरुषोद्गताः ॥ ६४ ॥

मूलम्

दत्ता यदा नृपेणेयं कन्या कमललोचना
तदोत्पाताः शमं याताः सर्वे मुनिरुषोद्गताः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

राजा दत्त्वात्मजां तस्मै मुनये तपसान्निधे
प्राप स्वां नगरीं भूयो दुःखितोऽयं दयायुतः ॥ ६५ ॥

मूलम्

राजा दत्त्वात्मजां तस्मै मुनये तपसान्निधे
प्राप स्वां नगरीं भूयो दुःखितोऽयं दयायुतः ॥ ६५ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
च्यवनोपाख्यानन्नाम चतुर्दशोऽध्यायः १४