शेष उवाच
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य सुमदस्य तपोनिधेः
जगदुः कामसेनास्तं रम्भाद्यप्सरसो मुदा ॥ १ ॥
मूलम्
इति वाक्यं समाकर्ण्य सुमदस्य तपोनिधेः
जगदुः कामसेनास्तं रम्भाद्यप्सरसो मुदा ॥ १ ॥
विश्वास-प्रस्तुतिः
त्वत्तपोभिर्वयं कान्त प्राप्ताः सर्ववराङ्गनाः
तासां यौवनसर्वस्वं भुङ्क्ष्व त्यज तपःफलम् ॥ २ ॥
मूलम्
त्वत्तपोभिर्वयं कान्त प्राप्ताः सर्ववराङ्गनाः
तासां यौवनसर्वस्वं भुङ्क्ष्व त्यज तपःफलम् ॥ २ ॥
विश्वास-प्रस्तुतिः
इयं घृताची सुभगा चम्पकाभशरीरभृत्
कर्पूरगन्धललितं भुनक्तु त्वन्मुखामृतम् ॥ ३ ॥
मूलम्
इयं घृताची सुभगा चम्पकाभशरीरभृत्
कर्पूरगन्धललितं भुनक्तु त्वन्मुखामृतम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
एतां महाभाग सुशोभिविभ्रमां
मनोहराङ्गीं घनपीनसत्कुचाम्
कान्तोपभुङ्क्ष्वाशु निजोग्रपुण्यतः
प्राप्तां पुनस्त्वं त्यज दुःखजातम् ॥ ४ ॥
मूलम्
एतां महाभाग सुशोभिविभ्रमां
मनोहराङ्गीं घनपीनसत्कुचाम्
कान्तोपभुङ्क्ष्वाशु निजोग्रपुण्यतः
प्राप्तां पुनस्त्वं त्यज दुःखजातम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
मामप्यनर्घ्याभरणोपशोभितां
मन्दारमालापरिशोभिवक्षसम्
नानारताख्यानविचारचञ्चुरां
दृढं यथा स्यात्परिरम्भणं कुरु ॥ ५ ॥
मूलम्
मामप्यनर्घ्याभरणोपशोभितां
मन्दारमालापरिशोभिवक्षसम्
नानारताख्यानविचारचञ्चुरां
दृढं यथा स्यात्परिरम्भणं कुरु ॥ ५ ॥
विश्वास-प्रस्तुतिः
पिबामृतं मामकवक्त्रनिर्गतं
विमानमारुह्य वरं मया सह
सुमेरुशृङ्गं बहुपुण्यसेवितं
सम्प्राप्य भोगं कुरु सत्तपः फलम् ॥ ६ ॥
मूलम्
पिबामृतं मामकवक्त्रनिर्गतं
विमानमारुह्य वरं मया सह
सुमेरुशृङ्गं बहुपुण्यसेवितं
सम्प्राप्य भोगं कुरु सत्तपः फलम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
तिलोत्तमा यौवनरूपशोभिता
गृह्णातु ते मूर्धनि तापवारणम्
सुचामरौ सन्ततधारयाङ्कितौ
गङ्गाप्रवाहाविव सुन्दरोत्तम ॥ ७ ॥
मूलम्
तिलोत्तमा यौवनरूपशोभिता
गृह्णातु ते मूर्धनि तापवारणम्
सुचामरौ सन्ततधारयाङ्कितौ
गङ्गाप्रवाहाविव सुन्दरोत्तम ॥ ७ ॥
विश्वास-प्रस्तुतिः
शृणुष्व भोः कामकथां मनोहरां
पिबामृतं देवगणादिवाञ्छितम्
उद्यानमासाद्य च नन्दनाभिधं
वराङ्गनाभिर्विहरं कुरु प्रभो ॥ ८ ॥
मूलम्
शृणुष्व भोः कामकथां मनोहरां
पिबामृतं देवगणादिवाञ्छितम्
उद्यानमासाद्य च नन्दनाभिधं
वराङ्गनाभिर्विहरं कुरु प्रभो ॥ ८ ॥
विश्वास-प्रस्तुतिः
इत्युक्तमाकर्ण्य महामतिर्नृपो
विचारयामास कुतो ह्युपस्थिताः
मया सुसृष्टास्तपसा सुराङ्गनाः
प्रत्यूह एवात्र विधेयमेष किम् ॥ ९ ॥
मूलम्
इत्युक्तमाकर्ण्य महामतिर्नृपो
विचारयामास कुतो ह्युपस्थिताः
मया सुसृष्टास्तपसा सुराङ्गनाः
प्रत्यूह एवात्र विधेयमेष किम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
इति चिन्तातुरो राजा स्वान्ते सञ्चिन्तयन्सुधीः
जगाद मतिमान्वीरः सुमदो देवताङ्गनाः ॥ १० ॥
मूलम्
इति चिन्तातुरो राजा स्वान्ते सञ्चिन्तयन्सुधीः
जगाद मतिमान्वीरः सुमदो देवताङ्गनाः ॥ १० ॥
विश्वास-प्रस्तुतिः
यूयं तु ममचित्तस्था जगन्मातृस्वरूपकाः
मया सञ्चिन्त्यते या हि सापि त्वद्रूपिणी मता ॥ ११ ॥
मूलम्
यूयं तु ममचित्तस्था जगन्मातृस्वरूपकाः
मया सञ्चिन्त्यते या हि सापि त्वद्रूपिणी मता ॥ ११ ॥
विश्वास-प्रस्तुतिः
इदं तुच्छं स्वर्गसुखं त्वयोक्तं सविकल्पकम्
मत्स्वामिनी मया भक्त्या सेविता दास्यते वरम् ॥ १२ ॥
मूलम्
इदं तुच्छं स्वर्गसुखं त्वयोक्तं सविकल्पकम्
मत्स्वामिनी मया भक्त्या सेविता दास्यते वरम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
यत्कृपातो विधिः सत्यलोकं प्राप्तो महानभूत्
सा मे दास्यति सर्वं हि भक्तदुःखान्तकारिणी ॥ १३ ॥
मूलम्
यत्कृपातो विधिः सत्यलोकं प्राप्तो महानभूत्
सा मे दास्यति सर्वं हि भक्तदुःखान्तकारिणी ॥ १३ ॥
विश्वास-प्रस्तुतिः
किं नन्दनं किं तु गिरिः कनकेन सुमण्डितः
किं सुधा स्वल्पपुण्येन प्राप्या दानवदुःखदा ॥ १४ ॥
मूलम्
किं नन्दनं किं तु गिरिः कनकेन सुमण्डितः
किं सुधा स्वल्पपुण्येन प्राप्या दानवदुःखदा ॥ १४ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य कामस्तु विविधैः शरैः
प्राहरन्नरदेवस्य कर्तुं किञ्चिन्न वै प्रभुः ॥ १५ ॥
मूलम्
इति वाक्यं समाकर्ण्य कामस्तु विविधैः शरैः
प्राहरन्नरदेवस्य कर्तुं किञ्चिन्न वै प्रभुः ॥ १५ ॥
विश्वास-प्रस्तुतिः
कटाक्षैर्नूपुरारावैः परिरम्भैर्विलोकनैः
न तस्य चित्तं विभ्रान्तं कर्तुं शक्ता वराङ्गनाः ॥ १६ ॥
मूलम्
कटाक्षैर्नूपुरारावैः परिरम्भैर्विलोकनैः
न तस्य चित्तं विभ्रान्तं कर्तुं शक्ता वराङ्गनाः ॥ १६ ॥
विश्वास-प्रस्तुतिः
गत्वा यथागतं शक्रं जगदुर्धीरधीर्नृपः
तच्छ्रुत्वा मघवा भीतः सेवामारभतात्मनः ॥ १७ ॥
मूलम्
गत्वा यथागतं शक्रं जगदुर्धीरधीर्नृपः
तच्छ्रुत्वा मघवा भीतः सेवामारभतात्मनः ॥ १७ ॥
विश्वास-प्रस्तुतिः
अथ निश्चितमालोक्य पादपद्मे स्वकेंऽबिका
जितेन्द्रियं महाराजं प्रत्यक्षाभूत्सुतोषिता ॥ १८ ॥
मूलम्
अथ निश्चितमालोक्य पादपद्मे स्वकेंऽबिका
जितेन्द्रियं महाराजं प्रत्यक्षाभूत्सुतोषिता ॥ १८ ॥
विश्वास-प्रस्तुतिः
पञ्चास्यपृष्ठललिता पाशाङ्कुशधरावरा
धनुर्बाणधरा माता जगत्पावनपावनी ॥ १९ ॥
मूलम्
पञ्चास्यपृष्ठललिता पाशाङ्कुशधरावरा
धनुर्बाणधरा माता जगत्पावनपावनी ॥ १९ ॥
विश्वास-प्रस्तुतिः
तां वीक्ष्य मातरं धीमान्सूर्यकोटिसमप्रभाम्
धनुर्बाणसृणीपाशान्दधानां हर्षमाप्तवान् ॥ २० ॥
मूलम्
तां वीक्ष्य मातरं धीमान्सूर्यकोटिसमप्रभाम्
धनुर्बाणसृणीपाशान्दधानां हर्षमाप्तवान् ॥ २० ॥
विश्वास-प्रस्तुतिः
शिरसा बहुशो नत्वा मातरं भक्तिभाविताम्
हसन्तीं निजदेहेषु स्पृशन्तीं पाणिना मुहुः ॥ २१ ॥
मूलम्
शिरसा बहुशो नत्वा मातरं भक्तिभाविताम्
हसन्तीं निजदेहेषु स्पृशन्तीं पाणिना मुहुः ॥ २१ ॥
विश्वास-प्रस्तुतिः
तुष्टाव भक्त्युत्कलितचित्तवृत्तिर्महामतिः
गद्गदस्वरसंयुक्तः कण्टकाङ्गोपशोभितः ॥ २२ ॥
मूलम्
तुष्टाव भक्त्युत्कलितचित्तवृत्तिर्महामतिः
गद्गदस्वरसंयुक्तः कण्टकाङ्गोपशोभितः ॥ २२ ॥
विश्वास-प्रस्तुतिः
जय देवि महादेवि भक्तवृन्दैकसेविते
ब्रह्मरुद्रादिदेवेन्द्र सेविताङ्घ्रियुगेऽनघे ॥ २३ ॥
मूलम्
जय देवि महादेवि भक्तवृन्दैकसेविते
ब्रह्मरुद्रादिदेवेन्द्र सेविताङ्घ्रियुगेऽनघे ॥ २३ ॥
विश्वास-प्रस्तुतिः
मातस्तव कलाविद्धमेतद्भाति चराचरम्
त्वदृते नास्ति सर्वं तन्मातर्भद्रे नमोस्तु ते ॥ २४ ॥
मूलम्
मातस्तव कलाविद्धमेतद्भाति चराचरम्
त्वदृते नास्ति सर्वं तन्मातर्भद्रे नमोस्तु ते ॥ २४ ॥
विश्वास-प्रस्तुतिः
मही त्वयाऽधारशक्त्या स्थापिता चलतीह न
सपर्वतवनोद्यान दिग्गजैरुपशोभिता ॥ २५ ॥
मूलम्
मही त्वयाऽधारशक्त्या स्थापिता चलतीह न
सपर्वतवनोद्यान दिग्गजैरुपशोभिता ॥ २५ ॥
विश्वास-प्रस्तुतिः
सूर्यस्तपति खे तीक्ष्णैरंशुभिः प्रतपन्महीम्
त्वच्छक्त्या वसुधासंस्थं रसं गृह्णन्विमुञ्चति ॥ २६ ॥
मूलम्
सूर्यस्तपति खे तीक्ष्णैरंशुभिः प्रतपन्महीम्
त्वच्छक्त्या वसुधासंस्थं रसं गृह्णन्विमुञ्चति ॥ २६ ॥
विश्वास-प्रस्तुतिः
अन्तर्बहिः स्थितो वह्निर्लोकानां प्रकरोतु शम्
त्वत्प्रतापान्महादेवि सुरासुरनमस्कृते ॥ २७ ॥
मूलम्
अन्तर्बहिः स्थितो वह्निर्लोकानां प्रकरोतु शम्
त्वत्प्रतापान्महादेवि सुरासुरनमस्कृते ॥ २७ ॥
विश्वास-प्रस्तुतिः
त्वं विद्या त्वं महामाया विष्णोर्लोकैकपालिनः
स्वशक्त्या सृजसीदं त्वं पालयस्यपि मोहिनि ॥ २८ ॥
मूलम्
त्वं विद्या त्वं महामाया विष्णोर्लोकैकपालिनः
स्वशक्त्या सृजसीदं त्वं पालयस्यपि मोहिनि ॥ २८ ॥
विश्वास-प्रस्तुतिः
त्वत्तः सर्वे सुराः प्राप्य सिद्धिं सुखमयन्ति वै
मां पालय कृपानाथे वन्दिते भक्तवल्लभे ॥ २९ ॥
मूलम्
त्वत्तः सर्वे सुराः प्राप्य सिद्धिं सुखमयन्ति वै
मां पालय कृपानाथे वन्दिते भक्तवल्लभे ॥ २९ ॥
विश्वास-प्रस्तुतिः
रक्ष मां सेवकं मातस्त्वदीयचरणारणम्
कुरु मे वाञ्छितां सिद्धिं महापुरुषपूर्वजे ॥ ३० ॥
मूलम्
रक्ष मां सेवकं मातस्त्वदीयचरणारणम्
कुरु मे वाञ्छितां सिद्धिं महापुरुषपूर्वजे ॥ ३० ॥
विश्वास-प्रस्तुतिः
सुमतिरुवाच
एवं तुष्टा जगन्माता वृणीष्व वरमुत्तमम्
उवाच भक्तं सुमदं तपसा कृशदेहिनम् ॥ ३१ ॥
मूलम्
सुमतिरुवाच
एवं तुष्टा जगन्माता वृणीष्व वरमुत्तमम्
उवाच भक्तं सुमदं तपसा कृशदेहिनम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
इत्येतद्वाक्यमाकर्ण्य प्रहृष्टः सुमदो नृपः
वव्रे निजं हृतं राज्यं हतदुर्जनकण्टकम् ॥ ३२ ॥
मूलम्
इत्येतद्वाक्यमाकर्ण्य प्रहृष्टः सुमदो नृपः
वव्रे निजं हृतं राज्यं हतदुर्जनकण्टकम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
महेशीचरणद्वन्द्वे भक्तिमव्यभिचारिणीम्
प्रान्ते मुक्तिं तु संसारवारिधेस्तारिणीं पुनः ॥ ३३ ॥
मूलम्
महेशीचरणद्वन्द्वे भक्तिमव्यभिचारिणीम्
प्रान्ते मुक्तिं तु संसारवारिधेस्तारिणीं पुनः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
कामाक्षोवाच
राज्यं प्राप्नुहि सुमद सर्वत्रहतकण्टकम्
महिलारत्नसञ्जुष्टपादपद्मद्वयो भव ॥ ३४ ॥
मूलम्
कामाक्षोवाच
राज्यं प्राप्नुहि सुमद सर्वत्रहतकण्टकम्
महिलारत्नसञ्जुष्टपादपद्मद्वयो भव ॥ ३४ ॥
विश्वास-प्रस्तुतिः
ततवैरिपराभूतिर्माभूयात्सुमदाभिध
यदा तु रावणं हत्वा रघुनाथो महायशाः ॥ ३५ ॥
मूलम्
ततवैरिपराभूतिर्माभूयात्सुमदाभिध
यदा तु रावणं हत्वा रघुनाथो महायशाः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
करिष्यत्यश्वमेधं हि सर्वसम्भारशोभितम्
तस्य भ्राता महावीरः शत्रुघ्नः परवीरहा ॥ ३६ ॥
मूलम्
करिष्यत्यश्वमेधं हि सर्वसम्भारशोभितम्
तस्य भ्राता महावीरः शत्रुघ्नः परवीरहा ॥ ३६ ॥
विश्वास-प्रस्तुतिः
पालयन्हयमायास्यत्यत्र वीरादिभिर्वृतः
तस्मै सर्वं समर्प्य त्वं राज्यमृद्धं धनादिकम् ॥ ३७ ॥
मूलम्
पालयन्हयमायास्यत्यत्र वीरादिभिर्वृतः
तस्मै सर्वं समर्प्य त्वं राज्यमृद्धं धनादिकम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
पालयिष्यसि योधैः स्वैर्धनुर्धारिभिरुद्भटैः
ततः पृथिव्यां सर्वत्र भ्रमिष्यसि महामते ॥ ३८ ॥
मूलम्
पालयिष्यसि योधैः स्वैर्धनुर्धारिभिरुद्भटैः
ततः पृथिव्यां सर्वत्र भ्रमिष्यसि महामते ॥ ३८ ॥
विश्वास-प्रस्तुतिः
ततो रामं नमस्कृत्य ब्रह्मेन्द्रेशादिसेवितम्
मुक्तिं प्राप्स्यसि दुष्प्रापां योगिभिर्यमसाधनैः ॥ ३९ ॥
मूलम्
ततो रामं नमस्कृत्य ब्रह्मेन्द्रेशादिसेवितम्
मुक्तिं प्राप्स्यसि दुष्प्रापां योगिभिर्यमसाधनैः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
तावत्कालमिहस्थास्ये यावद्रामहयागमः
पश्चात्त्वां तु समुद्धृत्य गन्तास्मि परमं पदम् ॥ ४० ॥
मूलम्
तावत्कालमिहस्थास्ये यावद्रामहयागमः
पश्चात्त्वां तु समुद्धृत्य गन्तास्मि परमं पदम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वान्तर्दधे देवी सुरासुरनमस्कृता
सुमदोऽप्यहिच्छत्रायां शत्रून्हत्वा नृपोऽभवत् ॥ ४१ ॥
मूलम्
इत्युक्त्वान्तर्दधे देवी सुरासुरनमस्कृता
सुमदोऽप्यहिच्छत्रायां शत्रून्हत्वा नृपोऽभवत् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
एष राजा समर्थोऽपि बलवाहनसंयुतः
न ग्रहीष्यति ते वाहं महामायासुशिक्षितः ॥ ४२ ॥
मूलम्
एष राजा समर्थोऽपि बलवाहनसंयुतः
न ग्रहीष्यति ते वाहं महामायासुशिक्षितः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा प्राप्तं पुरी पार्श्वे हयमेधहयोत्तमम्
त्वां च सर्वैर्महाराजैः सेविताङ्घ्रिं महामतिम् ॥ ४३ ॥
मूलम्
श्रुत्वा प्राप्तं पुरी पार्श्वे हयमेधहयोत्तमम्
त्वां च सर्वैर्महाराजैः सेविताङ्घ्रिं महामतिम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
सर्वं दास्यति सर्वज्ञ राजा सुमदनामधृक्
अधुनातन्महाराज रामचन्द्र प्रतापतः ॥ ४४ ॥
मूलम्
सर्वं दास्यति सर्वज्ञ राजा सुमदनामधृक्
अधुनातन्महाराज रामचन्द्र प्रतापतः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति वृत्तं समाकर्ण्य सुमदस्य महायशाः
साधुसाध्विति चोवाच जहर्ष मतिमान्बली ॥ ४५ ॥
मूलम्
शेष उवाच
इति वृत्तं समाकर्ण्य सुमदस्य महायशाः
साधुसाध्विति चोवाच जहर्ष मतिमान्बली ॥ ४५ ॥
विश्वास-प्रस्तुतिः
अहिच्छत्रापतिः सर्वैः स्वगणैः परिवारितः
सभायां सुखमास्ते यो बहुराजन्यसेवितः ॥ ४६ ॥
मूलम्
अहिच्छत्रापतिः सर्वैः स्वगणैः परिवारितः
सभायां सुखमास्ते यो बहुराजन्यसेवितः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणा वेदविदुषो वैश्या धनसमृद्धयः
राजानं पर्युपासन्ते सुमदंशो भयान्वितम् ॥ ४७ ॥
मूलम्
ब्राह्मणा वेदविदुषो वैश्या धनसमृद्धयः
राजानं पर्युपासन्ते सुमदंशो भयान्वितम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
वेदविद्याविनोदेन न्यायिनो ब्राह्मणा वराः
आशीर्वदन्ति तं भूपं सर्वलोकैकरक्षकम् ॥ ४८ ॥
मूलम्
वेदविद्याविनोदेन न्यायिनो ब्राह्मणा वराः
आशीर्वदन्ति तं भूपं सर्वलोकैकरक्षकम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्समये कश्चिदागत्य नृपतिं जगौ
स्वामिन्न जाने कस्यास्ति हयः पत्रधरोंऽतिके ॥ ४९ ॥
मूलम्
एतस्मिन्समये कश्चिदागत्य नृपतिं जगौ
स्वामिन्न जाने कस्यास्ति हयः पत्रधरोंऽतिके ॥ ४९ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा सेवकं श्रेष्ठं प्रेषयामास सत्वरः
जानीहि कस्य राज्ञोऽयमश्वो मम पुरान्तिके ॥ ५० ॥
मूलम्
तच्छ्रुत्वा सेवकं श्रेष्ठं प्रेषयामास सत्वरः
जानीहि कस्य राज्ञोऽयमश्वो मम पुरान्तिके ॥ ५० ॥
विश्वास-प्रस्तुतिः
गत्वाथ सेवकस्तत्र ज्ञात्वा वृत्तान्तमादितः
निवेदयामास नृपं महाराजन्यसेवितम् ॥ ५१ ॥
मूलम्
गत्वाथ सेवकस्तत्र ज्ञात्वा वृत्तान्तमादितः
निवेदयामास नृपं महाराजन्यसेवितम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
स श्रुत्वा रघुनाथस्य हयं नित्यमनुस्मरन्
आज्ञापयामास जनं सर्वं राजाविशारदः ॥ ५२ ॥
मूलम्
स श्रुत्वा रघुनाथस्य हयं नित्यमनुस्मरन्
आज्ञापयामास जनं सर्वं राजाविशारदः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
लोका मदीयाः सर्वे ये धनधान्यसमाकुलाः
तोरणादीनि गेहेषु मङ्गलानि सृजन्त्विह ॥ ५३ ॥
मूलम्
लोका मदीयाः सर्वे ये धनधान्यसमाकुलाः
तोरणादीनि गेहेषु मङ्गलानि सृजन्त्विह ॥ ५३ ॥
विश्वास-प्रस्तुतिः
कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताः
गजोपरिसमारूढा यान्तु शत्रुघ्नसम्मुखम् ॥ ५४ ॥
मूलम्
कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताः
गजोपरिसमारूढा यान्तु शत्रुघ्नसम्मुखम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
इत्यादिसर्वमाज्ञाप्य ययौ राजा स्वयं ततः
पुत्रपौत्रमहिष्यादिपरिवारसमावृतः ॥ ५५ ॥
मूलम्
इत्यादिसर्वमाज्ञाप्य ययौ राजा स्वयं ततः
पुत्रपौत्रमहिष्यादिपरिवारसमावृतः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नः सुमहामात्यैः सुभटैः पुष्कलादिभिः
संयुतो भूपतिं वीरं ददर्श सुमदाभिधम् ॥ ५६ ॥
मूलम्
शत्रुघ्नः सुमहामात्यैः सुभटैः पुष्कलादिभिः
संयुतो भूपतिं वीरं ददर्श सुमदाभिधम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
हस्तिभिः सादिसंयुक्तैः पत्तिभिः परतापनैः
वाजिभिर्भूषितैर्वीरैः संयुतं वीरशोभितम् ॥ ५७ ॥
मूलम्
हस्तिभिः सादिसंयुक्तैः पत्तिभिः परतापनैः
वाजिभिर्भूषितैर्वीरैः संयुतं वीरशोभितम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
अथागत्य महाराजः शत्रुघ्नं नतवान्मुदा
धन्योऽस्मि कृतकृत्योऽस्मि सत्कृतं च कृतं वपुः ॥ ५८ ॥
मूलम्
अथागत्य महाराजः शत्रुघ्नं नतवान्मुदा
धन्योऽस्मि कृतकृत्योऽस्मि सत्कृतं च कृतं वपुः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
इदं राज्यं गृहाणाशु महाराजोपशोभितम्
महामाणिक्यमुक्तादि महाधनसुपूरितम् ॥ ५९ ॥
मूलम्
इदं राज्यं गृहाणाशु महाराजोपशोभितम्
महामाणिक्यमुक्तादि महाधनसुपूरितम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
स्वामिंश्चिरं प्रतीक्षेऽहं हयस्यागमनं प्रति
कामाक्षाकथितं पूर्वं जातं सम्प्रति तत्तथा ॥ ६० ॥
मूलम्
स्वामिंश्चिरं प्रतीक्षेऽहं हयस्यागमनं प्रति
कामाक्षाकथितं पूर्वं जातं सम्प्रति तत्तथा ॥ ६० ॥
विश्वास-प्रस्तुतिः
विलोकय पुरं मह्यं कृतार्थान्कुरु मानवान्
पावयास्मत्कुलं सर्वं रामानुज महीपते ॥ ६१ ॥
मूलम्
विलोकय पुरं मह्यं कृतार्थान्कुरु मानवान्
पावयास्मत्कुलं सर्वं रामानुज महीपते ॥ ६१ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वारोहयामास कुञ्जरं चन्द्रसुप्रभम्
पुष्कलं च महावीरं तथा स्वयमथारुहत् ॥ ६२ ॥
मूलम्
इत्युक्त्वारोहयामास कुञ्जरं चन्द्रसुप्रभम्
पुष्कलं च महावीरं तथा स्वयमथारुहत् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
भेरीपणवतूर्याणां वीणादीनां स्वनस्तदा
व्याप्नोति स्म महाराज सुमदेन प्रणोदितः ॥ ६३ ॥
मूलम्
भेरीपणवतूर्याणां वीणादीनां स्वनस्तदा
व्याप्नोति स्म महाराज सुमदेन प्रणोदितः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
कन्याः समागत्य महानरेन्द्रं -
शत्रुघ्नमिन्द्रादिकसेविताङ्घ्रिम्
करिस्थिता मौक्तिकवृन्दसङ्घै-
र्वर्धापयामासुरिनप्रयुक्ताः ॥ ६४ ॥
मूलम्
कन्याः समागत्य महानरेन्द्रं -
शत्रुघ्नमिन्द्रादिकसेविताङ्घ्रिम्
करिस्थिता मौक्तिकवृन्दसङ्घै-
र्वर्धापयामासुरिनप्रयुक्ताः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
शनैःशनैः समागत्य पुरीमध्ये जनैर्मुदा
वर्धापितो गृहं प्राप तोरणादिकभूषितम् ॥ ६५ ॥
मूलम्
शनैःशनैः समागत्य पुरीमध्ये जनैर्मुदा
वर्धापितो गृहं प्राप तोरणादिकभूषितम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
हयरत्नेन संयुक्तस्तथा वीरैः सुशोभितः
राज्ञा पुरस्कृतो राजा शत्रुघ्नः प्राप मन्दिरम् ॥ ६६ ॥
मूलम्
हयरत्नेन संयुक्तस्तथा वीरैः सुशोभितः
राज्ञा पुरस्कृतो राजा शत्रुघ्नः प्राप मन्दिरम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
अर्घादिभिः पूजयित्वा रघुनाथानुजं तदा
सर्वं समर्पयामास रामचन्द्राय धीमते ॥ ६७ ॥
मूलम्
अर्घादिभिः पूजयित्वा रघुनाथानुजं तदा
सर्वं समर्पयामास रामचन्द्राय धीमते ॥ ६७ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
शत्रुघ्नाहिच्छत्रापुरीप्रवेशोनाम त्रयोदशोऽध्यायः १३